॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|16
SK 2682
1|3|16
इतरेतरान्योन्योपपदाच्च  
SK 2682
सूत्रच्छेद:
इतरेतर-अन्योन्य-उपपदात् - पञ्चम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
न  [1|3|15] - अव्ययम् , कर्त्तरि  [1|3|14] - सप्तम्येकवचनम् , कर्म्म-व्यतिहारे  [1|3|14] - सप्तम्येकवचनम् , आत्मनेपदम्  [1|3|13] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
इतरेतर-अन्योन्य-उपपदात् "कर्त्तरि कर्म्मव्यतिहारे" आत्मनेपदम् न
सूत्रार्थ:
"इतरेतर" तथा "अन्योन्य" एतयोः उपस्थितौ "कर्तरि कर्मव्यतिहारे" इत्यनेन आत्मनेपदं न भवति ।
कर्तरि कर्मव्यतिहारे 1|3|14 इत्यनेन क्रियायाः व्यतिहारे कर्तरि प्रयोगे यद् आत्मनेपदम् उक्तम् अस्ति, तत् "इतरेतर" तथा "अन्योन्य" एतयोः पदयोः उपस्थितौ न भवति ।

यथा - इतरेतरस्य सस्यं व्यतिलूनन्ति (छिन्दन्ति इत्यर्थः) - अत्र यद्यपि व्यतिहारः (=परस्परयोः समानः व्यवहारः) अस्ति, तथापि "इतरेतर" पदस्य साक्षात् प्रयोगः कृतः अस्ति, अतः कर्तरि कर्मव्यतिहारे 1|3|14 इत्यनेन निर्दिष्टम् आत्मनेपदम् न भवति ।

तथैव - अन्योन्यस्य व्यतिलूनन्ति ।

वार्त्तिकम् - परस्परोपपदाच्चेति वक्तव्यम् - "परस्पर" शब्दस्य उपस्थितौ अपि एवमेव भवति इत्यर्थः । यथा - परस्परस्य सस्यं व्यतिलूनन्ति ।
One-line meaning in English
The आत्मनेपद mandated by "कर्तरि कर्मव्यतिहारे" for a व्यतिहार does not happen in presence of the words "इतरेतर" and "अन्योन्य".
काशिकावृत्तिः
इतरेतरः, अन्योन्यः इत्येवम् उपपदाद् धातोः कर्मव्यतिहारे आत्मनेपदं न भवति। इतरेतरस्य व्यतिलुनन्ति। अन्योन्यस्य व्यतिलुनन्ति। परस्परौपपदाच् च इति वक्तव्यम्। पर्स्परस्य व्यतिलुनन्ति।
उपोच्चारितं पदमुपपदम्। इतरेतरान्योऽन्यशब्दावुपपदे यस्य स तथोक्तः। अथोपपदग्रहणं किमर्थम्, `नेतरेतरान्योऽन्याभ्याम्` इत्युच्यताम्? अशक्यमेवं वक्तुम्; एवं ह्रुच्यमाने पञ्चमीनिर्देशात् `तस्मादित्युत्तरस्य` 1|1|66 इत्युत्तरस्यैव स्यात्-- इतरेतरस्य व्यतिलुनन्तीति, इह तु न स्यात्-- व्यतिलुनन्तीतरेतरस्येति।`परस्परोपपदाच्चेति वक्तव्यम्` इति। परस्परशब्द उपपदं यस्य तस्मात् प्रतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्- चकारोऽत्र क्रियते। स चानुक्तसमच्चयार्थः। तेन परस्परोपपदादपि प्रतिषेधो भविष्यतीति।
उपोच्चारितं पदमुपदम्, न पारिभाषिकम्;असम्वाद्। असत्युपपदग्रहणे पञ्चमीतिर्देअशे परस्यैवानन्तरस्य स्यात्; ठ्तस्मादित्युतरस्यऽइति वचनात्। सप्तमीनिर्देशे तु ठ्तस्मिन्निति निर्दिष्टे पूर्वस्यऽइति पूर्वस्यैवानन्तरस्य स्यात्। तत्र यद्यपि लकारोऽनन्तरः परो न सम्भवति, धातुस्तु सम्भवति;पूर्वस्तु धातुरनन्तरो न सम्भवति, लकारस्तु संभवति। तृतीयानिर्देशस्तु पञ्चमीसाधारणत्वादनध्यवसान इत्युपपदग्रहणं क्रियते। इतरेतरस्यत्यादि। लौकिके तु शब्दव्यवहारे लाघवं प्रत्युनादराद् इतरेतरादिशब्दस्तङ् उपसर्गाश्च कर्मव्यतीहारद्योतनाय समुच्चीयन्ते । कर्मव्यतीहारे ठ्सर्वनाम्नो द्वे भवतस्समासवच्च बहुलम्ऽयदा न समासवत् प्रथमैकवचनं तदा पूर्वपदस्येति षष्ठ।लेकवचनान्तस्येतरशब्दस्य द्विर्वचने समासवद्भावेन सुब्लुकि समासत्वादेव प्रातिपदिकत्वात् पुनः षष्ठ।लेकवचनम्। अन्यशब्दस्य तु बहुलग्रहणादसमासवद्भावे पूर्वपदस्थस्य षष्ठ।लेकवचनस्य प्रथमैकवचनम्। एवं परस्परस्येत्यत्रापि सूत्रवाक्ययोः प्रकृतिभागमात्रस्यानुकरणं द्रष्टव्यम्॥
सिद्धान्तकौमुदी
परस्परोपपदाच्चेति वक्तव्यम् (वार्तिकम्) ॥ इतरेतरस्यान्योन्यस्य परस्परस्य वा व्यतिलुनन्ति ॥
इतरेतर।`नात्मनेपद`मिति शेषः।
इतरेतरा। नन्वितरेतरादिशब्दैरेव कर्मव्यतिहारस्य द्योतितत्वात्?तद्द्?योतकमात्मनेपदं न प्राप्नोतीतित किमर्थो निषेधः ?। अत्राहुः लौकिके व्यवहारे लाघवाऽनादरादात्मनेपदं प्रसज्येतेति निषेधोऽयमारभ्यते। अत एव व्यतिलुनीते इत्यादौ कर्मव्यतिहारद्योतनाय `व्यती` त्युपसर्गावात्मनेपदं च समुञ्चित्य प्रयुज्यत इति।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
इतरेतरान्योन्योपपदाच्च परस्परोपपदाच्च ।। 1 ।। परस्परोपपदाच्चेति वक्तव्यम्। परस्परस्य व्यतिलुनन्ति। परस्परस्य व्यतिपुनन्ति ।। 16 ।।