॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|39
SK 3668
1|2|39
स्वरितात् संहितायामनुदात्तानाम्
SK 3668
सूत्रच्छेद:
स्वरितात् - पञ्चम्येकवचनम् , संहितायाम् - सप्तम्येकवचनम् , अनुदात्तानाम् - षष्ठीबहुवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet. It will be updated eventually, but if you would like us to update this sutra on priority, please send a message using the link at the bottom of this page. Thanks!
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
एकश्रुतिः इति वर्तते। संहितायं विशये स्वरितात् परेषाम् अनुदात्तानाम् एकश्रुतिर् भवति। इमं मे गङ्गे यमुने सरस्वति शुतुद्रि। माणवक जटिलकाध्यापक क्व गमिष्यसि। इमम् इत्यन्तौदात्तं, मे इति अनुदात्तं विधिकाल एव निघातविधानात्। तत् पुनः उदात्तादनुदातस्य स्वरितः 8|4|66 इति स्वरितं सम्पद्यते। तस्मात् स्वरितात् परेषाम् अनुदात्तानां गङ्गेप्रभृतीनाम् एकश्रुतिर् भवति। सर्व एते आमन्त्रितनिघातेन अनुदात्ताः। माणवक जटिलक इति प्रथमम् आमन्त्रितमाद्युदात्तं, तस्य द्वितीयम् अक्षरम् स्वरितं, ततः परेषाम् अनुदात्तानाम् एकश्रुतिर् भवति। संहिताग्रहणं किम्? अवग्रहे मा भूत्। इमम् मे गङ्गे यमुने सर्स्वति।
`अनुदात्तानाम्` इति जातौ बहुवचनम्। तेन द्वयोरपि भवति। `इममित्यन्तोदात्तम्` इति। इदंशब्दस्य कमिप्रत्ययान्तत्वात् प्रत्ययस्वरेणान्तोदात्त्त्वम्, तस्य त्यदात्यत्वे `अतो गुणे` 6|1|94 पररूपत्वे तस्याप्येकादेश 8|2|5 उदात्तेनोदात्तत्वात्। `विधिकल एव` इति। `तेमयावेकवचनस्य` 8|1|22 इति विधिकाल एव निघातविधानात्। `सर्व एत आमन्त्रितनिघातेनानुदात्ताः` इति। यद्यपि ``आमन्त्रितं पूर्वमविद्यमानवत्` 8|1|72 इति, तथापि मेशब्दापेक्षया सर्वेषां निघातापत्तेः। `प्रथमामन्त्रितमाद्युदात्तम्` इति। `आमन्त्रितस्य च` 6|1|192 इति षाष्ठिकेन। `तस्य द्वितीयमक्षरं स्वरितम्` इति। `उदात्तादनुदात्तस्य स्वरितः` 8|4|65 इति। `ततः परेषामनुदात्तानाम्` इति। `नामन्त्रिते समानाधिकरणे सामान्यवचनम्` 8|1|73 इत्यविद्यमानत्वस्य प्रतिषेधे सति माणवकात् परयोः `आमन्त्रितस्य च` 8|1|19 इति निघातविधानात् परेऽनुदात्ताः। `अवग्रहे मा भूत` इति। अवग्रहः = असंहितापाठः। ननु च स्वरितादिति पञ्चमी, तेन `तस्मादित्युत्तरस्य` 1|1|66 इत्यत्र निर्दिष्टग्रहणस्यानन्तरर्यार्थकत्वादवग्रहे प्राप्तिरेव नास्ति, यथैव हि वर्णो व्यवधायकस्तथा कालोऽपि, तत् किं संहिताग्रहणम्? पञ्चमीनिर्देशकालो न व्यवधायक इति ज्ञापनार्थम्। तेन `तिङङतिङः` 8|1|28 इत्यत्रावग्रहेऽतिङन्तात् परं तिङन्तं निहन्यते॥
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
स्वरितात्परेषामनुदात्तानां संहितायामेकश्रुति स्यात् । इमं मे गङ्गे यमुने सरस्वति (इ॒मं मे॑ गङ्गे यमुने सरस्वति) ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
नपुंसकमन। अन्यतरस्याङ्ग्रहणम् `एकवच्चे`त्यनेनैवानन्तर्यात्संबन्ध्यते, न त्वेकशेषेणेत्याशयेनाह--क्लीबं शिष्यते तच्च वा एकवदिति। अनपुंसकेनेति किम्?। शुक्लं च शुक्लं च शुक्ले। अत्र `एकवच्चे`ति न भवति। `अस्य`ग्रहणम् `अस्यैवैकशेषस्य एकवद्भावो यथा विज्ञायेते`त्येवमर्थम्। अन्यथा उत्तरत्राप्येकवदित्यस्यानुवृत्तिः शङ्क्येत। शुक्लः पट इत्यादि। `शुक्लः शुक्ला शुक्ल`मित्येव विग्रहः, `पटः पटी`त्यादिप्रदर्शनं तु शुक्ल शब्दस्य गुणुलिङ्गत्वस्फोरणाय।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
स्वरितात्संहितायामनुदात्तानाम् ।। द्व्येकयोरप्येकश्रुतिसाधनाधिकरणम् ।। - स्वरितात्संहितायामनुदात्तानामिति चेद् द्व्येकयोरैकश्रुत्यवचनम् - स्वरितात्संहितायामनुदात्तानामिति चेद् द्व्येकयोरैकश्रुत्यं वक्तव्यम्। आग्निवेश्यः पचतीति। किं पुनः कारणं न सिध्यति? बहुवचननिर्देशात्। बहुवचनेनायं निर्देशः क्रियते, तेन बहूनामेवैकश्रुत्यं स्याद् द्व्येकयोर्न स्यात्। नैष दोषः। नात्र बहुवचनेन निर्देशस्तन्त्रम्। कथं पुनस्तेनैव च नाम निर्देशः क्रियते, तच्चातन्त्रं स्यात्? तत्कारी च भवांस्तद्द्वेषी च। नान्तरीयकत्वादत्रबहुवचनेन निर्देशः क्रियते- अवश्यं कयाचिद्विभक्त्या केनचिद्वचनेन निर्देशः कर्तव्य इति। तद्यथा- कश्चिदन्नार्थी शालिकलापं सपलालं सतुषमाहरति नान्तरीयकत्वात्। स यावदादेयं तावदादाय तुषपलालान्युत्सृजति। तथा कश्चिन्मांसार्थी मत्स्यान् सकण्टकान् सशकलानाहरति नान्तरीयकत्वात्। स यावदादेयं तावदादाय शकलकण्टकान्युत्सृजति। एवमिहापि नान्तरीयकत्वाद् बहुवचननिर्देशः क्रियते। अविशेषेणैकश्रुत्यं भवति। - अविशेषेणैकश्रुत्यमिति चेद्व्यवहितानामप्रसिद्धिः - अविशेषेणैकश्रुत्यमिति चेद्वयवहितानामैकश्रुत्यं न प्राप्नोति- इमं मे गङ्गे यमुने सरस्वति शुतुद्रि। - अनेकमपीति तु वचनात्सिद्धम् - अनेकमप्येकमपि स्वरितात्परं संहितायामेकश्रुति भवतीति वक्तव्यम्। सिध्यति। सूत्रं तर्हि भिद्यते। यथान्यासमेवास्तु। ननु चोक्तम्- स्वरितात्संहितायामनुदात्तानामिति चेद् द्व्येकयोरैकश्रुत्यवचनम्, अविशेषेणेति चेद्व्यवहितानामप्रसिद्धिः इति। नैष दोषः। कथम्? एकशेषनिर्देशोऽयम्। अनुदात्तस्य चानुदात्तयोश्चानुदात्तानां चानुदात्तानामिति। एवमपि षट्प्रभृतीनामेव प्राप्नोति। षट्प्रभृतिषु ह्येकशेषः परिसमाप्यते। प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति द्व्येकयोरपि भविष्यति ।। स्वरितात्संहितायामनुदात्तानाम् ।। 39 ।।