॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|43
SK 653
1|2|43
प्रथमानिर्दिष्टं समास उपसर्जनम्
SK 653
सूत्रच्छेद:
प्रथमानिर्दिष्टम् - प्रथमैकवचनम् , समासे - सप्तम्येकवचनम् , उपसर्जनम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Menwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
प्रथमया विभाक्त्या यन् निर्दिश्यते समासशास्त्रे तदुपसर्जनसंज्ञं भवति। समासे इति समासविधायि शास्त्रं गृह्यते। वक्ष्यति द्वितीया श्रितातीतपतितगतात्यस्तप्राप्ताऽपन्नैः 2|1|24 इति। द्विदीयासमासे द्वितीया इत्येतत् प्रथमानिर्दिष्टं, तृतीयासमासे तृतीया इति, चतुर्थीसमासे चतुर्थी इति, पञ्चमीसमासे पञ्चमी इति, षष्ठीसमासे षष्ठी इति, सप्तमीसमासे सप्तमी इति। कष्टश्रितः। शङ्कुलाखण्डः। यूपदारु। वृकभयम्। राजपुरुषः। अक्षशौण्डः। उपसर्जनप्रदेशाः उपसर्जनं पूर्वम् 2|2|30 इत्येवम् आदयः।
`समासे` इत्यधिकरणनिर्देशोऽयम्। कष्टश्रितादयः समासाः न किञ्चित् प्रथमानिर्दिष्टं शब्दरूपमस्ति। तथा हि-- समासे कृते तत एव समासाद् विभक्तिरुत्पद्यते, न तु तत्र स्थाच्छब्दात्। न च वाक्यकाले समासार्थात् पदाद् या प्रथमोत्पन्ना तदाश्रयं प्रथमानिर्दिष्टत्वं समासावयवस्य कल्पयितुं युक्तम्, यतः `समासे` इत्यधिकरणनिर्देशोऽयम्। तत्र समासे कृते यस्मात् प्रथमोत्पद्यते, तदेव समासे प्रथमानिर्दिष्टं भवति; न तु यस्मात् वाक्यकाले विभक्तिकाले विभक्तिरुत्पद्यते। तद्धि वाक्य एव प्रथमानिर्दिष्टम्, न तु समासे; प्रागेव समासात् तस्य प्रथमानिर्दिष्टत्वात्। ततश्च समासे कृते प्रथमानिर्दिष्टस्य संज्ञिनोऽसम्भवात् संज्ञा न सम्भवीत्येतच्चोद्यमपाकर्तुमाह- `प्रथमया विभक्त्या यन्निर्दिश्यते` इति। समासार्थं यच्छास्त्रं तत् समासशास्त्रं गृह्रते। तत्र प्रथमानिर्दिष्टस्येयं संज्ञा विधीयते, न तु कष्टश्रितादौ; समासे प्रथमानिर्दिष्टस्याविद्यामानत्वात् विद्यते च समासशास्त्रे प्रथमानिर्दिष्टं संज्ञीति कुतः संज्ञाया अप्रसिद्धिः? कथं पुनः `समासे` इत्युच्यमाने समासशास्त्रे यत् प्रथमया निर्दिश्यते तस्य संज्ञित्वं लभ्यत इत्यत आह-- `समासे` इति। `समासशास्त्रं गृह्रते इति। कथं पुनः `समासे` इत्युच्यमाने समासशास्त्रं ग्रहीतुं शक्यम्? तादथ्र्यात् तत्र समासशब्दस्य प्रवृत्तेः। भवति हि तादथ्र्यात् तावच्छब्द्यम् , यथा-- प्रदीपार्था मल्लिका `प्रदीपः` इति, इन्द्रार्था स्थूणा `इन्द्रः` इति। कष्टश्रितादिषूपसर्जनसंज्ञयायाः कार्यम्-- `उपसर्जनं पूर्वम्` 2|2|30 इति पूर्वनिपातः।तत्रेदं चोद्यते-- राज्ञः कुमारीं पश्य राजकुमारीं पश्येत्यत्र राजन्शब्दः `षष्ठी` 2|2|8 इति समासशास्त्रे प्रथमानिर्दिष्टः; `द्वितीया श्रितातीतपतित` 2|1|23 इति द्वितीयासमासशास्त्रे कुमारीशब्दश्च। समसाशास्त्रे तत्रोभयोरप्यस्यां संज्ञायां सत्यां पूर्वनिपातानियम उपसर्जनह्यस्वस्वत्वञ्चेत्येतद्दोषद्वयं प्राप्नोतीति। इह च राज्ञः कुमार्याः स्वं राजकुमारीस्वमिति द्वयोरपि षष्ठन्तयोः समासशास्त्रे प्रथमानिर्दिष्टत्वादुभयोरप्युपसर्जनसंज्ञायां सत्यां तदेव दोषद्वयं प्राप्नोति? नैष दोषः; यस्मादुसर्जनमिति महत्याः संज्ञायाः करणस्यैतदेव प्रयोजनम्-- अन्वर्थसंज्ञा यथा विज्ञायेतेति। अप्रधनामुपसर्जनम्, प्रधानमनुपसर्जमिति। अप्रधानञ्च प्रधानमपेक्षते; सम्बन्धिशब्दत्वात्। तत्र सम्नब्धादेतवगन्तव्यं यत् प्रति यदप्रधानं तत् प्रतितदुपसर्जनमिति। श्रितादींश्चापेक्ष्य द्वितीयान्तमुपसर्जनं भवति, न तु द्वितीयान्तमात्रम्। न चेह श्रितादयः सन्ति। राज्ञः कुमार्याः स्वं राजकुमारीस्वमित्यात्राप्येष परीहारः। अत्रापि कुमारीशब्दमपेक्ष्य राजन्शब्दस्याप्राधान्यम्; न तु राजन्शब्दमपेक्ष्य कुमारीशब्दस्य। तस्मात् राजन्शब्दस्योपसर्जनसंज्ञा, न तु कुमारीशब्दस्य। यदि ह्रन्वर्थसंज्ञेयम्, पाचकवृन्दारिका, पुरुषव्याघ्रः, अर्धपिप्पली, पूर्वकायः-- इत्येतेषु पूर्वपदार्थ एव प्रधानमिति पाचिकादीनामिह प्राधान्यम्। अतो यद्यप्येते `वृन्दारकनागकुञ्जरैः पूज्यमानम्` 2|1|61 , `उपमितं व्याघ्रादिभिः सामान्याप्रयोगे` 2|1|55 , `अर्धं नपुंसकम्` 2|2|2 , `पूर्वापराधरोत्तरमेकदेशिकनैकाधिकरणे` 2|2|1 इत्येतेषु समासशास्त्रेषु प्रथमानिर्दिष्टाः, तथापि तेषामुपसर्जनसंज्ञा न प्राप्नोति; कुतः? तेषां प्राधान्यात्। एवं तर्ह्रुत्तरसूत्रेऽनुक्तसमुच्चयार्थत्वाच्चकारस्य भविष्यतीत्यदोषः।अन्यस्त्वेवं मन्यते-- `पाचकवृन्दारिकेत्येवमादिषु पूर्वोक्तेषु समासेष्वाद्यौ `विशेषणं विशेष्येण बहुलम्` 2|1|56 , `उपमानानि सामान्यवचनैः` 2|1|54 इत्येताभ्यामेव सिद्धौ; शेषौ तु `षष्ठी` 2|2|8 इत्यनेनैव। तस्मात् `वृन्दारकनागकुञ्जरैः` 2|1|61 इत्यादीनां न तदर्थ आरम्भः; किं तर्हि? उपसर्जन संज्ञार्थः; तेनासत्यपि पाचिकादीनामप्रधानत्वे तेषामियं संज्ञा भविष्यति` इति, एतच्चासम्यक्, तथा हि -- `पूज्यमानम्`, `सामान्याप्रयोगे`, `नपुंसकम्`, `एकाधिकरणम्`-- इत्येतान् विशेषान् वक्ष्यामीत्येतदर्थ आरम्भः स्यात्। सति चैतदर्थ आरम्भेऽत्राप्रधानस्योपसर्जनसंज्ञा विधीयमाना प्रधानस्य न स्यात्॥
समास इत्यधिकरणनिर्देशोऽयम् । कष्टश्रितादयश्च समासाः, तेषु किं प्रथमानिर्द्देष्ट्ंअ भवितुमर्हति ? समासे सति यस्मात्प्रथमा विधीयते, न च तथाभूतं सम्भवति । समासे हि कृते तत एव प्रथमोत्पद्यते, न तदवयवाद् । अन्तर्वर्तिन्या च विभक्त्या श्रितशब्द एव प्रथमानिर्दिष्टो न कष्टशब्दः । सापि न समासे सत्युत्पन्ना, किं तर्हि ? वाक्यकाल एव । निर्दिष्टग्रहणं चानर्थकं स्यात्, समासे प्रथमान्तमित्येव वाच्यं स्यद्, अतो मुख्यस्यासम्भवाद्गौणः समासो गृह्यते इत्याह-प्रथमयेत्यादि । कथं पुनः समास इति शास्त्रस्य ग्रहणमित्याह-समासविधायीति । समासविधायित्वातादर्थ्याताच्छब्द्यमित्यर्थः । निर्दिष्टग्रहणादेव च तुल्येऽपि समासार्थत्वे वाक्यं न गृह्यते, न हि तत्र निर्देशार्था प्रथमा, अर्थप्रयुक्तत्वात् । द्वितीयेत्येतत्प्रथमानिर्दिष्टमिति । प्रथमया विभक्त्या उच्चारितम् । यद्येवम्, तस्यैव संज्ञा स्यान्न कष्टादीनाम्, न हि ते शास्त्रे प्रथमानिर्दिष्टाः । य एव द्वितीयेत्यस्य प्रथमानिर्देशः, स एव कष्टादीनामपि; तत्परत्वातस्य । यथा वक्ष्यति-ऽतस्येति सामान्यं विशेषोपलक्षणार्थं तदीयप्राथम्यं विशेषाणां विज्ञायतेऽ इति । कष्टश्रितादिषूपसर्जनत्वात् पूर्वनिपातः । महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम् । लोकेऽप्रधानमुपस्रजनमुच्यते, इहाप्यप्रधानमुपसर्जनम् । प्रधानमप्रधानमिति च सम्बन्धिशब्दावेतौ, तेन यत्प्रति यदप्रधानं तदेव प्रति तदुपसर्जनं भवति, तेन राज्ञः कुमारीश्रित इति ऽद्वितीया श्रितऽ इत्यत्र प्रथमानिर्दिष्टस्यापि कुमारीशब्दस्य संज्ञा न भवति । यदि स्यात्, पूर्वनिपातानियम उपसर्जनह्रस्वत्वं च स्यात् । अन्वर्थत्वे तु श्रितादीनेवापेक्ष्य द्वितीयान्तमुपसर्जनमिति न प्रसङ्गः । एवं राज्ञः कुमार्या इत्यत्र द्वयोरपि ऽषष्ठीऽ इत्यत्र प्रथमानिर्देशेऽपि कुमारीमपेक्ष्य राज्ञ उपसर्जनत्वम्, न तं प्रति तस्याः । यद्यन्वर्थसंज्ञा, नार्थोऽनेन, प्रदेशेष्वेवान्वर्थग्रहणमस्तु । वाक्येऽपि तर्हि स्यात्-कुमारआआ श्रिता गवां कुलम् । अथ संज्ञाविधिर्वाक्ये कस्मान्न भवति, यावता ऽसमासेऽ इति प्रथमानिर्देशस्याधारो न संज्ञायाः ? तथा गोकुलं कुमारीपुत्र इत्यत्र समासेऽपि पूर्वनिपातवद् ह्रस्वत्वं कस्मान्न भवति ? तस्मात्सत्येवोपसर्जनत्वे उपसर्जनगोशब्दन्तस्योपसर्जनत्वात् स्त्रीप्रत्ययान्तान्तस्य प्रातिपदिकस्य ह्रस्वविधानात्समासाधिकारे पूर्वनपातिवचनाच्च वाक्ये तौ न भवत इति वाच्यम् । संज्ञाविधानं तून्मतगङ्गमित्यादौ द्वयोरप्यप्राधान्ये पूर्वनिपातनियमार्थम् । यत्र चानन्यार्थः प्रथमानिर्देशस्तत्र प्रथानस्यापि यथा स्यादित्येवमर्थं च । यथा-पाचकवृन्दारकः, पुरुषव्याघ्रः, अर्द्धपिप्ली, पूर्वकाय इति अत्र ऽवृन्दारकनागकुञ्जरैः पूज्यमानम्ऽ, ऽउपमितं व्याघ्रादिभिःऽ,ऽअर्द्धं नपुंसकम्ऽ,ऽपूर्वापराधरोतरम्ऽ इति प्रथमानिर्देशस्येदमेव प्रयोजनम्; समासस्य विशेषणं विशेष्येण षष्ठीत्येव सिद्धत्वाद् । न च पूज्यमानतादिविषय एव यथा स्यादिति नियमार्थस्तदारम्भः ? उपसर्जनसंज्ञार्थत्वेऽर्द्धादिपूर्वपदस्य विशिष्टरूपस्यार्द्धपिप्पलीत्यादेः समासस्य विधिसम्भवात् तस्मादेतदर्थापि संज्ञा । अन्वर्थत्वं तु सति संभवे व्यवस्थापकम् ॥
सिद्धान्तकौमुदी
समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् ॥
अत्र उपसर्जनकार्यं वक्ष्यन्नुपसर्जनसंज्ञामाह-प्रथमानिर्दिष्टम्। ननु समासे प्रतमानिर्दिष्टमुपसर्जनमिति व्याख्याने असंभवः, समाससे सति `सुपो धातु` इति प्रथमाया लुप्तत्वात्। समासे चिकीर्षिते प्रथमानिर्धिष्टमिति व्याख्याने तु कृष्णं श्रितः कृष्णश्रित इत्यत्र विग्रहे कृष्णशब्दस्य द्वितीयानिर्दिष्टत्वादुपसर्जनत्वं न स्यात्। श्रितशब्दस्य प्रथमानिर्दिष्टत्वादुपसर्जनत्वं स्यात्। अतो व्याचष्टे-समासशास्त्रै इति। समास पदं समासविधायकशास्त्रपरमिति भावः। एवंच `द्वितीया श्रिते`ति समासविधायकशास्त्रे द्वितीयान्तस्यैव कृष्णशब्दस्य द्वितीयेति प्रथमानिर्दिष्टत्वादुपसर्जनत्वम्। एवंच `अव्यय`मिति समासविधावपेत्यस्य प्रथमानिर्दिष्टत्वादुपसर्जनत्वं स्थितम्।
प्रथमानिर्दिष्टम्। अत्र समासपदं तद्विधायके लाक्षणिकम्। अन्यथा `चिकीर्षिते समासे यत्प्रथमान्त`मिति व्याख्यानप्रसक्त्या कृष्णश्रित इत्यादौ श्रितादिष्वतिप्रसङ्ग इत्याशयेनाह समासशास्त्र इथि। विग्रह इति। अनुवर्तमानेन समासग्रहणेन विग्रहे लक्ष्यत इति भावः। नतु तस्येति। `अनन्तरस्य--`इति न्यायात्पूर्वसूत्रेण विहितस्य पूर्वनिपातत्वं न निषिध्यते। तेन कुमारीश्रित इत्यादौ न दोषः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
प्रथमानिर्दिष्टं समास उपसर्जनम् ।। समासपदार्थनिरूपणाधिकरणम् ।। - प्रथमानिर्दिष्टं समासे उपसर्जनमिति चेदनिर्देशात् प्रथमायाः समासे सञ्ज्ञाऽप्रसिद्धिः - प्रथमानिर्दिष्टं समास उपसर्जनमिति चेदनिर्देशात् प्रथमायाः समास उपसर्जनसञ्ज्ञाया अप्रसिद्धिः। नहि कष्टादीनां समासे प्रथमां पश्यामः। - सिद्धं तु समासविधाने वचनात् - सिद्धमेतत्। कथम्? समासविधाने प्रथमानिर्दिष्टमुपसर्जनसञ्ञ्ज्ञं भवतीति वक्तव्यम्। ततर्हि वक्तव्यम्? - न वा तार्दथ्यात्ताच्छब्द्यम् - न वा वक्तव्यम्। किं कारणम्? तार्दथ्यात्ताच्छब्द्यं भविष्यति। समासार्थं शास्त्रं समास इति। - यस्य विधौ प्रथमानिर्देशस्ततोऽन्यत्रोपसर्जनसञ्ज्ञाप्रसङ्गः - यस्य विधौ प्रथमानिर्देशः क्रियते ततोन्यत्रापि तस्योपसर्जनसञ्ज्ञा प्राप्नोति। राज्ञः कुमारीं राजकुमारीं श्रितः। श्रितादिसमासे द्वितीयान्तं प्रथमानिर्दिष्टं तस्य षष्ठीसमासेप्युपसर्जनसञ्ज्ञा प्राप्नोति। - सिद्धं तु यस्य विधौ तं प्रतीति वचनात् - सिद्धमेतत्। कथम्? यस्य विधौ यत्प्रथमानिर्दिष्टं तं प्रति तदुपसर्जनसञ्ञ्ज्ञं भवतीति वक्तव्यम्। तत्तर्हि वक्तव्यम्? न वक्तव्यम्। उपसर्जनम् इति हि महती सञ्ज्ञा क्रियते। सञ्ज्ञा च नाम यतो न लघीयः। कुत एतत्? लघ्वर्थं हि सञ्ज्ञाकरणम्। तत्र महत्याः सञ्ज्ञायाः करण एतत्प्रयोजनमन्वर्थसञ्ज्ञा यथा विज्ञायेत- अप्रधानमुपसर्जनमिति। प्रधानमुपसर्जनमिति च सम्बन्धिशब्दावेतौ। तत्र सम्बन्धादेतद् गन्तव्यम्- यं प्रति यदप्रधानं तं प्रति तदुपसर्जनसञ्ञ्ज्ञं भवतीति। अथ यत्र द्वे षष्ठ्यन्ते कस्मात्तत्र प्रधानस्योपसर्जनसञ्ज्ञा न भवति। राज्ञः पुरुषस्य राजपुरुषस्येति। - षष्ठ्यन्तयोश्चोपसर्जनत्वे उक्तम् - किमुक्तम्? षष्ठ्यन्तयोः समासेऽर्थाभेदात् प्रधानस्याऽपूर्वनिपातः इति। एवं न चेदमकृतं भवति उपसर्जनं पूर्वम् इति। अर्थश्चाऽभिन्न इति कृत्वा प्रधानस्य पूर्वनिपातो न भविष्यति। यद्यपि तावदेतदुपसर्जनकार्यं परिहृतम्, इदमपरं प्राप्नोति,- राज्ञः कुमार्याः राजकुमार्याः। गोस्त्रियोरुपसर्जनस्य 1|2|48 इति ह्रस्वत्वं प्राप्नोति। - उक्तं वा - किमुक्तम्?। परवल्लिङ्गमिति शब्दशब्दार्थौ इति। तत्रौपदेशिकस्य ह्रस्वत्वम्, आतिदेशिकस्य श्रवणं भविष्यति ।। प्रथमा निर्दिष्टं समास उपसर्जनम् ।। 43 ।।