॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|27
SK 2694
1|3|27
उद्विभ्यां तपः
SK 2694
सूत्रच्छेद:
उद्-विभ्याम् - पञ्चमीद्विवचनम् , तपः - पञ्चम्येकवचनम्
अनुवृत्ति:
अकर्मकात्  [1|3|26] - पञ्चम्येकवचनम् , आत्मनेपदम्  [1|3|13] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
अकर्मकात् उद्-वि-भ्याम् तप: आत्मनेपदम्
सूत्रार्थ:
अकर्मकप्रयोगे उत् + तप् / वि + तप् धातू आत्मनेपदिनौ ज्ञातव्यौ ।
तप् (सन्तापे) अयं वस्तुतः परस्मैपदी धातुः अस्ति, परन्तु अकर्मकप्रयोगे "उत् + तप्" तथा "वि + तप्" एताभ्याम् आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - विद्यया विद्यार्थी उत्तपते विपतते वा ("दीप्यते" इत्यर्थः) । सकर्मकप्रयोगे तु परस्मैपदमेव भवति । यथा - सुवर्णकारः सुवर्णं उत्तपति वितपति वा (उष्णीकरोति इत्यर्थः) ।

वार्तिकम् - स्व-अङ्गकर्मकात् च इति वक्तव्यम् - सकर्मकप्रयोगे यदि कर्मपदम् कर्तुः शरीरस्य कश्चन अवयवः अस्ति, तर्हि आत्मनेपदमेव भवति । यथा - सः स्वस्य हस्तं उत्तपते वितपते वा (उष्णीकरोति इत्यर्थः) । परस्य हस्तः अस्ति चेत् परस्मैपदमेव - चैत्रः मैत्रस्य पाणिम् उत्तपति वितपति वा ।
One-line meaning in English
The verbs उत् + तप् and वि + तप् are आत्मनेपदी when used in अकर्मक context.
काशिकावृत्तिः
अकर्मकातिति वर्तते। उत् वि इत्येवं पूर्वात् तपतेरकर्मकत्रियावचनादात्मनेपदं भवति। उत्तपते। वितपते। दीप्यते इत्यर्थः। अकर्मकातित्येव। उत्तपति सुवर्णं सुवर्णकारः। वितपति पृथ्वीं सविता। स्वाङ्गकर्मकाच् च इति वक्तव्यम्। उत्तपते पाणिम्, उत्तपते पृष्ठम्। वितपते पाणिम्, वितपते पृष्ठम्। स्वाङ्गं च इह न पारिभाषिकं गृह्यते अद्रवं मूर्तिमत् स्वाङ्गम् इति। किं तर्हि? स्वम् अङ्गं स्वाङ्गम्। तेन इह न भवति, देवदत्तो यज्ञदत्तस्य पृष्ठम् उत्तपति इति। उद्विभ्याम् इति किम्? निष्टपति।
`स्वाङ्गकर्मकाच्चेति वक्तव्यम्` इति। स्वाङ्गं कर्म यस्य तस्मात् तपतेरात्मनेपदं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः, तत्रेदं व्याख्यानम्-- पूर्वसूत्राच्चकारोऽनुवत्र्तते, तस्यानुक्तसमुच्चयार्थत्वात् स्वाङ्गकर्मकादपि भविष्यति। स्वाङ्गञ्चेह न पारिभाषिकम्, किं तर्हि? स्वमङ्गं स्वाङ्गमिति। आत्मीयमङ्गमित्यर्थः।`निष्टपति` इति। `निसस्तपतावनासेवने` 8|3|102 इति मूर्धन्यः॥
उतपति सुवर्णमित्यत्र सन्तापने विलापने वा तपिर्वर्तत इति सकर्मकत्वम्। स्वमङ्गं स्वाङ्गमिति। यस्मिन्कर्तर्यात्मनेपदं तस्य चेत् स्वमङ्गमित्यर्थः। यद्यन्वर्थग्रहणम्? ततोऽप्राणिन्यपि कर्तरि यस्य यदङ्गं तत्कर्मकादपि प्रसङ्गः। पारिभाषिके त्वेष दोषो न भवति; तस्य प्राणिस्थत्वात्। अन्वर्थेऽपि न दोषः, तपेः प्राणिकर्तृकत्वात्। पारिभाषिकस्य त्वसम्बन्धिशब्दत्वात् कर्तुश्चेत्स्वमङ्गमित्येवं न प्रतीयेतेति भावः॥
सिद्धान्तकौमुदी
अकर्मकादित्येव । उत्तपते । वितपते । दीप्यत इत्यर्थः ॥ ।स्वाङ्गकर्मकाच्चेति वक्तव्यम् (वार्तिकम्) ॥ स्वमङ्गं स्वाङ्गं न तु अद्रवम्- इति परिभाषितम् । उत्तपते वितपते वा पाणिम् । नेह । सुवर्णमुत्तपति । सन्तापयति विलापयति वेत्यर्थः । चेत्रौ मैत्रस्य पाणिमुत्तपति । सन्तापयीत्यर्थः ॥
उद्विभ्यां तपः। `अकर्मकादित्येवे`ति भाष्यम्। दीप्यते इति। दीप्तिमान् भवतीत्यर्थः। स्वाङकर्मकाच्चेति। `उद्विभ्यां तप` इत्यनुवर्तते। चकारादकर्मकसमुच्चयः। स्वाङ्गशब्दोऽत्र यौगिक इत्याह-- स्वमङ्गमिति। सुवर्णमुत्तपतीति। अस्वाङ्गकर्मकत्वादकर्मकत्वाऽभावाच्च नात्मनेपदमिति भावः। स्वाङ्गशब्दोऽत्र न पारिभाषिकः, किन्तु यौगिक इत्यसय् प्रयोजनमाह--- चैत्रो मैत्रसय् पाणिमुत्तपतीति। अत्र `अद्रवं मूर्तिम`दित्यादिपरिभाषितस्वाङ्गकर्मकत्वेऽपि स्वकीयाङ्गकर्मकत्वाऽभावान्नात्मनपदमिति भावः।
REआड्ंEंद् _इत्क्ष् बलमनोरम.ओउत् बोधक.द्ब् दत.द्ब् दत1.द्ब् दतओउत्ँस्व् द्ब्2fइलेस्.श् गेत्दत.स्qल् इत्रन्स्2उनिचोदे.प्ल् कशिक कशिक.ओउत् लघु लघु.ओउत् न्यस न्यस.ओउत् ओल्द्_दत.द्ब् प्रथमव्रित्ति.ओउत् रेमोवेयम्ल्.श् सम्हित.ओउत् तत्त्वबोधिनि तत्त्वबोधिनि.ओउत् तत्त्वबोधिनि_इत्क्ष् वार्तिकँस्व्.त्क्ष्त् स्वाङ्गकर्मकाच्चेति। चकारेणाऽकर्मकस्य सङ्ग्रहः। न त्वद्रवमिति। अन्यथा चैत्रो मैत्रस्येत्यादि वक्ष्यमाणं न सङ्गच्छेतेति भावः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
उद्विभ्यां तपः अकर्मकादित्येव। (इह मा भूत् ‐ ) उत्तपति सुवर्णं सुवर्णकारः। स्वाङ्गकर्मकाच्च। स्वाङ्गकर्मकाच्चेति वक्तव्यम्। उत्तपते पाणी, वितपते पाणी। उत्तपते पृष्ठम्, वितपते पृष्ठम्। अथोद्विभ्यामित्यत्र किं प्रत्युदाह्रियते? निष्टप्यते इति। किं पुनः कारणमात्मनेपदमेवोदाह्रियते, न पुनः परस्मैपदं प्रत्युदाहार्यं स्यात्? तपिरयमकर्मकः। अकर्मकाश्चापि सोपसर्गाः सकर्मका भवन्ति। न चान्तरेण कर्मकर्तारं सकर्मका अकर्मका भवन्ति। यदुच्यते ‐ न चान्तरेण कर्मकर्तारं सकर्मका अकर्मका भवन्तीति। अन्तरेणापि कर्मकर्तारं सकर्मका अकर्मका भवन्ति। तद्यथा ‐ नदी वहतीत्यकर्मकः, भारं वहतीति सकर्मकः। तस्मात् निष्टपतीति प्रत्युदाहार्यम्।