Page loading... Please wait.
1|3|22 - समवप्रविभ्यः स्थः
॥ तस्मै पाणिनये नमः ॥
1|3|22
SK 2689
समवप्रविभ्यः स्थः   🔊
सूत्रच्छेदः
सम्-अव-प्र-विभ्यः (पञ्चमीबहुवचनम्) , स्थः (पञ्चम्येकवचनम्)
अनुवृत्तिः
आत्मनेपदम्  1|3|12 (प्रथमैकवचनम्)
अधिकारः
-
सम्पूर्णसूत्रम्
सम्-अव-प्र-विभ्यः स्थः आत्मनेपदम्
सूत्रार्थः
"सम् " / "अव" / "प्र" / "वि" उपसर्गात् "स्था" धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
स्था (गतिनिवृतौ) अयं धातुः वस्तुतः परस्मैपदी अस्ति । परन्तु सम् / अव / प्र / वि - एतेभ्यः परस्य स्था-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - संतिष्ठते ("समाप्तं भवति" इत्यर्थः), अवतिष्ठते ("अस्ति, आगच्छति, प्रविशति" इत्यर्थः) , प्रतिष्ठते ("स्थापना भवति / निर्गच्छति" इत्यर्थः) , वितिष्ठते ("स्थिरः भवति" इत्यर्थः) ।

वार्त्तिकम् - आङः प्रतिज्ञायामुपसंख्यानम् - "प्रतिज्ञां करोति" अस्मिन् अर्थे "आङ् + स्था" इत्यस्य आत्मनेपदं भवति । यथा - शब्दं आतिष्ठेऽहम् ("अहम् यम् शब्दम् उक्तवान्, तावदेव अनुसरामि - इति प्रतिज्ञां करोमि" इत्यर्थः)।
One-line meaning in English
When any of the उपसर्गs - सम् , अव, प्र, वि - is attached to the verb "स्था", it gets the प्रत्ययाः of आत्मनेपद.
काशिकावृत्तिः
सम् अव प्र वि इत्येवं पूर्वात् तिष्ठतेरात्मनेपदं भवति। संतिष्ठते। अवतिष्ठते। वितिष्ठते। आङः स्थः प्रतिज्ञाने इति वक्तव्यम्। अस्तिं सकारम् आतिष्ठते। आगमौ गुणवृद्धी आतिष्ठते।
`सन्तिष्ठते` इति। पाघ्रादिसूत्रेण 7|3|78 तिष्ठादेशः।`अस्त सकारमातिष्ठते` इति सकारमात्रमस्त धातुम् आपिशलिराचार्यः प्रतिजानीते। तथा हि -- न तस्य पाणिनेरिव `अस भुवि` (धातुपाठः-1065) इति गणपाठः, किं तर्हि? `स भुवि` इति स पठति। `आगमौ गुणवृद्धी आतिष्ठते` इति। स त्वागमौ गुणवृद्धी आतिष्ठते। एवं हि स प्रतिजनीत इत्यर्थः॥
सन्तिष्ठत इति। पाघ्रादिसूत्रेण तिष्ठादेशः। अत्राप्युपसर्गग्रहणादिह न भवति-वे तिष्ठसि, वी तिष्ठत इति। अस्तिं सकारमिति। श्तः सन्तीत्यादौ सकारमात्रस्य दर्शनात् ठ्स भुविऽ इत्यवे धातुः पाठयः, अस्तीत्यादौ पिति सार्वधातुके अडागमो विधेयः, आस्ताम् आसन्नित्यादौ आडागमः स्यात्" इति आपिशला मन्यन्ते । गुणस्य त्वागमत्वे उदाहरणं मृग्यम्॥
सिद्धान्तकौमुदी
सन्तिष्ठते । स्थाघ्वोरिच्च -(कौमुदी-2389) । समस्थित । समस्थिषाताम् । समस्थिषत । अवतिष्ठते । प्रतिष्ठते । वितिष्टते ॥ ।आङः प्रतिज्ञायामुपसंख्यानम् (वार्तिकम्) ॥ शब्दं नित्यमातिष्ठते । नित्यत्वेन प्रतिजानीत इत्यर्थः ॥
समवप्रविभ्यः स्थः - समवप्रविभ्यः स्थः । स्थ इति पञ्चमी । सम् अव प्र वि एभ्यः परस्मात्स्थाधातोरात्मनेपदमित्यर्थः । संतिष्ठते इति । समाप्तं भवतीत्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
संतिष्ठते। अवतिष्ठते। प्रतिष्ठते। वितिष्ठते॥
महाभाष्यम्
समवप्रविभ्यः स्थः आङः स्थः प्रतिज्ञाने ।। 1 ।। आङः स्थः प्रतिज्ञान इति वक्तव्यम्। अस्ति सकारमातिष्ठते। आगमौ गुणवृद्धी आतिष्ठते। विकारौ गुणवृद्धी आतिष्ठते।