॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|13
SK 2679
1|3|13
भावकर्म्मणोः
SK 2679
सूत्रच्छेद:
भाव-कर्म्मणोः - सप्तमीद्विवचनम्
अनुवृत्ति:
आत्मनेपदम्  [1|3|13] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
भाव-कर्मणो: आत्मनेपदम्
सूत्रार्थ:
भावे प्रयोगे कर्मणि प्रयोगे च धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
लः कर्मणि च भावे चाकर्मकेभ्यः 3|4|69 इत्यनेन लकाराः कर्तरि, कर्मणि तथा भावे कारकेषु भवन्ति । एतेषु कर्मणि-भावे-कारकयोः अनेन सूत्रेण लकारस्य स्थाने आत्मनेपदस्य प्रत्ययाः विधीयन्ते ।

यथा -
1) कर्मणि - रामेण विद्यालयः गम्यमानः अस्ति । अत्र गम्-धातोः आत्मनेपदस्य "मान" प्रत्ययः भवति ।
2) भावे - वृक्षेण पत्यते । अत्र पत्-धातोः आत्मनेपदस्य "ते" प्रत्ययः भवति ।

ज्ञातव्यम् -
1) लकारः यदा कर्तारम् अनुसरति, तदा सः "कर्तरि" अस्ति इति उच्यते । लकारः यदा कर्म अनुसरति तदा सः "कर्मणि" अस्तीति उच्यते । लकारः यदा भावं निदर्शयति तदा सः "भावे" अस्तीति उच्यते ।
2) तङानावात्मनेपदम् 1|4|100 इत्यनेन त-आताम्-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ्-एतेषाम् तथा शानच्-कानच्-एतयोः "आत्मनेपदम्" संज्ञा भवति ।
One-line meaning in English
A verb gets the प्रत्यया: of आत्मनेपद in the भावे and the कर्मणि प्रयोग.
काशिकावृत्तिः
लः कर्मणि च भावे च अकर्मकेभ्यः 3|4|69 इति भावकर्मणोर् विहितस्य लस्य तिबादयः सामान्येन वक्ष्यन्ते। तत्रैदम् उच्यते, भावे कर्मणि च आत्मनेपदं भवति। भावे ग्लाय्ते भवता, सुप्यते भवता, आस्यते भवता। कर्मणि क्रियते कटः, ह्रियते भारः। कर्मकर्तरि, लूयते केदारः स्वयम् एव इति, परस्मैपदं न भवति। तस्य विधाने द्वितीयं कर्तृग्रहणम् अनुवर्तते। तेन कर्तिव यः कर्ता तत्र प्रस्मैपदं भवति।
भाव इति धात्वर्थः क्रियात्मक उच्यते, कर्म तु पारिभाषिकमेव। तत्रेदमुच्यते नियमार्थं इति विशेषः। अयमपि पूर्वत् प्रत्ययनियः-- भावकर्मणोरेवात्मनेपदं भवति, नार्थनियमः। अर्थनियमे सति `को भवता दायोदत्तः`, `को भवता लाभो लब्धः` इति कर्मणि घञादिर्दुर्लभः स्यात्। `सुप्यते` इति। `ञिष्वप् शये` (धातुपाठः-1068) वच्यादिना 6|1|15 सम्प्रासरण्। `क्रियते` इति। `रिङ शयग्लिङक्षु` 7|4|28 इति रिङादेशः। `लूयते केदारः स्वयमेव` इति। `कर्मवत्कर्मणा तुल्यक्रियः` 3|1|87 इत्यत्र व्यपदेशातिदेशशासत्रातिदेशपक्षयोः कर्मकर्तरि परस्मैपदेन परत्वाद्भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह -- `कर्मकर्तरि` इत्यादि। `द्वितीयं कर्तरिग्रहणमुपतिष्ठते` इति। `कर्तरि कर्मव्यतिहारे` 1|3|14 इत्यतः। तेन कर्त्तैव यः कत्र्ता शुद्धः केवलः कर्मवद्भावरहितः, तत्र परस्मैपदं भवति; यत्र कर्मवद्भावस्तत्रात्मनेपदं भवति।कार्यातिदेशपक्षे `क्रमवत् कर्मणा तुल्यक्रियः` 3|1|87 इत्यनेनैवात्मनपेपदं भवति।
भाव्यत इति भावः, ण्यन्ताद् भवतेः कर्मणि घञ्। धात्वर्थः क्रियात्मक उच्यते, कर्म तु पारिभाषिकम्। धञादिविधौ तु ठ्भावऽ इति शुद्धाद् भवतेर्भावे घञ्। भावःउसता,धात्वर्थस्य सिद्धतावस्थोच्यते। अयमपि नियम इति दर्शयितुमन्यतः सिद्धिमाह-लः कर्मणि चेत्यादि । कथं पुनरयं नियमः, यावता ठनुदातङ्ति एवात्मनेपद्म्ऽइति पूर्वेण नियमेन यथा शेषात् कर्तर्यात्मनेपदं व्यावर्तितम्, एवं भावकर्मणोरपीति तद्विषये विध्यर्थमिदं युक्तम्?सत्यम्;यदि पूर्वसूत्रे प्रवृत्तिः,विपर्ययोऽपि शक्यते वक्तुम्-भावकर्मणोरेवात्मनेपदमिति, अस्मिन्नियमे प्रवृते ठनुदातङ्तिःऽकर्तर्यात्मनेपदमप्राप्तमिति पूर्वसूत्रमपि विध्यर्थमिति। तेन द्वयोरपि लस्य तिबादय इत्येतदपेक्षया नियमार्थत्वम्, परस्परापेक्षया तु विध्यर्थत्वमेवमापादपरिसमाप्तेर्द्रव्यम्। अत एवस्यान्यथासिद्धं दर्शयताप्येवशब्दो न प्रयुक्तः। तिबादिसूत्रेण धातुसामान्यविहितं च लकारमाश्रित्य तिबादयो विहितास्तत्रैभ्य एव धातुभ्य इति पूर्वे नियमः, अयं त्वेतयोरे वार्थयोरिति। ननु चात्रार्थनियम एव ग्रन्थे प्रतीयते, अयं त्वत्रार्थः-ठ्लः कर्मणि चऽइति भावकर्मणोर्यो विहितो लकातो लकारस्तस्य सामान्येन तिबादयः सर्वे वक्ष्यन्ते, न त्वात्मनेपदमेव, अतस्तदेव यथा स्यादित्यमारम्भ इति। प्रत्ययनियमे तु भावकर्मकर्तृष्वपि विहितस्य लस्य सामान्येन तङ् वक्ष्यत इति वाच्यं स्यात्, सत्यम्;अयं त्वत्रार्थः-ठ्भावकर्मणोःऽइत्युपलक्षणम्, भावकर्मकर्तृष्वित्यर्थः, तिबादय इति सूत्रे तिपः प्रथमनिर्देशादेवमुक्तम्। तिबादिष्वन्तर्भूतास्तङ् इत्यर्थः, तङनाविति यावत् । किं पुनः स्याद् यद्ययमर्थनियम् स्याद्? इह को भवता लाभो लब्धः, को भवता दायो दत इति कर्मणि घञ् न स्याद्। ठकर्तरि चऽ इत्यस्य त्वपादानादिरवकाशः यद्यपि तुल्यजातीयस्य परस्मैपदस्य नियमेन व्यावृत्तिरिति परिहारोऽस्ति;तथापि पूर्वसूत्रे तावत् प्रत्ययनियम इतीहापि स एवाश्रितः। ग्लायत इति। ठ्ग्लै म्लै हर्षक्षयेऽ। सुप्यत इति । ठ्ञिष्वप् शयेऽ, ठ्वचिस्वपि इत्यादिना संप्रसारणम्। क्रियत इति। ठ्रिङ् शयग्लिङ्क्षुऽयदा ठ्कर्मवत्कर्मणाऽइत्ययं शास्त्रातिदेशोः व्यपदेशातिदेशो वा, तदा शास्त्रव्यपदेशयोरतिदिष्टयोः स्वेन शास्त्रेण ततत्कर्यं भवति तत्र कर्मण्यात्मनेपदमित्यस्यावकाशः शुद्धं कर्म, कर्तरि परस्मैपदमित्यस्य शुद्धः कर्ता,कर्मकर्तर्युभयप्रसङ्गे परत्वात्परस्मèपदं प्राप्नेति, अत आह-कमकर्तरीत्यादि। द्वितीयं कर्तृग्रहणमनुवर्तत इति। ठ्कर्तरि कर्मव्यतीहारेऽइत्यतः कार्यातिदेशपक्षे त्वात्मनेपदमेव । परमिति । नायं परिहारो वाच्यः॥
सिद्धान्तकौमुदी
॥ अथ तिङन्तात्मनेपदप्रकरणम्‌ ॥अनुदात्तङित आत्मनेपदम्‌ {*2157*} । आस्ते । शेते ।

बभूवे । अनुबभूवे ।
अथ आत्मनेपदप्रक्रिया निरूप्यते। आत्मनेपदपरस्मैपदव्यवस्थापकानि सूत्राणि प्रथमस्य तृतीयपादे पठितानि। तानि क्रमेण व्याख्यास्यन् व्याख्यातमपि सूत्रं पुनः स्मारयति-- अनुदात्तङित इति। `आत्मनेपद`मित्येतत् `शेषात्कर्तरि परस्मैपद`मित्यतः प्रागनुवर्तते।
भावकर्मणोः। भावे कर्मणि चयो लकारस्तस्याऽऽत्मनेपदमित्यर्थः।
लघुसिद्धान्तकौमुदी
लस्यात्मनेपदम्॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!