॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|3
SK 2447
1|2|3
विभाषोर्णोः  
SK 2447
सूत्रच्छेद:
विभाषा - प्रथमैकवचनम् , ऊर्णोः - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
इटिति वर्तते । "ऊर्णुञ् आच्छादने" (अदादिगणः) अस्मात् परः इडादिः प्रत्ययो विभाषा ङिद्वद् भवति । प्रोर्णुविता, प्रोर्णविता । इटित्येव - प्रोर्णवनम्, प्रोर्णवनीयम् ॥
`प्रोर्णुविता` इति। ङित्वाद् गुणे प्रतिषिद्धे `अचि श्नुधातु` 6|4|77 इत्यादिनोवङादेशः॥
ऽऊर्णुञ् आच्छादनेऽ ञिद्, नोपधः; ऽरषाभ्याम्ऽ इति णत्वेन पाठः । प्रोर्णुनाव--रेफवियोगेऽभ्यासात्परस्य नकारस्य श्रवणं भवति । प्रोर्णुवितेति । ङ्त्विपक्षे उवङ्, अन्यत्र गुणः ॥
सिद्धान्तकौमुदी
इडादिप्रत्ययो वा ङित्स्यात् । ऊर्णुनुविथ । ऊर्णुनविथ । ऊर्णुविता । ऊर्णविता । ऊर्णौतु । ऊर्णोतु । ऊर्णवानि । ऊर्णवै ॥
विभाषोर्णोः। `गाङ्कुटादिभ्यः` इत्यतो ङिदित्यनुवर्तते, `विज इ` डित्यत इडिति, --इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे-- इडादीति। ऊर्णुनुविथेति। ङित्त्वपक्षे गुणाऽभावादुवङ्। ऊर्णुनविथेति। ङित्त्वाऽभावपक्षे गुणः। ऊर्णुनुवथुः ऊर्णुनुव। ऊर्णुनाव -- ऊर्णुनव। लुटि तासि इटि ङित्त्वविकल्पं मत्त्वाऽऽह-- ऊर्णविता ऊर्णुवितेति। ऊर्णविष्यति ऊर्णुविष्यति। ऊर्णविष्यते-- ऊर्णुविष्यते। लङि और्णुदिति स्थिते `ऊर्णोतेर्विभाषे`ति वृद्धिविकल्पे, गुणे च प्राप्ते--
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!