॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|2
SK 3
1|3|2
उपदेशेऽजनुनासिक इत्  
SK 3
सूत्रच्छेद:
उपदेशे - सप्तम्येकवचनम् , अच् - प्रथमैकवचनम् , अनुनासिकः - प्रथमैकवचनम् , इत् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
उपदेशे अनुनासिक: अच् इत्
सूत्रार्थ:
उपदेशे अनुनासिकस्वरः इत्संज्ञकः भवति ।
उपदेशः नाम किम्? "उपदेशः आद्योच्चारणम्" । इत्युक्ते, आदिऋषिभिः (पाणिनि-कात्यायन-पतञ्जलिभिः) यस्य उच्चारणं कृतम् सः उपदेशः । आदिऋषिभिः कस्य कस्य उच्चारणं कृतम्? प्रत्याहाराणाम्, प्रत्ययानाम्, आदेशानाम्, आगमानाम्, धातूनाम्, प्रातिपदिकानाम्, निपातानाम् - इत्यादीनाम् । एतत् सर्वम् उच्चारणम् धातुपाठे, सूत्रपाठे, गणपाठे, उणादिपाठे, लिङ्गानुशासने च कृतम् अस्ति । अतः एते सर्वे ग्रन्थाः, तेषु उच्चारिताः प्रत्याहार-प्रत्यय-आदेश-आगम-धातवश्च ऋषिभिः यस्याम् अवस्थायाम् मूलरूपेण उच्चारिताः, तस्याम् स्थितौ उपदेशसंज्ञकाः भवन्ति । कानिचन उदाहरणानि एतानि -

1) सर्वे प्रत्याहाराः - अच्, अक्, हल् - आदयः, उपदेशाः सन्ति ।

2) सर्वे धातवः, यथा धातुपाठे दत्ताः, तस्मिन् रूपे उपदेशाः सन्ति । कः अर्थः? वन्द्-धातुः "वदिँ अभिवादनस्तुत्योः" अस्मिन् रूपे दत्तः अस्ति । अतः वन्द्-धातोः "वदिँ" अयम् उपदेशः । “वन्द्” इति उपदेशः न । तथैव, कृ-धातुः "डुकृञ् करणे" अनेन प्रकारेण दत्तः अस्ति, अतः "डुकृञ्" इति कृ-धातोः "औपदेशिकं रूपम्" । "कृ" इति उपदेशः न ।
अन्ये केचन धातवः तेषाम् औपदेशिकरूपाणि च -
- णीञ् प्रापणे । नी-धातोः औपदेशिकं रूपम् णीञ् ।
- गम्ऌँ गमने । गम्-धातोः औपदेशिकं रूपम् गम्ऌँ ।
- डुपचँष् पाके । पच्-धातोः औपदेशिकं रूपम् डुपचँष् ।
- भू सत्तायाम् । भू-धातोः औपदेशिकं रूपमपि भू-एव ।

3) सर्वे प्रत्ययाः, यथा प्रत्ययाधिकारे पाठिताः, तस्यामवस्थायाम् उपदेशाः सन्ति । उदाहरणम् - सुँ, क्त्वा, तुमुँन्, लँट् आदयः । "क्त्वा" प्रत्ययस्य प्रयोेगे तु "त्वा" इति रूपं भवति, परन्तु सः उपदेशः न । उपदेशः तु "क्त्वा" अयमेव । तथैव अन्येषाम् विषये अपि ज्ञातव्यम् ।

4) सर्वे आदेशाः आगमाश्च यथा सूत्रपाठे पाठिताः, तस्यामवस्थायाम् उपदेशाः सन्ति । उदाहरणम् - शप्, नुँम्, अट्, आत्, शिँ - आदयः । "शप् " प्रत्ययस्य प्रयोेगे तु "अ" इति रूपं भवति, परन्तु सः उपदेशः न । उपदेशः तु "शप्" अयमेव । तथैव अन्येषाम् विषये अपि ज्ञातव्यम् ।

"उपदेशः" नाम किम् तदिदानीं स्पष्टं स्यात् । तर्हि “उपदेशेऽजनुनासिक इत्” सूत्रस्य कः अर्थः? उपदेशेषु यः स्वरः अनुनासिकः, सः इत्संज्ञकः भवति, इत्यर्थः । उदाहरणानि -

1. "सुँ" अस्मिन् प्रत्यये सकारात् परः अनुनासिकः उकारः अस्ति । अतः अस्य उकारस्य इत्संज्ञा भवति ।
2. "तुमुँन्" प्रत्यये मकारोत्तरः उकारः अनुनासिकः अस्ति, अतः तस्य इत्संज्ञा भवति ।
3. "गम्ऌँ" अस्मिन् धातौ ऌकारः अनुनासिकः अस्ति, अतः तस्य इत्संज्ञा भवति ।
4. "डुपचँष्" इत्यत्र चकारात् परः यः अकारः, सः अनुनासिकः अस्ति । अतः तस्य इत्संज्ञा भवति ।
5. "भू" इत्यत्र कोऽपि अनुनासिकः स्वरः नास्ति । अतः अत्र कस्यापि इत्संज्ञा न भवति ।
6. टुओँश्वीँ अस्मिन् धातौ ओकारः अपि अनुनासिकः अस्ति, इकारः अपि । अतः उभयोः इत्संज्ञा भवति ।
7. लँण् प्रत्याहारे अकारः अनुनासिकः अस्ति, अतः तस्य इत्संज्ञा भवति ।

ज्ञातव्यम् -
1. उपदेशेषु कः स्वरः अनुनासिकः अस्ति एतत् भाष्यादेव ज्ञायते । अतएव कौमुद्याम् "प्रतिज्ञा अनुनासिक्याः पाणिनीयाः" इति उक्तमस्ति ।
2. केवलम् उपदेशस्यैव अनुनासिक-स्वरस्य अनेन सूत्रेण इत्संज्ञा भवति, कस्यापि अनुनासिक-स्वरस्य न । यथा, अणोऽप्रगृह्यस्यानुनासिकः 8|4|57 इत्यनेन मधुँ इत्यत्र अपि उकारस्य अनुनासिकत्वम् भवति । परन्तु अयम् उपदेशः न, अतः अस्य इत्संज्ञा न भवति ।
One-line meaning in English
An अनुनासिक स्वर present in an उपदेश gets the संज्ञा "इत्".
काशिकावृत्तिः
उपदिश्यते ऽनेन इत्युपदेशः शास्त्रवाक्यानि, सूत्रपाठः, खिलपाठश्च। तत्र यो ऽचनुनासिकः स इत्संज्ञो भवति। एध। स्पर्ध। प्रतिज्ञानुनासिक्याः पाणिनीयाः। उपदेशे इति किम्? अभ्र आं अपः। अचिति किम्? अतो मनिन्क्वनिब्वनिपश्च 3|2|74। अनुनासिकः इति किम्? सर्वस्य अचो मा भूत्। इत्प्रदेशाः आदितश्च 7|2|16 इत्येवम् आदयः।
`उपदिश्यतेऽनेनेत्युपदेशः` इति। `अकर्तरि च कारके संज्ञायाम्` 3|3|19 इति करणे घञ् ननु च संज्ञायामित्युच्यते, न चेयं संज्ञा? नैतदस्ति; `कृत्यल्युटो बहुलम्` 3|3|113 इति बहुलवचनादसंज्ञायामपि भवतीत्यदोषः। `शास्त्रवक्यानि` इति। अस्येदं विवरणम्-- `सूत्रपाठः, खिलपाठश्च` इति। खिलपाठः = धातुपाठः। चकारात् प्रातिपदिकपाठश्च। अथ रगेलगेप्रभृतीनां कथमानुनासिक्यम्; न हि तेषामानुनासिक्यं गणे पठते? अथापरिपठितानामपि भवति, तदा `भू` इत्येवमादीनां कस्मान्न भवतीत्याह--- `प्रतिज्ञाननासिक्याः पाणिनीयाः` इत्यादि। प्रतिज्ञयाऽ‌ऽनुनासिक्यं येषां ते प्रतिज्ञानुनासिक्याः। यत्रैवानुनासिक्यं पाणिनीयाः प्रतिजानते, तत्रैव तदपठमानमपि भवति, नान्यत्र। एतदपि प्रतिज्ञानं नानियमेन भवति, किं तर्हि? यत्रैवाचार्याः स्मरन्ति तत्रैव तेन भवितवयम्, यथा स्वरितत्वमनुदात्तत्वञ्च स्मरणेन विज्ञायते, तथाऽ‌ऽनुनासिक्यमपि। यदि तह्र्रानुनासिक्यं प्रतिज्ञामात्रभावि तत् किमर्थं तत् क्वचित् पठते-- `डुपचँष् पाके ` (धातुपाठः-996) इत्यादौ? एवंविधोऽर्थोऽनुनासिकः प्रतिज्ञेय इत्यर्थस्य प्रदर्शनार्थम्।`अभ्र आँ अपः` इति। अत्रोपपदेशात्तूत्तरकालम् `आङोऽनुनासकिश्छन्दसि` 6|1|122 इत्यनेनानुनासिको विहितः, तेनेत्संज्ञा न भवति। ननु चानुनासिकविधानसामथ्र्यादेव न भविष्यति, तत् किमुपदेशग्रहणेन? इत्संज्ञायां हि सत्यां `तस्य लोपः` 1|3|9 इति लोपः स्यात्, ततश्चानुनासिकविधानमनर्थकं स्यात्, सत्यमेतत्; एवं मन्यते-- उत्तरार्थमवश्यमुपदेशग्रहणं कत्र्तव्यम्। उत्तरार्थ क्रियमाणमिहापि विस्पष्टार्थं भविष्यति। अथ वा-- प्रत्युदाहरणदिगियं वृत्तिकृता दर्शिता। इदन्त्वत्र प्रत्युदाहरणम्-- `अणोऽप्रगृह्रस्यानुनासिकः` 8|4|56 , दधिं ब्राआहृणकुलम्। यद्यत्रेत्संज्ञा स्यात् `इदितो नुम् धातोः` 7|1|58 इति नुम् स्यात्। ननु च धातोरित्युच्यमाने धातोर्नुम् विधीयते, नचायं धातुः, किं तर्हि? प्रातिपदिकम्,तत्कथं नुम् स्यात्? नैतदस्ति; `क्विबन्ता धातुत्वं न जहति` (व्या।प।132) इति क्विबन्तत्वाद्धातुत्वं भवति। आत्मनो दधीच्छति `सुप आत्मनः क्यच्` 3|1|8 दधीयति, दधीयतेः क्विप्; दधिं ब्राआहृणकुलमिति। `अतो लोपः` 6|4|48 इत्यकारलोपः। `लोपो व्योर्वलि` 6|1|64 इत्यत्रादौ लोपग्रहणात् पूर्वं यकारस्य लोपो भवति। `वेरपृक्तस्य` 6|1|65 इति वकारस्य। प्रत्ययलोपलक्षणेन `अकृतसार्वधातुकयोः` 7|4|25 इति दीर्घः। `ह्यस्वो नपुंसके प्रातिपदिकस्य` 1|2|47 इति ह्यस्वत्वम्। `अणोऽप्रगृह्रस्यानुनासिकः` 8|4|56 इत्यनुनासिके कृते `क्वबन्ता धातुत्वं न जहति` (व्या।प।132) इति नुम् स्यात्। अश्मा,भस्मेति `आतो मनिन्` 3|2|74 इत्यत्र मकारस्येत्संज्ञा न भवति। यदि हि स्यात्, `अन्येभ्योऽपि दृश्यन्ते` 3|2|75 इति हलन्तेभ्यो विधीयमानो मनिन्नचोऽन्त्यात् परः स्यात्।`सर्वस्याचो मा भूत्` इति। दरिद्राप्रभृतिसम्बन्धिनोऽपि॥
उपदिश्यतेऽनेनेत्युपदेश इति। अकर्तरि च कारके इति करणे घञ् । ननु च नेयं संज्ञा, परत्वाच्च करणाधिकरणयोः इति ल्युट् प्राप्नोति, हलश्च इत्यत्रापि संज्ञायामित्येव। ल्युट् तावन्न भवति, कृत्यल्युटो बहुलम् इति। अकर्तरि च इत्यत्र चकारो भिन्नक्रमः-संज्ञायां चेति, तेन क्कचिदसंज्ञायामपि भवति। अथोपदिश्यतेऽनेनेत्यत्रोपदेशः कोऽर्थः? विधानम्। यद्येवम् लण् एध वृद्धौ इत्यादौ न स्यात्, न ह्यत्र किञ्चिद्विधीयते। अथानिर्ज्ञातस्वरूपस्य स्वरूपज्ञापनं तत्, आचारेऽवगल्भक्लीबहोडेभ्यः क्किप् इत्यत्र गल्भाद्यकारस न स्यात् न हि गल्भादीनां स्वरूपज्ञापनार्थमुच्चारणम्;पञ्चमीनिर्द्देशेन क्किपो विधानात्। यद्येवम्, क्किबनेनानिर्ज्ञातरूपो ज्ञाप्ते, तत्र चायं भवत्यकार इति भविष्यति। शास्त्रवाक्यानीति। लण्-एध-स्पर्द्धेत्यादीनामपि विशिष्टप्रयोजनपरत्वेनोच्चारणाद् वाक्यत्वम्। अस्यैव विवरणम्-सूत्रपाठ इति। खिलपाठःउधातुपाठः प्रातिपदिकपाठः, वाक्यपाठश्च। तत्र सूत्रे मतुबादेरुकारः, धातुषु एधाद्यकारः प्रातिपदिकेषु भवच्छब्दस्योकारः,वाक्ये गल्भाद्यकारः। ननु च सर्वत्रात्र शुद्धोऽच् पठ।ल्ते, नानुनासिक इत्यत आह-प्रतिज्ञानुनासिक्या इति। प्रतिज्ञामात्रेण समधिगम्यमानुनासिक्यं येषां ते तथोक्ताः। प्रतिज्ञानुनासिका इति तु प्रसिद्धः पाठः। तत्र प्रतिज्ञासमधिगम्यत्वाद् अनुनासिके प्रतिज्ञाशब्दो द्रष्टव्यः। ततः समानाधिकरणपदो बहुव्रीहिः। तच्च प्रतिज्ञानं नानियमेन भवति, कि तर्हि? यत्राचार्याः स्मरन्ति तत्रैव। सूत्रकारेण तावद्विवक्षिताः सर्वेऽनुनासिकाः पठिताः, डुलभÄष् प्राप्तौ इतिवत्, लेखकैस्तु संकीर्णा लिखिताः तत्र स्मृतिपरम्परया निर्णेयमित्यर्थः। अभ्र आÄ अप इति। नायं सूत्रादिषु स्वरूपेणोच्चरितो।नुनासिकः किं तर्हि ? ठाङेऽनुनासिकश्च्छन्दसिऽइत्यनुनासिकशब्देन विहितः। अथ क्रियमाणेऽप्युपदेशग्रहणे उञः Äष् इत्यत्र कस्मान्न भवति ? विधानसामर्थ्याद्। इत्संज्ञायां हि तस्य लोपः इति लोपः स्यात्। यद्येवम्, अत्रापि विधानसामर्थ्यादेव न भविष्यति। एवं तर्हि उदाहरणदिगियं दर्शता । इदं तत्रोदाहरणम्-अणोऽप्रगृह्यस्यानुनासिकः कधीच्छति ब्राह्यणकुलमिति क्यजन्तात्क्विपि अल्लोपे, वलि लोपे, नपुंसकह्रस्वत्वं दधि इति। यद्यत्रेत्संज्ञा स्यात् ठिदितो नुम् धातोः इति नुम् स्यात्। अत्राप्यनुनासिकविधानसामर्थ्यादेवेत्संज्ञा न भविष्यति । ननु च यत्रेत्संज्ञायां सत्यां प्रयोजनं न सम्भवति, यथा-दधि, मध्विति प्रातिपदिकेषु तत्रेत्संज्ञाया अभावः। अत्रानुनासिकविधानमर्थवत्, नैतदेवम्; लोपस्येत्कार्यस्य सर्वत्र सम्भवात् । तस्मादणोऽप्रगृह्यस्य इत्संज्ञायामेव विधेयायामनुनासिकविधानसामर्थ्यादेवात्र लोपो न भविष्यति। एवं तर्ह्युतरार्थमवश्यम् ठुपदेशऽ इति वक्तव्यम्, तदिहापि विस्पष्टर्थं भविष्यतीति मन्यते। आतो मनिन्निति। अत्र मकारस्येत्संज्ञा न भवति। यदि स्याद्, अन्येभ्योऽपि द्दश्यन्ते इति हलन्तेऽन्त्यादचः परः स्यात् । सर्वस्येति। दरिद्राप्रभृतिसम्बन्धिनोऽपि ॥
सिद्धान्तकौमुदी
उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा । प्रत्याहारेष्वितां न ग्रहणम् । अनुनासिक इत्यादिनिर्देशात् ॥ नह्यत्र ककारे परेऽच्कार्यं दृश्यते । आदिरन्त्येनेत्येतत्सूत्रेण कृताः प्रत्याहारशब्देन व्यवह्रियन्ते ॥
लण्सूत्रे अकारश्चेति प्रतिज्ञातम्। तस्य अकारस्य अनन्त्यत्वादहल्त्वाच्च हलन्त्यमिति इत्संज्ञायामप्राप्तायां तत्प्रापकं सूत्रमाह--उपदेशे। संज्ञाप्रस्तावात्संज्ञेति। लभ्यते। तदाह--उपदेशे अनुनासिक इत्यादिना। सूत्रे अजिति कुत्वाऽभाव आर्षः। `अजित्संज्ञः स्या`दिति विवरणे कुत्वाभावोऽसन्देहार्थः। ननु मुखेन नासिकया चोच्चार्यमाणो वर्णोऽनुनासिक इत्यनुपदमेव वक्ष्यते। शास्त्रकृता च एते कतिपयवर्णास्तथोच्चारिताः, इतरे तु केवलं मुखेन उच्चारिता इति कथमिदानीन्तनैरवगन्तव्यमित्यत आह--प्रतिज्ञानुनासिक्याः पाणिनीया इति। प्रतिज्ञायते अभ्युपगम्यत इति प्रतिज्ञा। नित्यस्त्रीलिङ्गोऽयम्। स्त्रियामित्याधिकारे `आतश्चोपसर्गे` इकति कर्मण्यङ्?। अनुनासिकस्या भावः आनुनासिक्यम्। प्रतिज्ञा आनुनासिक्यं येषां ते प्रतिज्ञानुनासिक्याः पाणिनिशिष्या इत्यर्थः। शिष्यपरंपरया शास्त्रकृतां तथाविधमुच्चारणमिदनींन्तनानां सुगममिति यावत्। तदेवं लण्सूत्रे अकारस्य अनुनासिकत्वादित्संज्ञा सिद्धा। ततः किमित्यत आह--लण्सूत्रस्थेति। लण्सूत्रे तिष्ठतीति लण्सूत्रस्थः, स चासाववर्णश्च लण्सूत्रस्थावर्णः, तेन सहोच्चार्यमाणो रेफो र इत्येवंरूपो रेफलकारयोः संज्ञेत्यर्थः। वस्तुतस्तु रप्रत्याहार एव नास्तीति शब्देन्दुशेखरे व्यक्तम्। ननु आदिरन्त्येनेति सूत्रे मध्यगानामादेश्च संज्ञेति स्थितम्। एवंच अजादिप्रत्याहारेषु संज्ञाकोटिप्रविष्टानामन्त्यानामितां ग्रहणाऽभावेऽपि णकारादीनामपि मध्यगत्वाऽविशेषाद्ग्रहणं स्यात्। ततश्च रलयोः संज्ञेति पूर्वग्रन्थे रलयोरिति न्यूनं, टकारस्यापि मध्यगत्वेन ग्राह्यत्वादित्यत आह--प्रत्याहारेष्वितां न ग्रहणमिति। प्रत्याहारेषु=अजादिसंज्ञासु मध्यवर्तिनामपि इतां न ग्रहणमित्यर्थः। कुत इत्यत आह--अनुनासिक इत्यादिनिर्देशादिति। आदिना `तृषिमृषिकृषेः काश्ग्रपस्य` इत्यादिसंग्रहः। कथमयं निर्देश उक्तार्थे हेतुरित्यत आह--न हीति। अत्र अनुनासिकशब्दे ककारे परे इकारस्य अच्प्रयुक्तं कार्यम् `इको यणची`ति यणादेशो न दृश्यते हीति योजना। यदि हि अजादिप्रत्याहारेषु इतामपि ग्रहणं स्यात्तर्हि अच्?प्रत्याहारे ॠलृक्? इति ककारस्यापि प्रविष्टत्वेन ?च्त्वात्तस्मिन् परे इकारस्य `इको यणचि` इति यणादेशे `लोपो व्योर्वलि` इति लोपे `अनुनास्क` इति स्यात्। इकारो न श्रूयते। श्रूयते च। अतः प्रत्याहारेष्वितां न ग्रहणमिति विज्ञायत इति भावः। यत्तु ॠलृगिति ककारस्य अच्?प्रत्याहारप्रविष्यत्वेऽपि `प्रत्ययस्थात्` इत्यादिना इत्वविधिसामर्थ्यादेव यण् लोपश्च न भवति। अन्यथा लाघवाल्लोपमेव विदध्यात्। अतः प्रत्याहारेष्वितां न ग्रहणमित्यत्र अनुनासिक इत्यादिनिर्देशो न लिङ्गमित्याहुः। तन्न, `प्रत्ययस्थात्कात्?पूर्वस्यातो लोप आप्यसुपः` इति लोपविधौ वर्णादिक्यप्रसङ्गात्। प्रत्याहारशब्दस्याऽप्रसिद्धार्थत्वादाह--आदिरन्त्येनेत्यादिना। प्रत्याह्रियन्ते संक्षिप्यन्ते वर्णा इति व्युत्पत्तेरिति भावः। नच अणुदित्सूत्रसिद्धासु ऐउ इत्यादिसंज्ञास्वतिप्रसङ्गः शङ्क्यः, योगरूढ�आश्रयणात्। वैयाकरणप्रसिद्धिवशाच्च तथा रूढिरिति भावः। तत्र वर्णसमाम्नायसूत्रेषु पूर्वेण णकारेण एकः प्रत्याहारः-अण्। ककारेण त्रयः-अक् इक् उक्। ङकारेण एकः-एङ्?। चकारेण चत्वारः-अच् इच् एच् ऐच्। टकारेण एकः-अट्। परेण णकारेण त्रयः-अण् इण् यण्। मकारेण चत्वारः-अम् यम् ञम् ङम्। ञकारेण एकः-यञ्। षकारेण द्वौ-झष् भष्। शकारेण षट्-अश् हश् वश् झश् जश् बश्। वकारेण एकः-छव्। यकारेण पञ्च-यय् मय झय् खय् चय्। रेफेण पञ्च-यर् झर् खर् चर् शर्। लकारेण षट्-अल् हल् वल् रल् झल् शल्। अकारेण एको रप्रत्याहारः इति वार्णसमाम्नायिकाः प्रत्याहाराश्चतुश्चत्वारिंशत्, एतेषामेव शास्त्रे उपयोगात्। इङित्यादिप्रत्याहारास्तु प्रयोजनाऽभावान्न भवन्ति, शास्त्रे तद्व्यवहाराऽभावात्। अत्राऽस्मदीया सङ्ग्रहकारिका--
उपदेशेऽजनु। उपदेशनमुपदेशः। भावे घञ्। उपदेशे किंम्?। अभ्र आँ अपः। सप्तम्यर्थद्योतकोऽत्राङ्। `आङोऽनुनासिकश्छन्दसि` इत्याकारोऽनुनासिकः। यद्यपीह `उञ् ॐ` इत्यत्रेवानुनासिकविधानसामर्थ्यान्नेत्त्वमिति सुवचम्, तथाप्युत्तरार्थमवश्यं कर्त्तव्यमुपदेशग्रहणं स्पष्टप्रतिपत्तये इहैव कृतम्। अच् किम् ?। मनिनो मकारस्य मा भूत्। नच `हलन्त्यम्` इत्यन्त्यग्रहणसामर्थ्यादनन्त्यस्य मकारस्य न भवेदिति वाच्यम्, आलच्-त्राप्रत्ययादावतिप्रसङ्गवारणेन तस्य चरितार्थत्वात्। अनुनासिक इति किम् ?। `ईक्ष दर्शने`। ईक्षितः। सत्यां हीत्संज्ञायां `�आआदितो निष्ठायाम्` इतीण् न स्यात्। यद्यप्यत्रोपजीव्यत्वादनुनासिकसंज्ञा प्रथमं वक्तुमुचिता, तथापि नासिकामनुगत इति योगाश्रयणेनैव गतार्थत्वादनुनासिकसंज्ञासूत्रं मन्दप्रयोजनमिति ध्वनयितुं नेहोपन्यस्तम्। नचैवं `यरोऽनुनासिके-` इत्यत्र यरः पदान्तस्यानुनासिकशब्दे परेऽनुनासिकशब्दः स्यादित्यर्थः प्रसज्येत, `स्वं रूपम्-` इति परिभाषाया अनुपस्थितिकल्पबनात्सूत्रमतेऽपि दोषाऽभावात्। ननूक्तनिर्देशाश्रयमे प्रतिपत्तिगौरवमिति चेत्, अतएव `निष्प्रयोजन` मित्यनुक्त्वा `मन्दप्रयोजन`मित्युक्तम्। प्रतिज्ञेति। प्रतिज्ञायत इति प्रतिज्ञा। `आतश्चोपसर्गे` इति कर्मण्यङ्। अनुनासिकस्य भाव आनुनासिक्यम्। `गुणवचनब्राआहृणादिभ्यः-` इति ष्यञ्। प्रतिज्ञा आनुनासिक्यं येषामिति विग्रहः। केचित्तु-प्रतिज्ञानं प्रतिज्ञा, सा अस्यास्तीति प्रतिज्ञम्। अर्शाअद्यच्। प्रतिज्ञमानुनासिक्यमेषामिति विगृह्णन्ति। यद्यपि सूत्रकारकृतोऽनुनासिकपाठ इदानीं परिभ्रष्टः, तथापि वृत्तिकारादिव्यवहारबलेन यथाकार्यं प्राक्स्थित इत्यनुमीयत इति भावः।
लघुसिद्धान्तकौमुदी
उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात्। प्रतिज्ञानुनासिक्याः पाणिनीयाः। लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा॥
महाभाष्यम्
उपदेशेऽजनुनासिक इत् उपदेश इति किमर्थम् ?। अभ्रआँ। अपः । उद्देशे योऽनुनासिकस्तस्य मा भूदिति । कः पुनरुद्देशोपदेशयोर्विशेषः ?। प्रत्यक्षमाख्यानमुपदेशः गुणैः प्रापणमुद्देशः । प्रत्यक्षं तावदाख्यानमुपदेशः । तद्यथाट्ठट्ठअगोज्ञाय कश्चिद् गां सक्थनि कर्णे वा गृहीत्वोपदिशति ‐ अयं गौरिति । स प्रत्यक्षमाख्यातमाह ‐ उपदिष्टो मे गौरति । गुणैः प्रापणमुद्देशः । तद्यथा ‐ कश्चित्कंचिदाहट्ठट्ठदेवदत्तं मे भवानुद्दिशतु इति । स इहस्थः पाटलिपुत्रस्थं देवदत्तमुद्दिशति ‐ अङ्गदी कुण्डली किरीटी व्यूढोरस्को वृतबाहुर्लोहिताक्षस्तुङ्गनासो विचित्राभरण इर्दृशो देवदत्तः इति । स गुणैः प्राप्यमाणमाह ‐ उद्दिष्टो मे देवदत्तः इति ।। इत्संज्ञायां सर्वप्रसङ्गोऽविशेषात् ।। 1 ।। इत्संज्ञायां सर्वप्रसङ्गः । सर्वस्याऽनुनासिकस्येत्संज्ञा प्राप्नोति । अस्यापि प्राप्नोति ‐ अभ्र आँ अपः । किं कारणम् ? अविशेषात् । नहि कश्चिद्विशेष उपादीयते ‐ एवं जातीयकस्यानुनासिकस्येत्संज्ञा भवतीति । अनुपादीयमाने विशेषे सर्वप्रसङ्गः । किमुच्यते ‐ अनुपादीयमाने विशेष इति। कथं न नामोपादीयते यदोपदेश इत्युच्यते ?। लक्षणेना ह्युपदेशः । सङ्कीर्णावुद्देशोपदेशौ । प्रत्यक्षमाख्यानमुद्देशः गुणैश्च प्रापणमुपदेशः । प्रत्यक्षं तावदाख्यानामुद्देशः । तद्यथा, कश्चित्कंचिदाह ‐ अनुवाकं मे भवानुद्दिशतु इति । स तस्मायाचष्टे इषेत्वकमधीष्व, शंनोदेवीयकमधीष्वेति । स प्रत्यक्षमाख्यातमाह ‐ उद्दिष्टो मेऽनुवाकस्तमध्येष्ये इति । गुणैश्च प्रापणमुपदेशः । तद्यथा, कश्चित्कंचिदाह ‐ ग्रामान्तरं गमिष्यामि पन्थानं मे भवानुपदिशतु इति । स तस्मायाचष्टे ‐ अमुष्मिन्नवकाशे हस्तदक्षिणो ग्रहीतव्योऽमुष्मिन्हस्तवामः इति । स गुणैः प्राप्यमाणमाह ‐ उपदिष्टो मे पन्थाः इति । एवमेतौ सङ्कीर्णावुद्देशोपदेशौ । एवं तर्हीत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति । ननु च लोप एवेत्कार्यं स्यात् । अकार्यं लोपः । इह हि शब्दस्य द्व्यर्थ उपदेशः । कार्यार्थो वा भवत्युपदेशः श्रवणार्थो वा । कार्यं चेह नास्ति । कार्ये चाऽसति यदि श्रवणमपि न स्यादुपदेशोऽनर्थकः स्यात् । इदमस्तीत्कार्यम् ‐ इह अभ्र आँ अटितः अनन्तरलक्षणायां सत्यामित्संज्ञायाम् आदितश्च 7|2|16 इतीट्प्रतिषेधः प्रसज्येत । सिद्धं तूपदेशनेऽनुनासिकवचनात् ।। 2 ।। सिद्धमेतत् । कथम् ?। उपदेशने योऽनुनासिकः स इत्संज्ञो भवतीति वक्तव्यम् । किं पुनरुपदेशनम् ?। शास्त्रम् । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासमेवास्तु । ननु चोक्तम् ‐ इत्संज्ञायां सर्वप्रसङ्गोऽविशेषादिति । नैषः दोषः । उपदेश इति घञ्ञयं करणसाधनः । न सिध्यति । परत्वाल्ल्युट् प्राप्नोति । न ब्रूमोऽकर्तरि च कारके संज्ञायम् 3|3|19 इति । किं तर्हि ? हलश्च 3|3|121 इति । तत्रापि संज्ञायामिति वर्त्तते, न चैषा संज्ञा । प्रायवचनादसंज्ञायामपि भविष्यति । प्रायवचनात्संज्ञायामेव स्याद्वा न वा, नह्युपाधेरुपाधिर्भवति विशेषणस्य वा विशेषणम् । यदि नोपाधेरूपाधिर्भवति विशेषणस्य वा विशेषणं, कल्याण्यादीनामिनङ्; कुलटाया वा (4.1.126; 127) इनङि्वभाषा न प्राप्नोति । इनङेवाऽत्र प्रधानम् । विहितः प्रत्ययः प्रकृतश्चानुवर्तते। इह तर्हि ‐ वाकिनादीनां कुक्च; पुत्रान्तादन्यतरस्याम् (4.1.158;159) इति कुग्विभाषा न प्राप्नोति । अत्रापि कुगेव प्रधानम् । विहितः प्रत्ययः प्रकृतश्चानुवर्तते। एवं च चेदमकृतं भवति ‐ नोपाधेरुपाधिर्भवति विशेषणस्य वा विशेषणमिति, न च कश्चिद्दोषो भवति । एवं च कृत्वा घञ्ञ्न प्राप्नोति । एवं तर्हि कृत्यल्युटो बहुलम् 3|3|113 इत्येवमत्र घञ्ञ्भविष्यति ।। 2 ।।