Page loading... Please wait.
1|3|30 - निसमुपविभ्यो ह्वः
॥ तस्मै पाणिनये नमः ॥
1|3|30
SK 2703
निसमुपविभ्यो ह्वः   🔊
सूत्रच्छेदः
नि-सम्-उप-विभ्यः (पञ्चमीबहुवचनम्) , ह्वः (पञ्चम्येकवचनम्)
अनुवृत्तिः
आत्मनेपदम्  1|3|12 (प्रथमैकवचनम्)
अधिकारः
-
सम्पूर्णसूत्रम्
नि-सम्-उप-विभ्यः ह्वः आत्मनेपदम्
सूत्रार्थः
"नि" , "सम्", "वि" उपसर्गेभ्यः "ह्वे" धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
ह्वेञ् (स्पर्धायां शब्दे च) अयं धातुः वस्तुतः उभयपदी अस्ति । परन्तु निस् / नित्/ सम् / उप / वि - एतेभ्यः अस्य आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - निह्वयते, संह्वयते, उपह्वयते, विह्वयते (सर्वेषाम् अर्थः - "आवाहनं करोति" इति) ।
One-line meaning in English
When any of the उपसर्गs - नि, सम्, वि - is attached to the verb "ह्वे", it gets the प्रत्ययाः of आत्मनेपद.
काशिकावृत्तिः
अकर्मकातिति निवृत्तम्। अतः परं सामान्येन आत्मनेपदविधानं प्रतिपत्तव्यम्। नि सम् उप वि इत्येवं पूर्वात् ह्वयतेर् धातोरात्नमेपदं भवति। निह्वयते। संह्वयते उपह्वयते। विह्वयते। अकर्त्रभिप्रायार्थो ऽयमारम्भः। अन्यत्र हि ञित्त्वात् सिद्धम् एवाऽत्मनेपदम्। उपसर्गादस्यत्यूह्रोर् वा वचनम्। निरस्यति, निरस्यते। समूहति, समूहते।
Text Unavailable. Please use feedback link below to provide the text if you have.
निह्वयते इति। कथं पुनरत्रात्मनेपदम्, यावता ठ्ह्वाऽ इत्याकारान्तादियं पञ्चमि, एकारान्तश्चायम्, न च विकृतिः प्रकृतिं संगृह्णाति? सत्यम्; आकारान्तात्पञ्चमी, न त्विदं प्रयोगस्थस्याकारान्तस्यानुकरणम्, किं तर्हि? धातुपाठेऽवस्थितैकारान्तस्य तस्यैव लक्षणवशादात्वम्। न चातुक्रियमाणरूपविनाशप्रसङ्गः; शास्त्रवासनया तस्यैव प्रतीतेः, यथा--ठ्यस्येति चऽ इतीकाराकारयोः॥
सिद्धान्तकौमुदी
निह्वयते ।
निसमुपविभ्यो ह्वः - निसमुपवि । ह्वेञः कृतात्त्वस्य ह्व इति पञ्चम्यन्तम् । निह्वयते इति । संह्वयते । उपह्वयते । विह्वयते । अकत्र्रभिप्रायार्थमिदम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.