॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|30
SK 6
1|2|30
नीचैरनुदात्तः
SK 6
सूत्रच्छेद:
नीचैः - अव्ययम् , अनुदात्तः - प्रथमैकवचनम्
अनुवृत्ति:
अच्  [1|2|27] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
नीचै: अच् अनुदात्त: |
सूत्रार्थ:
उच्चारणस्थानस्य यः अधोभागः, तस्मात् यः स्वरः निष्पद्यते सः "अनुदात्त"संज्ञकः भवति ।
प्रत्येकस्य स्वरस्य विशिष्टम् उच्चारणस्थानम् अस्ति । यथा - अकारस्य कण्ठः, इकारस्य तालु, आदयः । प्रत्येकस्य उच्चारणस्थानस्य भागद्वयं कृतम् अस्ति । यदि स्वरस्य उच्चारणम् तस्य स्थानस्य केवलम् अधोभागात् भवति, तर्हि सः स्वरः "अनुदात्तः" अस्ति इति उच्यते । अनुदात्तस्वरस्य निर्देशं कर्तुम् स्वरस्य अधः एका रेषा लिख्यते । यथा - अ.

ज्ञातव्यम् - सर्वेषाम् वर्णानाम् उच्चारणस्थानानि अस्मिन् लेखे दत्तानि सन्ति ।
One-line meaning in English
A vowel that is pronounced only using the lower-half portion of its उच्चारणस्थान is known as अनुदात्त.
काशिकावृत्तिः
अचिति वर्तते। नीचैरुपलभ्यमानो यो ऽच् सो ऽनुदात्तसंज्ञो भवति। समाने स्थाने नीचभागे निष्पन्नो ऽचनुदात्तः। यस्मिन्नुच्चार्यमाणे गात्राणाम् अन्ववसर्गो मार्दवं भवति, स्वरस्य मृदुता स्निग्धता, कण्ठविवरस्य उरुता महत्ता। त्व सम सिम इत्यनुच्चानि। नमस्ते रुद्र नीलकण्ठ सहस्राक्ष। अनुदात्तप्रदेशाः अनुदात्तौ सुप्पितौ 3|1|4 इत्येवम् आद्यः।
अन्ववसर्ग इत्यस्य विवरणं मार्दवमिति। शैथिल्यमित्यर्थः। मृदुतेत्यस्य विवरणं स्निग्धतेति। उरुतेत्यस्यापि महत्तेति। महत्त्वादेव कण्ठविवरस्य पुनः शीघ्रं वायुर्निष्क्रामन् गलावयवान्न शोषयतीति। अतः स्वरस्य स्निग्धता भवति। त्व-सम-सिम-नेमेत्यनुच्चानीति सर्वादिष्वेव पठन्ते। अनुच्चानि अनुच्चानि अनुदात्तानीत्यर्थः। `नमस्ते रुद्र` इत्यादि। तेशब्दः `तेमयावेकवचने` 8|1|22 इति `अनुदात्तं सर्वमपादादौ` 8|1|18 इत्यधिकारादनुदात्तः। रुद्रादयोऽपि `आमन्त्रितस्य च` 8|1|19 इत्यनेनाष्टमिकेन सर्वेऽनुदात्ता भवन्तीति।
अजिति वर्तते इति । तेन हल् स्रंसनधर्मेणानुदातसंज्ञो न भवति, अन्ववसर्ग इत्यस्य विवरणं मार्दवमिति, शैथिल्यमित्यर्थः । मृदुतेत्यस्य स्निग्धतेति । उरुतेत्यस्य महतेति । महत्वादेव च शीघ्रं वायोर्निष्क्रमणाद्गलावयवानामशोषणात्स्वरस्य स्निग्धता भवति । अनुच्चानीति । सर्वादावेवमेव पठात् । फिषि तु ऽसिमस्याथर्वणेऽ इत्यन्त उदात इत्युक्तम् । अनाथर्वणेऽपि तुच्छन्दस्यन्तोदातत्वं दृश्यते, आद्रात्री वासस्तनुते सिमस्मै, उच्छ्4%अक्रमजते सिमस्मादिति, नमस्ते रुद्रेति, ऽतेमयावेकवचनस्यऽ इत्यत्र ऽअनुदातं सर्वम्ऽ इत्यधिकारातेशब्दोऽनुदातः । रुद्रादयोऽप्यामन्त्रितनिघातेन । पदकाले चानुदातस्य श्रवणम् । संहितायां तु ऽस्वरितात्संहितायाम्ऽ इत्यैकश्रुत्यं भवति ॥
सिद्धान्तकौमुदी
स्पष्टम् ॥ अ॒र्वाङ् ॥
अनुदात्तसंज्ञामाह-नीचैरनुदात्तः। स्पष्टमिति उक्तरीत्या ताल्वादिषु अधोभागे निष्पन्नोऽच् अनुदात्तसंज्ञः स्यादिति स्पष्टार्थकमित्यर्थः। अर्वाङ्? इति। `अर्वाङ् यज्ञस्संक्राम` इत्यृचि आद्योऽकारोऽनुदात्त इत्यर्थः।
अर्वाङिति। अर्वन्तमञ्चतीति अर्वाङ्। `ऋत्विक्-` आदिना अञ्चतेः सुप्युपपदे क्विन्। `ऋ गतौ` इत्यस्मात् `स्नामद्रिपद्यर्ति` इत्यादिना वनिपि गुणे च निष्पन्नोऽर्वञ्छब्दो धातुस्वरेणाद्युदात्तः। वनिपः पित्त्वेनाऽनुदात्तत्वातच्। अञ्चतेरकारोऽपि धातुस्वरेण नित्स्वरेण वा उदात्तः। `उपपदमतिङ्` इति समासे कृते `समासस्य` इति स्वरेण तदपवादभूतेन `गतिकारकोपपदात्कृत्` इति कृदुत्तरपदप्रकृतिस्वरेण वा अञ्चतेरकार उदात्तः। वनो नलोपे सवर्णदीर्घे च कृते `एकादेश उदात्तेन` इत्याकार उदात्त इति `अनुदात्तं पदमेकवर्जम्` इति शेषनिघातादाद्योऽकारोऽत्रानुदात्तः। एतच्च संभवाभिप्रायेणोक्तम्। वेदभाष्ये तु `अर्वाङ्-अभिमुखः` इति स्थितम्।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
नीचैरनुदात्तः ।। अथ षष्ठीनिर्दिष्टाज्ग्रहणानुवृत्तिविचाराधिकरणम् ।। किं षष्ठीनिर्दिष्टमज्ग्रहणमनुवर्तते, उताहो न? किं चातः? यद्यनुवर्तते हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवद्भवति इत्येषा परिभाषा न प्रकल्पते। कथं हलो नाम स्वरप्राप्तिः स्यात्। एवं तर्हि निवृत्तम्। बहून्येतस्याः परिभाषायाः प्रयोजनानि। ।। अथ प्रथमानिर्दिष्टामज्ग्रहणानुवृत्तिविचाराधिकरणम् ।। अथ प्रथमानिर्दिष्टमज्ग्रहणमनुवर्तते, उताहो न? किं चार्थोऽनुवृत्त्या? बाढमर्थः। यद्येते व्यञ्जनस्यापि गुणा लक्ष्यन्ते। ननु च प्रत्यक्षमुपलभ्यन्ते - इषे त्वोर्जे त्वा। नैते व्यञ्जनस्य गुणाः, किन्त्वच एव। तत्सामीप्यात्तु व्यञ्जनमपि तद्गुणमुपलभ्यते। तद्यथा - द्वयो रक्तयोर्वस्त्रयोर्मध्ये शुक्लं वस्त्रं तद्गुणमुपलभ्यते। बदरपिटके रिक्तको लोहकंसस्तद्गुण उपलभ्यते। कुतो नु खल्वेतत्- अच एते गुणाः, तत्सामीप्यात्तु व्यञ्जनमपि तद्गुणमुपलभ्यते, न पुर्नव्यञ्जनस्यैते गुणाः स्युस्तत्सामीप्यात्त्वजपि तद्गुण उपलभ्येत इति? अन्तरेणापि व्यञ्जनमच एवैते गुणा लक्ष्यन्ते, न पुनरन्तरेणाचं व्यञ्जनस्योच्चारणमपि भवति। अन्वर्थं खल्वपि निर्वचनम्- स्वयं राजन्त इति स्वराः, अन्वग्भवति व्यञ्जनमिति। - उच्चनीचस्यानवस्थितत्वात्सञ्ज्ञाऽप्रसिद्धिः - इदमुच्चनीचमनवस्थितपदार्थकम्, तदेव हि कञ्चित्प्रत्युच्चैर्भवति, कञ्चित्प्रति नीचैः। एवं हि कश्चित्कञ्चिदधीयानमाह- किमुच्चै रोरूयसे शनैर्वर्ततामिति। तमेव तथाऽधीयानमपर आह किमन्तर्दन्तकेनाधीषे उच्चैर्वर्ततामिति। एवमुच्चनीचमनवस्थितपदार्थकम्, तस्यानवस्थितत्वात्सञ्ज्ञाया अप्रसिद्धिः। एवं तर्हि लक्षणं करिष्यते- आयामो दारुण्यमणुता खस्येति उच्चैःकराणि शब्दस्य। आयामो गात्राणां निग्रहः। दारुण्यं स्वरस्य दारुणता रूक्षता। अणुता खस्य कण्ठस्य संवृतता। उच्चैः कराणि शब्दस्य। अन्ववसर्गो मार्दवमुरुता खस्येति नीचैः कराणि शब्दस्य। अन्ववसर्गो गात्राणां शिथिलता। मार्दवं स्वरस्य मृदुता स्निग्धता। उरुता खस्य महत्ता कण्ठस्येति नीचैःकराणि शब्दस्य। एतदप्यनैकान्तिकम्। यद्ध्यल्पप्रमाणस्य सर्वोच्चैस्तद्धि महाप्राणस्य सर्वनीचैः। - सिद्धं तु समानप्रक्रमवचनात् - सिद्धमेतत्। कथम्? समाने प्रक्रम इति वक्तव्यम्। कः पुनः प्रक्रमः? उरः कण्ठः शिर इति।। नीचैरनुदात्तः ।। 30 ।।