॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|40
SK 3669
1|2|40
उदात्तस्वरितपरस्य सन्नतरः
SK 3669
सूत्रच्छेद:
उदात्तस्वरितपरस्य - षष्ठ्येकवचनम् , सन्नतरः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet. It will be updated eventually, but if you would like us to update this sutra on priority, please send a message using the link at the bottom of this page. Thanks!
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अनुदात्तग्रहणम् अनुवर्तते। उदात्तः परो यस्मात् स उदात्तपरः स्वरितः परो यस्मात् स स्वरितपरः। उदात्तपरस्य स्वरितपरस्य च अनुदात्तस्य सन्नतर आदेशो भवति। अनुदात्ततरः इत्यर्थः। देवा मरुतः पृश्निमातरो ऽपः। मातरः इत्यनुदात्तः। अपः इत्यन्तौदात्तः ऊडिदंपदाद्यप्पुम्रैद्युभ्यः 6|1|171 इति। तत्र अनुदात्तयोरेकादेश ओकारो ऽनुदात्तः तस्यौदात्ते परभूते सन्नतर आदेशो भवति। इमं मे गङ्गे यमुने सरस्वति शुतुद्रि। इकारो ऽनुदात्तः। शुतुद्रि इत्येतदामन्त्रितं पादादौ तस्मान् न निहन्यते, अनुदात्तं सर्वम् अपादादौ 8|1|18 इति। तस्य प्रथमम् अक्षरम् उदात्तं तस्मिन् परभूते पूर्वस्य सरस्वति इति इकारस्य सन्नतर आदेशो भवति। माणवक जटिलकाद्यापक क्व गमिष्यसि। क्व इति स्वरितस् तस्मिन् परभूते क इति अनुदत्तस् तस्य सन्नतर आदेशो भवति।
`मातर इत्यनुदात्तः` इति। अनुदात्तत्वं तु विभक्तिस्वरेण। मातर इति मातृशब्दाज्जस्, `ऋतो ङिसर्वनामस्थानयोः` 7|3|110 इति गुणः। जसः सकारस्य रुत्वम्। तस्याप्यशब्दे शसन्ते परतः `अतो रोरप्लुतादप्लुते` 6|1|109 इत्युत्वम्। `आद्गुणः` 6|1|84 `उडिदम्` 6|1|165 इत्यादिना विभक्तेरन्तोदात्तत्वे कृते `एङः पदान्तादति` (61।109) इतिय ओकारः, सोऽपि स्थानिवद्भावेनानुदात्तो भवति। `तस्योदात्ते परभूते` इति। विभक्त्यकारे। `इकारोऽनुदात्तः` इति। सरस्वतीतिशब्दसम्बन्धी; `आमन्त्रित्सय च` 8|1|19 इति सरस्वतीशब्दस्य निघातविधानात्। `तस्मान्न निहन्यते` इति। `अनुदात्तं सर्वमपादादौ` 8|1|18 इत्यत्रापादादाविति निघातप्रतिषेधात्। `प्रथममक्षरम्` इति। शकारोकार उदात्तः, `आमन्त्रितस्य च` 6|1|192 इति षाष्ठिकेन।
परशब्दः प्रत्येकमभिसम्बध्यत इत्याह--उदातः परो यस्मादिति । सन्नशब्देन नीचैरर्थ उच्यते, तेनानुदातत्वं लक्ष्यत इत्याह--अनुदाततर इति । प्रकर्षः स्थान्यनुदातापेक्षः । मातर इत्यनुदात इति । समासैकदेशो निष्कृष्टानुकृतः, देवा इत्यादीनां त्रयाणामामन्त्रितानामेकीभूतानामाद्यौदातत्वे शेषनिघातः । ऽविभाषितं विशेषचने बहुवचनम्ऽ इति विद्यमानपक्षे चामन्त्रितनिघातः, जसः सकारस्य रुत्वम्, तस्य स्रंसनयुक्तस्य ऽअतो रोरप्लुतात्, इति उकारोऽनुदातः, ऽआद्गुणःऽ सोऽप्यान्तर्यतोऽनुदातः, अच्छब्दाकारस्य शेषनिघातः, तयोरनुदातयोः ऽएङः पदान्तादतिऽ इत्येकादेश आन्तर्यतोऽनुदातः । सरस्वतीकारस्येति । ननु च नवसूत्र्युत्कृष्यत इति ज्ञापितम्, ततश्च गङ्गेप्रभृतीनामिव सरस्वतीकारस्यापि पूर्वेणैकश्रुतिरेव प्राप्नोति, कः पुनः सन्नतरस्यावकाशः, यः स्वरितात्परो न भवति ? अग्निरिति । न च विप्रतिषेधेन सन्नतरो लभ्यते; पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुतरस्य । एवं तर्हि ऽन मु नेऽ इत्यत्र नेति योगविभागात् सिद्धत्वं भविष्यति । इह देवदतस्य न्यङ् इति ऽन्यधी चऽ इति पूर्वपदप्रकृतिस्वरे ऽउदातस्वरितयोर्यणःऽ इत्यञ्चत्यकारस्य स्वरितः पूर्वस्य सन्नतरं प्रत्यसिद्धो न भवति; प्रकरणोत्कर्षाद् । ऽउदातस्वरितयोःऽ इत्येव सिद्धे परग्रहणं बहुव्रीहावेकवचनविवक्षार्थमिति गङ्गेप्रभृतीनां सन्नतराभावः ॥
सिद्धान्तकौमुदी
उदात्तस्वरितौ परौ यस्मात्तस्यानुदात्तस्यादात्ततरः स्यात् । सरस्वति शुतुद्रि (सरस्वति॒ शुतु॑द्रि) । व्यचक्षयत्स्वः (व्य॑चक्षय॒त्स्वः॑) । तस्य परमाम्रेडितम् (कौमुदी-83)
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!