यथासंख्यमनुदेशः समानाम् किमिहोदाहरणम् ? इको यणचि
6|1|77 दध्यत्र मध्वत्र । नैतदस्ति । स्थानेऽन्तरतमेनाप्येतत्सिद्धम् । कुत आन्तर्यम् ?। तालुस्थानस्य तालुस्थान ओष्ठस्थानस्यौष्ठस्थानो भविष्यतीति । इदं तर्हि ‐ तस्थस्थमिपां ताम्तम्तामः
3|4|101 इति । ननु चैतदपि स्थानेऽन्तरतमेनैव सिद्धम् । कुत आन्तर्यम् ?। एकार्थस्यैकार्थो द्व्यर्थस्य द्व्यर्थो बह्वर्थस्य बह्वर्थो भविष्यतीति । इदं तर्हि ‐ तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्ञ्यकः
4|3|94 इति ।। किमर्थमिदमुच्यते ?। संज्ञासमासनिर्देशात्सर्वप्रसङ्गोऽनुदेशस्य, तत्र यथासंख्यवचनं नियमार्थम् ।। 1 ।। संज्ञया समासैश्च निर्देशाः क्रियन्ते । संज्ञया तावत् ‐ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः
3|4|82 इति । समासैः ‐ तूदीशलातुरवर्मतीकूचवाराङ्ढक्छण्ढञ्ञ्यकः
4|3|94 इति । संज्ञासमासनिर्देशादेतस्मात्कारणात् सर्वप्रसङ्गः सर्वस्योद्देशस्य सर्वोऽनुदेशः प्राप्नोति । इष्यते च समसंङ्ख्यं यथा स्यादिति । तच्चान्तरेण यत्नं न सिध्यतीति तत्र यथासंख्यवचनं नियमार्थम् । एवमर्थमिदमुच्यते । किं पुनः कारणं संज्ञया च समासैश्च निर्देशाः क्रियन्ते ?।। संज्ञासमासनिर्देशः पृथग्विभक्तिसंज्ञ्यनुच्चारणार्थः ।। 2 ।। संज्ञया च समासैश्च निर्देशाः क्रियन्ते पृथग्विभक्तीः संज्ञिनश्च मोच्चीचरमिति । प्रकरणे च सर्वसंप्रत्ययार्थः ।। 3 ।। प्रकरणे च सर्वेषां संप्रत्ययो यथा स्याद् ‐ विदो लटो वा
3|4|83 इति । किं पुनः शब्दतः साम्ये संख्यातानुदेशो भवत्याहोस्विदर्थतः ?। कश्चात्र विशेषः ?। संख्यासाम्यं शब्दतश्चेण्णलादयः परस्मैपदानां डारौरसः प्रथमस्याऽयवायाव एच इत्यनिर्देशः ।। 4 ।। संङ्ख्यासाम्यं शब्दतश्चेण्णलादयः परस्मैपदानां डारौरसः प्रथमस्याऽयवायाव एच इत्यनिर्देशः । अगमको निर्देशोऽनिर्देशः । परस्मैपदानां णलतुसुस्थलथुसणल्वमाः
3|4|82 इति । णलादयो बहवः, परस्मैपदानामित्येकः शब्दः, वैषम्यात्संख्यातानुदेशो न प्राप्नोति ।। डारौरसः प्रथमस्य। । डारौरसो बहवः प्रथमस्येत्येकः शब्दः । वैषम्यात्सङ्ख्यातानुदेशो न प्राप्नोति ।। एचोऽयवायावः
6|1|78 अयवायावो बहवः, एच इत्येकः शब्दः । वैषम्यात्सङ्ख्यातानुदेशो न प्राप्नोति ।। अस्तु तर्ह्यर्थतः । अर्थतश्चेल्लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः ।। 5 ।। अर्थतश्चेल्लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषो भवति ।। स्यतासी लृलुटोः
3|1|33 स्यतासी द्वौ, लृलुटोरित्यस्य त्रयोऽर्थाः । वैषम्यात्सङ्ख्यातानुदेशो न प्राप्नोति ।। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः
(3.1..134) नन्द्यादयो बहवः, ल्युणिन्यचस्त्रयः । वैषम्यात्संख्यातानुदेशो न प्राप्नोति ।। अरीहणादयो बहवः, वुञ्ञादयः सप्तदश । वैषम्यात्संख्यातानुदेशो न प्राप्नोति ।। सिन्धुतक्षशिलादिभ्योऽणञ्ञौ
4|3|93 सिन्धुतक्षशिलादयो बहवोऽणञ्ञौ द्वौ, वैषम्यात्संख्यातानुदेशो न प्राप्नोति । आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु ।। 6 ।। आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु च दोषो भवति । आत्मनेपदविधिश्च न सिध्यति ‐ अनुदात्तङित आत्मनेपदम्
1|3|2 अनुदातङितौ द्वौ, आत्मनेपदमित्यस्य द्वावर्थौ, तत्र संख्यातानुदेशः प्राप्नोति । निष्ठा ‐ रदाभ्यां निष्ठातो नः पूर्वस्य च दः
8|2|42 इति रेफदकारौ द्वौ, निष्ठेत्यस्य द्वावर्थौ । तत्र संख्यातानुदेशः प्राप्नोति । सार्वधातुकद्विग्रहणेषु च दोषो भवति ‐ श्नसोरल्लोपः
6|4|111 श्नमस्ती द्वौ, सार्वधातुकमित्यस्य द्वावर्थौ । तत्र संख्यातानुदेशः प्राप्नोति । एङः पूर्वत्वे प्रतिषेधः ।। 7 ।। एङः पूर्वत्वे प्रतिषेधो वक्तव्यः । एङः पदान्तादति ; ङसिङसोश्च
(6.1.109;110) ङसिङसौ द्वौ, एङित्यस्य द्वावथौ,तत्र संख्यातानुदेशः प्राप्नोति । अस्तु तर्हि शब्दतः । ननु चोक्तं संख्यासाम्यं शब्दतश्चेण्णलादयः परस्मैपदानां डारौरसः प्रथमस्याऽयवायाव एच इत्यनिर्देशः इति । नैषः दोषः । स्थानेऽन्तरतमः
1|1|50 इत्यनेन व्यवस्था भविष्यति । कुत आन्तर्यम् ?। एकार्थस्यैकार्थौ द्व्यर्थस्य द्व्यर्थो, बह्वर्थस्य बह्वर्थः । संवृतावर्णस्य संवृतावर्णः, विवृताऽवर्णस्य विवृतावर्णः । अतिप्रसङ्गो गुणवृद्धिप्रतिषेधे क्ङिति ।। 8 ।। अतिप्रसङ्गो भवति गुणवृद्धिप्रतिषेधे क्ङिति। गुणवृद्धी द्वे, क्ङितौ द्वौ।,तत्र संख्यातानुदेशः प्राप्नोति ।। नैषः दोषः । गकारोऽप्यत्र निर्दिश्यते । तद्गकारग्रहणं कर्तव्यम् ?। न कर्तव्यम् । क्रियते न्यास एव । ककारे गकार्रश्चत्वभूतो निर्दिश्यते । गिति किति ङितीति । उदिकूले रुजिवहोः ।। 9 ।। उदिकूले द्वे, रुजिवहौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति । नैषः दोषः । नोदिरुपपदम् । किं तर्हि ?। विशेषणं रुजिवहोः । उत्पूर्वाभ्यां रुजिवहिभ्यां कूल उपपद् इति । तच्छीलादिषु धातुत्रिग्रहणेषु ।। 10 ।। तच्छीलादिषु धातुत्रिग्रहणेषु दोषो भवति । विदिभिदिच्छिदेः कुरच्
3|2|162 । विदिभिदिच्छिदयस्त्रयः, तच्छीलादयस्त्रयः, तत्र संख्याताऽनुदेशः प्राप्नोति । घञ्ञादिषु द्विग्रहणेषु ।। 11 ।। घञ्ञादिषु द्विग्रहणेषु दोषो भवति । निरभ्योः पूल्वोः
3|3|28 निरभी द्वौ, पूल्वौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ।। नैषः दोषः । इष्यते चाऽत्र संख्यातानुदेशः,निष्पावः अमिलाव इति ।। एवं तर्हि ‐ अकर्तरि च कारके भावे चेति द्वौ पूल्वौ द्वौ । तत्र संख्यातानुदेशः प्राप्नोति । अवे तॄस्त्रोः करणाधिकरणयोः ।। 12 ।। तॄस्त्रौ द्वौ, करणाधिकरणे द्वे। , तत्र संख्यातानुदेशः प्राप्नोति । कर्तृकर्मणोश्च भूकृञ्ञोः ।। 13 ।। कर्तृकर्मणी, द्वे, भूकृञ्ञौ द्वौ । तत्र संख्यातानुदेशः प्राप्नोति । अनवक्लृप्त्यमर्षयोरकिंवृत्तेपि ।। 14 ।। अनवक्लृप्त्यर्षौ द्वौ, किंवृत्ताऽकिंवृत्ते द्वे । तत्र संख्यातानुदेशः प्राप्नोति । कृभ्वोः क्त्वाणमुलौ ।। 15 ।। कृभ्वौ द्वौ, क्त्वाणमुलौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति । अधीयानविदुषोश्छन्दोब्राह्मणानि ।। 16 ।। छन्दोब्राह्मणानीति द्वे, अधीते वेदिति च द्वौ । तत्र संख्यातानुदेशः प्राप्नोति । रोपधेतोः पथिदूतयोः ।। 17 ।। रोपधेतोः प्राचाम्
4|2|123 तद्गच्छति पथिदूतयोः
4|3|85 । रोपधेतौ द्वौ, पथिदूतौ द्वौ, तत्र संख्यातानुपदेशः प्राप्नोति । तत्र भवस्तस्य व्याख्यानः ऋतुयज्ञेभ्यश्च ।। 18 ।। तत्र भवस्तस्य व्याख्यानौ द्वौ, क्रतुयज्ञौ द्वौ , तत्र संख्यातानुदेशः प्राप्नोति । संघादिष्वञ्ञ्प्रभृतयः ।। 19 ।। संघादिष्वञ्ञ्प्रभृतयः संख्यातानुदेशेन न सिध्यन्ति । नैषः दोषः । घोषग्रहणमपि तत्र कर्तव्यम् । वेशोयशआदेर्भगाद्यत्खौ ।। 20 ।। वेशोयशआदी द्वौ, यत्खौ द्वौ। । तत्र संख्यातानुदेशः प्राप्नोति । ङसिङसोः ख्यत्यात्परस्य ।। 21 ।। ङसिङसौ द्वौ, ख्यत्यौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति । न वा समानयोगवचनात् ।। 22 ।। न वा एष दोषः । किं कारणम् ?। समानयोगवचनात् समानयोगे संख्यातानुदेशं वक्ष्यामि । तस्य दोषो विदो लटो वा ।। 23 ।। तस्यैतस्य लक्षणस्य दोषः विदो लटो वा
3|4|83 इति संख्यातानुदेशो न प्राप्नोति । ध्माधेटोः नाडीमुष्ट्योश्च ।। 24 ।। ध्माधेटोः नाडीमुष्ट्योश्च संख्यातानुदेशो न प्राप्नोति । खलगोरथादिनित्रकट्यश्च ।। 25 ।। संख्यातानुदेशो न प्राप्नोति । सिन्ध्वपकाराभ्यां कन् अणञ्ञौ च ।। 26 ।। संख्यातानुदेशो न प्राप्नोति । युष्मदस्मदोश्चादेशाः ।। 27 ।। युष्मदस्मदोश्चादेशाः संख्यातानुदेशन्न सिद्ध्यन्ति । तस्माद्यस्मिन्पक्षेऽल्पीयांसो दोषास्तमास्थाय प्रतिविधेयं दोषेषु । अथवैवं वक्ष्यामि ‐ यथासंख्यमनुदेशः समानां स्वरितेन । ततः अधिकारः । अधिकारश्च भवति स्वरितेनेति । एवमपि स्वरितं दृष्ट्वा सन्देहः स्यात् ‐ न ज्ञायते ‐ किमयं समसंख्यार्थः, आहोस्विदधिकारार्थ इति ?। सन्देहमात्रमेतद्भवति, सर्वसन्देहेषु चेदमुपतिष्ठते ‐ व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति। समसंख्यार्थ इति व्याख्यास्यामः ।। 10 ।।