स्त्र्यर्थस्य वैरूप्यकारणस्याधिक्यात् पूर्वेण न सिध्यतीति वचनम्। `पुंवच्च` इति वचनादतदेशोऽयम्। `स्त्री` इति। स्त्रीप्रत्ययग्रहणं वेदं स्यात्? स्त्र्यर्थवृत्तिशब्दस्य वा ग्रहणम्? अर्थग्रहणं वा? यदि स्त्रीप्रत्ययस्य ग्रहणं स्यात्, ततोऽनेन तस्यैव निवृत्तिः क्रियते-- पुंवत् स्त्रीप्रत्ययो भवतीति; न तु स्त्र्यर्थस्य निवृत्तिः क्रियते; ततो गाग्र्यश्च गाग्र्यायणश्चेति गर्गा इत्यत्र `अस्त्रियाम`
2|4|62 इत्यनुवत्र्तमाने `यञञोश्च`
2|4|64 इति लुङन स्यात्; इह तु गर्गान् पश्यतीति `तस्माच्छसो नः पुंसि`
6|1|99 इति नत्वं न स्यात्। द्वितीये तु पक्षे स्त्र्यर्थवृत्तेः शब्दस्यानेन पुंवद्भावः क्रियते, न तु स्त्रीत्वस्य निवृत्तिः; तथापि स एव दोषः स्यात्। अर्थगर्हणे तु न कश्चिद्दोष इत्यतः स्त्र्यर्थस्येदं ग्रहणमिति मत्वाऽऽह-- `स्त्र्यर्थः पुंवद्भवति` इति। कथं पुनरर्थस्येदं ग्रहणं लभ्यते? उच्यते; स्त्रीप्रत्ययानां तु तस्याभिधेयपातन्त्र्यात्। अर्थस्याप्राधान्यमपारतन्त्रयात्। प्रधानगुणन भवति; अप्राधान्यात्। अप्रधान्यं तु तस्याभिधेयपारतन्त्र्यात्। अर्थस्याप्राधान्यमपारतन्त्र्यात्। प्रधानगुणसन्निपाते तु प्रधानस्य ग्रहणं न्याय्यम् अतः स्त्र्यर्थं एव गृह्रते। `गार्गी, वात्सी च` इति। गाग्र्यवात्स्यशब्दाभ्यां `यञश्च`
4|1|16 इति ङीप्,पूर्ववदकारयकारलोपो। `दाक्षी` इति। पूर्ववन्ङीप्। `दाक्षायणश्च` इति। दाक्षेरपत्यमिति `यञिञोश्च`
4|1|101 इति फक्॥