`अकर्मकात्` इति। नास्य कर्मास्तीति बहुव्रीहिः। `डुकृञ् करणे`(धातुपाठः-1472), `अन्यभ्योऽपि दृश्यन्ते`
3|2|75 इति मनिन्, धातोर्गुणः, `शेषाद्विभाषा`
5|4|154 इति कप्। ननु धातोः क्रियावचनादकर्मकत्वं न सम्भवतीति तस्मादयुक्तमकर्मकादिति विशेषणम्, व्यवच्छेद्याभावादित्यत आह-- `अकर्मकक्रियावचनात्िति। अकर्मिका चासौ क्रिया चेत्यकर्मकक्रिया, तस्या वचनो यः, तां वक्ति सोऽकर्मकक्रियावचनः। एतेनार्थद्वारकं विशेषणमिदं दर्शयति-- अकर्मको यो धात्वर्थस्तसत्साहचर्यादभिधेयधर्मस्याभिधान उपचारात् धातुरकर्मक इति। अर्थस्य च युक्तमेतद्विशेषणम्,तस्य सकर्मकत्वाकर्मकत्वसम्भवात्। `यावद्भुक्तम्` इति। यावच्छब्दो निपातोऽव्ययम्, तस्य यथार्थे वीप्सायामव्ययीभावः, सप्तम्यन्तञ्चैतत्।अत एवाह-- `भोजने भोजने सन्निधीयते` इति। `भावे क्तः` इति।`नपुंसके भावे क्तः`
3|3|114 इत्यनेन॥