Page loading... Please wait.
1|2|8 - रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च
॥ तस्मै पाणिनये नमः ॥
1|2|8
SK 2609
रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च   🔊
सूत्रच्छेदः
रुद-विद-मुष-ग्रहि-स्वपि-प्रच्छः (पञ्चम्येकवचनम्) , सन् (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
"रुद", "विद", "मुष", "ग्रहि", "स्वपि", "प्रच्छ" - इत्येतेभ्यः संश्च क्त्वा च कितौ भवतः । रुदविदमुषीणां रलो व्युपधाद्धलादेः संश्च 1|2|26 इति विकल्पे प्राप्ते नित्यार्थं ग्रहणम् । ग्रहेः विध्यर्थम् एव । स्वपि-प्रच्छ्योः सन्नर्थं ग्रहणम् । किदेव हि क्त्वा । रुदित्वा, रुरुदिषति ; विदित्वा, विविदिशति ; मुषित्वा, मुमुषिषति ; गृहीत्वा, जिघृक्षति ; सुप्त्वा, सुषुप्सति ; पृष्ट्वा, पिपृच्छिषति । ग्रहादीनां कित्त्वात् सम्प्रसारणं भवति । किरश्च पञ्चभ्यः 7|2|75 इति प्रच्छेरिडागमः ॥
`रुदिर् अश्रुविमोचने` (धातुपाठः-1067), `विद ज्ञाने` (धातुपाठः-1064), `मुष स्तेये` (धातुपाठः-1530), `ग्रह उपादाने` (धातुपाठः-1533), `ञिष्वप् शये (धातुपाठः- 1068) `प्रच्छ ज्ञीप्सायाम्` (धातुपाठः-1413)। `ग्रहेर्विध्यर्थमेव` इति। `न क्त्वा सेट` 1|2|18 इति प्रतिषिद्धस्य कित्त्वस्य पुनर्विधिर्यथा स्यात्। `स्वपिर्विध्यर्थमेव` इत्यादि। `सन्नर्थम्` इति। अथ क्त्वार्थं वचनं कस्मान्न भवतीत्याह--- `किदेव हि क्त्वा` स्वपिप्रच्छयोर्हि `एकाच उपदेशेऽनुदात्तात्` 7|2|10 इतीट्प्रतिषेधात् क्त्वा सेड् न भवतीत्यतः `न क्त्वा सेट्` 1|2|18 इति निषेधो न प्रवत्र्तते। तेन किदेव हि क्त्वेति। `रुदित्वा` इति। `समानकर्तृकयोः पूर्वकाले` 3|4|21 इति क्त्वा। `गृहीत्वा` इति। `ग्रहोऽलिटि दीर्घः` 7|2|37 ग्रह्रादिसूत्रेण 6|1|16 संप्रासरणम्। `जिघृक्षति` इति। `हो ढः` 8|2|31 इति तत्वम्, `षढोः कः सि` 8|2|41 इति कत्वम्; `एकाचो बसो भष्` 8|2|37 इत्यादिना गकारस्य घकारः, `सनि ग्रहगुहोश्च` 7|2|12 इतीट्प्रतिषेधः। `सुषुप्सति` इति। वच्यादिसूत्रेण 6|1|15 संप्रसारणम्। `पिपृच्छिषति` इति। अत्रापि ग्रह्रादिसूत्रेण 6|1|16 संप्रसारणम्; `छे च` 6|1|71 इति तुक्, `स्तोः श्चुना श्चुः` 8|4|39 इति श्चुत्वम्॥
सन्नर्थमिति । तत्र चरितार्थत्वादनिटः क्त्वाः कित्वाविधानं नियमार्थं न भवति ॥
सिद्धान्तकौमुदी
एभ्यः सन् क्त्वा च कितौ स्तः । रुरुदिषति । विविदिषति । मुमुषिषति ॥
रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च - रुदविद । इका निर्देशात् संप्रसारणे गृहीति निर्देशः । स्वपीति इकारस्तु उच्चारणार्थः, न त्विका निर्देशः, सुपीति संप्रसारणप्रसङ्गात् । चकारात्मृडमृदगुधे॑ति पूर्वसूत्रस्थं क्त्वेति समुच्चीयते । तदाह — सन् क्त्वा चेति । किताविति ।असंयोगाल्लि॑डित्यतस्तदनुवृत्तेरिति भावः । रुदसाहचर्याद्वेत्तेरेव ग्रहणमिति केचित् । अविशेषात्सर्वस्येत्यन्ये ।हलन्ताच्चे॑ति सिद्धे रुदविदमुषां ग्रहणंरलो व्युपधा॑दिति विकल्पबाधनार्थम् । ग्रहेस्तु क्त्वायांन क्त्वा से॑डिति निषेधबाधनार्थम् ।स्वपिप्रच्छयोस्तु क्त्वायां कित्त्वेऽपि सनोऽप्राप्तकित्तवविधानार्थम् । रुरुदिषतीत्यादौ सनः कित्वाल्लघूपधगुणाऽभावः ।
रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च - रुदसाहचर्याद्वेत्तेरेव ग्रहणम् । इह रुदविदमुषाणां ग्रहणंरलो व्युपधा॑दिति विकल्पे प्राप्ते, ग्रहेःन क्त्वा से॑डिति निषेधाक्त्वाया अप्राप्ते, स्वपिप्रच्छयोस्तु क्त्वः कित्त्वेऽपि सनः कित्त्वस्याऽप्राप्तौ वचनम् । रुदित्वा । विदित्वा । मुषित्वा.सुप्त्वा । पृष्ट्वा । एतेषु संप्रसारणमपि फलम् ।
लघुसिद्धान्तकौमुदी
मुखसहतिनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात्। तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः। ऌवर्णस्य द्वादश, तस्य दीर्घाभावात्। एचामपि द्वादश, तेषां ह्रस्वाभावात्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.