॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|55
SK 1297
1|2|55
योगप्रमाणे च तदभावेऽदर्शनं स्यात्
SK 1297
सूत्रच्छेद:
योगप्रमाणे - सप्तम्येकवचनम् , च - अव्ययम् , तदभावे - सप्तम्येकवचनम् , अदर्शनम् - प्रथमैकवचनम् , स्यात् (तिङन्तपदम्)
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Menwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
पञ्चालाऽदयः संज्ञाशब्दाः, न योगनिमित्ताः इत्युक्तम्। तच्चावश्यम् एव अभ्युपगन्तव्यम्। योगप्रमाणे हि तदभावे ऽदर्शनं स्यात्। यदि पञ्चालादिशब्दो योगस्य प्रमाणं योगस्य वाचकः स्यात् ततस् तदभावे ऽदर्शनम् अप्रयोगः स्यात्। दृश्यते च सम्प्रति वनैव क्षत्रियसम्बन्धेन जनपदेषु पञ्चालादिशब्दाः, ततो ऽवसीयते नायं योगनिमित्तकः। किं तर्हि? रूढिरूपेणैव तत्र प्रवृत्तः इति।
`योगप्रमाणे` इति। योगस्य प्रमाणं योगप्रमाणम्, येन योगः प्रत्याय्यते। तत् पुनरिह प्रकृतत्वात् पञ्चालादिशब्दः। स हि परमतेन पञ्चालादिसम्बन्धं स्वप्रवृत्तिनिमित्तमभिधायैव जनपदादौ वत्र्तते, नानभिधाय। तेन योगस्य प्रमाणं प्रत्यायको वाचक इत्यर्थः। `तदभावेऽदर्शनं स्यात्` इति। यो हि योगनिमित्तकः स योगाभावे न प्रयुज्यते, दणडआदिशब्दवदित्यभिप्रायः। `योगप्रमाणे हि` इत्यादि। हिशब्दं हेत्वर्थं प्रयुञ्जानश्चशब्दो हेत्वर्थवृत्तिः सूत्रे उपात्त इति दर्शयति। स्यादेतत्, भवत्येव योगाभावे पञ्चालादिशब्दस्यादर्शनमित्यत आह-- `दृश्यते च` इत्यादि। गतार्थम्।
पञ्चालादय इत्यादि । पूर्वयोगस्याप्रतिभास उक्तः, यस्तु तमपजानीते तं प्रत्यनेनानिष्टमापद्यत इति दर्शयति-योगप्रमाणे हीति । ऽहिऽ शब्दो हेत्वर्थे प्रयुञ्जानः सूत्रे ऽचऽ शब्दो हेतौ प्रयुक्त इति दर्शयति । एतदेव व्याचष्टे-यदीति, अदर्शनमयोगः चस्यादिति । दर्शनं ज्ञानं तच्च प्रयोगस्योच्चारणस्य फलम्, अतः फलाभावेन हेत्वभावो विवक्षित इत्याचष्टे । योगनिमितको हि योगाभावेन प्रदर्शनं युज्यते, यथा-दण्डीशब्द इति भावः । ननु भूतपूर्वमपि निमितं भवति, ततश्च सम्प्रति वरणादियोगाभावेऽपि भूतपूर्वः स एव निमितं भविष्यति, नैतदेवम्; भूतपूर्वनिमितो हि व्यपदेशो गौणः स्याद्, न चायं गौणः; पदान्तरस्य प्रयोगमन्तरेणाऽपि प्रतीयमानत्वात् । किञ्च यौगिकत्वे पुरुषान्तरसंबंधनिबंधनोऽपि व्यपदेशः कस्मान्न प्रवर्तते ? विपर्ययो वा कस्मान्न भवति ? देशसम्बन्धाद्राजसु पञ्चालशब्द इत्यतोऽक्षादिशब्दवदनेकार्थ एवायं पञ्चालादिशब्दः ॥
सिद्धान्तकौमुदी
यदि हि योगस्यावयवार्थस्येदं बोधकं स्यात्तदा तदभावे न दृश्येत ॥
प्रत्ययस्वीकारे बाधकमाह--योगप्रमाणे च। पञ्चालाऽङ्गवङ्गादिशब्देषु योगस्य=अवयवार्थस्य प्रमापकत्वे सति तदभावे=पञ्चालाङ्गादिक्षत्रियसम्बन्धाऽभावे संप्रति शूद्रादिराजके जनपदे पञ्चालादिशब्दो न प्रयुज्यते, प्रयुज्यते च यतः, अतः पञ्चालादिशब्दा जनपदविशेषेषु केवरूढा इति युक्तमित्यर्थः। तदाह-यदि हि योगस्येति।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!