Page loading... Please wait.
1|2|7 - मृडमृदगुधकुषक्लिशवदवसः क्त्वा
॥ तस्मै पाणिनये नमः ॥
1|2|7
SK 3323
मृडमृदगुधकुषक्लिशवदवसः क्त्वा   🔊
सूत्रच्छेदः
मृड-मृद-गुध-कुष-क्लिश-वद-वसः (पञ्चम्येकवचनम्) , क्त्वा (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
"मृड", "मृद", "गुध", "कुष", "क्लिश", "वद", "वस" - इत्येतेभ्यः परः क्त्वा-प्रत्ययः किद् भवति । न क्त्वा सेट् 1|2|18 इति कित्वप्रतिषेधं वक्ष्यति, तस्यायं पुरस्ताद् अपकर्षः । गुधकुषक्लिशीनां तु रलो व्युपधाद्धलादेः संश्च 1|2|26 इति विकल्पे प्राप्ते नित्यार्थं वचनम् । मृडित्वा ; मृदित्वा ; गुधित्वा ; कुषित्वा ; क्लिशित्वा ; उदित्वा ; उषित्वा ॥
`मुड सुखने`, (धातुपाठः-1516) `मृद क्षोदे` (धातुपाठः-1515) , `गुध रोषे ` (धातुपाठः-1517) , `कुष निष्कर्षे` (धातुपाठः-1518) `क्लिशू विबाधने` (धातुपाठः-1522), `वद व्यक्तायां वाचि` (धातुपाठः- 1009), `वस निवासे` (धातुपाठः-1942)। `न क्त्वा सेट् इति कित्त्वप्रतिषेधं वक्ष्यति` इति। नन्वेदतदेव नियमार्थं भविष्यतीति--- मृडादिभ्य एव सेट् क्त्वा किद् भवति, नान्येभ्य इति, ततश्च सिद्धं देवित्वा, सेवित्वेत्यादि, तत् किमर्थं `न क्त्वा सेट्` 1|2|18 इति प्रतिषेधं वक्ष्यतिर? विस्पष्टार्थम्; अन्यथा हि केचिद्विपरीतनियमं सम्भावयेयुः-- मृडादिभ्यः क्त्वाप्रत्यय एव किद् भवति, नान्य इति। `पुरस्तादपकर्षः` इत्यादि। अपकर्ष इत्यपवाद इत्यर्थः। `क्लिशित्वा` इति। `क्लिशः क्त्वानिष्ठयोः` 7|2|50 इतीट्। `उदित्वा`इति, `उषित्वा` इति। वच्यादिसूत्रेण 6|1|15 संप्रसारणम्। वसतेः `शासिवसिधसीनाञ्च` 8|3|60 इति षत्वम्, `वसतिक्षुधोः` 7|2|52 इतीट्।
ऽक्लिश हिंसायाम्ऽ, अनुदातेद्, दिवादिरकर्मकः; ऽक्लिशू विबाधनेऽ र्क्यादिः सकर्मकः, परस्मैपदी-द्व्योरपि ग्रहणम् । किमर्थं पुनरिदम्, तावता किदेव हि क्त्वा ? तत्राह--न क्त्वा सेडित्यादि । अपकर्षः उ अपवादः नन्विदमेव नियमार्थं भविष्यति-ऽमृडादिभ्य एव क्त्वा किद्भवति नान्येभ्यःऽ इति नार्थः ऽन क्त्वा सेट्ऽ इत्यनेन; कथं लूत्वा पूत्वा-तुल्यजातीयस्य सेटो नियमः ? ननु ऽक्लिशः क्त्वानिष्ठयोःऽ इति विकल्पेनेड्विधानादनिट् क्त्वा सम्भवति ? एवं तर्हि मृडमृदवदवसां कित्वाविधानं नियमार्थम्, इतरेषां तु ऽरलो व्यपधात्ऽ इति विकल्पबाधेन विधिसम्भवान्नियमो न भविष्यति । एवमपि विपरीतोऽपि नियमः स्याद्--मृडादिभ्यः क्त्वैव किदिति । उदित्वा, उषित्वेति । यजादित्वात्सम्प्रसारणम् ऽशासिवसिघसीनां चऽ इति षत्वम्, ऽवसतिक्षुधोरिट्ऽ ॥
सिद्धान्तकौमुदी
एभ्यः सेट् क्त्वा कित् । मृडित्वा ।क्लिशः क्त्वा (कौमुदी-3049) इति वेट् । क्लिशित्वा । क्लिष्टा । उदित्वा । उषित्वा । रुदविद-(कौमुदी-2609) इति कित्वम् । रुदित्वा । विदित्वा । मुषित्वा । गृहीत्वा ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
मृडमृदगुधकुषक्लिशवदवसः क्त्वा - मृडमृद । मृड सुखने, मृद क्षोदे, गुध परिवेष्टने, गुध रोषे च, कुष निष्कर्षे, क्लिश हिंसायां — दिवादिः, क्लिशू विबाधने — - क्र्यादिः, वद व्यक्तायां वाचि, वस निवासे । किदिति ।असंयोगाल्लिट् कि॑दित्यतः किदित्यनुवर्तत इति भावः । उदित्वेति । यजादित्वात्संप्रसारणम् । उषित्वेति ।वसतिक्षुधो॑रितीट् । यजादित्वात्संप्रसारणम् ।शासिवसी॑ति षः । गृहीत्वेति ।ग्रहिज्ये॑ति संप्रसारणम्,ग्रहोऽलिटी॑ति इटो दीर्घः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
मृडमृदगुधकुषक्लिशवदवसः क्त्वा किमर्थं मृडादिभ्यः परस्य क्त्वः कित्त्वमुच्यते, न किदेव हि क्त्वा? न क्त्वा सेट् 1|2|18 इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम्। यदि तर्हि मृडादिभ्यः परस्य क्त्वः कित्त्वमुच्यते नार्थो न क्त्वा सेट् इत्यनेन कित्त्वप्रतिषेधेन। इदं नियमार्थं भविष्यति- मृडादिभ्य एव परस्य क्त्वः कित्त्वं भवति नान्येभ्य इति। यदि नियमः क्रियते, इहापि तर्हि नियमान्न प्राप्नोति- लूत्वा पूत्वा। अत्राप्यकित्त्वं प्राप्नोति। तुल्यजातीयस्य नियमः। कश्च तुल्यजातीयः? यथाजातीयको मृडादिभ्यः परः क्त्वा। कथं जातीयकश्च मृडादिभ्यः परः क्त्वा? सेट्। एवमप्यस्त्यत्र कश्चिद्विभाषितेट् सोऽनिटां नियामकः स्यात्। अस्तु तावद्ये सेटस्तेषां ग्रहणं नियमार्थम्। य इदानीं विभाषितेट् तस्य ग्रहणं विध्यर्थं भविष्यति। रुदविदमुषग्रहिस्वपिप्रच्छ्योः सन्नर्थं ग्रहणम्। किदेव हि क्त्वा ।। मृडमृदगुधकुषक्लिशवदवसः क्त्वा ।। 7 ।।