`स्त्रीति स्त्रीप्रत्ययग्रहणम्` इति। अत्र हेतुमाह-- `स्वरितत्वात्` इति। स्त्रीग्रहणस्येह स्वरितत्वं क्रियत इति स्वरितेनाधिकारादवगतिर्भवति। तेन `स्त्रियाम्`
4|1|3 इत्यधिकृत्य ये प्रत्यया विहिताष्टावादयस्तेषां ग्रहणं भवति; न स्त्रर्थाभिधायिनः शब्दमात्रस्य, नापि स्त्रीशब्दस्यैव स्वरूपस्य उपसर्जनग्रहणं द्वयोर्विशेषणमित्यादेः स्पष्टीकरणयाह-- `गोरुपसर्जनस्य, स्त्रीप्रत्ययस्योपसर्जनस्य` इत्यादि। ताभ्यां प्रातिपदिकस्यत्यादेरपि स्फुटीकरणायाह--`उपसर्जनगोशब्दान्तस्य` इत्यादि। उपसर्जनगोशब्दोऽन्तो यस्येति विग्रहः। एवं गोशब्देनोपसर्जनेन स्त्रीप्रत्ययेन च प्रातिपदिकस्य तदन्तविधो सति गोः कुलं गोकुलम्, राज्ञः कुमार्याः पुत्रो राजकुमारीपुत्र इत्यत्र गोशब्द्य कमारीशब्दस्य च ह्यस्वत्वं न भवति, अन्यथा इहापि स्यात्। भवति ह्रत्र गोशब्दस्य राजकुमारीशब्दस्य चोपसर्जनत्वमित्यभिप्रायः।`चित्रगुः` इति। `प्रथमानिर्दिष्टम्`
1|2|43 इत्यादिना गोशब्दसयोपसर्जनसंज्ञा, निष्कोशाम्बिरित्यादौ तु `एकविभक्ति चापूर्व`
1|2|44 इत्यादिना। `अतितन्त्रीः` इत्यादि। `तत्रि कुटुम्बधारणे` (धातुपाठः-1678), `इदितो नुम्`
7|1|58 , `अवितृस्तृतन्त्रीभ्यः` (द।उ।1।82) इतीः- तन्त्रीः। `लक्ष दर्शनाङ्कनयोः` (धातुपाठः-त1538), `लक्षेर्मुट् च` (द।उ।1।84) इति मुट् ईप्रत्ययश्च-- लक्ष्मीः। `श्रिञ् सेवायाम्` (धातुपाठः- 897), `क्विब वचिप्रच्छि`(वा।288) इत्यादिना क्विप्, दीर्घः- श्रीः। `अत्यादयः क्रान्त्याद्यर्थे द्वितीयया` (वा।91) इति प्रादिसमासः।यदि स्त्रीति स्त्र्यधिकारविहिताः प्रत्यया गृह्रन्ते ततश्च `प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य` (भो।सू।7) इति तदन्तग्रहणेऽतिराजकुमारीरित्यत्र ह्यस्वत्वं न सिध्यति; न हि राजकुमारशब्दात् `वयसि प्रथमे`
4|1|20 इति ङीप्प्रत्ययो विहितः,किं तर्हि? कुमारशब्दात्, नैष दोषः; एषा परिभाषा `यस्मात्प्रत्ययविधिस्तदादि`
1|4|13 इत्यत्र सूत्रे प्रतिपादिता। तत्र च `वाऽऽमि
1|4|5 इत्यतः `वा` ग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन व्यवस्थिविभाषावतीयं क्वचिन्नोपतिष्ठत एव। अथ वा-- `कृत्तद्धितसमासाश्च`
1|2|46 इत्यतश्चकारोऽनुवर्तते,स चानुक्तसमुच्चयार्थः, तेनातिराजकुमारिरित्यत्रापि ह्यस्वत्वं भविष्यतीत्यदोषः।`ईयसो बहुव्रीहौ प्रतिषेधः` इति। ईयसन्ताद्यो विहितः स्त्रीप्रत्ययः,तदन्तस्य बहुव्रीहौ प्रतिषेध इति। कथं पुनरसौ लभ्यते? ` विभाषा च्छन्दसि`
1|2|36 इत्यतो विभाषाग्रहणानुवृत्तेः। न चैवं सत्यतिप्रसङ्गः; व्यवस्थितविभाषाविज्ञानात्।`बहुश्रेयसी` इति। अतिशयेन प्रशस्येति `द्विवचनविभज्योपपदे तरबीयसुननौ`
5|3|57 इतीयसुन्प्रत्ययः। `प्रशस्यस्य`
5|3|60 इति प्रशस्यशब्दस्येयसुनि परतः श्रादेशो भवति, `प्रकृत्यैकाच्`
6|4|163 इति प्रकृतिवद्भावः, `आद्गुणः`
6|1|84 , `उगितश्च`
4|1|6 इति ङीप्। बह्व्यःश्रेयस्यो यस्येति बहुश्रेयसीति `नद्युतश्च`
5|4|153 इति कप् न भवति; `ईयसश्च`
5|4|156 इति कपो निषेधात्।