`अग्निर्मूर्धा दिवः` इत्यादि। `अगि रगि गत्यर्थाः` (धातुपाठः-146,144)। `वीज्याज्वरिभ्यो निः` (द।उ।1।18) इत वत्र्तमाने `अङ्गेर्निर्नलोपश्च` (द।उ।1।20) इति निप्रत्ययः; नलोपश्च भवति। अग्निशब्दः प्रत्ययस्वरेणान्तोदात्तः। `मुर्वी बन्धने` (धातुपाठः-575),`अकनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः` (द।उ।6।51) इत्यतः कनिन्निति वत्र्तमाने `आन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विआप्सन्परिज्मन्मातरिआन्मघवन्` (द।उ।6।55) इति मूर्धन्शब्दः कनिन्प्रत्यान्तो निपातित इति निपातनादाद्युदात्तः। वकारस्य धकारोऽत्र निपातनादेव। `दिवु क्रीडादौ` (धातुपाठः-1107) डिविन् प्रत्ययः। इकार उच्चारणार्थः। डित्यभस्याप्यनुबन्धकरणसामथ्र्यात् `ट#ए#ः`
6|4|143 इति टिलोपः। `दिव्` इति स्थिते `ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः`
6|1|165 इति विभक्तेरन्तोदात्त्वम्। ककुच्छब्दः `{फिषोन्त उदात्तः- #इति मुद्रितं सूत्रम्}प्रातिपदिकमन्तोदात्तं भवति` (फि।सू। 1।1)इत्यन्तोदात्तः। पतिशब्दः `पातेर्डतिः` (द।उ।1।27) इति डतिप्रत्ययान्तः प्रत्ययस्वरेणाद्युदात्तः, ततः ककुदः पतिः ककुत्पतिरिति षष्ठीसमासः, स`समासस्य`
6|1|217 इत्यन्तोदात्तत्वम्। `प्रथ प्रख्याने` (धातुपाठः-1553), `प्रथेः षिवन् संप्रसारणञ्च` (द।उ।8।124)। `षिद्गौरादिभ्यश्च`
4|1|41 इति पृथिवशब्दान्ङीष्। प्रत्ययस्वरेण धातुप्रत्यङीष आद्युदात्तोदात्तः। षष्ठऐकवचनम् ङस्। `आण्नद्याः`इत्यनुदात्तत्वम्। सवर्णदीर्घः। `इको यणचि`
6|1|74 इति यणादेशः। `उदात्तयणो हल्पूर्वात्`
6|1|168 इति विभक्तिरुदात्ता। `अयम` इति। `इदि परमैआर्ये` (धातुपाठः-63) `इदितो नुम् धातोः`
7|1|58 इति नुम्, `इन्देः कमिर्नलोपश्च` (पं।उ।596) इति कमिप्रत्ययो नलोपश्च; इदम्शब्दः कमिप्रत्ययेनान्तोदात्तः। सौ परतः `इदोऽय् पुंसि` इतीदम इद्रूपस्यादेशः। `अपाम्` इति। `आप्लृव्याप्तौ` (धातुपाठः-1260), `आप्नोतेह्र्यस्वश्च` (द।उ।1।127) इति क्विप्, ह्यस्वश्च, षष्ठीबहुवनचम्। `ऊडिदं पद`
6|1|165 इति विभक्तेरुदात्तत्वम्। तेनापामित्यस्यान्तोदात्तत्वम्। `रि गतौ` (धातुपाठः-1404), `स्त्रुरिभ्यां तुट् च` (द।उ।9।62) इत्यसुन् प्रत्ययः। तुडागमः। `रेतांसि` इति नित्स्वरेणाद्युदात्तः। `जिन्वति` इति। `जि जये` (धातुपाठः-561) लट्,शत्रादेशः। `व्यत्ययो बहुलम्`
3|1|85 इति व्यत्ययेन श्नुप्रत्ययः।`हुश्नुवोः सार्वधातुके`
6|4|87 इति यणादेशः। `उगितश्च`
4|2|6 इति ङीप्। `अम्बार्थनद्योह्र्यस्वः`
7|3|107 इति ह्यस्वः। `एङ ह्यस्वात् सम्बुद्धेः`
6|1|67 इति सुलोपः। `ये यज्ञकर्मणि`
8|2|88 इति वत्र्तमाने `प्रणवष्टेः`
8|2|89 इति प्रणवादेशः। स च प्लुतउदात्तश्च,`वाक्यस्य टेः प्लुत उदात्तः`
8|2|82 इत्यधिकरात्। प्रणव इत्योकारम्, ओङ्कारं वाऽऽचक्षते। प्रणवस्योदात्तविधानसामथ्र्यादसिद्धत्वाच्च पदादुत्तरस्य `आमन्त्रितस्य च`
8|1|19 इत्यनुदात्तं न भवति; शेषस्य तु भवति। एषु स्वरेषु प्राप्तेष्वेकश्रुतिर्विधीयते।`संपाठे मा भूत्` इति। संपाठ= स्वाध्यायकालः। `ममाग्ने` इत्यादि। `असु क्षपणे` (धातुपाठः-1209), `युष्यसिम्यां मदिक्` (द।उ।6।50) इति मदिक्। अस्मच्छब्दः प्रत्ययस्वेरणान्तोदात्तः। षष्ठएकवचनस्य `युष्मदसमद्भ्यां ङसोऽश्`
7|1|27 इत्यशादेश-, `तवममौ ङसि`
7|2|96 इत्यस्मदो ममादेशः। स्था4निवद्भावादन्तोदात्तः। `अतो गुणे`
6|1|94 पररूपत्वम्। `एकादेश उदात्तेनोदात्तः`
8|2|5 अग्निशब्दस्य `आमन्त्रितस्य च`
8|1|19 इति निघातः। `वर्च दीप्तौ` (धातुपाठः-162), `असुन्` (द।उ।9।49) इतिअसुन् प्रत्ययः। वर्चशब्दो नित्स्वरेणाद्युदात्तः। `ह्वेञ् स्पर्धायाम्` (धातुपाठः-1008)। `ह्वः संप्रासारणञ्च न्यभ्युपदिषु
3|3|72 इत्यप् प्रत्ययः। `उपपदमतिङ`
2|2|19 इति समासः। `गतिकारकोपपदात् कृत्`
6|2|138 इत्युत्तरपदप्रकृतिस्वरत्वेप्राप्ते, `अन्तः`
6|2|142 इत्यनुवर्तमाने `थाथघञ्क्ताजवित्रकारणाम्`
6|2|143 इत्यन्तोदात्तत्वम्, सप्तमीबहुवचने `बहुवचने झल्येत्`
7|3|103 इत्येत्त्वम्, स्थानिवद्भावादेकारोऽपब्यदात्त एव। `अस भुवि` (धातुपाठः-1065) , लोट्, तिप्, `एरुः`
3|4|86 इत्युत्वम्, अदादित्वाच्छपो लुक्। `तिङङतिङः`
8|1|28 इति निघातेन `अस्तु` शब्दोऽनुदात्तः। `जपोऽनुकरणमन्त्रः` इति। `जप` इत्यक्तेरर्थकथनमनुकरणमन्त्र इति। अनुकृतिः = अनुकरणम्। सर्वत्र मन्त्रे स्फुटमुच्चारणमित्यनुकरणमन्त्रः। अत एवाह-- `उपांशुप्रयोगः` इति। यता जले निमग्नस्य पाठः।क्वचिदकरणमन्त्र इति पाठः। तत्रायमर्थः-- ईषत् करणमुच्चारणं यस्य सोऽकरणमन्त्र इति; नञ ईषदर्थत्वात्।एशब्दो निपातः। `निपाता आद्युदात्ताः` (फि।सू।4।80)। `विश प्रवेशने` (धातुपाठः-1424),`अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्` (द।उ।125) इति क्वप्रत्ययान्तत्वाद्विआशब्दो नित्स्वरेणाद्युदात्तः। समञ्च तत् अत्रिणञ्चेति विशेषणसमासः। समासान्तोदात्तत्वम्। `दह भस्मीकरणे` (धातुपाठः-991), लोट्,सिप्, सेर्हिरादेशः,`अतो हेः`
6|4|105 इति हेर्लुक्, `तिङङतिङ`
8|1|28 इति निघातविधानात् दहशब्दोऽनुदात्तः। केचिद् वहा3 इति प्लुतान्तं पठन्ति; तेषां साहसमनिच्छतां `सर्वत्र विभाषा प्लुतो वक्तव्यः` (म।भा।3।420) इत्यतो वचनात् प्लुतो वक्तव्यः, स चोदात्तः।अन्ये त्वाकारान्तं पठन्ति, तेषां छान्दसत्वादाकारः। ह्यस्वोऽपि हि वर्णो व्यत्ययेन दीर्घो भवति,`पुरुषः` `नारकः` इति यथा। `वाक्यविशेषस्था गीतयः` इति। यथोक्तं जैमिनिना-- `गीतिषु सामाख्या` इति। गीतिः = ध्वनिविशेषः।कर्मग्रहणं किमर्थम्,यज्ञ इत्येवोच्येत, यज्ञमन्त्राणां यज्ञक्रियार्थत्वाद्यज्ञकर्मणि भविष्यति? सत्यमेतत्; विस्पष्टार्थ हि कर्मग्रहणम्। अथ वा -- योऽपि न प्रसिद्धो यज्ञः पञ्चयजनादिः, तत्रापि यथा स्यादित्येवमर्थम्; अन्यथा `यज्ञे` इच्युच्यमाने प्रसिद्धो यो यज्ञोऽआमेधादिस्त्तत्रैव स्यात्॥