॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|32
SK 8
1|2|32
तस्यादित उदात्तमर्धह्रस्वम्
SK 8
सूत्रच्छेद:
तस्य - षष्ठ्येकवचनम् , आदितः - अव्ययम् , उदात्तम् - प्रथमैकवचनम् , अर्धह्रस्वम् - प्रथमैकवचनम्
अनुवृत्ति:
स्वरितः  [1|2|31] (षष्ठ्या विपरिणम्यतेे) - षष्ठ्येकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
तस्य स्वरितस्य आदितम् अर्धह्रस्वम् उदात्त:
सूत्रार्थ:
स्वरित-स्वरस्य प्रारम्भिकः अर्धभागः उदात्तः ज्ञातव्यः ।
स्वरित-स्वरस्य आदितः अर्धभागः उदात्तः ज्ञेयः, शेषः अर्धभागः च अनुदात्तः ज्ञेयः ।

अस्मिन् सूत्रे "ह्रस्व" शब्दस्य अर्थः किम्, अस्मिन् विषये पक्षद्वयम् अस्ति ।

1) कौमुद्यां दीक्षितः वदति - "अर्धह्रस्व" इत्युक्ते "अर्धभागः" ः । अतः स्वरित-स्वरस्य आदितः अर्धभागः उदात्तः ज्ञातव्यः, शेषः अर्धभागः अनुदात्तः ज्ञेयः । यथा -
ह्रस्वः उदात्तः स्वरः = एकमात्रिक = 0.5 मात्रा उदात्तः + 0.5 मात्रा अनुदात्तः ।
दीर्घः उदात्तः स्वरः = द्विमात्रिक = 1 मात्रा उदात्तः + 1 मात्रा अनुदात्तः ।
प्लुतः उदात्तः स्वरः = त्रिमात्रिकः = 1.5 मात्रा उदात्तः + 1.5 मात्रा अनुदात्तः ।

2) प्रातिशाख्ये उच्यते - "अर्धह्रस्व" इत्युक्ते अर्धमात्रा । अतः स्वरित-स्वरस्य केवलं आदितः अर्धमात्रिकः भागः उदात्तः ज्ञातव्यः, अन्यश्च सर्वः अनुदात्तः ज्ञातव्यः । यथा -
ह्रस्वः उदात्तः स्वरः = एकमात्रिक = 0.5 मात्रा उदात्तः + 0.5 मात्रा अनुदात्तः ।
दीर्घः उदात्तः स्वरः = द्विमात्रिक = 0.5 मात्रा उदात्तः + 1.5 मात्रा अनुदात्तः ।
प्लुतः उदात्तः स्वरः = त्रिमात्रिकः = 0.5 मात्रा उदात्तः + 2.5 मात्रा अनुदात्तः ।

द्वयोः पक्षयोः प्रयोगः भिन्नेषु स्थलेषु कृतः दृश्यते ।
One-line meaning in English
The first half part of a स्वरित-स्वर is considered उदात्त.
काशिकावृत्तिः
उदात्तानुदात्तस्वरसमाहारः स्वरितः इत्युक्तम्। तत्र न ज्ञायते कस्मिन्नंशे उदात्तः कस्मिन्ननुदात्तः, कियान् वा उदात्तः कियान् वा अनुदात्तः इति। तदुभयम् अनेनाऽख्यायते। तस्य स्वरितस्य आदावर्धह्रस्वम् उदात्तम्, परिशिष्टम् अनुदात्तम्। अर्धह्रस्वम् इति च अर्धमात्रौपलक्ष्यते। ह्रस्वग्रहणम् अतन्त्रम्। सर्वेषाम् एव ह्रस्वदीर्घप्लुतानां स्वरितानाम् एष स्वरविभागः। शिक्यम् इत्यत्र अर्धमात्रा आदित उदात्त, अपरार्धमात्रा अनुदात्ता, एकश्रौतिर् वा। कन्या इत्यत्र अर्धमात्रा आदित उदत्ता अध्यर्धमात्रा अनुदात्ता। माणवक3 माणवक 8|2|103 इत्यत्र अर्धमात्रा आदित उदात्ता अर्धतृतीयमात्रा अनुदात्ता।
आदौ = आदितः, सप्तम्य्रथे तसिः। अयमेव निर्देशो ज्ञापकः-- `आद्यादिभ्यस्तसिर्भवति` इत्यत्र। तेन तसिप्रकरणे `आद्यादिभ्यः उपसंख्यानम्` (वा।634) इत्येतन्न व्कतव्यं भवति। `अद्र्धह्यस्वम्` इति। ह्यस्वस्याद्र्धमित्यर्थः। `अर्धं नपुंसकम्` 2|2|2 इति समासः। ततश्च `परवल्लिङ्गम्` 2|4|26 इत्यादिना पुंल्लिङ्गेन भवितव्यम्, ह्यस्वशब्दस्य पुंल्लिङ्गत्वात्, नैतदस्ति; ह्यस्वशब्दो हि प्रमाणविशेषं गुणमुपादाय प्रवृत्तः, `गुणवनचानाञ्चाश्रयलिङ्गवचनानि` इति गुणवचनत्वाच् शुक्लशब्द एव ह्यस्वशब्दस्त्रिलिङ्गः। `ह्यस्वः` इति मात्रिकस्य संज्ञा कृता, तस्यैव विभागः स्यात्, न तु दीर्घप्लुतयोरित्याशङ्क्याह-- `अद्र्धह्यस्वम्` इत्यादि। ह्यस्वस्याद्र्धमद्र्धमात्रा भवति, अतोऽद्र्धमात्रा भवति, अतोऽद्र्धह्यस्वग्रहणेनाद्र्धमात्रोपलक्ष्यते। तत एव च तस्येत्युक्तम्। त्रयाणां ह्यस्वदीर्घप्लुतानां स्वरितानां निर्देशार्थम्। यदि चाद्र्धह्यस्वग्रहणमद्र्धमात्रोपलक्षणम्, अतस्त्रयाणां निर्देशोऽर्थवान् भवति; नान्यथा।`ह्यस्वग्रहणमतन्त्रम` इति। अतन्त्रप्रधानम्, उपलक्षणार्थत्वात्। यथा काकेभ्यो दधि रक्ष्यतामित्यत्रकाकाः। तेन सर्वेषामेव ह्यस्वादीनामेष स्वरितविभागो भवति। नन्वेवमप्याष्टमिकस्य स्वरितस्य विभागो न सिध्यति, तस्यासिद्धत्वात्, नैतदेवम्; यस्मात् परविधिः पूर्वविधावसिद्धः। न चायं विधिः, किं तर्हि? तस्य विहितस्य विभागाख्यानार्थः। अथ वा-- `न मु ने` 8|2|3 इत्यत्र नेति योगविभागात् सिद्धं भवति॥।`एवश्रिर्वा` इति। पूर्वो भागोऽयमुदात्तः पटुतरः। तेनोपरज्यमानस्तद्रूपतामिवापन्नः परो भागः स्फटिकमणिरिवोपधानेनोपरक्तः शुद्धेनोदात्तेन भिन्नश्रुतिकत्वादनुदात्तव्यपदेशं नार्हति। उदात्तव्यपदेशमपि नार्हति; उपरागमात्रत्वात्। तस्मादेकश्रुतिरिति केचित्। अन्ये त्वाहुः-- पूर्वेण भागेनानुपजातरूपातिशयेन नोपरज्यते यदोत्तरभागस्तदा स्वेन रूपेण प्रतिभानादनुदात्त इति व्यपदिश्यते। यदा तूपधानेन स्फटिकमणिरिव पूर्वेण भागेन पटीयसोदात्तेनाभिभूयानुरज्यमानस्तद्रूपतामिवोपपद्यते तदैकश्रुतिरिति व्यपदिश्यते। पूर्वभागश्रुतेरभिन्नैका तुल्याकारा श्रुतिर्यस्येति कृत्वा। न हि तदानीं पूर्वोत्तरयोः स्वरितश्रुतिं प्रति कश्चित् भेदोऽस्ति; द्वयोरप्युदात्तगुणवत्तया प्रतीयमानत्वनादिति।
आदौ उ आदितः, सप्तम्यन्तातसिः । अर्द्धह्रस्वमिति । ऽअर्द्धं नपुंसकम्ऽ इति समासः । ह्रस्वशब्द उभयलिङ्गः-ऽह्रस्वो नपुंसकेऽ, ऽह्रस्वंलघुऽ इति । तदिह परवल्लिङ्गत्वेन नपुंसकत्वम् । उक्तपरिमाणस्याचो ह्रस्वसंज्ञा कृतेति यत्रैव तस्यार्धमिति दीर्घप्लुतयोरेतद्विभागवचनं न स्यादित्याशङ्क्याह--अर्द्धह्रस्वमिति । चेत्यादि । ह्रस्वस्य हि मात्रा भवति अतोऽर्द्धह्रस्वग्रहणेनार्द्धमात्रोपलक्ष्यते । इह प्रकृतत्वादेव स्वरितस्य विभागाख्यानसिद्धे तस्येति वचनं स्वरितमात्रपरिग्रहार्थम् । यदि चार्द्धह्रस्वग्रहणमर्द्धमात्रोपलक्षणं तत्र स्वरितमात्रपरिग्रहोऽर्थवान् भवति । ह्रस्वग्रहणमतन्त्रमिति । अप्रधानम् उपलक्षणत्वाद्, यथा--काकेभ्यो दधिरक्ष्यतामित्यत्र काकाः । नन्वेवमप्याष्टमिकस्वरितस्य विभागो न सिद्ध्यति,तस्यासिद्धत्वात्, नैष दोषः; इत आरभ्य नव सूत्राणि असिद्धकाण्डे ऽउदातादनुदातस्यऽ इत्यस्मात्पराणि पठितव्यानि, किं प्रयोजनम् ? इदं तावद्विभागाख्यानमाष्टमिकस्यापि भवति । उतरत्रापि प्रयोजनं तत्र तत्र वक्ष्यामः । एकश्रुतिर्वेति । उदातभागस्य पटुअत्वात्पटुअत्वकृतौ विकल्पः । पटुअत्वे हि तदुपरगातद्रूपतामिवापन्नो नानुदातव्यपदेशमर्हति, नाप्युदातव्यपदेशम्; उपरागमात्रत्वात् । तेन भेदतिरोधानलक्षणमैकश्रुत्यं परो भागः प्रतिपद्यते । अन्वर्थं वा एकश्रुतित्वम्, पूर्वभागश्रुतेरेकाऽभिन्नाकारा श्रुतिरस्येति कृत्वा । अध्यर्थमात्रानुदातेति । एकश्रुतिर्वेति नोक्तम्; पूर्वानुसारेण गम्यमानत्वात्, लघुना वा महतोऽनुपरगात् । माणवका3 माणवकेति । ऽस्वरितमाम्रेडितेऽसूयाऽ इति प्लुतः स्वरितः ॥
सिद्धान्तकौमुदी
ह्रस्वग्रहणमतन्त्रम् । स्वरितस्यादितोऽर्धमुदात्तं बोध्यम् । उत्तरार्धं तु परिशेषादनुदात्तम् । तस्य चोदात्तस्वरितपरत्वे श्रवणं स्पष्टम् । अन्यत्र तूदात्तश्रुतिः प्रातिशाख्ये प्रसिद्धा । क्व१ वोऽश्वाः । रथानां न ये२राः ॥ श॒तच॑क्रं॒ यो॒॑3 ह्यः ॥ इत्यादिष्वनुदात्तः ॥ अ॒ग्निमी॑ळे इत्यादावुदात्तश्रुतिः ॥ स नवविधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा ॥
फलितमाह--उदात्तत्वानुदात्तत्वे इत्यादिना। ननु उदात्तत्वानुदात्तत्वयोरेकस्मिन्नपि मेलने कस्मिन्भागे उदात्तत्वस्य समावेशः , कस्मिन्भागे अनुदात्तत्वस्य समावेश इत्यत आह-तस्यादितः। तस्य = स्वरितस्य आदितः = पूर्वभागे अर्धह्रस्वमुदात्तमित्यर्थः प्रतीयते। एवं सति दीर्घस्वरिते इयं व्यवस्था न स्यात्। अत आह - ह्रस्वग्रहणतन्त्रमिति। तन्त्रं = प्रधानम्। `तन्त्रं प्रधाने सिद्धान्ते` इति कोशः। न विद्यते तन्त्रं वाच्यार्थलक्षणं प्रधानं यस्य तत् अतन्त्रं। अविवक्षितार्थकमित्यर्थः। ह्रस्वग्रहणं न कर्तव्यमिति यावत्। दीर्घस्वरितेऽप्युत्तरभागस्य वेदे अनुदात्तत्वदर्शनादिति भावः। ततश्च फलितमाह--स्वरितस्यादितोऽर्धमुदात्तं बोध्यमिति। ननु अनुदात्तत्वस्य निवेशव्यवस्था कुतो नोक्तेत्यत आह--उत्तरार्धं त्विति। ननु एवं सति अग्निमील इत्यत्र ईकारे स्वरिते कथमुत्तरार्धमनुदात्तं नेत्यत आह--तस्य चेति। चकारो वाक्यालङ्कारे। तस्य अनुदात्तभागस्य उदात्तस्वरितपरत्वे उदात्तस्वरितौ परो यस्मात् सः उदात्तस्वरितपरः। तस्य भावः उदात्तस्वरितपरत्वम्। उदात्तपरकत्वे स्वरितपरकत्वे वा सति श्रवणं स्पष्टं भवतीत्यर्थः। अन्यत्रेति। उदात्तस्वरितपरकत्वाभावे अनुदात्तप्रचयपरकत्वे, अनुदात्तभागस्य उदात्ततरत्वापरपर्याया उदात्तश्रुतिः ऋग्वेदप्रातिशाख्ये विहितेत्यर्थः। तत्र त्वेवमुक्तम्--अनुदात्तः परः शेषः स उदात्तश्रुतिर्न चेत्।उदात्तं वोच्यते किंचित्स्वरितं वाऽक्षरं परम्॥`
अतन्त्रमिति। अविवक्षितमित्यर्थः। तस्य चोदात्तस्वरितपरत्व इति। उदात्तस्वरितौ परौ यस्मात्तदुदात्तस्वरितपरं, तस्य भावस्तत्त्वं, तस्मिन् सति=उदात्तो वा स्वरितो वा परश्चेत्पूर्वस्य स्वरितस्य यदुत्तरार्द्धमनुदात्तं तस्य श्रवणं स्पष्टमित्यर्थः। अन्यत्रेति। उदात्तस्वरितपरत्वाऽभावे। क्वेति। `किमोऽत्`। `तित्स्वरितम्`। व इति। अनुदात्तं सर्वमपादादौ` इत्यधिकारादनुदात्तः। अ�आआ इति। अशे क्वनि नित्स्लकेणाद्युदात्तम्। संहितायां तु `एकादेश उदात्तेनोदात्तः` इत्योकार उदात्तः। उदात्तपरत्वे ह्रस्वस्वरितस्योदाहरणमुक्त्वा दीर्घस्वरितस्योदाहरणमाह-रथानां न ययिति। `ये` `अरा` इति पदद्वयमपि फिट्स्वरेणान्तोदात्तम्। एकादेशस्तु पक्षे स्वरितः, `स्वरितो वानुदात्ते पदादौ` इत्युक्तेः। स्वरितपरत्वे उदाहरणमाह-शतचक्रमिति। य इति--फिट्स्वरेणान्तोदात्तः, ततः परस्य सकारस्य रुत्वे उत्वे कृत आद्गुणे च उदात्तेनैकादेशादोकार उदात्तः॥ अह्य इति। स्वरितान्तत्वादकारस्य शेषनिघातत्वे, ओकारेण सह एकादेशे च कृते `स्वरितो वानुदात्ते पदादौ` इत्योकारः स्वरितः॥ कथमह्यस्य स्वरितान्तत्वमिति चेदत्राहुः-`अह व्याप्तै` इत्यस्मात्कर्मणि ण्यत्। `तित्स्वरितम्`। वृद्धाभावस्तु संज्ञापूर्वकविधेरनित्यत्वादिति। `नोदात्तस्वरित-` इति निषेधस्त्वनन्तरस्येति न्यायात् `उदात्तात्-` इति प्राप्तस्य। यदाऽहेरित्यर्थेऽह्यः वृत्रस्येत्यर्थः , तदा `छन्दसि वा वचनम्` इति गुणाऽभावः। `उदात्तस्वरितयोः` इति स्वरितः। `उदात्तयण` इति तु न, छान्दसत्वात्। अग्निमील इति। ईकारः स्वरितः, ले इति तु प्रचयापरपर्याया एकश्रुतिरिति च स्वरप्रक्रियायां मूल एव स्फुटीभविष्यति।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
तस्यादित उदात्तमर्द्धह्रस्वम् अर्द्धह्रस्वम् इत्युच्यते तत्र दीर्घप्लुतयोर्न प्राप्नोति। कन्या। शक्तिके3 शक्तिके। नैष दोषः। मात्रचोऽत्र लोपो द्रष्टव्यः। अर्द्धह्रस्वमात्रमर्धह्रस्वमिति। किमर्थं पुनरिदमुच्यते? आमिश्रीभूतमिवेदं भवति। तद्यथा- क्षीरोदके सम्पृक्ते आमिश्रीभूतत्वान्न ज्ञायते- कियत् क्षीरम्, कियदुदकम्, कस्मिन्नवकाशे क्षीरम्, कस्मिन्वोदकम् इति। एवमिहाप्यामिश्रीभूतत्वान्न ज्ञायते- कियदुदात्तम्, कियदनुदात्तम्, कस्मिन्नवकाशे उदात्तम्, कस्मिन्ननुदात्तमिति। तदाचार्यः सुहृद्भूत्वान्वाचष्टे- इयदुदात्तमियदनुदात्तमस्मिन्नवकाश उदात्तम्, अस्मिन्नवकाशेऽनुदात्तम् इति। यद्ययमेवं सुहृत्किमन्यान्यप्येवंजातीयकानि नोपदिशति। कानि पुनस्तानि? स्थानकरणानुप्रदानानि। व्याकरणं नामेयमुत्तरा विद्या। सोऽसौ छन्दःशास्त्रेष्वभिविनीत उपलब्ध्याधिगन्तुमुत्सहते। यद्येवं नार्थोऽनेन। इदमप्युपलब्धाऽधिगमिष्यति। सञ्ज्ञाकरणं तर्हीदम्। तस्य स्वस्तिस्यादितोऽर्धह्रस्वमुदात्तसञ्ञ्ज्ञं भवतीति। किं कृतं भवति?। त्रिरुदात्तप्रदेशेषु स्वरितग्रहणं न कर्तव्यं भवति। उदात्तस्वरितपरस्य सन्नतरः 1|2|40 उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य 8|2|4 नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् 8|4|67 इति। एतदपि नास्ति प्रयोजनम्। सञ्ज्ञाकरणं हि नाम यतो न लघीयः। कुत एतत्?। लघ्वर्थं हि सञ्ज्ञाकरणम्। लघीयश्च त्रिरुदात्तप्रदेशेषु स्वस्तिग्रहणं न पुनः सञ्ज्ञाकरणम्। त्रिरुदात्तप्रदेशेषु स्वरितग्रहणे नवाक्षराणि, सञ्ज्ञाकरणे पुनरेकादश। एवं तर्ह्युभयमनेन क्रियते। अन्वाख्यानं च सञ्ज्ञा च। कथं पुनरेकेन यत्नेनोभयं लभ्यम्? लभ्यमित्याह। कथम्? अन्वर्थग्रहणात्। अन्वर्थग्रहणं विज्ञास्यते। तस्य स्वरितस्यादितोऽर्धह्रस्वमुदात्तसञ्ञ्ज्ञं भवति। ऊर्ध्वमात्तमिति चात उदात्तम्। यदि तर्हि सञ्ज्ञाकरणम्, उदात्तादेर्यदुच्यते तत्स्वरितादेरपि प्राप्नोति। अन्वाख्यानमेव तर्हीदं मन्दबुद्धेः। - स्वरितस्यार्द्धह्रस्वोदात्तादोदात्तस्वरितपरस्य सन्नतरादूर्ध्वमुदात्तादनुदात्तस्य स्वरितात् कार्यं, स्वरितादिति सिद्ध्यर्थम् - स्वरितस्यार्द्धह्रस्वोदात्ताद् आ उदात्तस्वरितपरस्य सन्नतरः 1|2|40 इत्येतस्मात्सूत्रादिदं सूत्रकाण्डमूर्ध्वम्- उदात्तादनुदात्तस्य स्वरितः 8|4|66 इत्यतः कर्त्तव्यम्। किं प्रयोजनम्? स्वरितादिति सिद्ध्यर्थम्। स्वरितादिति सिद्धिर्यथा स्यात्- स्वरितात्संहितायामनुदात्तानाम् 1|2|3 इति। इमं मे गङ्गे यमुने सरस्वति शुतुद्रि। क्व तर्हि स्यात्? यः सिद्धः स्वरितः- कार्यं देवदत्तयज्ञदत्तौ। - स्वरितोदात्तार्थं च - स्वरितोदात्तार्थं च तत्रैव कर्तव्यम्। न सुब्रह्मण्यायां स्वरितस्य तूदात्तः 1|2|37 इन्द्र आगच्छ। क्व तर्हि स्यात्? यः सिद्धः स्वरितः- सुब्रह्मण्योमिन्द्रागच्छ। - स्वरितोदात्ताच्चाऽस्वरितार्थम् - स्वरितोदात्ताच्चाऽस्वरितार्थं तत्रैव कर्तव्यम्। इन्द्रागच्छ। हरिव आगच्छ। - स्वरितपरसन्नतरार्थञ्च - स्वरितपरसन्नतरार्थं च तत्रैव कर्तव्यम्। उदात्तस्वरितपरस्य सन्नतरः 1|2|40 माणवकजटिलकाध्यापकन्यङ्। क्व तर्हि स्यात्? यः सिद्धः स्वरितः- माणवकजटिलकाभिरूपक क्व। तत्तर्हि वक्तव्यम्? न वक्तव्यम्। - देवब्रह्मणोरनुदात्तवचनं ज्ञापकं स्वरितादिति सिद्धत्वस्य - देवब्रह्मणोरनुदात्तवचनं ज्ञापकं सिद्ध इह स्वरित इति। यद्येतज्ज्ञाप्यते, स्वरितोदात्तात्परस्यानुदात्तस्य स्वरितत्त्वं प्राप्नोति। न ब्रूमो देवब्रह्मणोरनुदात्तवचनं ज्ञापकं सिद्ध इह स्वरित इति। किं तर्हि? परमेतत्सूत्रकाण्डमिति ।। तस्यादित उदात्तमर्द्धह्रस्वम् ।। 32 ।।