॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|49
SK 1408
1|2|49
लुक् तद्धितलुकि
SK 1408
सूत्रच्छेद:
लुक् - प्रथमैकवचनम् , तद्धितलुकि - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Menwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
स्त्रीग्रहणम् अनुवर्तते उपसर्जनस्य इति च। पूर्वेण ह्रस्वत्वे प्राप्ते लुग् विधीयते। तद्धितलुकि सति स्त्रीप्रत्ययस्य उपस्र्जनस्य लुग् भवति। पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः। दशेन्द्रः। पञ्चभिः शष्कुलीभिः क्रीतः पञ्चशष्कुलः। आमलक्याः फलमामलकम्। बदरम्। कुवलम्। तद्धितग्रहणं किम्? गार्ग्याः कुलं गार्गीकुलम्। लुकि इति किम्? गार्गीत्वम्। उपसर्जनस्य इत्येव। अवन्ती। कुन्ती। कुरूः।
अदर्शनं 1|1|59 लुक्, तच्चाभावः। अभावे पौवापर्यन्नोपपद्यते। तस्माल्लुकीति सति सप्तमीयम्, न परसप्तमीति मत्वाहऽ‌ऽह-- `तद्धितलुकिसति` इति। `पञ्चेन्द्रः` इति। `तद्धितार्थ` 2|1|50 इत्यादिना समासे कृते `साऽस्य देवता` 4|2|23 इत्यण्, तस्य `द्विगोर्लुगनपत्ये` 4|1|88 इति लुक्, `इन्द्रवरुण` 4|1|49 इत्यादिना विहितस्य ङीषोऽनेन लुक्। तस्मिन्निवृत्ते सन्नियोगशिष्टानामेकतरापाय उभयोरप्यपाय इत्यानुको निवृत्तिः। `पञ्चशष्कुलिः` इति। `अध्यद्र्धपूर्वद्विगोर्लुगसंज्ञायम्` 5|1|28 इत्यार्हीयस्य ठकस्तेन क्रीतार्थे विहितस्य लुक्। `आमलकम्` इति। आमलक्याः फलं विकार इति `नित्यं वृद्धशरादिभ्यः` 4|3|144 इति मयट् । पूर्ववल्लुक्। शष्कुली, बदरी, आमलकी, कुवली-- गौरादिपाठदेते ङीषन्ताः।`गार्गीकुलमिति। गर्गशब्दात् `यञश्च` 4|1|16 इति ङीप्; `यस्येति च` 6|4|148 इत्यकारलोपः; `हलस्तद्धितस्य` 6|4|150 इति यकारस्य च लोपः, गार्ग्याः कुलमिति षष्ठीसमासः, षष्ठ्या लुक्। गार्गीशब्दस्य समासशास्त्रे प्रथमानिर्दिष्टत्वाच्छास्त्रीयमुपसर्जनत्वम्, मूलोदाहरणेषु त्विन्द्रणी प्रभृतीनां लौकिकमात्रोपसर्जनमत्वम्। उभयगतिरिह शास्त्रे सम्भवतीति लौकिकमप्रधानत्वमुपसर्जनत्वम्। लोके ह्रप्रधानमुपसर्जनमित्यच्यते। `गार्गीत्वम्` इत्यत्रापि गार्गीशब्दस्य लौकिकमेवोपसर्जनत्वम्। `अवन्ती, कुन्ती कुरूः` इति। अवन्तेरपत्यं गोत्रं स्त्री, कुन्तेरपत्यं गोत्रं स्त्री-- `वृद्धेत्कोशलाजादाञ्ञ्यङ` 4|1|169 । कुरोरपत्यं स्त्री-- `कुरुनादिभ्यो ण्यः` 4|1|170 इति ण्यः। `स्त्रियामवन्तिकुन्तिकुरुभ्यश्च` 4|1|174 इति लुक्।अवन्तिकुन्तुशब्दाभ्याम्, `इतो मनुष्यजातेः` 4|1|65 इति ङीष्। कुरुशब्दात् `ऊङुतः` 4|1|66 इत्यूङ। अत्र ङीषा ऊङा च तद्धितार्थो गोत्रापत्यं स्त्रीप्रधानमेवाभिधीयत इत्युपसर्जनत्वं नासति लौकिकम्। शास्त्रीयमपि नास्ति; अप्रथमानिर्दिष्टात् समासशास्त्र इति॥
स्त्रीग्रहणमनुवर्तते इति । न तु गोग्रहणम्, कुतः ? प्रत्ययादर्शनस्य लुक्संज्ञाविधानाद् गोशब्दस्याव्युत्पन्नत्वाद् व्युत्पत्तिपक्षेऽप्यस्वरितत्वात् । उपसर्जनस्य चेति । ऽअनुवर्ततेऽ इत्यपेक्षते । लौकिकं चात्रोपसर्जनं गृह्यते, न शास्त्रीयम् । पूर्वेण ह्रस्वत्वे प्राप्ते इति क्वचित्पठ।ल्ते, तत्र क्वचिदिति विशेषः । पूर्वसूत्रेण हि शास्त्रीयमुपसर्जनं गृहीतं तस्यावकाशो यत्र न तद्धितलुग्निष्कौशाम्बिरिति; अस्यावकाशो यत्र शास्त्रीयमुपसर्जनम्-आमलकमिति । तद्धितलुक्च यथा--पञ्चेन्द्र इति, अत्र हि समासार्थे नानाविभक्तिके पञ्चेन्द्राणीत्येकविभक्तिकमिति अस्त्युपसर्जनत्वम्; तत्रोभयप्रसङ्गे परत्वादयमेव लुग् ह्रस्वं बाधत इत्यर्थः । केचित्वस्मादेव ग्रन्थात् पूर्वसूत्रेऽपि लौकिकस्योपर्जनस्य ग्रहणं मन्यन्ते, तेषां हरीतक्यः फलानि इति लुब्विषये ह्रस्वप्रसङ्ग इत्युक्तम् । स्यादेवम्--लुपि युक्तवदिति शब्दार्थयोरप्यतिदेशः प्रकृत्यर्थस्य यल्लिङ्गं यश्च तदभिधायी प्रत्ययः तयोर्द्वयोरतिदेशः, तत्रौपदेशिकस्य ह्रस्वत्व आतिदेशिकस्य श्रवणं भविष्यतीति ? यद्येवम्, युवतिरिव पुरुषः ऽलुम् मुनष्येऽ युवतिः, द्वौ तिशब्दौ श्रूयेयाताम्; तस्मात् ऽलुब्योगाप्रख्यानात्ऽ इति लुपः प्रत्याख्यानेन वात्र परिहारो वाच्यः, शास्त्रीयं वोपसर्जनं ग्राह्यम् । ग्रन्थस्य च व्याख्यात एवार्थः । अभावरूपेण लुका पौर्वाभर्यासम्भवाल्लुकीति सत्सप्तमीत्याह-लुकि सतीति । पञ्चन्द्र इति । ऽतद्धितार्थऽ इति समासः,ऽसास्य देवताऽ इत्यणः ऽद्विगोर्लुगनपत्येऽ इति लुक्, ऽइन्द्रवरुणऽ इत्यादिना विहितस्य ङीषोऽनेन लुक्, सन्नियोगविशिष्टानामन्यतराभाव इत्यानुको निवृत्तिः । पञ्चशष्कुल इति । ऽतेन क्रीतम्ऽ इत्यार्हीयस्य ठकः ऽअध्यर्द्धपूर्वऽ इति लुक् । आमलकमिति । ऽनित्यं वृद्धशरादिभ्यःऽ इति मयटः ऽफले लुक्ऽ । बदरीकुवलीशब्दाभायाम् ऽअनुदातादेश्चऽ इति अञ् । शष्कुल्यादयो गौरादिङीषन्ताः । अवन्तीत्यादि । अवन्ति-कुन्ति-शब्दाभ्यामपत्ये ऽ वृद्धेत्कोसलाजादाञ्ञ्यङ्ऽ । कुरोः ऽकुरुनादिभ्यो ण्यःऽ, स्त्रियामवन्तीति लुक्, कुरुशब्दाद् ऽऊणुतःऽ इत्युङ् । इतराभ्याम् ऽइतो मनुष्यजातेःऽ इति ङीष् । अत्रापत्यलक्षणा जातिः स्त्रीप्रत्ययान्तेन प्राधान्येनाभिधीयते ॥
सिद्धान्तकौमुदी
तद्धितलुकिसत्युपसर्जनस्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः श्रविष्ठः । फल्गुन इत्यादि ॥चित्रारेवतीरोहिणीभ्यः स्त्रियामुसंख्यानम् (वार्तिकम्) ॥ चित्रायां जाता चित्रा । रेवती । रोहिणी । आभ्यां लुक्तद्धितलुकि (कौमुदी-1408) इति लुकि कृते पिप्पल्यादेराकृतिगणत्वात्पुनर्ङीष् ॥ ।फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ (वार्तिकम्) ॥ स्त्रियामित्येव । फल्गुनी । अषाढा ॥ ।श्रविष्ठाषाढाभ्यां छण्वक्तव्यः (वार्तिकम्) ॥ अस्त्रियामपि । श्राविष्ठीयः । आषाढीयः ॥
लुक्तद्धितलुकि। प्रथमस्य द्वितीये इदं सूत्रम्। उपसर्जनस्त्रीप्रत्ययस्येति। `गोस्त्रियोरुपसर्जनस्ये`त्यतस्तदनुवृत्तेरिति भावः। श्रविष्ठ इति। ऋत्वणो लुकि स्त्रीप्रत्ययस्य निवृत्तिः। `लुक्तद्धितलुकी`त्यत्र अप्रधानमेवोपसर्जनम्, नतु शास्त्रीयम्, असंभवादिति भावः। फल्गुन इति। फल्गुन्योर्जात इत्यर्थः। ?णो लुकि स्त्रीप्रत्ययनिवृत्तिः। इत्यादीति। अनुराधासु जातोऽनुराधः। नक्षत्राऽणो लुकि स्त्रीप्रत्ययनिवृत्तिः। एवमग्रे लुकि स्त्रीप्रत्ययनिवृत्तिः। इत्यादीति। अनुराधासु जातोऽनुराधः। नक्षत्राऽणो लुकि स्त्रीप्रत्ययनिवृत्तिः। एवमग्रेऽपि। `अनुराधान् हविषा वर्धयन्तः` इत्यादौ छान्दसं पुंस्त्वम्। स्वात्यां जातः-स्वातिः। तिष्ये जातस्तिष्यः। पुनर्वस्वोर्जातः--पुनर्वसुः। पस्ते जातो-हस्तः। विशाखयोर्जातो-विशाखः। अषाढासु जातोऽषाढः। बहुलासु जातो बहुलः।
लुक्त। उपसर्जनेति। अप्रधानमिहोपसर्जनं गृह्यते , न शास्त्रीयम्, असंभवात्। ननु `गोस्त्रियो`रिति सूत्रेऽप्यप्रधानलक्षणमेवोपसर्जनं गृह्यताम् `एकविभक्ति चे`ति शास्त्रीयं न गृह्यताम्। मैवम्। हरीतक्याः फलानि हरीतक्य इत्यत्र ह्रस्वप्रसङ्गात्। उपसर्जनस्य किम्?। अवन्ती, कुन्ती, कुरूः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
लुक्तद्धितलुकि ।। अनिष्टपरिहाराधिकरणम् ।। - तद्धितलुक्यवन्त्यादीनां प्रतिषेधः - तद्धितलुक्यवन्त्यादीनां प्रतिषेधो वक्तव्यः। अवन्ती। कुन्ती। कुरूः। - तद्धितलुक्यवन्त्यादीनामप्रतिषधोऽलुक्परत्वात् - तद्धितलुक्यवन्त्यादीनामप्रतिषेधः। अनर्थकः प्रतिषेधोऽप्रतिषेधः। लुक्कस्मान्न भवति? अलुक्परत्वात्। लुकि इत्युच्यते, न चाऽत्र लुकं पश्यामः। लुकि इति नैषा परसप्तमी शक्या विज्ञातुम्। नहि लुका पौर्वापर्यमस्ति। का तर्हि? सत्सप्तमी। लुकि सतीति। सत्सप्तमी चेत् प्राप्नोति। एवं तर्हीदमिह व्यपदेश्यं सदाचार्यो न व्यपदिशति। किम्? उपसर्जनस्येति वर्तते इति। न च जातिरुपसर्जनम् ।। लुक्तद्धितलुकि ।। 49 ।।