॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|67
SK 933
1|2|67
पुमान् स्त्रिया
SK 933
सूत्रच्छेद:
पुमान् - प्रथमैकवचनम् , स्त्रिया - तृतीयैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
तल्लक्षणश्चेदेव विशेषः इति वर्तते। वृद्धो यून इति निवृत्तम्। स्त्रिया सहवचने पुमान् शिष्यते स्त्री निवर्तते। स्त्रीपुंसलक्षणश्चेदेव विशेषो भवति। ब्राह्मणश्च मयूरी च कुक्कुटमयूर्यौ। एवकरः किमर्थः। इन्द्रश्च इन्द्राणी च इन्द्रेन्द्राण्यौ। पुंयोगादाख्यायाम् 4|1|48 इत्यपरो विशेषः। पुमानिति किम्? प्राक् च प्राचि च प्राक्प्राच्यौ। प्राकित्यवययम् अलिङ्गम्।
`स्त्रीपुंसलक्षणश्चेदेव विशेषः` इति। यद्येवम्, इह न स्यात्-- गौश्चायं गौश्चेयमित्येतौ गावौ तिष्ठत इति, न ह्रत्र स्त्रीपुंसकृतः कश्चिद्विशेषोऽस्ति? मा भूदनेन , `सरूपाणाम्` 1|2|64 इत्यादिना भविष्यति? नैतदस्ति; यदि हि तेन स्यात् स्त्रीशब्दस्याप्येकशेषः प्रसज्येत। ततश्च स्त्रीलिङ्गतापि स्यात् लिङ्गमशिष्यं लोकाश्रयत्वात्। स्त्रीलिङ्गस्यैकशेषे कृते पुंसत्वं विवक्षितव्यमित्यदोषः।अथ वा, पुमानिति योगविभागः क्रियते। तेनेहाप्यसत्यपि स्त्रीपुंसकृते विशेषे पुंस एवैकशेषो भवति। न चैवं सत्यतिप्रसङगो भवति; योगविभागादिष्टसिद्धेरिति। `ब्राआहृणी, कुक्कुटी, मयूरी` इति। `जातेरस्त्रीवषयादयोपघात्` 4|1|63 इति ङीष्। `कुक्कुटमयूर्यौ` इति। अत्र न केवलं स्त्रीपुंसकृतो विशेषः,किं तर्हि? आकृतिश्रुतिकृतोऽपि। `इन्द्राणी` इति। `इन्द्रवरुण` 4|1|49 इत्यादिना ङीष्, आनुगागमश्च। `प्राक् च प्राची` इति। प्राञ्चीति प्रपूर्वादञ्चतेः `ऋत्विक्` 3|2|59 इत्यादिना क्विन्, `क्विन्प्रत्ययस्य कुः` 8|2|62 इति कुत्वम्। क्विनन्तात् `दिक्छब्देभ्यः` 5|3|27 इत्यादिनाऽस्तातिप्रत्ययः। तस्य `अञ्चेर्लुक्` 5|3|3 ) इति लुक्। `प्राची` इति। प्राक्छब्दात् `उगितश्च` 4|1|6 इत्यत्राञ्चतेश्चोपसंख्यानान्ङीप्। `प्रागित्यव्ययम्` इति। `तद्धितश्चासर्वविभक्तिः` 1|1|37 इत्यव्ययत्वम्॥
स्त्रीपुंसलक्षणश्चेदेव विशेष इति । पदान्तरगम्येऽपि तल्लक्षणे विशेषे भवति, यथा-गौश्चायं गौश्चेयमिति एतौ गावौ चरत इति । एवं कन्याखुकृकवाकुग्रामणीखलपूप्रभुतिषु पुंसः शेषो वेदितव्यः । इह कस्मान्न भवति-हंसश्च वरटा च कच्छपश्च डुलिष्वरुश्यश्च रोहिच्च अश्वश्च वडवा च पुरुषश्च योषिंच्चेति, सर्वत्राप्यत्र स्त्रीपुंसकृत एव विशेषः ? ऽसरूपाणाम्ऽ इति वर्तते, तेन समानायां प्रकृतौ यत्र स्त्रीपुंसकृत एव विशेषस्तत्रैव भवति । इह तु ब्राह्मणवत्सश्च ब्राह्मणीवत्सा चेत्यत्र प्राप्नोति, नैष दोषःऽ स्त्रीपुंसयोः सहविवक्षायामेकशेषः । सा च प्रधानयोरेव भवतीति यत्र प्रधानस्त्रीपुंसकृत एव विशेषस्तत्रैवैकशेषः, इह त्वप्रधानकृतोऽपीत्येकशेषाभावः । इहापि मृगक्षीरादिवज्जातिविवक्षायां कुक्कुटावित्यादि सिद्धम् । द्वन्द्वनिवृत्यर्थन्तु वचनम् । प्रागित्यव्ययमिति । प्रपूर्वादञ्चतेः क्विन्नन्तादस्तातेः ऽअञ्चेर्लुक्ऽ इति लुकि ऽतद्धितश्चासर्वविभक्तिःऽ इत्यव्ययत्वं सत्वासत्वयोर्द्वन्द्वैकशेषौ चिन्त्यौ ॥
सिद्धान्तकौमुदी
स्त्रिया सहोक्तौ पुमान् शिष्यते तल्लक्षण एव विशेषश्चेत् । हंसी च हंसश्च हंसौ ॥
पुमान्स्त्रिया। तल्लक्षण एवेति। `वृद्धो यूने`त्यतस्तदनुवृत्तेरिति भावः। हंसी चेति। अत्र पुंस्त्वस्त्रीत्वमात्रकृतवैरूप्यात् पुंलिङ्गो हंसशब्दः शिष्यते। स्त्रीत्वपुंस्त्वकृतवैरूप्यादेव `सरूपाणामि`त्यस्याऽप्राप्तिः। मातृमातरावित्यत्र जननीवाचकपरिच्छेत्तृवाचकमातृशब्दयोस्तु नायमेकशेषः, एकविभक्तो सरूपाणामित्यनुवर्त्य एकविभक्तौ सरूपाणां स्त्रीत्वपुंस्त्वेतरकृतवैरूप्यरहितानामित्याश्रयणात्। इह च मातरावित्यत्र `अप्तृ`न्निति दीर्घतदभावाभ्यामपि वैरूप्यात्।अत एव हंसश्च वरटा चेत्यत्रापि नेत्यलम्।
पुमान्स्त्रिया। `वृद्धो यूने`ति निवृत्तम्, `सरूपाणा`मिति त्वनुवर्तते, `भ्रातृपुत्रौ`इत्युत्तरसूत्रारम्भात्। तेन `हंसश्च वरटा चे`त्यत्र न भवति। अन्यथा स्यादेवाऽतिप्रसङ्गः। हंसत्वजातिसाम्येन शब्दवैलक्षण्यस्य स्त्रीत्रपुंस्त्वमात्रप्रयुक्तत्वात्। स्यादेतत्---गौरियं, गौश्चायं, तयोः सहोक्तौ `एतौ गावौ`इति नियमतो न स्यात्, तल्लक्षणविशेषाऽभावात्। किं तु स्त्रीवाचकस्य पुंवाचकस्य वा `सरूपाणा`मित्येकशेषोऽनियमेन स्यात्। अत्राहुः---तदितरकृतविशेषाऽभावे तात्पर्यान्न दोष इति। `इन्द्रेन्द्राण्यौ`इत्यादौ त्वेकशेषो न भवति, स्त्रीत्वपुंस्त्वेतरपुंयोगकृतविशेषस्य सद्भावात्। स्यादेतत्`----`एतौ गावौ`इति नियमतो न स्या`दिति मनोरमादौ यदुक्तं, तत्कथं सङ्गच्छताम्?। `त्यदादितः शेषे पुंनपुंसकतः`इति नियमप्रवृत्त्या स्त्रीवाचिनो गोशब्दस्य शेषेऽपि `एतौ गावौ`इति नियमतः प्रयोगः ध्यत्वेवेति चेत्। अत्र केचित्----दिक्प्रदर्शनमात्रमिदम्। `नीलौ गावौ`इति `सुन्दरौ गावौ`इति नियमतो न स्यादित्युदाहर्तव्यम्। अथवा एतशब्दोऽत्राऽदन्तः कर्बुरवाची। एतश्च एता च एतौ गावौ, कर्बुरौ गावौ। `सरुपाणा---`मित्यनेन स्त्रीलिङ्गशेषे तु `एत#ए गावौ`इत्यपि स्यादिति यथाश्रुतमेव समर्थनीयमित्याहुः। तदपरे न क्षमन्ते। `त्यदादितः शेषे`इति नियमाऽऽप्रवृत्तावपि `पुमान्स्त्रिया`इति नियमप्रवृत्त्या `नीलौ गावौ` `एतौ गावौ`इति नियमतः सिद्ध्यत्येवेति। अत्र वदन्ति---`अद्वन्द्वतत्पुरुषविशेषणाना`मित्येतन्न्यायसिद्धमेव वचनम्। `विशेष्ये यल्लिङ्गं तदेव विशेषणेष्वपी`ति सर्वसंमतत्वात्, एवं च द्वन्द्वतत्पुरुषविशेषणेष्विव एकशेषविशेषणेऽपि `एतौ`इत्यत्र `त्यदादितः शेषे`इत्यादिनियमाऽप्रवृत्त्या विशेष्यगतमेव लिङ्गं भवतीति स्त्रीवाचिगोशब्दस्य शेषे `एते`इति स्यादेवेति `एतौ गावौ`इति नियमतो न स्यादित्यक्षेपः सङ्गच्छत एवेति दिक्।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
पुमान् स्त्रिया ।। अनिष्टवारणाधिकरणम् ।। इह कस्मान्न भवति- हंसश्च वरटा च, कच्छपश्च दुली च, ऋश्यश्च रोहित् च इति? तल्लक्षणश्चेदेव विशेष इत्युच्यते। न चाऽत्र तल्लक्षण एव विशेषः। तल्लक्षण एव विशेषो यत्समानायामाकृतौ शब्दभेदः ।। पुमान् स्त्रिया ।। 67 ।।