॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|46
SK 179
1|2|46
कृत्तद्धितसमासाश्च
SK 179
सूत्रच्छेद:
कृत्-तद्धित-समासा: - प्रथमाबहुवचनम् , च - अव्ययम्
अनुवृत्ति:
प्रातिपदिकम्  [1|2|45] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
कृत्-तद्धित-समासा: प्रातिपदिकम् च
सूत्रार्थ:
कृत्-प्रत्ययान्तशब्दाः, तद्धितप्रत्ययान्तशब्दाः तथा सामासिकशब्दाः प्रातिपदिकसंज्ञां प्राप्नुवन्ति ।
संस्कृतभाषायां प्रायः सर्वे शब्दाः प्रत्ययान्ताः एव सन्ति । तेषां प्रातिपदिकसंज्ञां कर्तुम् वर्तमानसूत्रस्य प्रयोगः भवति । ये शब्दाः कृत्-प्रत्ययान्ताः सन्ति / तद्धित-प्रत्ययान्ताः सन्ति तेषाम्, तथा सामासिकशब्दानाम् अनेन सूत्रेण प्रातिपदिकसंज्ञा भवति । यथा -

1) कृत्प्रत्ययान्तशब्दाः - राम (= रमुँ + घञ्) , कारक (=डुकृञ् + ण्वुल्) , लेखन (= लिख् + ल्युट्), गत्वा (= गम् + क्त्वा), पठितवत् (= पठ् + क्तवतुँ ) - आदयः ।
2) तद्धितप्रत्ययान्तशब्दाः - यथा - गौरव (= गुरु + अण्) , वैनतेय (= विनता + ढक्) , पञ्चम (= पञ्चन् + डट्), शालीय (= शाला + छ) - आदयः ।
3) समासाः - राजपुरुष (= राज्ञः पुरुषः), अहिनकुल (= अहिश्च नकुलश्च), पीताम्बर (= पीतम् अम्बरम् यस्य सः), यथाशक्ति (= शक्तिम् अनतिक्रम्य) - आदयः ।

अत्र केचन बिन्दवः ज्ञातव्याः -
1. स्त्रीप्रत्ययाः नाम एते अष्ट प्रत्ययाः - टाप्, चाप्, डाप्, ङीष्, ङीप्, ङीन्, ऊङ्, क्तिन् । एते प्रत्ययाः कृत्-प्रत्ययाः अपि न सन्ति, तद्धितप्रत्ययाः अपि न सन्ति । अतः अनेन सूत्रेण स्त्रीप्रत्ययान्यशब्दानाम् प्रातिपदिकसंज्ञा न भवति । परन्तु प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इति काचन परिभाषा अस्ति । अस्याः अर्थः अयम् - प्रातिपदिकस्य ग्रहणं यत्र क्रियते तत्र तस्य प्रातिपदिकस्य लिङ्गबोधकप्रत्ययेन सह अपि ग्रहणं भवति । इत्युक्ते, कश्चन शब्दः यदा प्रातिपदिकसंज्ञां प्राप्नोति, तदा तस्य स्त्री-प्रत्ययान्तरूपम् अपि प्रातिपदिकसंज्ञां प्राप्नोति । अनेन प्रकारेण गौरी, अजा, मति, श्वश्रू - एतादृशानाम् स्त्रीलिङ्गवाचिनाम् शब्दानाम् स्त्रीप्रत्ययान्तेषु सत्षु अपि प्रातिपदिकसंज्ञा भवति ।

2. अस्मिन् सूत्रे "कृत्" तथा "तद्धित" एतयोः शब्दयोः कृत्-प्रत्ययान्तानाम् तथा तद्धित-प्रत्ययान्तानाम् ग्रहणं भवति, न केवलं कृत्-तद्धित-प्रत्यययोः । प्रत्ययग्रहणे तदन्तस्यापि ग्रहणम् अनया परिभाषया एतत् स्पष्टं भवति ।

3. सामासिकशब्दानाम् अर्थवद् अधातुः अप्रत्ययः प्रातिपदिकम् 1|2|45 इत्यनेनैव प्रातिपदिकसंज्ञा भवितुम् अर्हति, यतः समस्तशब्दाः धातुसंज्ञकाः प्रत्ययान्ताः वा न सन्ति, अर्थवन्तः च सन्ति । एवमस्ति चेत् अस्मिन् सूत्रे पुनः "समासाश्च" इति ग्रहणम् कृतम् दृश्यते । एतत् पुनर्ग्रहणम् सिद्धे सति आरम्भो नियमार्थः अनया परिभाषया नियमार्थम् कृतमस्ति । इत्युक्ते, यत्र द्वयोः अधिकानाम् वा शब्दानाम् समुहः दृश्यते, तत्र केवलं समासस्यैव प्रातिपदिकसंज्ञा भवति, अन्य-शब्दसमुहानाम् न, इत्यर्थः । एतादृशम् ग्रहणम् "वाक्य"स्य प्रातिपदिकसंज्ञा मा भूत् इति स्पष्टीकर्तुं कृतम् अस्ति । वाक्यम् अपि शब्दसमुहः एव, तत् प्रत्ययान्तं धातुसंज्ञकम् अपि नास्ति, अर्थवत् च अस्ति, अतः अर्थवद् अधातुः अप्रत्ययः प्रातिपदिकम् 1|2|45 इत्यनेन तस्य प्रातिपदिकसंज्ञायां प्राप्तायाम् अत्र समासग्रहणेन सा निषिध्यते ।

अनेन प्रकारेण अस्मिन् सूत्रे कृत्-ग्रहणम् तथा तद्धित-ग्रहणम् विधानार्थम्, तथा समास-ग्रहणम् नियमार्थम् कृतम् अस्ति ।
One-line meaning in English
कृत्-प्रत्ययान्त words, तद्धितप्रत्ययान्त words and the सामासिकशब्दा: are known as प्रातिपदिक.
काशिकावृत्तिः
कृतस् तद्धिताः समासाश्च प्रातिपदिकसंज्ञा भवन्ति। अप्रत्ययः इति पूर्वत्र पर्युदासत् कृदन्तस्य तद्धितान्तस्य च अनेन प्रातिपदिकसंज्ञा विधीयते। अर्थवत्समुदयानां समासग्रहणं नियमार्थम्। कृत् कारकः। हारकः। कर्ता। हर्त। तद्धितः औपगवः। कापटवः। समासः राजपुरुषः। ब्राह्मणकम्बलः। समासग्रहणस्य नियमार्थत्वाद् वाक्यस्य अर्थवतः संज्ञा न भवति।
अत्र `अन्यत्र संज्ञाविधौ प्रत्ययग्रणे तदन्तविधिर्नास्ति` इत्यतन्नोपतिष्ठते, यस्मादप्रत्यय इति प्रतिषेधे प्राप्ते वचनमिदम्। `अप्रत्ययः` इति प्रत्ययान्तस्य प्रतिषेधः उक्तः। तेन यत्र संज्ञायाः प्रतिषेधस्तत्रेयमारभ्यमाणा तदन्तस्यैव भवतीत्येतच्चेतसि कृत्वाऽ‌ऽह-- `अप्रत्यय इति पूर्वसूत्रे पर्युदासात् कृदन्तस्य` इत्यादि।अथ समासग्रहणं किमर्थम्? यावता समासस्यार्थवत्त्वात् पूर्वेणैव संज्ञासिद्धेत्यत आह-- `अर्थवत्समुदायानाम्` इत्यादि। निर्धारणषष्ठीयम्-- अर्थवन्तो ये समुदायास्तेषां मध्ये समासस्यार्थवतः समुदायस्य प्रातिपदिकसंज्ञा यथा स्यादिति नियमार्थं समासग्रहणम्।यद्येवम्, प्रकृतिप्रत्ययसमुदायस्यार्थवतः प्रातिपदिकसंज्ञा न स्यात्-- बहुपटव उच्चकैरिति? कोऽत्र दोषः? `चितः` 6|1|157 इत्यस्मिन् सूत्रे चितः सप्रकृतेर्बहुजकजर्थमिति वचनादेतद्वयवस्थाप्यते-- प्रकृतिमन्तर्भाव्य चित्स्वरो विधीयत इति। बहुपटव इत्यत्र बहुचि विहिते यदि प्रातिपदिकसंज्ञा न स्यात्,तदा प्रातिपदिकत्वाभावात् यथा सुबुत्पत्तिर्न स्यात् तथोत्पन्नाया अपि विभक्तेः `सुपो धातुप्रातिपदिकयोः` 2|4|71 इति लुका न भवितव्यम्। ततश्च बहुपटव इत्यत्र जस्विभक्तेरकारस्य स्वरः स्यात्; उकारस्य चेष्यते। प्रातिपदिकत्वे तु सति पूर्वोत्पन्नाया विभक्तेर्लुकि कृते याऽन्या विभक्तिरुत्पद्यते, सा बहुजुत्पत्तेरुत्तरकालभाविनीत्वात् प्रकृतौ नान्तर्भवति। तेन तामुत्सृज्य पूर्वो भागः स्वरभाग भवति। अत उकारस्य स्वरः सिध्यति। उच्चकैरित्यत्र प्रातिपदिक्तवाभावाकज्वतः समुदायाद्विभक्तिर्न स्यात्, तस्याञ्चासत्यां पदत्वं न स्यात्। ततश्चोच्चकैः पठतीति `तिङङतिङः` 8|1|28 इति निघातो न स्यात्। तस्मात् प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा वक्तव्या? न वक्तव्या, यस्मात् तुल्यजातीयानां नियमः, तेन तुल्यजातीयो नियमेन व्यवच्छ#इद्यते। तुल्यजातीयश्चच समाससुबन्तसमुदायादन्यः वाक्यसमुदाय एव, न तु प्रकृतिप्रत्ययसमुदायः। तेनायं तस् नियमेन व्यवच्छेदो न करिष्यते, नैतदस्ति; सुबन्तासुबन्तसमुदायोऽपि समासोऽस्ति, यथा-- प्रकत्र्ता, प्रकारक इति। अत्र हि `गतिकारकोपपदानां कृद्भिः समासवचनं प्राक्सुबुत्पत्तेः` (व्या।,प।वृ 138) इति कृदन्तेनासुबन्तेन गतिकारकं सुबन्तं समस्यते, तेन सुबन्तासुबन्तसमुदायोऽयं समास इति तुल्यजातीयस्यापि नियमे विज्ञायमाने बहुपटवः, उच्चकैरित्यत्र प्रातिपदिकसंज्ञा न स्यात्। एवं तह्र्राचार्यप्रवृत्तिज्र्ञापयति-- भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञेति; यदयमप्रत्यय इति प्रत्ययान्तस्य प्रतिषेधं शास्ति॥
कृतो विहितास्तदादय इति वेदितव्यम् । अत्र हि कृद्ग्रहणपरिभाषा नोपतिष्ठते, तेन मूलकेनोपदंशमिति वाक्यस्य संज्ञा न भवति । मध्येऽपवादन्यायेन ह्यप्रत्यय इति निषेधः कृद्ग्रहणेन बाध्यते, न तु समासग्रहणेन कृतो नियमः । संज्ञाविधौ प्रत्ययग्रहणेऽप्यत्र तदन्तविधिर्भवतीत्यत्रीपपतिमाह--अप्रत्यय इति । प्रत्ययान्तस्य निषेधो न केवलस्य प्रत्ययस्येत्याश्रित्यैतदुच्यते । अप्राप्तप्रापणं विधिः, न च तदा कृतद्धितमात्रस्याप्राप्ता संज्ञा तदन्तस्यत्वप्राप्तेति विध्यर्थत्वातदन्तस्यैव ग्रहणम् । येषां तु पूर्वत्र प्रत्ययमात्रस्यापि निषेधस्तेषामर्थवद्ग्रहणानेवृतेरर्थवद्विशेषस्य तदन्तस्य ग्रहणं समासग्रहणमनर्थकम्, अर्थवत्वात्पूर्वेणैव संज्ञासिद्धेरित्यत आह-अर्थवत्समुदायानामिति । कर्मणि षष्ठी । नियमः उ व्यावृत्तिः । ननु सुराजा अतिराजेत्यादौ अन्तर्वतिन्यां विभक्तौ लुप्तायां समुदायस्य संज्ञा, तामपेक्ष्य सोरुत्पन्नस्य हल्ङ्यादिलोपे तस्यामवस्थायां नलोपार्थं या संज्ञा प्राप्नोति तस्याः प्रत्ययलक्षणेनाप्रत्यय इति निषेधे प्राप्ते विध्यर्थमेतत्स्यात् ? ज्ञापकात्सिद्धम्, ऽन ङिसंबुद्ध्योःऽ इति निषेधो ज्ञापयति-न प्रत्ययलक्षणेन निषेध इति; अन्यथा उक्तेन न्यायेन हे राजन्नित्यादौ नलोपप्रसङ्गात् । नैतदस्ति ज्ञापकम्; है सुराजन्नित्यादौ यत्र समासग्रहणेन संज्ञा विहिता तत्र नलोपप्रसङ्गे निषेधः स्याद् । एवं तर्ह्यत्राप्यप्रत्यय इत्यनुवर्तते, तेन प्रत्ययान्ते समासे विध्यर्थत्वासंभवान्नियमार्थमेव समासग्रहणम् । यद्वा-अनुद्दिश्य प्रयोजनविशेषं न कृत्संज्ञा प्रवर्तते, तस्यां तु सत्यां यस्यामवस्थायां यत्कार्यं प्राप्नोति तस्यां तद्भवति, न प्रतिकार्यमावर्तनीया संज्ञेत्ययं पक्ष आश्रीयते । अत्र च पक्षे सुबुत्पत्यर्थं नलोपार्थं च समाससंज्ञानन्तरमेव सकृत्संज्ञा प्रवर्तते, न तु नलोपदशायामिति विध्यर्थत्वासम्भवान्नियमार्थमेव समासग्रहणम् । तुल्यजातीयस्य च नियमेन व्यावृत्तिः, कश्च तुल्यजातीयो यस्यार्थवत्समुदायस्य पूर्वो भागस्तावत्पदम्, यश्चैव हि सुबन्तानां समासः-राजपुरुष इति, यश्चैव हि तिङ्न्तानाम्--"आख्यतमाख्यातेन क्रियासातत्येऽ, अश्नीतपिबता, खादतमोदतेति, यश्च सुबन्तानां तिङ्न्तानां च-ऽजहि कर्मणा बहुलमाभीक्ष्ण्येऽ, जहिजोडः, जहिशकट इति, यश्च सुबन्तानां प्रातिपदिकानां च--गतिकारकोपपदानामिति, वस्त्रक्रीति निष्कक्रीतीति, सर्वत्रात्र पूर्वो भागस्तावत्पदम् । अतः स तुल्यजातीयो नियमेन व्यावर्त्यते, तेन बहुपटव इत्यत्र जसन्तस्य पुरस्ताद्वहुचि कृते नोतरत्रत संघाते पूर्वो भागः पदमित्यसति नियमे ईषदसमाप्तिलक्षणेनार्थेनार्थवत्वात्सत्यां संज्ञायां पूर्वोत्पन्नस्य जसः ऽसुपो धातुऽ इति लुकि कृते चित्स्वरोऽपि भवन् ऽचतिः सप्रकृतेर्बहुजकजर्थमितिऽ पटुअशब्दोकारस्य भवति । पूर्वोत्पन्नस्य तु जसोऽवस्थाने तस्यैव स्यात् । वाक्यस्यार्थवत इति । प्रत्येकं पदैरप्रतीतस्य संसर्गस्य वाक्येन प्रतीयमानत्वातस्यार्थवत्वम्, समुदायाच्च प्रत्ययस्याविधानान्नास्त्यप्रत्यय इति निषेधः । न च ऽनास्ति यस्मिन् प्रत्ययः सोऽप्रत्ययःऽ इति बहुव्रीहिः शक्य आश्रयितुम्; बहुपटव इत्यत्रापि नि,एधप्रसङ्गात् ॥
सिद्धान्तकौमुदी
कृत्तद्धितान्तौ समासाश्च प्रातिपदिकसंज्ञाः स्युः । पूर्वसूत्रेण सिद्ध समासग्रहणं नियमार्थम् । यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैव । तेन वाक्यस्य न ॥
कृत्तद्धित। कृच्च तद्धितश्च समासश्चेति विग्रहः। पूर्वसूत्रात् `प्रातिपदिक`मित्यनुवर्तते, तच्च बहुवचनान्ततया विपरिणम्यते। प्रत्ययग्रहणपरिभाषया कृत्तद्धितेति तदन्तग्रहणम्। तदाह--कृत्तद्धितान्ताविति। कृत्तद्धितान्तयोः प्रत्ययान्तत्वात्पूर्वसूत्रेणा।ञप्राप्तौ कृत्तद्धितग्रहणम्। केवलयोः कृत्तद्धितयोः संज्ञायां प्रयोजनाऽभावात्संज्ञाविधाविति निषेधोऽत्र न भवति। अस्मादेव पूर्वसूत्रे संज्ञाविधावपि प्रत्ययग्रहणपरिभाषया तदन्तलाभात्प्रत्ययान्तपर्युदासः। केचित्तु अर्थवदित्यनुवर्त्त्य तत्सामर्थ्यात्तदन्तविधिमाहुः। कृदन्ते यथा--`कर्ता` `भर्ता` इत्यादि। तद्धिते यथा--`औपगव` इत्यादि। समासे यथा--`राजपुरुष` इत्यादि। ननु समासग्रहणं व्यर्थं, समासे `राजपुरुष` इत्यादि। ननु समासग्रहं व्यर्थं, समासे `राजपुरुष` इत्यादिशब्दानां पूर्वसूत्रेणैव प्रातिपदिकत्वस्य सिद्धत्वात्। न च उत्तरपदोत्तरलुप्तप्रत्ययं प्रत्ययलक्षणेनाश्रित्य प्रत्ययान्तपर्युदासः शङ्क्यः, उत्तरपदमात्रस्य प्रत्ययान्तत्वेऽपि समुदायस्याऽप्रत्ययान्तत्वात्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात्, प्रत्ययलक्षणमाश्रित्य प्रत्ययान्तपर्युदासो न प्रवर्तत इति `न ङिसम्बुद्धयोः` इति निषेधेन ज्ञाप्यत इति पूर्वसूत्रे प्रपञ्चितत्वाच्चेत्यत आह--पूर्वसूत्रेणेत्यादिना। नियमशरीरं दर्शयति-यत्रेति। `पूर्वो भागः पद`मित्युपलक्षणम्। `उत्तरभागस्तु प्रत्ययो ने`त्यपि द्रष्टव्यम्। अन्यथा जन्मवानित्यादौ प्रातिपदिकत्वं न स्यात्, स्वादिष्वसर्वनामस्थान इति पूर्वभागस्य पदत्वात्। नचात्र कृत्तद्धितेति तद्धितग्रहणसामर्थ्यादेव प्रातिपदिकत्वं संभवतीति वाच्यम्, दाक्षिरित्यादौ तद्धितग्रहणस्य चरितार्थत्वात्। तत्र हि प्रकृतिभागो न पदम्, भत्वेन तद्बाधात्। `पूर्वो भागः पद`मित्यनुक्तौ `बहुपटव` इत्यत्र प्रातिपदिकसंज्ञा न स्यात्। ईषदसमाप्तावित्यनुवृत्तौ `विभाषा सुपो बहुच्पुरस्तात्तु` इति सूत्रेण `पटव` इति प्रथमाबहुवचनान्तात्पूर्वतो बहुच्प्रत्यये कृतेऽर्थवदिति प्रातिपदिकत्वात्तदवयवजसो लुकि `चितः सप्रकृतेर्बह्वजर्थ`मिति टकारादुकारस्य उदात्तत्वे चित्स्वरे कृते पुनर्जसि `बहुपटव` इति रूपम्। अत्र टकारादकार उदात्त इति स्थितिः। जसन्तात्पूर्वतो बहुच्प्रत्यये बहुपटव इति समुदायस्य प्रातिपदिकत्वा।ञभावे तु ततो जसन्तरं नोत्पद्येत। नचेष्टापत्तिः, तथ#आ सति बहुच्प्रकृतिभूतजसन्ते जसःप्रातिदिकावयवत्वा।ञभावेन`सुपो धातुप्रातिपदिकयो`रिति लुगभावाद्बहुपटव इति जसन्तस्यैव बहुच्प्रक-तितया चितस्सप्रकृतेर्विधीयमानश्चित्स्वरः जस एवाकारस्य स्यात्। इष्यते तु टकारादुत्तरस्य। `बहुपटव` इति समुदायस्य प्रातिपदिकावयवत्वाज्जसो लुकि पटुशब्दस्यैव बहुच्प्रकृतितया टकारादुत्तरस्य चित्स्वरे सति पुनर्जसि बहुपटव इति रूपमुक्तं निर्बाधमिति भावः। नियमस्य फलमाह--तेनेति। उक्तनियमेनेत्यर्थः। अन्यथा `देवदत्त गामभ्याज शुक्लां दण्डेने`त्यादिवाक्यस्यापि प्रातिपदिकत्वापत्तौ सुब्लुक् स्यात्। न च वाक्यस्य प्रत्ययान्तत्वादेव न प्रातिपदिकत्वमिति वाच्यम्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणादिति भावः। कृत्तद्धितसमासाश्चेति चकारोऽनुकसमनुच्चयार्थः। तेन `निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्ये`ति वार्तिकं गतार्थम्।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
कृत्तद्धितान्तौ समासाश्च तथा स्युः॥
महाभाष्यम्
कृत्तद्धितसमासाश्च समासग्रहणं किमर्थम् ? - समासग्रहण उक्तम् - किमुक्तम्? अर्थवत्समुदायानां समासग्रहणं नियमार्थम् इति ।। कृत्तद्धितसमासाश्च ।। 46 ।।