अभिधेयस्य लिङ्गसङख्ययोः प्राप्तयोरयमारम्भः। लुबिति प्रत्ययस्यादर्शनम्,तच्चाभावात्मकम्। न चाभावे व्यक्तिवचनयोः शक्यतेऽतिदेशः कर्त्तुम्। तस्माल्लुप्संज्ञया लुप्तस्य प्रत्ययस्यार्थो लुप्शब्देन विवक्षित इति मत्वाऽह--`लुपीति लुप्संज्ञया` इत्यादि। कथं पुनरेतल्लभ्यते, यावता प्रत्ययादर्शनस्यैषा संज्ञा, न तु प्रत्ययार्थस्य? साहचर्यात्। साहचय्र्यन्तु यत्र लुप्, तत्रावश्यं प्रत्ययार्थस्य सद्भावात्। `युक्तवदिति निष्ठाप्रत्ययेन क्तवतुना प्रकृत्यर्थ उच्यते` इति। अत्र कारणमाह-- `स हि` इत्यादि। युनक्ति = अभिसम्बध्नाति, विशेषणविशेष्यभावलक्षणसम्बन्धेनात्मसम्बन्धिनं करोतीत्यर्थः। तत्र `तस्य निवासः` इत्यादि प्रत्ययार्थो विशेष्यः,पञ्चालादिशब्दस्यार्थः प्रकृत्यर्थो विशेषणम्। तेन हि पूर्व विज्ञातेन स्वाम्यन्तरव्यवच्छेदेनप्रत्ययार्थो विशिष्यते।`अथ वा` इत्यादि। पूर्वं `युजिर् योगे` (धातुपाठः-1444) इत्यस्माद्धातोक्तवतुप्रत्यये सति युक्तवदित्यतद्रूपं प्रदर्शितम्, इदानीं तस्यैव धातोः क्तप्रत्ययाद्वतिप्रत्यये सति युक्तवदित्येतद्रूपं दर्शयति। यद्यपि द्विष्ठत्वात् सम्बन्धस्य -- यथा प्रत्ययार्थेन प्रकृत्यर्थो युक्तः, तथा प्रकृत्यर्थेनापि प्रत्ययार्थः; तथापि प्रत्ययार्थसम्बन्धिनोव्र्यक्तिवचनयोः प्रत्ययार्थ एवातिदेशोऽनर्थक इति प्रकृत्यर्थ एवात्र युक्तशब्देन विवक्षित इति मत्वाऽह-- `युक्तः प्रकृत्यर्थः` इति। `सप्तम्यर्थे वतिः` इति। लुपीति सप्तमीनिर्देशात्।व्यक्तिशब्दः प्रादुर्भावादावप्यर्थे वत्र्तते, वचनशब्दो हि भाषणादिषु, अतस्तत्संप्रत्ययो मा भूदित्यत आह-- `व्यक्तिवचने` इति। किं पुनः कारणं पूर्वाचार्यनिर्देश आश्रीयत इत्यत्र आह-- `तदीयम्` इत्यादि। कुत एतदित्यत आह-- `तथा च` इत्यादि। न हि स्वकीयस्यैव प्रत्याख्यानं युक्तमिति भावः।`पञ्चालाः क्षत्रियाः` इति। पञ्चालस्यापत्यानि बहूनीति विवक्षायाम् `जनपदशब्दात् क्षत्रियादञ्`
4|1|166 , तस्य `तद्राजस्य बहुषु तेनैवास्त्रियाम्`
2|4|62 इति लुक्। `तेषां निवासो जनपदः` इत्यस्य वक्ष्यमाणेन `पञ्चालानाम्` इत्यनेन सम्बन्धः। `पञ्चालानां निवासो जनपदः` इति। तस्य `जनपदे लुप्`
4|2|80 इति लुक्। कुरुशब्दादपत्यार्थे `करुनादिभ्यो ण्यः`
4|1|170 इति ण्यप्रत्ययः। मत्स्यादिशब्देभ्योऽप्यपत्यार्थे `द्वयञ्मगध`
4|1|168 इत्यादिनाण्। शेषं पूर्ववत्।`लवणः सूपः` इति। लवणेन संसृष्ट इति प्राग्वहतीष्ठक्
4|4|1 , तस्य `लवणाल्लुक्`
4|4|24 इति लुक्। अत्राभिधेयवल्लिङ्गवचने भवतः। शिरीषाणामदूरभदो ग्राम इति शिरीषाः। `अदूरभवश्च`
4|1|70 इति शरीषशब्दादण्, तस्य `वरणादिभ्यश्च `
4|2|81 इति लुप्। णत्वन्न भवतीति व्यक्तिवचनग्रहणस्य फलम्। यदि `व्यक्तिवचने` इति नोच्येत, तदा शिरीषेषु यद्वनस्पतित्वं तस्यापि ग्रामेऽतिदेशः स्यात्। एवञ्च शिरीषवनमित्यत्र `विभाषौषधिवनस्पतिभ्यश्च`
8|4|6 इति णत्वं प्रसज्येत्।`हरीतक्यः फलानि` इति। हरीतकीशब्दो गौरादिषु पिप्पल्यादिदर्शनान्ङीषन्तः। ततः फले विकारे `अनुदात्तादेरञ्`
4|2|43 इत्यञ्; तस्य `हरीतक्यादिभ्यश्च`
4|3|165 इति लुप्। अत्र व्यक्तिरेव युक्तवद्भावेन भवति, वचनन्त्वभिधेयवदिति। एतच्च विभाषाग्रहणानुवृत्तेव्र्यवस्थितविभाषाविज्ञानाच्च लभ्यते। `खलतिकं वनानि` इति। `अदूरभवश्च`
4|2|69 इत्यण्, तस्य `वरणादिभ्यश्च`
4|2|81 इति लुप्। अत्र वचनमेवयुक्तवद्भावेन भवति, व्यक्तिस्त्वभिधेयवदेवेति। एतदपि पूर्ववदेव लभ्यते॥