॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|5
SK 2242
1|2|5
असंयोगाल्लिट् कित्  
SK 2242
सूत्रच्छेद:
असंयोगात् - पञ्चम्येकवचनम् , लिट् - प्रथमैकवचनम् , कित् - प्रथमैकवचनम्
अनुवृत्ति:
अपित्  [1|2|4] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
असंयोगात् अपित् लिट् कित्
सूत्रार्थ:
संयोगभिन्नवर्णात् परस्य लिट्-लकारस्य अपित् प्रत्ययः कित्वत् भवति ।
यदि धातोः अन्ते संयोगः नास्ति, तर्हि तस्मात् अग्रे विद्यमानाः लिट्-लकारस्य अपित्-प्रत्ययाः कित्वत् भवन्ति ।

कित्वस्य प्रामुख्येन प्रयोजनत्रयम् -

1. क्ङिति च 1|1|5 इत्यनेन गुणवृद्धिनिषेधः भवति ।
यथा, कृ-धातोः लिट्-लकारस्य आत्मनेपदस्य प्रथमपुरुष-एकवचनस्य रूपम् "चक्रे" एतादृशम् सिद्ध्यति -
कृ + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ कृ + कृ + ल् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
→ कर् + कृ + ल् [उरतः 7|4|66 इति ऋकारस्य अकारादेशः । उरण् रपरः 1|1|51 इति सः रपरः]
→ क + कृ + ल् [हलादि शेषः 7|4|60 इति रेफस्य लोपः]
→ च + कृ + ल् [कुहोश्चुः 7|4|62 इति ककारस्य चकारः]
→ च + कृ + त [तिप्तस्.. 3|4|78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य "त" प्रत्ययः]
→ च + कृ + एश् [लिटस्तझयोरेशिरेच् 3|4|81 इति त-प्रत्ययस्य एश्-आदेशः]
अत्र "त" इति लिट्लकारस्य प्रत्ययः आर्धधातुकः अस्ति । अतः वस्तुतः सार्वधातुकार्धधातुकयोः 7|3|84 इत्यनेन अङ्गस्य ऋकारस्य अत्र गुणादेशः विधीयते । परन्तु, अत्र "त" प्रत्ययः अपित्-अस्ति, अतः वर्तमानसूत्रेण सः कित्वत् भवति, अतः क्ङिति च 1|1|5 इत्यनेन गुणनिषेधः भवति । अतः अत्र केवलं यणादेशं कृत्वा रूपं सिद्ध्यति ।
→ चक्रे [इको यणचि 6|1|77 इति यणादेशः]

एवमेव वृत्-धातोः लिट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ववृते, वृध्-धातोः लिट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ववृधे - एतादृशानि रूपाणि अपि सिद्ध्यन्ति ।

2. वचिस्वपियजादीनां किति 6|1|15 इत्यनेन सम्प्रसारणम् विधीयते । यथा, वच्-धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् एतादृशम् सिद्ध्यति -
वच् + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ वच् वच् + लिट् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
→ व वच् + लिट् [हलादि शेषः 7|4|60 इति चकारस्य लोपः]
→ व वच् + तस् [तिप्तस्झि... 3|4|78 इति तस् -प्रत्ययः]
→ व वच् + अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3|4|82 इति तस्-इत्यस्य अतुस्-आदेशः ]
अत्र "तस्" इति लिट्लकारस्य प्रत्ययः आर्धधातुकः अस्ति । अयम् प्रत्ययः अपित्-अस्ति, अतः वर्तमानसूत्रेण सः कित्वत् भवति, अतः वचिस्वपियजादीनां किति 6|1|15 इत्यनेन सम्प्रसारणम् विधीयते । 1|1|5 इत्यनेन गुणनिषेधः भवति । अतः अत्र केवलं यणादेशं कृत्वा रूपं सिद्ध्यति
→ उ उच् + अतुस् [ वचिस्वपियजादीनां किति 6|1|15 इत्यनेन सम्प्रसारणम्]
→ ऊचतुः [विसर्गनिर्माणम्]

एवमेव यज्-धातोः लिट्-लकारस्य प्रथमपुरुषस्य द्विवचनम् "ईजतुः" तथा व्यध्-धातोः लिट्-लकारस्य प्रथमपुरुषस्य द्विवचनम् "विविधतुः" एतादृशानि रूपाणि सिद्ध्यन्ति ।

3. कित्-प्रत्यये परे अनिदितां हलः उपधायाः क्ङिति 6|4|24 इत्यनेन अनिदित्सु धातुषु नकारलोपः अपि भवति । परन्तु अनिदित्-धातूनां विषये अन्ते संयोगः विद्यते (यथा - मन्थ्, स्रन्स्, ध्वन्स् - आदयः), अतः एतेषां विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति (स्मर्तव्यम् - वर्तमानसूत्रे "असंयोगात्" इति उक्तम् अस्ति) । अत्र एतेषां धातूनाम् विषये लिट्-लकारस्य प्रत्ययाः कित्वत् न भवन्ति । अतः अत्र अनिदितां हलः उपधायाः क्ङिति 6|4|24 इत्यनेन नकारलोपः अपि न विधीयते । यथा, स्रन्स्-धातोः लिट्-लकारस्य आत्मनेपदस्य प्रथमपुरुषैकवचनस्य रूपम् "सस्रंसे" इति जायते । अत्र नकारलोपः न भवति ।

ज्ञातव्यम् -
1. तिप्तस्.. 3|4|78 इत्यनेन ये अष्टादश तिङ्-प्रत्ययाः विधीयन्ते तेषु केवलं तिप्/सिप्/मिप्-एते त्रयः प्रत्ययाः पित्-प्रत्ययाः सन्ति । अतः अस्य सूत्रस्य प्रसक्ति एतेषां त्रयाणाम् विषये नास्ति । यथा, कृ-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् "चकार" इत्यत्र अचो ञ्णिति 7|2|115 इत्यनेन अङ्गस्य वृद्धिं कृत्वा रूपं सिद्ध्यति ।
2. यद्यपि अनिदित्-धातूनां विषये अस्य सूत्रस्य प्रसक्तिः नास्ति, तथापि ईन्धिभवतिभ्यां च 1|2|6 इत्यनेन ईन्ध्-धातोः विषये लिट्लकारस्य प्रत्ययाः कित्वत् भवन्ति । तथा च, अत्रैष्टिः श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति वक्तव्यम् अनेन वार्तिकेन श्रन्थ्, ग्रन्थ्, दम्भ्, स्वञ्ज् - एतेषां विषये अपि लिट्लकारस्य प्रत्ययाः कित्वत् भवन्ति ।
One-line meaning in English
For a verb root that does not end in a संयोग, the अपित् प्रत्यय of लिट्-लकार behaves like a कित् प्रत्यय.
काशिकावृत्तिः
अपितिति वर्तते । असंयोगान्ताद् धातोः परो लिट् प्रत्ययः अपित् किद् भवति । बिधिदतुः, बिभिदुः ; चिच्छिदतुः, चिच्छिदुः ; ईजतुः, ईजुः । असंयोगादिति किम् ? संस्रसे, दध्वंसे । अपित् इत्येव - बिभेदिथ ॥
धातोरेव लिड् विधीयते, नान्यस्मादिति लिटा सामथ्र्याद्धातुः सन्निधापितः; स चासंयोगग्रहणेन विशिष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह-- `असंयोगान्ताद्धातोः` इति। यदि तह्र्रसंयोगान्ताद्धातोः परस्य लिटः कित्त्वं विधीयते; तदा `ववृते, ववृधे` इति न सिध्यति, परत्वाद् गुणेन भवितव्यम्। कित्त्वस्यावकाशः -- `ईजतुरीजुः` इति, गुणस्यावकाशः-- `वर्त्तित्वा, वर्धित्वा इति; `ववृते,ववृधे` इत्यादावुभयप्राप्तौ परत्वाद् गुण एव स्यात्, नैतदस्ति; इष्टवाचित्वात्परशब्दस्य, कित्त्वमेवेष्टम्, कित्वमेव परम्, अतस्तदेव भविष्यतीत्यदोषः।अत्र च यदि `असंयोगात्` इति पर्युदास आश्रीयते, तदा संयोगादन्यस्मिन् गृह्रमाणे नञिवयुक्तन्यायेन (व्या।प।65) सदृशस्यैव ग्रहणं स्यात्-- संयोगस्य सदृशो योऽन्योऽसहायो हल् इति हलन्तादेव कित्त्वं भविष्यति, नाजन्तात्,ततः `चक्रश्चक्रुः` इति न सिध्यति। तस्मात् प्रसज्यप्रतिषेधोऽयम्, न पर्युदासः-- न चेत् संयोगात् यजादीनां किति` 6|1|15 इति किति विधीयते, न ङिति। `बिभिदतुः, बिभिदुः` इति। कित्त्वात् `पुगन्तलघूपधस्य` 7|2|86 इति गुणाभावः। `सस्त्रंसे, दध्वंसे` इति। कित्त्वाभावात् `अनिदिताम्` 6|4|24 इत्यरनुनासिकल्लोपो न भवति। `स्त्रन्सु ध्वन्सु अधः पतने` (धातुपाठः- 754-755), अनुदात्तेत्वादात्मनेपदम्, `लिटस्तझयोरेशिरेच्` 3|4|81 इत्येशादेशः। `बिभेदिथ` इति। सिप्,थल्, क्रादिनियमादिट्।
लिटाऽऽक्षिप्तो धातुरसंयोगग्रहणेन विशेष्यत इत्याह असंयोगान्ताद्धातोरिति । ननु चात्र पर्युदासत्वमुक्तं प्रतीयते, ततश्च संयोगान्तसदृशाद् हलन्तदेव स्याद्-बिभिदतुः,बिभिदुरित्यादौ; निन्यतुरित्यादौ तु न स्यात् ? ज्ञापकात् सिद्धम्, यदयम् ऽऋतश्च संयोगादेर्गुणःऽ इति सस्मरतुरित्यादौ गुणं विधते, तज्ज्ञापयति-नात्र नञिवयुक्तन्यायो धातुमात्रस्यैव ग्रहणमिति । ङ्त्वे प्रिकृते कित्वातिदेशस्य प्रयोजनम् --ईजनम्, ईजत्ः, ईजुः, यजादीनां कितीति सम्प्रसारणं यथा स्यात्; जजागरतुः, जजागरुः-ऽजाग्रोविचिण्णल्ङ्त्सुऽ ईति गुणो यथा स्यात् । यदि पुनर्गाङ्कुटादिभ्योऽपि कित्वमेवातिदिश्येत ? नैवं शक्यम्; इह हि दोषः स्याद्--ऽणु स्तुतौऽऽधू विधूननेऽ तृच्, नुविदा धुविदा--ऽर्श्युकः कितिऽ इतीट्प्रतिषेधः प्राप्नोति, यथा-लूत्वा, लूनः ? नैष दोषः; पूर्वस्य कार्यतिदेशोऽयमित्युक्तम् । इह तर्हि कुटित्वा, पुटित्वा--ऽन क्त्वा सेट्ऽ इत्यातिदेशिकस्यापि कित्वस्य प्रतिषेधो नातिदेशिकस्य भवतीति, सत्यम्; असति क्त्वाग्रहणे, सति तु तस्मिन् सनः ऽन क्त्वा सेट्ऽ इति निषेधो न लभ्यते इत्यज्ञापकं वक्ष्यते-ऽन क्त्वा सेट्ऽ इति निषेधो नातिदएशिकस्य भवतीति, सत्यम्; असति कत्वाग्रहणे, सति तु तस्मिन् सनः ऽन क्त्वा सेट्ऽ इति निषेधो न लभ्यते इत्यज्ञापकं तत्र ढल्ग्रहणम् । तथा ऽसार्वधातुकमपिद्ऽ इति कित्वातिदेशे जागृतः, जाग्रतीति गुणः स्याद्, ङ्त्वाइतिदेशे त्वविचिण्णल्ङ्त्स्विति पिर्युदासो भवति । ऽऋदुपधेभ्यो लिटः कित्वं गुणात् पूर्वविप्रतिषेधेनऽ । कित्वस्यावकाशः-ऋजतुः, ऋजुः न ह्यत्र विध्यन्तरस्य कस्यचित्प्रसङ्गः; गुणस्यावकाशः--वर्तित्वा,वर्धित्वा; ववृते, ववृधुरित्यत्रोभयप्रसङ्गे कित्वं भवति पूर्वविप्रतिषेधेन । इह तु बिबिदतुः बिभिदुः, नित्यत्वादेव कित्वं सिद्धम्; तद्धि कृतेऽपि गुणे प्राप्नोत्यकृतेऽपि, गुणस्तु कित्वे सति न प्राप्नोति । ववृते इत्यत्र तु गुणे कृते संयोगान्तत्वात् कित्वं न प्राप्नोतीत्युभयमनित्यमिति पूर्वविप्रतिषेध उच्यते । स चायं कार्यातिदेशपक्षे स्फुटमेव वक्तव्यः । तथा हि-अनेनैव कित्कार्यातिदेश ईजतुरित्यादौ यत्र विध्यन्तरस्याप्रसङ्गस्तत्र सम्प्रसारणमितदिश्य चरितार्थमतिदेशं परत्वाद् गुणो बाधेत । शास्त्रातिदेशे वा ऽक्ङिति चऽ इत्येतच्छास्त्रमतिदिश्यते, तच्च यद्यपि गुणस्यापवादभूतम्, तथाप्यन्यत्र चरितार्थत्वाद् दुर्बलेनातिदेशेनातिदिष्टः ऽक्ङिति चऽ इति प्रतिषेधो दुर्बल इति तं बाधित्वा गुणः स्यादेव ॥
सिद्धान्तकौमुदी
असंयोगात्परोऽपिल्लिट्कित्स्यात् । क्ङिति च (कौमुदी-2217) इति निषेधात् सार्वधातुकार्धातुकयोः (कौमुदी-2168) इति गुणो न । द्वित्वात्परत्वाद्यणि प्राप्ते ॥
असंयोगाल्लिट्। अपिदिति। `सार्वधातुकमपि` दित्यस्तदनुवृत्तेरिति भावः। `सार्वधातुकमपि` दिति ङितत्वं तु नात्र प्रवर्तते, लिडादेशनामार्द्धदातुकत्वादिति बोध्यम्। कित्त्वस्य फलमाह-- क्ङिति चेति। द्वित्वादिति। कृ ए स्थिते लिटि धातोरिति द्वित्वात्परत्वादिको बोध्यम्। कित्त्वस्य फलमाह-- क्ङिति चेति। द्वित्वादिति। कृ ए इति स्थिते लिटि धातोरिति द्वित्वं न स्यादिति भावः।
असंयोगादिति किम् ?। ममन्थे। अत्र नलोपो न।
लघुसिद्धान्तकौमुदी
असंयोगात्परोऽपिल्लिट् कित् स्यात्। सिषिधतुः। सिषिधुः। सिषेधिथ। सिषिधथुः। सिषिध। सिषेध। सिषिधिव। सिषिधिम। सेधिता। सेधिष्यति। सेधतु। असेधत्। सेधेत्। सिध्यात्। असेधीत्। असेधिष्यत्। एवम् -- चिती संज्ञाने॥ 4॥ शुच शोके॥ 5॥ गद व्यक्तायां वाचि॥ 6॥ गदति॥
महाभाष्यम्
असंयोगाल्लिट् कित् - ऋदुपधेभ्यो लिटः कित्त्वं गुणाद्विप्रतिषेधेन - ऋदुपधेभ्यो लिटः कित्त्वं गुणाद्भवति विप्रतिषेधेन। ववृते ववृधे। - उक्तं वा - किमुक्तम्? न वा क्सस्यानवकाशत्वादपवादो गुणस्य इति। विषम उपन्यासः। युक्तं तत्र यदनवकाशं कित्करणं गुणं बाधते। इह पुनरुभयं सावकाशम्। कित्करणस्यावकाशः- इर्जतुः, इर्जुः। गुणस्यावकाशः- वर्तित्वा वर्द्धित्वा। इहोभयं प्राप्नोति- ववृते ववृधे। परत्वाद् गुणः प्राप्नोति। इदं तर्ह्युक्तम्- इष्टवाची परशब्दः इति, विप्रतिषेधे परं यदिष्टं तद्भवति इति ।। असंयोगाल्लिट् कित् ।। 5 ।।