॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|73
SK 939
1|2|73
ग्राम्यपशुसंघेषु अतरुणेषु स्त्री
SK 939
सूत्रच्छेद:
ग्राम्यपशुसंघेषु - सप्तमीबहुवचनम् , अतरुणेषु - प्रथमैकवचनम् , स्त्री - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
ग्राम्याणां पशूनां सङ्घाः ग्राम्यपशुसङ्घाः। एतेषु सहविवक्षायां स्त्री शिष्यते। पुमान् स्त्रिया 1|2|67 इति पुंसः शेषे प्राप्ते स्त्रीशेषो विधीयते। अतरुणग्रहणम् सामर्थ्यात् पशुविशेषनम्। गाव इमाः। अजा इमाः। ग्राम्यग्रहनं किम्? रुरव इमे। पुषता इमे। पुशुषु इति किम्? ब्राह्मणाः। क्षत्रियाः। सङ्घेषु इति किम्? एतौ गवौ चरतः। अतरुणेसु इति किम्? वर्सा इमे। वर्करा इमे। अनेकशफेष्विति वक्तव्यम्। इह मा भूत्। अश्वा इमे। इति स्रीजयादित्यविरचितायं काशिकायां वृत्तौ प्रथमाध्यायस्य द्वितीयः पादः।
`ग्राम्याणाम्` इति। ग्रामे भवा ग्राम्याः। `ग्रामाद्यखञौ 4|2|93 इति यः। ननु च सङ्घस्य तरुमत्वं न सम्भवति, नापि तद्वयवच्छेद्यं तरुणत्वम्। अतः `अतरुणेषु ` इत्ययुक्तं विशेषणमित्याह- `अतरुणग्रहणम्` इत्यादि। उच्यते चेदं विशेषणम्, न च सङ्घस्य तत्सम्भवति, तत्र सामथ्र्यादन्येषां सङ्घो विज्ञायते। `गावः इमाः` इति। इमा इत्यनुप्रयोगः स्त्रीत्वाभिव्यक्तये। `एतौ गावौ` इति। कथं पुनरिदं प्रत्युदाहरणम्, यावता द्वाभ्यामपि सङ्घो भवत्येव? नैष दोषः, यस्मात् मतं स्यात् सङ्घग्रहणमनर्थकं स्यात्, व्यवच्छेद्याभावात्। `अनेकशफेषु` इत्यादि। अनेकानि शफानि खुरा येषां तेष्वयमेकशेषो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- अन्यतरस्यांग्रहणमिहानुवत्र्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेनानेकशफेष्वेव भवति,नान्यत्रेति॥इति श्रोबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांप्रथमाध्यायस्यद्वितीयः पादः
ग्रामे भवा ग्राम्याः । ऽग्रामाद्यखञौऽ । पुंसः शेषे प्राप्त इति । ऽपुमान् स्त्रियाऽ इत्यनेन । सामर्थ्यादिति । प्रधानस्य संघस्य तारुण्यातारुण्ये न सम्भवत इत्यस्मात्सामर्थ्याद् गुणभूतानामपि पशूनां विशेषणमित्यर्थः । एतौ गावाविति । यद्यपि द्वयोरपि संघो भवत्येव, तथापीह संघग्रहणसामर्थ्यांद्वहूनां संघो गृह्यते, अन्यथा शेषस्यानेकविषयत्वाद् अनर्थकं न स्यात् । अनेकशफेष्विति । शफाः उ खुराः । उष्ट्राणां त्वारण्यत्वादेकशेषाभावः ॥ इति श्रीहरदतदमिश्रविरचितायां पदमञ्जर्यो प्रथमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥
सिद्धान्तकौमुदी
एषु सहविवक्षायां स्त्री शिष्यते । पुमान् स्त्रिया (कौमुदी-933) इत्यस्यापवादः । गाव इमाः । ग्राम्येति किम् । रुरव इमे । पशुग्रहणं किम् । ब्राह्मणाः । सङ्घेषु किम् । एतौ गावौ । अतरुणेषु किम् । वत्सा इमे ॥ ।अनेकशफेष्विति वाच्यम् (वार्तिकम्) ॥ अश्वा इमे । इह सर्वत्रैकशेषे कृतेऽनेकसुबन्ताभावाद् द्वन्द्वो न । तेन शिरसी शिरांसि इत्यादौ समासस्येत्यन्तोदात्तः प्राण्यङ्गत्वादेकवद्भावश्च न । पन्थानौ पन्थान इत्यादौ समासान्तो न ॥। इति एकशेषसमासप्रकरणम्‌ ।
ग्राम्यपशु। एष्विति। तरुणभिन्नेषु ग्राम्याणां पशूनां सङ्घेष्वित्यर्थः। इह अनपुंसकेनेत्यनुवर्तनादाहपुमान्?स्त्रियेत्यस्यापवाद इति। गौश्च गौश्च गौश्चे`ति पुंलिङ्गस्त्रीलिङ्गेषु गोशब्देषु सहविवक्षितेषु `पुमान् स्त्रिये`त्यतद्बाधित्वा स्त्री शिष्यत इति भावः। ननु स्त्रीशेषे पुंशेषे वा न कोऽपि रूपभेद इत्यत आह--इमा इति। अनुप्रयोगे रूपभेदः फलमिति भावः। `त्यदादितः शेषे` इति न भवति, `गाव इमाः` इतिभाष्यप्रयोगादित्याहुः। रुरव इमे इति। रुरुः--कृष्णाख्यो मृगः। अग्राम्यपशुत्वान्न स्त्री शिष्यते। किंतु `पुमान् स्त्रिये`त्येकशेषः। ततश्चानुप्रयोगे `इमे` इति पुंलिङ्गत्वमेव। ब्राआहृणा इमे इति। ब्राआहृणी च ब्राआहृणाश्चेति विग्रहः। अपशुत्वान्न स्त्रीशिष्यते, किन्तु `पुमान् स्त्रिये`त्येकशेषः। अन्यथा `ब्राआहृण्य इमा` इति स्यात्। एतौ गावाविति। स्त्रीलिङ्ग पुंलिङ्गयोः सबोक्तावसङ्घत्वान्न स्त्री शिष्यते। सङ्घशब्दो हि बहूनां समुदाये वर्तते, अन्यथा एकशेषस्यानेकविषयत्वादेवाऽनेकपरिग्रहे सिद्धे किं तेनेति भावः। स्त्रीशेषे तु `एते` इत्यनुप्रयोगे रूपं स्यात्। वत्सा इमे इति। वत्साश्च वत्साश्चेति विग्रहः। तरुणत्वान्न स्त्री शिष्यते। अन्यथा `वत्सा इमा` इत्यनुप्रयोगः स्यात्।
ग्राम्य। ग्रामे भवा गान्याः। `ग्रामाद्यखञौ`इति यः। लिङ्गद्वयेऽपि `गावः`इति रूपस्य समानत्वात्स्त्रीलिङ्गशेषस्य फलमाह---इमा इति। एवं च `इमे च इमाश्च इमाः`इति स्त्रीलिङ्गशेष एव भवति, न त्वत्र `त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानी`ति पुंलिङ्गशेषः, `गाव इमाः`इति भाष्योदाहरणादित्येके। अन्ये तु ग्राम्यपशुसङ्घविषयत्वाऽविशेषात् `गावः`इतिवत् `इमाः`इति च स्त्रीलिङ्गशेष एव स्यादिति नास्ति शङ्कावकाश इत्याहुः। एतौ गावाविति। एकशेथस्याऽनेकविषयत्वादेवाऽनेकपरिग्रहे सिद्धे सङ्गग्रहणसामथ्र्याद्बहूनां समुदायोऽत्र गृह्यत इति भावः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री अयमपि योगः शक्योऽवक्तुम्। कथं- गाव इमाश्चरन्ति, अजा इमाश्चरन्ति? गाव उत्कालितपुंस्का वाहाय च विक्रयाय च। स्त्रिय एवावशिष्यन्ते। इदं तर्हि प्रयोजनम्- ग्राम्येष्विति वक्ष्यामि इति। इह मा भूत्- न्यङ्कव इमे, सूकरा इम इति। कः पुनरर्हत्यग्राम्याणां पुंस उत्कालयितुम्, ये ग्रहीतुमशक्याः। कुत एव वाहाय च विक्रयाय च। इदं तर्हि प्रयोजनम्- पशुष्विति वक्ष्यामि इति। इह मा भूत्- ब्राह्मणा इमे, वृषला इमे। कः पुनरर्हत्यपशूनां पुंस उत्कालयितुं येऽशक्या वाहाय च विक्रयाय च। इदं तर्हि प्रयोजनम्- सङ्घेष्विति वक्ष्यामि इति। इह मा भूत्- एतौ गावौ चरतः। कः पुनरर्हति निर्ज्ञातेऽर्थेऽन्यथा प्रयोक्तुम्। इदं तर्हि प्रयोजनम्- अतरुणेष्विति वक्ष्यामि इति। इह मा भूत्- उरुणका इमे, बर्करा इम इति। कः पुनरर्हति तरुणानां पुंस उत्कालयितुं येऽशक्या वाहाय च विक्रयाय च। - अनेकशफेषु - अनेकशफेष्विति वक्तव्यम्। इह मा भूत्। अश्वाश्चरन्ति, गर्दभाश्चरन्तीति ।। ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री ।। 73 ।। इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य द्वितीये पादे तृतीयमाह्निकम् ।। पादश्च समाप्तः ।।