`एकश्रुति वाक्यं भवति` इति। वाक्यग्रहणेन पदपदैकदेशयोर्निरासं करोति; तयोःसम्बोधनं प्रत्यसामथ्र्यात्। वाक्यस्य सम्बुद्धौ कर्तव्यायां करणभावोपगमादस्ति सामथ्र्यम्। ततस्तस्यैकश्रुत्यं विधीयते। कुतः पुनस्तद्वाक्यमित्याह-- `दूरात् सम्बोधयति येन` इति। एतेन सम्बुदिंध प्रति वाक्यस्य करणभावो दर्शितो भवति। दूरादिति-- `दूरान्तिकार्थेभ्यो द्वितीया च`
2|3|35 इति पञ्चमी। `सम्बोधनं सम्बुद्धिः` इत्यादिना सम्बुद्धिरित्कयन्वर्थग्रहणम्, न पारिभाषिकं सम्बुद्धिग्रहणमिति दर्शयति। यदि पारिभाषिक्याः सम्बुद्धेग्र्रहणं स्यात् तदा `देवा {ब्राआहृणाः इति पदंजरीपाठः} ब्राहृआणःट इत्यत्रैकश्रुत्यं न स्यात्; पारिभाषिक्याः सम्बुद्धेरसत्त्वात्। अन्वर्थग्रहणे तु भवति; सम्बोधनलक्षणक्रियारूपायाः सम्बुद्धेरिहापि विद्यमानत्वादिति भावः। कुतः पुनरेतदन्वर्थग्रहणं व्यवसितम्? दूरग्रहणात्। अन्वर्थग्रहणे दूरादित्यनेन सम्बुद्धिरुत्पद्यते। `{पंक्तिरियं नास्ति-काशिका} दूरात् सम्बोधने कत्र्तव्ये` इति। तेनार्थवद्भवति दूरशब्दस्यपादानम्। पारिभाषिक्यास्तु ग्रहणे तदसम्बद्धमेव स्यात्। न ह्रामन्त्रितविभ्कतेर्दूरत्वमस्ति। दूरत्वञ्च यद्यप्यनवस्थितम्, तथापि यत्र प्राकृतप्रयत्नसंस्थापितं वचनं न श्रूयते, तदिह दूरं वेदितव्यम्। `स्वराणाम्` इत्यादि। `{पंक्तिरियं नास्ति-काशिका}एकश्रुतिस्वरूपाख्यानमविभागः` भेदतिरोधानमित्यनन्तरं विवरणम्। उदात्तादिस्वरविशेषानुपलब्धिरकारादिवर्णमात्रावबोध एकश्रुतिरित्युक्तं भवति। `आगच्छ भो माणवक देवदत्ता3` इति। `दूराद्धूते च`
8|2|84 इत्यत्रैवार्थे प्लुतः, स चोदात्तः; `वाक्यस्य टेः प्लुतः उदात्तः`
8|2|82 इत्यधिकारात्। तस्यैकश्रुत्योदात्तस्य समावेश इष्यते, प्लुतनिवृत्त्यर्थम्। यथा चासौ लभ्यते तथा वक्ष्यति। प्रत्युदाहरणे त्रैस्वर्यमेव भवतीति तत्र आकारः `निपाता आद्युदात्ताः` (फि।सू।4।80) `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इत्युदात्तः। गच्छेत्यस्य `तिङङतिङः`
8|1|28 इतिनिघातः। भो इति `निपाता आद्युदात्ताः` इत्युदात्तः। माणवक-- देवदत्तशब्दयोः `आमन्त्रतस्य च`
8|1|19 इत निघातः।