॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|41
SK 251
1|2|41
अपृक्त एकाल् प्रत्ययः
SK 251
सूत्रच्छेद:
अपृक्तः - प्रथमैकवचनम् , एकाल् - प्रथमैकवचनम् , प्रत्ययः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
एकाल् प्रत्यय: अपृक्त:
सूत्रार्थ:
सः प्रत्ययः यस्मिन् केवलं एकः एव वर्णः अस्ति, अपृक्तः नाम्ना ज्ञायते ।
एकाल् इत्युक्ते "एकः अल् यस्मिन् अस्ति सः" । एतादृशः एकाल्-प्रत्ययः "अपृक्त"संज्ञां प्राप्नोति । यथा -
1) प्रथमा-एकवचस्य सुँ प्रत्यये उँकारः इत्संज्ञकः अस्ति, अतः तस्य लोपः भवति, "स्" इत्येव अवशिष्यते । अतः अयम् एकाल्-प्रत्ययः । तथैव, औ, औट्, टा, ङे, ङि - एते अपि एकाल्-सुप्-प्रत्ययाः । एतेषां सर्वेषाम् "अपृक्त" संज्ञा भवति ।
2) लङ्लकारस्य परस्मैपदस्य त्, स् एतौ अपि अपृक्तौ ।

अपृक्त-संज्ञायाः प्रयोजनम् - वेरपृक्तस्य 6|1|67, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 , अस्तिसिचोऽपृक्ते 7|3|96 आदिषु सूत्रेषु दृश्यते ।
One-line meaning in English
A प्रत्यय: that contains only one letter is called अपृक्त ।
काशिकावृत्तिः
अपृक्तः इति इयं संज्ञा भवति एकाल् यः प्रत्ययस् तस्य। असहायवाची एकशब्दः। स्प्शो ऽनुदके क्विन् 3|2|58 धृतस्पृक्। भजो ण्विः 3|2|62 अर्धभक्। पादभाक्। एकालिति किम्? दर्विः। जागृविः। प्रत्यय इति किम्? सुराः। अपृक्तप्रदेशाः वेरपृक्तस्य 6|1|67 इत्येवम् आद्यः।
`घृतस्पृक्` इति। `क्विन्प्रत्ययस्य कुः` 8|2|62 इति कुत्वम् = शकारस्य खकारः, तस्य जश्त्वम् = खकारस्य गकारः। `अद्र्धभाक्` इति। `चोः कुः` 8|2|30 इति जकारस्य गकारः। उभयत्र `वाऽवसाने` 8|4|55 इत चर्त्वं ककारः। त्तरापृक्तसंज्ञायां सत्याम् ` वेरपृक्तस्य` 6|1|65 इति वकारलोपो भवति। प्रत्युदाहरणेषु हि तदभावान्न भवति।`दर्विः` इति। `दृ विदारणे` (धातुपाठः-1493) `वृ दृभ्यां विन्` (द।उ।1।23) इति विन्। `जागृविः` इति। `जागृ निद्राक्षये` (धातुपाठः-1072), `जृशृस्तृजागृभ्यः क्विन्` (द।उ।1।24) इति क्विन्। `सुराः` इति। `षूञ् अभिषवे` (धातुपाठः-1247), सुरां सुनोतीति `अन्यभ्योऽपि दृश्यते` 3|2|178 इति क्विप्; सुरासुत्, ह्यस्वस्य तुक्। `तमाचष्टे` (वा। 201) इति णिच्। `णाविष्टवत् कार्यं प्रातिपदिकस्य` (वा।813) इति टिलोपः। सुरासवतेः पुनः क्विप्, णिलोपः, प्रथमैकवनचम्, हल्ङ्यादिना 6|1|66 सुलोपः; रुत्वविसर्जनीयौ। अत्रापि णिलोपे कृतेऽसति प्रत्ययग्रहणे धातुकारस्यापृक्तसंज्ञा स्यात्। तस्यां च सत्यां `हल्ङ्याब्भ्यः` 6|1|66 इति धातुसकारलोपऋः स्यात्। ननु चासत्यपि प्रत्ययग्रहणे `प्रत्याप्रत्ययोः प्रत्ययस्यैव ग्रहणम्` (व्या।प।72) इति संज्ञा विज्ञास्यते, तत् किमर्थं प्रत्ययग्रहणम्? क्रियते विस्पष्टार्थम्।अथैकग्रहणं किमर्थम्? अल्समुदायस्य मा भूदिति, नैतदस्ति; अल्ग्रहणसामथ्र्यान्न भविष्यति, अन्यथा ह्रल्ग्रहणमनर्थकं स्यात्- यदि हल्समुदायस्यापि संज्ञा स्यात्। एवं तह्र्रल्ग्रहणेनात्र जातिग्रहणं भवतीति ज्ञापनार्थमेकग्रहणमम्। तेन `हलन्ताच्च` 1|2|10 इत्यत्र यदुक्तम्--`दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम्` इति तदुपपन्नं भवति।
घृतस्पृगिति । ऽक्विन्प्रत्ययस्य कुःऽ इति कुत्वम् । अर्थभागिति । अत्र ऽवेरेपृक्तस्यऽ इति लोपः प्रयोजनम् । एकाल्ग्रहणं किमिति । समुदायद्वारेणायमेकपदविषयः प्रश्नः, अन्यथा प्रत्ययमात्रस्य संज्ञा स्यादिति प्रदेशेषु प्रत्ययग्रहणमेव कर्तव्यं स्यात्, किं सञ्ज्ञया ! यत्र यद्यलन्तस्य स्यात्, केवलस्य चाप्यन्तवद्भावात् अल्ग्रहणं व्यर्थं स्यादिति तत्सामर्थ्यादल्समुदायस्य न भविष्यतीति भावः । दर्विरिति । ऽदृ विदारणेऽ औणादिको विन् प्रत्ययः । वर्णग्रहणे जातिग्रहणादल्समुदाया गृह्यन्ते इति भावः । स्यादेतत्-ऽवेरपृक्तस्यऽ इत्यत्र ऽवोऽपृक्तस्यऽ इत्यस्तु, क्विबादिषु च मा भूदिकारः, न चान्यः प्रत्ययो वकारोऽस्तीति, तन्नः ऽराजनि युधिकृञःऽ राजकृत्वा, तमाचष्ट इति णिचि टिलोपे क्विपि णिलोपे च कृते क्वनिपः सम्बन्धी प्रत्ययो वकारोऽस्ति । अवश्यं च क्विबादीनामुच्चारणार्थे कश्चिदजासंजनीयः, तत्राकारे ऽसृशृभ्यां वःऽ इत्यादिष्वपि लोपः प्रसज्येत । उकारे तु ण्वुलादिषु । अन्यत्र तु गौरवमिति यथान्यासमेव साधीयः । ननु च यद्यल्समुदायोऽपि गृह्यते, अल्ग्रहणमनर्थकं स्याद् । अतो यद्यपि ऽनिपात एकाजनाङ्ऽ इत्यत्रैकग्रहणाद्वर्णग्रहणे जातिग्रहणं ज्ञापितम्, तथाप्यत्राल्ग्रहणसामर्थ्यात्समुदायस्य न भविष्यतीति चिन्त्यप्रयोजनमेकग्रहणम् । तथाऽपृक्तप्रदेशरेष्वल्ग्रहणेनैव सिद्धे नार्थः संज्ञया; नतराम्महत्या, नतमाम्पूर्वनिर्द्दिष्टया । सुरा इति । सुरां सुनोतीति क्विपि तुक् सुरासुतमाचष्टे इति णिचि टिलोपः क्विब् णिलोपः, अत्र धातुसकारस्य ऽहल्ङ्याब्भ्यऽ इति लोपो न भवति, प्रत्ययपरिभाषया सिद्धम् । तिपा साहचर्याच्चैकवचनस्य ग्रहणं सिद्धमिति प्रत्ययग्रहणमपि चिन्त्यप्रयोजनमेव ॥
सिद्धान्तकौमुदी
एकाऽल्प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात् ॥
सखान् स् इति स्थिते अपृक्तकार्यं वक्ष्यन्नपृक्तसंज्ञामाह--अपृक्तः। एकालिति कर्मधारयः। अत्रैकशब्दो।ञसहायवाची। `एके मुख्यान्यकेवलाः` इत्यमरः। `स्` इत्यस्याऽपृक्तसंज्ञायाम्।
अपृक्त एकाल्। असहायावाच्यत्रैकशब्दः सङ्ख्यावाची वा। न च सङ्ख्यावाचित्वे `अभैत्सी`दित्यत्र हलन्तात्परस्य सिचोऽपृक्तत्वाल्लोपः स्यादिति वाच्यं, विभक्तिसाहचर्याद्विभक्तेरेव लोप इति व्याख्यानात्। एकालिति किम्? जागृविः। `वरेपृक्तस्ये`ति लोपो न। `अ`लित्यनेनैकत्वे लब्धे इदमेकग्रहण वर्णग्रहणं ज्ञापयतीति। फलं दम्भितुमिच्छति धिप्सतीत्यत्र सनो `हलन्ताच्चे`ति कित्त्वम्। तत्र हल्ग्रहणस्य व्यक्तिपरत्वे योऽत्रैकः समीपबर्ती हल्नकारस्ततः परः सन् न, यस्माच्च परः सन् भकारान्नासाविकः समीप इति कित्त्वं न स्यात्। ततश्च नलोपो न स्यादित्यभ्युपगम्य `निपात एकाजना` ङित्यत्र एकाज्ग्रहणं त्युक्तुं शक्यमित्यवोचान।
लघुसिद्धान्तकौमुदी
एकाल् प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात्॥
महाभाष्यम्
अपृक्त एकाल्प्रत्ययः - अपृक्तसञ्ज्ञायां हल्ग्रहणं स्वादिलोपे हलोऽग्रहणार्थम् - अपृक्तसञ्ज्ञायां हल्ग्रहणं कर्तव्यम्। एकहल्प्रत्ययोऽपृक्तसञ्ञ्ज्ञो भवतीति वक्तव्यम्। किं प्रयोजनम्? स्वादिलोपे हलोऽग्रहणार्थम्। एवं हि स्वादिलोपे हलो ग्रहणं न कर्तव्यं भवति। हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् 6|1|68 इत्यपृक्तस्येत्येव सिद्धम्। - अणिञोर्लुगर्थमल्ग्रहणम् - अणिञोर्लुगर्थमल्ग्रहणं कर्तव्यम्। किं प्रयोजनम्? अणिञोर्लुकि ग्रहणं न कर्तव्यं भवति ण्यक्षत्रियार्षञ्ञितो यूनि लुगणिञ्ञोः 2|4|58 इत्यपृक्तस्येत्येव सिद्धम्। - अणिञोर्लुगर्थमिति चेण्णेऽतिप्रसङ्गः - अणिञोर्लुगर्थमिति चेण्णेऽतिप्रसङ्गो भवति। इहापि प्राप्नोति- फाण्टाहृतेरपत्यं माणवकः फाण्टाहृतः इति। णवचनसार्मथ्यान्न भविष्यति। - वचनप्रामाण्यादिति चेत्फङ्निवृत्त्यर्थं वचनम् - वचनप्रामाण्यादिति चेत्फङ्निवृत्त्यर्थमेतत्स्यात्। फगतो मा भूदिति। - पैलादिषु वचनात्सिद्धम् - यद्येतावत्प्रयोजनं स्यात् पैलादिष्वेवास्य पाठं कुर्वीत। तत्र पाठादन्येषामपि फको निवृत्तिर्भवति। एवं सिद्धे सति यदयं णं शास्ति तज्ज्ञापयत्याचार्यो - नास्य लुग्भवति इति। तान्येतानि त्रीणि ग्रहणानि भवन्ति - अपृक्तसञ्ज्ञायां हल्ग्रहणं कर्तव्यम्। स्वादिलोपे हलो ग्रहणं न कर्तव्यम्। अणिञोर्लुकि ग्रहणं कर्तव्यम्। अल्ग्रहणेऽपि वै क्रियमाणे तान्येव त्रीणि ग्रहणानि भवन्ति- अपृक्तसञ्ज्ञायामलग्रहणं कर्तव्यम्। स्वादिलोपे हलो ग्रहणं कर्तव्यम्। अणिञोर्लुकि ग्रहणं न कर्तव्यं भवति, अपृक्तग्रहणं कर्तव्यम्। तत्र नास्ति लाघवकृतो विशेषः। अयमस्ति विशेषः। अल्ग्रहणे क्रियमाणे एकग्रहणं न करिष्यते। कस्मान्न भवति- दर्विः जागृविः? अलेव यः प्रत्ययः। किं वक्तव्यमेतत्? नहि। कथमनुच्यमानं गंस्यते? अल्ग्रहणसार्मथ्यात्। यदि च योऽल् चान्यश्च तत्र स्यात्, अल्ग्रहणमनर्थकं स्यात्। हल्ग्रहणेपि वै क्रियमाणे एकग्रहणं न करिष्यते। कस्मान्न भवति- दर्विः जागृविः? हलेव यः प्रत्ययः। किं वक्तव्यमेतत्? नहि। कथमनुच्यमानं गंस्यते? हल्ग्रहणसार्मथ्यात्। यदि च यो हल् चान्यश्च तत्र स्यात्, हल्ग्रहणमनर्थकं स्यात्। अस्त्यन्यद्धल्ग्रहणस्य प्रयोजनम्। किम्? हलन्तस्य यथा स्यादजन्तस्य मा भूदिति। एवं तर्हि सिद्धे सति यदल्ग्रहणे क्रियमाणे एकग्रहणं करोति, तज्ज्ञापयत्याचार्यः- अन्यत्र वर्णग्रहणे जातिग्रहणं भवति इति। किमेतस्य ज्ञापने प्रयोजनम्? दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धम् इत्युक्तं तदुपपन्नं भवति ।। अपृक्त एकाल्प्रत्ययः ।। 41 ।।