॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|4
SK 2234
1|2|4
सार्वधातुकमपित्
SK 2234
सूत्रच्छेद:
सार्वधातुकम् - प्रथमैकवचनम् , अपित् - प्रथमैकवचनम्
अनुवृत्ति:
ङित्  [1|2|1] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
अपित् सार्वधातुकम् ङित्
सूत्रार्थ:
अपित् सार्वधातुकप्रत्ययः ङित्वत् भवति ।
यस्मिन् सार्वधातुकप्रत्यये पकारः इत्संज्ञकः नास्ति, सः सार्वधातुकप्रत्ययः ङित्-वत् भवति ।

किम् नाम सार्वधातुकप्रत्ययः? तिङ्शित्सार्वधातुकम् 3|4|113 इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । एतेषु -
1) तिप्, सिप्, मिप् एते त्रयः तिङ्-प्रत्ययाः पित्-प्रत्ययाः सन्ति, अतः एतान् विहाय अन्ये पञ्चदश प्रत्ययाः अनेन सूत्रेण "ङित्वत्" भवन्ति । अत्रापि अपवादद्वयं ज्ञातव्यम् -
अ) "सिप्" इत्यस्य लोट्लकारे सेह्यर्पिच्च 3|4|87 इत्यनेन "हि" आदेशः भवति, सः "अपित्" भवति, अतः अनेन सूत्रेण ङित्वत्भावं प्राप्नोति ।
आ) आडुत्तमस्य पिच्च 3|4|92 इत्यनेन लोट्लकारस्य उत्तमपुरुषस्य मिप्, वस्, मस्, इट्, वहि, महिङ् - एते सर्वे प्रत्ययाः पित्-भवन्ति, अतः तेषाम् ङित्वत्भावः निषिध्यते ।
2) शित्-प्रत्ययेषु केवलं "शप्" अयं एकः एव पित्-प्रत्ययः अस्ति, अन्ये सर्वे शित्-प्रत्ययाः अपित् सन्ति, अतः वर्तमानसूत्रेण ङित्वत् भवन्ति । यथा - श, श्यन्, शतृ आदयः ।

ङित्वत्भावस्य प्रामुख्येन त्रीणि प्रयोजनानि दृश्यन्ते -
1) क्ङिति च 1|1|5 इत्यनेन ङित्-प्रत्यये परे अङ्गस्य गुणवृद्ध्योः निषेधः भवति । यथा - आप् + नु + तः = आप्नुतः । अत्र "तः" इति ङित्-प्रत्ययः अस्ति, अतः "आप्नु" इत्यस्य उकारस्य गुणादेशः न भवति ।
2) ग्रहिज्यावयि.. 6|1|16 इत्यनेन केषाञ्चन धातूनां ङित्-प्रत्यये परे सम्प्रसारणं भवति । यथा, प्रच्छ् + श + ति = पृच्छति । अत्र प्रच्छ्-इत्यस्य ङित्-सार्वधातुके प्रत्यये परे सम्प्रसारणं भवति ।
3) अनिदितां हलः उपधायाः क्ङिति 6|4|24 इत्यनेन अनिदित्-धातूनां विषये नकारलोपः भवति । यथा, तृन्फ्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -
तृन्फ् + लट् [वर्त्तमाने लट् 3|2|123 इति लट्]
→ तृन्फ् + तिप् [तिप्तस्.. 3|4|78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ तृन्फ् + श + तिप् [तुदादिभ्यः शः 3|1|77 इति श-विकरणप्रत्ययः]
→ तृफ् + श + तिप् [शकारस्य सार्वधातुकमपित् 1|2|4 इत्यनेन ङित्वद्भावे कृते अनिदितां हलः उपधायाः क्ङिति 6|4|24 इति नकारलोपः]
→ तृन् फ् + श + तिप् [ शे तृम्फादीनां नुम् वाच्यः अनेन वार्तिकेन पुनः नुमागमः]
→ तृं फ् अ ति [नश्चापदान्तस्य झलि 8|3|24 इति अनुस्वारः]
→ तृम्फति [अनुस्वारस्य ययि परसवर्णः 8|4|48 इति परसवर्णः मकारः]
One-line meaning in English
An अपित् सार्वधातुकप्रत्यय: behaves like a ङित् प्रत्यय.
काशिकावृत्तिः
सार्वधातुकं यदपित् तत् ङिद्वद् भवति । कुरुतः, कुर्वन्ति ; चिनुतः, चिन्वन्ति । सार्वधातुकम् इति किम् ? कर्ता, कर्तुम्, कर्तव्यम् । अपितिति किम् ? करोति, करोषि, करोमि ॥
`अपित्` इति। किमयं प्रसज्यप्रतिषेधः? उत पर्युदासः? किञ्चात्र? पूर्वस्मिन् पक्षे लोडुत्तमपुरुषस्यैकवचनस्य `आडुत्तमस्य पिच्च` 3|4|92 इत्याटि पिति कृते तुदानीत्यत्राड्विकरणाकारयोः पिदपितोरेकादेशः परं प्रति `अन्तादिवच्च` 6|1|82 इत्यादिद्भावात् पिद्ग्रहणेन गृह्रते इति पित्त्वम् , पित्त्वे च सत्यपिदिति ङित्त्वप्रतिषेधः स्यात्, ततश्च धातोर्गुणः प्रसज्येत। इतरत्र तु पक्षे `च्यवन्ते, प्लवन्ते` इत्यत्र शबन्तादेशाकारयोः पिदपितोर्य एकादेशस्तस्य पितोऽन्यत्वात् ङित्त्वमपाद्येत, ततश्च धातोर्गुणो न प्राप्नोति? पितोऽन्यत्वं त्वेकादेशस्य सर्वं प्रत्यादिवत्त्वात् परग्रहणेन ग्रहणात्, उच्यते,यथेच्छसि तथैवास्तु, उभयथाप्यदोषः। पूर्वत्र तावददोषः; यस्मादपितोरेव तुदानीत्यत्रैकादेशः, न पिदपितोः। तथा हि-- `आडुत्तमस्य पिच्च` 3|4|92 लोडुत्तमपुरुषस्यैव पित्त्वं विधीयते, न त्वाटः। इतरत्राप्यदोषः, यस्मादपिदित्यनेन सार्वधातुकं विशिष्यते-- पितोऽन्यत् सार्वधातुकमपिदिति। न चान्तशब्दाकारः सार्वधातुकम्, किं तर्हि? तदेकदेशः। यच्चात्र सार्वधातुकं न च तेन सहैकादेशः, येन सहैकादेशो न च तत्सार्वधातुकम्;तेन यद्यप्ययमेकादेशः पितोऽन्यः; तथापि सार्वधातुकं न भवतीति तत्कुतो ङित्त्वस्य प्रसङ्गः? अथ वा भवतु ङित्तवम्, सत्यपि तस्य ङित्त्वे तस्मिन् नास्ति गुणाभावप्रसङ्गः? यस्मात् `वार्णादाङ्गं बलीयः` (व्या।प।39) इति वचनादेशाद्धि प्रागेव `च्यवन्ते, प्लवन्ते` इत्यत्र गुणेन भवितव्यम्। `कुरुतः` इति। ततो ङित्त्वे सति विकरणस्य गुणो न भवति। करोतेरस्य `अत उत् सार्वधातुके` 6|4|130 इत्युत्त्वं भवति। तत्र हि `गमहन` 6|4|98 इत्यादिसूत्रात् क्ङितीत्यनुवर्तते॥
अपिदिति पर्युदासश्चेत्, च्यवन्ते इत्यत्र च्यु अ अन्ते इति स्थने नित्यत्वादन्तङ्गत्वाच्चैकादेशः । न च वार्णादाङ्गं बलीयः, नानाश्रयत्वात् । तत्र कृते परस्येहापित् आश्रितत्वातं प्रत्यादिवद्भावात् पिदपितोरेकादेशोऽपिद्ग्रहणेन गृह्यत इति शबेकादेशवतः सार्वधातुकस्य ङित्वाद् गुणिनिषेधः प्राप्नोति । प्रसज्यप्रतिषेधे तु पित्वनिमितो निषेधः पूर्वस्य कार्यमिति पूर्वं प्रत्यन्तवद्भावाद् ङ्त्वाभाविः । अस्तु तर्हि प्रसज्यप्रतिषेधः ? यद्येवम्, तुदानीत्यत्र विकरणोतमयोः पिदपितोरेकादेशः परस्य पितो ङ्त्विनिषेधे कर्तव्ये आदिवत्स्यात्, इत्यङ्तिमुतममाश्रित्य गुणः प्राप्नोति । ऽअन्तादिवच्चऽ इत्यत्र पूर्वपरौ समुदायावभिप्रेतौ, नाचौ । किं कारणम् ? आद्यन्तयोरवयवत्वात्, स्थानिनोरचोरेकादेशेन निवर्तितत्वाच्च । अतः स्थानिनावचौ पूर्वपरौ ययोः समुदाययोरन्तादी, एकादेशोऽपि तयोरेवान्तादिवद्भवतीत्ययमतिदेशार्थः । अत एव ब्रह्मबन्धूरित्यत्र एकादेशोऽपि प्रतिपदिकं प्रत्येवान्तवद्भवति, ध्रुवै तुवै इत्यत्र च उतैमैकवचने कृत्स्नयोरेव पिदपितोरेकादेश इति अचावेव प्रत्यादिवत्वे स्यादेव दोषः । एवं तर्ह्यकादेशस्य पूर्वविधौ स्थानिवद्भावात्पक्षद्वयेऽपि यथा स्थानिकाले यथायोगं गुणस्य प्रवृत्तिनिवृती भवतः, तथा कृतेऽप्येकादेशे स्थानिबुद्ध्या भविष्यतः । एवमुभयोर्निर्दोषत्वेऽपि प्रयज्यप्रतिषेध एवाश्रयणीयः । तत्र हि--तदाश्रयणसामर्थ्याद्यच्च यावच्च पितो ङ्त्विं प्राप्तं तस्य सर्वस्य निषेधादिदमपि सिद्धं भवति-अचिनोद्, अचिनवमिति । अत्र हि ङितो लिङ् आदेशस्य स्थानिवद्भावेन प्राप्तस्य निषेधो भवति । पर्युदासे त्वतिदेशेनैकवाक्यत्वात् तस्यैव पर्युदासात् स्थानिवद्भावकृतं ङ्त्विं स्यादेवेति यासुटो चनं ज्ञापकमाश्रयणीयं स्यात् । किं च ऽङ्च्चि पिन्न भवतिऽ इत्ययमप्यत्रार्थ इष्यते । अतो न ब्रूताद्भवानित्यत्र तातङ्ः स्थानिवद्भावात्प्राप्तस्य पित्वस्य निषेधात् पिदाश्रयो ब्रुव इण् न भवति, तृणाढाद्भवान्--तृणह इण् न भवतीत्येषा दिक् । अत एतदर्थमपि प्रसज्यप्रतिषेध आश्रयणीयः । तत्र हि पृथक्कृतस्य नञो यथेष्टमभिसम्बन्धो भवति--पिद् ङ्न्नि भवति, ङ्च्चि पिन्न भवति । तत्र यस्यौपदेशिकं पित्वं तस्यातिदेशप्राप्तं स्थानिवद्भावप्राप्तं च ङ्त्विं निषिध्यते; यस्य पुनरौपदेशिकं ङ्त्विं तस्य स्थानिवद्भावप्राप्तं पित्वं निषिध्यत इति विवेक्तव्यम् । कुरुत इति । ङ्त्वाइद्विकरणस्य गुणाभावः, ऽअत उत्सार्वधातुकेऽ इत्युत्वं च भवति । अत्र च तृतीयासमर्थाद्वतिराश्रयणीयः, न पूर्ववत्सप्तमीसमर्थात् । तेन पचेते इत्यत्र ऽआतो ङ्तिःऽ इति ङितो यित्कार्यं तदपि भवति । यद्येवम्, चिनुत इति ऽतास्यनुदातेत्ऽ इति लसार्वधातुकानुदातत्वं प्राप्नोति ? नैष दोषः; उपदेशग्रहणमुभाभ्यामपि सम्बध्यते-ङ्दुपिदेशाद्, अदुपदेशादिति । ऽअह्न्विङेःऽ इति वा पर्युदासात् तत्सदृशस्योपदेशङ्कारवतो ग्रहणमिति सर्वमनवद्यम् ॥
सिद्धान्तकौमुदी
अपित्सार्वधातुकं ङिद्वत्स्यात् ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
अपित्सार्वधातुकं ङिद्वत्। शृणुतः॥
महाभाष्यम्
सार्वधातुकमपित् सार्वधातुकग्रहणं किमर्थम्? अपिदितीयत्युच्यमाने आर्धधातुकस्याप्यनेनापितो ङित्त्वं प्रसज्येत- कर्ता हर्ता। नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति- नानेनार्धधातुकस्यापितो ङित्त्वं भवतीति। यदयमार्धधातुकीयान् कांश्चिद् ङितः करोति चङ्ङङ्नजिङ्ङ्वनिबथङ्नङः। सार्वधातुकेप्येतज्ज्ञापकं स्यात्। नेत्याह। तुल्यजातीयस्य ज्ञापकम्। कश्च तुल्यजातीयः? यथाजातीयकाश्चङ्ङङ्नजिङ्ङ्वनिबथङ्नङः। कथंजातीयकाश्चैते? आर्धधातुकीयाः। यद्येतदस्ति तुल्यजातीयस्य ज्ञापकमिति, चङ्ङङौ लुङि्वकरणानां ज्ञापकौ स्याताम्, नजिङ्वर्तमानकालानाम्, ङनिब् भूतकालानाम्, अथङ्शब्द औणादिकानाम्, नङ्शब्दो घञ्ञर्थानाम्। तस्मात् सार्वधातुकग्रहणं कर्तव्यम्। किं पुनरयं पर्युदासः- यदन्यत्पित इति, आहोस्वित्प्रसज्यायं प्रतिषेधः- पिन्नेति? कश्चात्र विशेषः ? - अपिन्ङिदिति चेत् शबेकादेशप्रतिषेध आदिवत्त्वात् - अपिन्ङिदिति चेत् शबेकादेशे प्रतिषेधो वक्तव्यः। च्यवन्ते प्लवन्ते। किं कारणम्? आदिवत्त्वात्। पिदपितोरेकादेशोऽपित आदिवत्स्यात्। अस्त्यन्यत् पित इति कृत्वा ङित्त्वं प्राप्नोति। अस्तु तर्हि प्रसज्यप्रतिषेधः- पिन्नेति। - न पिन्ङिदिति चेदुत्तमैकादेशप्रतिषेधः - न पिन्ङिदिति चेदुत्तमैकादेशे प्रतिषेधः प्राप्नोति। तुदानि लिखानि। किं कारणम्? आदिवत्त्वादेव। पिदपितोरेकादेशः पित आदिवत् स्यात्। तत्र पिन्नेति प्रतिषेधः प्राप्नोति। यथेच्छसि तथास्तु। ननु चोक्तमुभयथापि दोष इति। उभयथापि न दोषः। एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद् व्यवधानम् ।। 4 ।।