॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|71
SK 937
1|2|71
श्वशुरः श्वश्र्वा
SK 937
सूत्रच्छेद:
श्वशुरः - प्रथमैकवचनम् , श्वश्र्वा - तृतीयैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Menwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अन्यतरस्याम् इति वर्तते। श्वस्र्वा सहवचने श्वशुरशब्दः शिष्यते अन्यतरस्याम्। श्वशुरश्च श्वश्रूश्च श्वशुरौ, श्वस्रूश्वशुरौ इति वा।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
पितृश्वशुरौ मातृश्वक्षूभ्यामिति नोक्तम्, लाघवार्थम् । श्वश्रूशब्दोऽव्युत्पन्नं प्रातिपदिकं श्वशुरस्योकाराकारलोपश्चेत्यूङ्न्तत्वे प्रत्ययान्तत्वाद् ब्रह्मबन्धूरित्यादिवदेकदेशाभावाच्चाप्रातिपदिकत्वेऽपि श्वश्रेत्यस्मादेव निर्देशाल्लिङ्गात् सुपस्तद्धिताश्च भवन्ति । श्वश्रूश्वशुराविति । अभ्यर्हितत्वादेव पूर्वनिपातः, ऽश्वश्रूः पूर्वजपत्नी च मातृतुल्या प्रकीर्तिताऽ अत्रापि दम्पत्योर्जनयितृत्वमात्रविवक्षायां लिङ्गाविवक्षायां समर्थनीयम् । अनारम्भपक्षेऽपि श्वश्रूश्वशुरावित्यभिधाने द्वन्द्वस्त्विष्यत वेति, नार्थ एतेन ॥
सिद्धान्तकौमुदी
श्वश्वा सहोक्तौ श्वशुरो वा शिष्यते तल्लक्षण एव विशेषश्चेत् । श्वश्रूश्च श्वाशुरश्च श्वाशुरौ । श्वश्रूश्वाशुरौ वा ॥
नन्वस्तु हल्सूत्रे लकारस्य इत्संज्ञा। ततः किमित्यत आह--आदिरन्त्येन सहेता। अन्ते भवः अन्त्यः। तेन इता सहोच्चार्यमाणः आदिः अण्? अच् इत्यादिरूपः संज्ञेत्यर्थः। तत्र `यस्मात्पूर्वं नास्ति परमस्ति स आदिः, यस्मात्परं नास्ति पूर्वमस्ति सोऽन्तः` इति आद्यन्तवत्सूत्रे भाष्यम्। तदिहाद्यन्तशब्दाभ्यां मध्यगा आक्षिप्यन्ते। अतस्तेषां संज्ञेति लभ्यते। `स्वं रूपं`मिति पूर्वसूत्रात्स्वमित्यनुवर्तते। तच्च षष्टयन्ततया विपरिणम्यते। तदेतदाह--अन्त्येनेतेत्यादि। स्वस्य चेति। अत्र च स्वशब्देन संज्ञाकोटि प्रविष्ट आदिरेव परामृश्यते, नत्वन्त्योऽपि, अन्त्येनेति तृतीयया `सहयुक्तेऽप्रधाने` इति विहितया तस्य अप्राधान्यावगमात्, सर्वनाम्नां चोत्सर्गतः प्रधानपरामर्शित्वात्। न च इक्? उक् इच् यय् मयित्यादिप्रत्याहाराः कथं स्युः, इकारादीनामादित्वाऽभावादिति वाच्यं, न हि सूत्रापेक्षमिहादित्वं किंतु आद्यन्तशब्दाक्षिप्तसमुदायापेक्षम्। ततश्च ऐउणिति इकारमारभ्य ॠलृगिति ककारपर्यन्तं वर्णसमुदायं बुद्ध्या परिकल्प्य तदादित्वमिकारस्य संभावनीयम्। एवमिजादिष्वपि। तथा अन्त्यत्मपि बुद्धिकल्पितसमुदायापेक्षमेव न तु सूत्रापेक्षम्। ततश्च रप्रत्याहारः सुग्रहः। अन्यथा लण्सूत्रे अकारस्याऽन्त्यात्वाभावात्स न स्यात्। अत्र आद्यन्तशब्दयोरन्यतराऽभावे मध्यगानामिति न लभ्येत। आदिरित्यस्याऽभावे हि अन्त्येनेता सहोच्चार्यमाणो वर्णोऽन्त्यात्प्राग्भाविनां वर्णानां संज्ञेत्येव लभ्येत। ततश्च हल्प्रत्याहारे अकारादीनामपि ग्रहणं स्यात्, अन्त्यलकारात्पूर्वभावित्वाविशेषात्। अन्त्येनेत्यस्याऽभावे तु आदिरिता सहोच्चार्यमाण आदिरूर्ध्वभाविनां वर्णानां संज्ञेत्येव लभ्येत। ततश्च अच्प्रत्याहारे हकारादीनामपि ग्रहणापत्तिः, आदेरकारादूर्ध्वभावित्वाऽविशेषात्। उभयोरुपादाने तु मध्यगानामिति लभ्यते इत्यदोषः। परस्मिन् सति यस्मात्पूर्वो नास्ति स आदिः, पूर्वस्मिन् सति यस्मात्परो नास्ति सोऽन्त्य इति भाष्ये आद्यन्तशब्दार्थनिर्वचनेन आद्यन्तयोर्मध्यगाऽविनाभूतत्वेन ताभ्यां मध्यगानामाक्षेपात्। यद्यपि द्वयोरप्याद्यन्तशब्दौ संभवतः, उक्तनिर्वचनाऽविरोधात्, तथापि नेह द्वयोराद्यन्तशब्दौ भवतः। तथा सति हि अन्त्येनेता सह उच्चार्यमाण आदिः स्वस्य आदेः संज्ञेत्येव लभ्येत, उक्तरीत्या स्वशब्देन अन्त्यस्य परामर्शाऽसंभवात्। ततश्च उणित्युकारस्य संज्ञेति पर्यवस्येत्। तत्र एकस्य वर्णस्य वर्णद्वयात्मकसंज्ञाविधानं व्यर्थमापद्येत, गौरवात्, प्रत्याहाराणां व्यवहारलाघवार्थत्वात्। अतो मध्यमसत्त्व एवाऽत्र आद्यन्तशब्दाविति ताभ्यां मध्यगानामिति लभ्यते। इतेति किम् ?। अम्?प्रत्याहारो ञमङणेति मकारेण मा भूत्। नचैवमपि सुट्?प्रत्याहारः `टा` इति टकारेण किं न स्यात्, टान्तसमुदायापेक्षया तस्य अन्त्यत्वादिति वाच्यम्। प्रथमातिक्रमणे कारणाऽभावेन सुट्?प्रत्याहारस्य औटष्टकारेणैव ग्राह्यत्वात्। उक्तं च जैमिनिना --`प्रथमं वा नियम्येत कारणस्यानतिक्रमात्।` इति। विस्तरभयाद्विरम्यते। इति हल्संज्ञायामिति। हल्सूत्रे लकारस्य हलन्त्यमित्यावृत्तप्रथमसूत्रेण इत्संज्ञायां सत्यामादिरन्त्येनेति हल्संज्ञासिद्धौ चतुर्दशसूत्र्यामन्त्यणकारादिवर्णानां हल्त्वं सिद्धमित्यर्थः।
अन्त्येनेति किम्?। `सु`डिति प्रत्याहारस्तृतीयैकवचनावयवेन भूदिति काशिकाकृत्। यद्यपि टकारान्तसङ्घस्य टाटकारोऽप्यन्त्यो भवति, तथाप्यन्त्येनेति ग्रहणसामर्थ्यादन्त्यत्वप्रयुक्ता यस्येत्संज्ञा तेनैव प्रत्याहारः, न हि टाटकारे `हलन्त्यम्` इतीसंज्ञा प्रवर्तते। नचैवं `र`प्रत्याहाराऽसिद्धिः। लण्सूत्रस्थाऽवर्णस्यानुनासिकत्वप्रतिज्ञासामर्थ्यादनन्त्येनापि इता प्रत्याहारात्तत्सिध्यतीति काशिकाकाशशयः। निष्कर्षस्त्विह-`स्वौजसमौट्-` इति सूत्रे दर्शयिष्यते। विस्तरस्तु शब्दकौस्तुभेऽनुसन्धेयः। इतेति किम् ?। रप्रत्याहारो यथा स्यात्। स ह्यनुनासिकत्वप्रतिज्ञासामर्थ्यादनन्त्येनापि गृह्यत इत्युक्तम्, न चैतदितेत्यस्य विरहे लभ्यत इति शब्दकौस्तुभे स्थितम्। अत्राद्यन्ताभ्यामवयबाभ्यामवयवी समुदाय आक्षिप्यते। तस्य च युगपल्लक्ष्ये प्रयोगाऽभावात्तदवयवेष्वलवतरन्ती संज्ञा मध्यगेषु विश्राम्यति, नत्वाद्यन्तयोः, संज्ञास्वरूपान्तर्भावेण तयोः पारार्थ्यनिर्णयादित्याशयेनाह-मध्यगानामिति। स्वस्य चेति। `स्वं रूपम्` इत्यनुवर्तत इति भावः। स्वं रूपां चादेरेव गृह्यते नान्त्यस्य, `अन्त्येन` इत्यप्रधानतृतीयानिर्देशात्। सर्वनाम्नामुत्सर्गतः प्रधानपरामर्शित्वात्। ननु `स्व`मित्यस्यानुवृत्तौ `कः संज्ञी` इत्याकाङ्क्षायाः शान्तत्वादवयव्याक्षेपो न स्यात्। तथा च `इकोयणचि` इत्यादाविकारस्य स्थाने यकारः स्यादकारे परे इत्येवमर्थः स्यात्। मैवम्। आदेरेव संज्ञित्वे तु `आदिरन्त्येन` इति संज्ञाकरणस्यैव वैयर्थ्यापत्तैः। किंच अण्?-अक्-अच्-अट्-अम्-अशादीनां पृथङ्निर्देशोऽपि व्यर्थः स्यात्, सर्वत्राऽकारस्यैव संज्ञित्वादिति दिक्। शब्दकोस्तुभे तु-आद्यन्तावयवद्वारा समुदायानुकरणेन सिद्धेऽन्त्यव्यावृत्त्यर्थमिदं सूत्रमिति स्थितम्॥
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
श्वशुरः श्वश्र्वा ।। सूत्रप्रयोजनाधिकरणम् ।। किमर्थमिदमुच्यते। न पुमान्स्त्रिया 1|2|67 इत्येव सिद्धम्? - भ्रातृपुत्रपितृश्वशुराणां कारणाद् द्रव्ये शब्दनिवेशः - भ्रातृपुत्रपितृश्वशुराणां कारणाद् द्रव्ये शब्दनिवेशो भवति। - भ्रातृपुत्रपितृश्वशुराणां कारणाद् द्रव्ये शब्दनिवेश इति चेत्तुल्यकारणत्वात्सिद्धम् - यदि तावद्विभर्तीति भ्राता, स्वसर्यप्येतद्भवति। तथा- यदि पुनातीति प्रीणातीति वा पुत्रः, दुहितर्यप्येतद्भवति। तथा यदि पाति पालयतीति वा पिता, मातर्यप्येतद्भवति। तथा यद्याश्वाप्तव्यः श्वशुरः, श्वश्र्वामप्येतद्भवति। - दर्शनं वै हेतुः - नहि स्वसरि भ्रातृशब्दो दृश्यते। - दर्शनं हेतुरिति चेत्तुल्यम् - दर्शनं हेतुरिति चेत्तुल्यमेतद्भवति। स्वसर्यपि भ्रातृशब्दो दृश्यताम्। तुल्यं हि कारणम्। - न वा एष लोके सम्प्रत्ययः - नहि लोके भ्राताऽऽनीयताम् इत्युक्ते स्वसाऽऽनीयते। - तद्विषयं च - तद्विषयं चैतद् द्रष्टव्यं भवति- स्वसरि भ्रातृत्वम्। किंविषयम्? एकशेषविषयम्। युक्तं पुनर्यन्नियतविषया नाम शब्दाः स्युः? बाढं युक्तम्। - अन्यत्रापि तद्विषयदर्शनात् - अन्यत्रापि नियतविषयाः शब्दा दृश्यन्ते। तद्यथा- समाने रक्ते वर्णे गौर्लोहित इति भवति अश्वः शोणः इति। समाने च काले वर्णे गौः कृष्ण इति भवति अश्वो हेम इति। समाने च शुक्ले वर्णे गौः श्वेत इति भवति अश्वः कर्क इति ।। भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ।। पिता मात्रा ।। 70 ।। श्वशुरः श्वश्र्वा ।। 71 ।।