॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|52
SK 1300
1|2|52
विशेषणानां चाजातेः
SK 1300
सूत्रच्छेद:
विशेषणानाम् - षष्ठीबहुवचनम् , च - अव्ययम् , आ - अव्ययम् , जातेः - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Menwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
लुपि इति वर्तते। लुबर्थस्य यानि विशेषणानि तेषाम् अपि च युक्तवद् व्यक्तिवचने भवतः जातिं वर्जयित्वा। पञ्चालाः रमणीयाः, बह्वन्नाः, बहुक्षीरघृताः, बहुमाल्यफलाः। गोदौ रमणीयौ, बह्वन्नौ, बहुक्षीरघृतौ, बहुमाल्यफलौ। अजातेः इति किम्? पञ्चालाः जनपदः। गोदौ ग्रामः। जात्यर्थस्य चायं युक्तवद्भावप्रतिषेधः। तेन जातिद्वारेण यानि विशेषणानि तेषाम् अपि युक्तवद्भावो न भवति। पञ्चालाः जनपदो रमणीयो, बह्वन्नः। गोदौ ग्रामो रमणीयो, बह्वन्नः इति। मनुष्यलुपि प्रतिषेधो वक्तव्यः। चञ्चा अभिरूपः। वर्ध्रिका दर्शनीयं।
पूर्वं प्रकृत्यर्थगतयोर्लिङ्गसंख्ययोर्लुबर्थेऽतिधेशात् तद्विशेषणानामपि रमणीयादीनां व्यक्तिवचनातिदेशः सिद्ध एव। यद्यपि भिन्नं विशेषणानां प्रवृत्तिनिमित्तम्; तथापि तेन भिन्नेनापि तत्र प्रवत्र्तमानानां स एव लुबर्थोऽतिदिष्टव्यक्तिवचनस्तेषामभिधेयः, तस्मात् तद्गतेनैव लिङ्गसंख्याभिधाने सिद्धे जातिप्रतिषेधार्थमिदं वचनम्। `गोदौरमणीयौ` इति। गोदौ नाम ह्यदौ, तयोरदूरभवो ग्राम इत्यर्थेऽण्। `वरणादिभ्यश्च` 4|2|81 इति लुप् तस्य।`पञ्चालाः जनपदः`। `गोदौ ग्रामः `इति। जनपदग्रामशब्दौ जातिवचनौ। ताभ्यां जातिनिमत्ताभ्यां स एव लुबर्थो जातिरूपेणोच्यत इति तयोरपि व्यक्तवचने युक्तवत् स्याताम्। ततो `जातेः` इति प्रतिषेधः।`जात्यर्थस्य` इत्यादि। जातिशब्दस्यार्थो जात्यर्थः, तस्यायम् `अजातेः` इति युक्तवद्भावप्रतिषेधः, न जातिशब्दस्यैवेत्यर्थः। किमेव सति सिद्धं भवतीत्यत आह- `तेन` इत्यादि। अर्थस्य युक्तवद्भावप्रतिषेधे सति यथा जातिशब्दस्य तत्रार्थे वत्र्तमानस्य तदीये लिङ्गसंख्ये न भवतः, तथा तद्विशेषणानामपि युक्तवद्भावो न बह्वन्न इत्यादौ न स्यात्, रमणीयादीनामजातिशब्दत्वात्। द्वारग्रहणं लुबर्थे जातिशब्द्स्य प्रवृत्तत्वात्, लुबर्थे जातिविशेषणानां साक्षादप्रवृत्तेः। तानि हि साक्षाज्जातिमेव विशेषयन्ति। तस्यां तु विशेषितायां लुबर्थोऽपि विशिष्ट एव प्रतीयत इति जातिद्वारेण तस्य तानि विशेषणानि भवन्ति। `मनुष्यलुपि` इति। मनुष्यलक्षणो यो लुप् तस्य विशेषणानां युक्तवद्भावप्रतिषेध इति। स च विभाषाग्रहणानुवृत्तेव्र्यवस्थितविभाषाविज्ञानाल्लभ्यते। `चञ्चाभिरूपः` इति। चञ्चेव मनुष्यश्चञ्चा-- `इवे प्रतिकृतौ` 5|3|96 इति कन्। तस्य `लुम् मनुष्ये` 5|3|98 इति लुप्। `अभिरूपः` इति विशेषणस्याभिधेयवल्लिङ्गवचनानि भवन्ति। `वर्ध्रिका` इति। पूर्ववत् कँल्लुपौ॥
पूर्वं प्रकृत्यर्थगतयोर्लिङ्गसङ्ख्ययोर्लुबर्थेऽतिदेशः कृतः, न तु लुबन्ते शब्दे इति तत्र वर्तमानानां विशेषणानां सिद्ध एव युक्तवद्भावः । वचनं तु जातिप्रतिषेधार्थम् । अथ व्यधिकरणानां विध्यर्थं कस्मान्न भवति, ब्रह्मदतस्य पञ्चाला इति ? ऽतत्पुरुषः समासनाधिकरणःऽ इत्यतः समानाधिकरणानुवृतेः । गोदाविति । गोदौ ह्रदौ वरणादिः, ग्रामजनपदशब्दौ जातिवाचिनौ ताभ्यां लुबर्थो जातिरूपेणोच्यते । जात्यर्थस्य चेत्यादि । जातिरूपस्य चार्थस्य, न जातिवाचिनः शब्दस्येत्यर्थः । तेन किं सिद्धं भवतीत्याह--तेनेति । द्वारग्रहणेनैतद्दर्शयति --जातौ प्रक्रान्तायां यद्विशेषणमुपनिपतितं तज्जातिमेव साक्षाद्विशिनष्टि, तद्द्वारेण तु लुबर्थो विशिष्टः प्रतीयते; तत्र विशेषणविषेष्यभावं प्रति कामचार इति रमणीयादीनां जात्युपनिपाते युक्तवद्भावो न भवति; लुबर्थो पनिपाते तु भवति । यद्येवम्, नार्थोऽनेन, लुपोऽन्यत्राप्ययं प्रकारो दृष्टः, यथा--बदरी सूक्ष्मकण्टका मधुरावृक्ष इति, मधुरादीनां बदर्युपनिपाते तल्लिङ्गसङ्ख्यायोगः, वृक्षोपनिपाते वृक्षलिङ्गसङ्ख्योगः, वृक्षस्य च नियतलिङ्गत ? एवं तर्हि यतत्रतत्रोच्यते--गुणवचनानां हि शब्दानां नाश्रयतो लिङ्गवचनानि भवन्तीति, तदनेन क्रियते । विशेषणानां गुणवचनानामित्यर्थः । युक्तवद्व्यक्तिवचने । आश्रयवल्लिङ्गसंख्ये इत्यर्थः । यदा तु जातिविशेषणं तदा नेति । पदसंस्कारपक्षे च वाचनिकमेतत्; पदे हि पदान्तरनिरपेक्षे संस्क्रियमाणे लिङ्गसर्वनामनपुंसकं वस्त्वन्तरानपेक्षमेकत्वं च प्राप्तमिति शुक्लं पटा इति प्राप्ते भाविनो बहिरङ्गस्याश्रयस्य लिङ्गसंख्ये विधीयेते । वाक्यसंकारे त्वयमनुबाद एव; आश्रयविशेषनिष्ठत्वेन विशेषणानामपि तल्लिङ्गसंख्ययोरसिद्धत्वात् । मनुष्यलुपीति । मुनष्यलक्षणे लुबर्थे विशेषणानां प्रतिषेधः । लुबन्तस्य तु भवत्येव-चञ्चाभिरूप इति, तृणपुरुषश्चञ्चा तत्सदृशो मनुष्यश्चञ्चा ऽसंज्ञायाम्ऽ इति कन्, ऽलुम्मनुष्येऽ इति लुप् । चर्मविकारविशेषो वर्घ्रिका ॥
सिद्धान्तकौमुदी
लुबर्थस्य विशेषणानामपि तद्वल्लिङ्गवचने स्तो जातिं वर्जयित्वा । पञ्चाला रमणीयाः गोदौ रमणीयौ । अजातेः किम् । पञ्चाला जनपदः । गोदौ ग्रामः ॥ ।हरीतक्यादिषु व्यक्तिः (वार्तिकम्) ॥ हरीतक्याः फलानि हरीतक्यः ॥खलतिकादिषु वचनम् (वार्तिकम्) ॥ खलतिकस्य पर्वतस्यादूरभवानि खलतिकं वनानि ॥ ।मनुष्यलुपि प्रतिषेधः (वार्तिकम्) ॥ मनुष्यलक्षणे लुबर्थे विशेषणानां न, लुबन्तस्य तु भवतीत्यर्थः । चञ्चा अभिरूपः ॥
विशेषणानां चाजातेः। कस्य विशेषणानामित्याकाङ्क्षायां लुबित्यनुवृत्तं षष्ठ�आ विपरिणतं संबध्यते। लुप्तप्रत्ययार्थस्येति लभ्यते। तदाह--लुबर्थस्येति। तद्वदिति। प्रकृतिवदित्यर्थः। `लुपि युर्तवद्व्यक्तिवचने` इत्यस्मादुत्तरं पठितमिदं सूत्रं तत्रैव व्याख्यातुमुचितम्। पञ्चाला रमणीया इति। पञ्चालानां निवासो जनपद इत्यर्थः। अत्र प्रत्ययार्थजनपदं प्रति विशेषणस्यापि रममीयशब्दस्य प्रकृतिवद्बहुवचनम्। गोदौ रमणीयाविति। गोदयोर्निवासो जनपद इत्यर्थः। अत्र प्रत्ययार्थजनपदस्य तद्विशेषणस्यापि प्रकृतिवद्द्विवचनम्। पञ्चाला जनपद इति। जनपदशब्दस्य जातिवाचित्वान्न प्रकृतिवद्बहुवचनम्। गोदौ ग्राम इति। अत्र ग्रामशब्दस्य जातिवाचित्वान्न प्रकृतिवद्द्विवचनम्।
विशेषणानां। यद्यपि सूत्रपाठे `लुपि युक्तल`दिति सत्रादनन्तरमेतत्सूत्रं पठित्वा `तदशिष्य`मित्याशब्धात्वात्तत्रैवेदं व्याख्यातुमुचितम्, तथापि जातेः प्रतिषेधमात्रपरमिदं, न तु युक्तवद्भावपरिमित्याशयेन तत्र नोक्तमित्याहुः। पञ्चाला रमणीया इति। कथं तर्हि `पञ्चाला जनपदः सुभिक्षः सम्पन्नपानीयः`इति प्रयोग इति चेत्, जनपदविशेषणत्वादित्येवेहि। पञ्चालविशेषणत्वाभ्युपगमे तु तद्वलिङ्गवचने स्त एव ---पञ्चाला जनपदाः सुभिक्षः सम्पन्नपानीया इति।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
विशेषणानां चाऽजातेः ।। जातिपदार्थान्वयनिर्णयाधिकरणम् ।। कथमिदं विज्ञायते- जातिर्यद्विशेषणमिति, आहोस्विज्जातेर्यानि विशेषणानीति? किं चातः? यदि विज्ञायते- जातिर्यद्विशेषणमिति। सिद्धम्- पञ्ञ्चाला जनपद इति। सुभिक्षः सम्पन्नपानीयो बहुमाल्यफल इति न सिद्ध्यति। अथ विज्ञायते- जातेर्यानि विशेषणानि इति। सिद्धम्- सुभिक्षः सम्पन्नपानीयो बहुमाल्यफलः इति। पञ्ञ्चाला जनपदः इति न सिद्ध्यति। एवं तर्हि नैवं विज्ञायते- जातिर्यद्विशेषणाम् इति, नापि- जातेर्यानि विशेषणानि इति। कथं तर्हि? विशेषणानां युक्तवद्भावो भवति, आ जातेः, आजातिप्रयोगात्। (अथ) किमर्थं पुनरिदमुच्यते? - विशेषणानां वचनं जातिनिवृत्त्यर्थम् - जातिनिवृत्त्यर्थोऽयमारम्भः। किमुच्यते जातिनिवृत्त्यर्थ इति। न पुनर्विशेषणानामपि युक्तवद्भावो यथा स्यादिति? - समानाधिकरणत्वात्सिद्धम् - समानाधिकरणत्वाद्विशेषणानां युक्तवद्भावो भविष्यति। यद्येवं नार्थोऽनेन। लुपोऽन्यत्रापि जातेर्युक्तवद्भावो न भवति। क्वान्यत्र? बदरी सूक्ष्मकण्टका मधुरा (वृक्षः) इति। किं पुनः कारणमन्यत्रापि जातेर्युक्तवद्भावो न भवति? आविष्टलिङ्गा जातीर्यल्लिङ्गमुपादाय प्रवर्त्तते, उत्पत्तिप्रभृत्या विनाशान्न तल्लिङ्गं जहाति। न तर्हीदानीमयं योगो वक्तव्यः? वक्तव्यश्च। किं प्रयोजनम्? इदं तत्र तत्रोच्यते- गुणवचनानां शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति इति, तदनेन क्रियते। - हरीतक्यादिषु व्यक्तिः - हरीतक्यादिषु व्यक्तिर्भवति युक्तवद्भावेन। हरीतक्याः फलानि हरीतक्यः फलानि। - खलतिकादिषु वचनम् - खलतिकादिषु वचनं भवति युक्तवद्भावेन। खलतिकस्य पर्वतस्याऽदूरभवानि वनानि खलतिकं वनानि। - मनुष्यलुपि प्रतिषेधः - मनुष्यलुपि प्रतिषेधो वक्तव्यः। चञ्ञ्चा अभिरूपः। वध्रिका दर्शनीयः ।। विशेषणानां चाऽजातेः ।। 52 ।।