Page loading... Please wait.
1|2|36 - विभाषा छन्दसि
॥ तस्मै पाणिनये नमः ॥
1|2|36
SK 3665
विभाषा छन्दसि   🔊
सूत्रच्छेदः
विभाषा (प्रथमैकवचनम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
छन्दसि विषये विभाषा एकश्रुतिर् भवति। पक्षान्तरे त्रैस्वर्यम् एव भवति। वा इति प्रकृते विभाषाग्रहनं यज्ञकर्मणि इत्यस्य निवृत्त्यर्थम्। तेन अयं स्वाध्यायकाले ऽपि पाक्षिक ऐकश्रुत्यविधिर् भवति। इषे त्वोर्जे त्वा। इषे त्वोर्जे त्वा। अग्न आयाहि वीतये। अग्न आयाहि वीत्ये। अग्निमीले पुरोहितम्। अग्निमीले पुरोहितम्। शं नो देवीरभैष्टये। शं नो देवीरभैष्टये।
`इषे त्वा` इत्यादि। `इषु इच्छायाम्` (धातुपाठः-1351), `अन्येभ्योऽपि दृश्यते` 3|2|178 इति क्विप्। इडस्यास्तीति लुगधिकारस्य `अप्रत्ययः` (वा। 492) इत्यनेनोपसंख्यानेन अकारप्रत्ययः, प्रत्ययस्वरेणाद्युदात्तः, इषशब्दात् सप्तम्येकवचनम्, `आद्गुणः` 6|1|84 , `एकादेश उदात्तेनोदात्तः` 8|2|5 । युष्मच्छब्दस्य द्वितीयान्तस्य `त्वामौ द्वितीयायाः` 8|1|23 इति त्वामादेशः, स त्वनुदात्तः; `अनुदात्तं सर्वमपादादौ` 8|1|18 इत्यधिकारात्। `अग्ने` इति। `आमन्त्रितस्य च` 6|1|192 इति षाष्ठिकमाद्युदात्तत्वम्। आङपूर्वात् `या प्रापणे` (धातुपाठः-1049) इत्यस्माल्लोट, सिप्,सेर्हिरादेशः, आङ `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इत्युदात्तः। `तिङङतिङ` 8|1|28 इति याहीत्यस्य निघातः। `वी गत्यादिषु` (धातुपाठः-1019) `मन्त्रेवृषेषपच` 3|3|96 इत्यादिना क्तिन्नुदात्तः, चतुर्थ्येकवचने प्रत्यये `घेर्ङिति` 7|3|111 इति गुणः, अयादेशः, द्वावपि स्थानिवद्भावेनोदात्तौ, शेषमनुदात्तम्। अग्निशब्दः पूर्ववन्निप्रत्ययस्वरेणान्तोदात्तः। द्वितीयैकवचनेऽमि पूर्वत्वम्। `एकादेश उदात्तेनोदात्तः` 8|2|5 । `ईड स्तुतौ` (धातुपाठः-1019)। अनुदात्तेत्त्वादात्मनेपदम्। `तिङङततिङः` 8|1|28 इतीडेशब्दस्य निघातः। पुरः पूर्वस्मिन् देश इति विगृह्र `पूर्वापराधरावराणामसि पुरधवश्चैषाम्` 5|3|39 इत्यसिप्रत्ययः, पूर्वशब्दस्य पुरादेशः। पुरः शब्दः प्रत्ययस्वरेणान्तोदात्तः। दधातेर्निष्ठायां `दधातेर्हिः` 7|4|42 इति हिरादेशः। `पुरोऽव्ययम्` 1|4|66 इति गतिसंज्ञायां सत्यां `कुगतिप्रादयः` 2|2|18 इति समासः। समासस्यान्तोदात्तत्वे प्राप्ते `गतिरनन्तरः` 6|2|49 इति पूर्वपदप्रकृतिस्वरेण पुरः शब्दोऽन्तोदात्तः। शंशब्दश्चादित्वान्निपातः। निपातस्वरेणाद्युदात्तः। अस्मच्छब्दस्य षष्ठी, `बहुवचनस्य वस्न सौ` 8|1|21 इत#इ नसादेशोऽनुदात्तः,अनुदात्ताधिकारात्। दिवः पचाद्यच्॥ पचादिषु देवडिति पठते। `टिड्ढाणञ्` 4|1|15 ङीप् अनुदात्तः,`यस्येति च` 6|4|148 इत्यकारलोपः। `अनुदात्तस्य च यत्रोदात्तलोपः` 6|1|155 इति ङीबुदात्तः। द्वितीयाबहुवचने `प्रथमयोः पूर्वसवर्णः` 6|1|98 इति पूर्वसवर्णदीर्घत्वम्। `एकादेश उदात्तेनोदात्तः` 8|2|5 । `ष्टुञ् स्तुतौ` (धातुपाठः-1043), अभिपूर्वात्ृदोरप्` 3|3|57 इत्यप्, गुणावादेशौ। वर्णव्यत्ययेन वकारस्य यकारः। `गतिकारक` 6|2|138 इत्त्युत्तरपदप्रकृतिस्वरत्वे प्राप्ते `अन्तः` 6|2|142 इति वर्तमाने `थाथघञ्क्ताजवित्रकाणाम्` 6|2|143 इत्त्युत्तरपदान्तोदात्तत्वम्। सप्तम्येकवचम्। `आद्गुणः` 6|1|84 `एकादेश उदात्तेनोदात्तः` 8|2|5 तस्मात् `अभिष्टये` शब्दोऽन्तोदात्तः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
छन्दसि विभाषा एकश्रुतिः स्यात् । व्यवस्थितविभाषेयम् । संहितायां त्रैस्वर्यम् । ब्राह्मणे एकश्रुतिर्बह्वृचानाम् । अन्येषामपि यथासंप्रदायं व्यवस्था ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.