॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|28
SK 35
1|2|28
अचश्च
SK 35
सूत्रच्छेद:
अचः - षष्ठ्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
अच्  [1|2|27] - प्रथमैकवचनम् , ह्रस्व-दीर्घ-प्लुतः  [1|2|27] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
ह्रस्वदीर्घप्लुत: अच् अच:
सूत्रार्थ:
ह्रस्व-दीर्घ-प्लुत-शब्देन विधीयमानः अच् अचः स्थाने एव भवति ।
भिन्नेषु सूत्रेषु यत्र "ह्रस्वः भवति", "दीर्घः भवति", "प्लुतः" भवति इति उक्तम् अस्ति परन्तु कस्य एते आदेशाः भवन्ति एतत् स्पष्टं नास्ति, तत्र एते आदेशः "अचः" स्थाने भवन्ति इति ज्ञातव्यम् ।

यथा -

1) ह्रस्वो नपुँसके प्रातिपदिकस्य 1|2|47 अनेन सूत्रेण नपुँसकवाचिनः प्रातिपदिकस्य अन्तिमवर्णः यदि दीर्घः अस्ति, तर्हि तस्य ह्रस्वादेशः भवति । यथा - "श्रीपा" अयं आकारान्त-नपुँसकलिङ्गी शब्दः अस्ति । परन्तु अनेन सूत्रेण अस्य प्रातिपदिकस्य ह्रस्वादेशः जायते । अयं ह्रस्वादेशः "कस्य भवति" इति अस्मिन् सूत्रे स्पष्टम् नास्ति । अतः वर्तमानसूत्रस्य साहाय्यं स्वीकृत्य "प्रातिपदिकस्य यः अच्-वर्णः" तस्य स्थाने ह्रस्वादेशः भवति इति ज्ञायते । तथा च, अलोऽन्तस्य 1|1|52 इत्यनेन अन्तिम-अचः स्थाने ह्रस्वादेशः भवति इति ज्ञायते । अतः "श्रीपा" इत्यस्य पकारस्य ह्रस्वादेशं कृत्वा "श्रीप" इति प्रातिपदिकम् सिद्ध्यति ।

2) अतो दीर्घो यञि 7|3|101 अनेन सूत्रेण यञादि सार्वधातुके प्रत्यये परे अदन्तस्य अङ्गस्य दीर्घः भवति । अत्र अङ्गस्य दीर्घः इत्युक्ते कस्य दीर्घः? अस्य प्रश्नस्य उत्तरम् वर्तमानसूत्रेण ज्ञायते - अङ्गस्य अन्तिम-अच्-वर्णस्य दीर्घः । अतः पठ्-धातोः उत्तमपुरुषैकवचनस्य प्रक्रियायाम् "पठ् + अ + मि" इत्यत्र अङ्गस्य यः अकारः तस्य दीर्घं कृत्वा "पठामि" इति रूपं सिद्ध्यति ।

3) वाक्यस्य टेः प्लुतः उदात्तः 8|2|82 अस्मिन् अधिकारे वाक्यस्य यः टिसंज्ञकः अंशः, तस्य प्लुतादेशः भवति । अत्रापि वर्तमानसूत्रेण "टिसंज्ञकस्य यः स्वरः, तस्य प्लुतादेशः भवति" इति अर्थनिष्पत्तिः भवति । यथा - "सक्तून् पिब अश्वत्थाम3न्" इत्यत्र टि-संज्ञकः यः "अन्" तस्य अकारस्य प्लुतादेशः क्रियते ।
One-line meaning in English
Action denotes by the words ह्रस्व / दीर्घ / प्लुत happens in place of an अच् letter.
काशिकावृत्तिः
परिभाषा इयं स्थानिनियमार्था ह्रस्वदीर्घप्लुतः स्वसंज्ञया शिष्यमाणा अच एव स्थाने वेदितव्याः। वक्ष्यति ह्रस्वो नपुंसके प्रातिपदिकस्य 1|2|47, रैअतिरि। नौअतिनु। गोउपगु। अचः इति किम्? सुवाग् ब्रह्मणकुलम्। अकृत्सार्वधातुकयोर् दीर्घः 7|4|25 चीयते। श्रूयते। अचः इति किम्? भिद्यते। धिद्य्ते। वाक्यस्य टेः प्लुत उदात्तः 7|2|82 देवदत्त3। यज्ञदत्त3। अचः इति किम्? अग्निचि3त्। सोमसु3त्। तकारस्य मा भूत्। स्वसंज्ञया वधाने नियमः। अचिति वर्तते। इह मा भूत्। द्यौः पन्थाः। सः द्यौभ्याम्। द्युभिः। अत्र नियमो न अस्ति।
परिभाषेयं लिङ्गवती स्थानिनियमार्था प्रदेशेषु `ह्यस्वो नपुंसके प्रातिपदिकस्य` 1|2|47 इत्येवमादिषूपतिष्ठते;तदुपस्थाने च षष्ठीद्वयं प्रादुर्भवति; विशेषणविशेष्यभावं प्रति कामचारात्। `ह्यस्वो नपुंसके प्रातिपदिकस्य` 1|2|47 इत्यत्राचा प्रातिपदिकं गृह्रमाणं विशिष्यते-- अजन्तस्य प्रातिपदिकस्येति, न तु प्रातिपदिकेना-ज्विशिष्यते। यदि हि प्रातिपदिकेनाज्विशिष्येत-- प्रातिपदिकस्य योऽजिति, तदा मध्यस्थितस्याप्यचो ह्यस्वः स्यात्। `सुवाग् ब्राआहृणकुलम्` इति। अचा तु प्रातिपदिके विशिष्यमाणे प्रातिपदिकस्यैवेत्येषा स्थानषष्ठी भवति, न चावयवषष्ठी, तेनालोऽन्त्यस्यैवाचो ह्यस्वो भवति। `वाक्यस्य टेः प्लुत उदात्तः` 8|2|82 इत्यत्र गृह्रमाणेन टिशब्देनाज्विशिष्यते-- टेर्योऽजिति। तेन टेर्मध्यवर्तिनोऽप्यचः प्लुतो भवति। यदि त्वचा टिर्विशिष्यते-- अजन्तस्य टेरिति, तदेहैव स्यात्-- देवदत्ता3 इति; इह तु न स्यात्-- अग्निचिदिति। चकारेणाजित्यनुकृष्यते, त्सय प्रयोजनमिहैव वक्ष्यति। अतिरि- इत्यादीन्युदाहरमानि `एच इग्घ्रस्वादेशे` 1|1|47 इत्यत्र व्युत्पादितानि। चीयते इति कर्मणि लकारः।`संज्ञाविधाने नियमः` इत्यत्र युक्तिमाह-- `अजिति वत्र्तते` इति। अज्ग्रहणे ह्रनुवत्र्तमाने ह्यस्वादिशब्दा अनुवत्र्तमाना अच एवोपस्थानं प्रति व्याप्रियन्ते;तस्य स्वयमेवोपस्थितत्वात्। ततश्च स्वरूपमात्रपदार्थकाः सन्तो विधीयमानस्याचो विशेषणतामुपयान्ति। तत्रैवमभिसम्बन्धः क्रियते-- अः स्थानेऽज् भवति `ह्यस्वदीर्घप्लुतः इत्येवं संज्ञया विधीयमान इति। `द्यौः, पन्थाः, सः` इति। एतानि `इको गुणवृद्धी` 1|1|3 इत्यत्र व्युत्पादितानि। एषु च यथायोगं `दिव औत्` 7|1|84 `पथिमथ्यृभुक्षामात्` 7|1|85 `त्यदादीनामः` 7|2|102 इत्येभिरौकारादयः स्वरूपेण विधीयमाना दीर्घादिसंज्ञया न विधीयन्त इति हल एव स्थाने ते भवन्ति, नाचः। द्युभ्याम्, द्युभिरित्यत्रापि `दिव उत् इत्युकारो ह्यस्वसंज्ञया न विधीयत इति हल एव स्थाने भवति, नाचः। ननु च द्यौरित्यादीनि त्रीण्युदाहरणानि `इको गुणवृद्धि` 1|1|3 इत्यनेनैवसंज्ञाविधाननियमेन सिद्धानि, तत्र हि तस्याप्येतानि प्रत्युदाहरणानि प्रागुपन्यस्तानि, तस्मान्नार्थ एतदर्थेन संज्ञया विधीयमानेन नियमेन? सत्यमेतत्; एवं मन्यते--द्युभ्याम्, द्युभिरित्येवमर्थं संज्ञाविधाने नियमः कत्र्तव्यः; न ह्रुकारस्य गुणसंज्ञास्ति, नापि वृद्धिसंज्ञा; यतः पूर्वेणैव संज्ञाविधाननियमेनैतदपि सिद्ध्यति। तस्मादन्यार्थोऽयं संज्ञाविधाननियमः क्रियमाणो येऽपि विस्मरणशीलाः पूर्वस्य नियमस्य प्रयोजनं न स्मरन्ति ताननुग्रहीतुम्-- द्यौः, पन्था-, स इत्येवमर्थोऽपि भवति॥
ऽइको गुणवृद्धीऽ इत्यनेन समानमिदम् । स्वसंज्ञया विधाने नियमार्थमित्यत्र युक्तिमाह-अजिति वर्तत इति । ततश्च ह्रस्वादिशब्दा इहानुवृता नाचमुपस्थापर्यान्त, तस्य स्वयमुपस्थानादिति स्वरूपपदार्थका आश्रीयन्ते । तेन ह्रस्व इत्येवं योऽज्विधीयते सोऽचः स्थाने भवतीत्ययमर्थः सम्पद्यते । एवं दीर्घप्लुतयोः । द्यौरित्यादि । ऽदिव औत्ऽ ऽपथिमथ्यृभुक्षामात्ऽ,ऽत्यदादीनामःऽ,ऽदिव उत्ऽ इति औकारादयो न संज्ञया विधीयन्ते इति हल एव स्थाने भवन्ति ॥
सिद्धान्तकौमुदी
ह्रस्वदीर्घप्लुतशब्दैर्यत्राज्विधीयते तत्राच इति षठ्यन्तं पदमुपतिष्ठते ॥
अचश्च। अच इत्यपि षष्ठ�न्तशब्दः स्वरूपपरः, पूर्वसूत्रे इक इतिवत्। ऊकालोऽजित्यतः `अच्` `ह्रस्वदीर्घप्लुत` इत्यनुवर्तते। `इति यत्र विधीयते` इत्यध्याहार्यम्। फलितमाह--ह्रस्वेत्यादिना। `दिव उत्` इत्यादौ तु नेदं प्रवर्तते, ह्रस्वादिशब्दानामश्रवणात्। `ह्रस्वो नपुंसके प्रातिपादिकस्ये`त्याद्युदाहरणम्। श्रीपम्। नेह--सुपात् ब्राआहृणकुलम्।
अतश्च। ह्रस्वदीर्घेत्यादि। एतच्च `ऊकालोऽज्झ्रस्वदीर्घप्लुतः` इति सूत्रादझ्यस्वदीर्घप्लुत इत्यनुवर्त्त्य `ह्रस्वो दीर्घः प्लुत इति योऽ`जिति योजनया लभ्यते। ह्रस्वेत्यादि किम् ?, `दिव उत्` द्युभ्याम्। `अष्टन आ विभक्तौ` अष्टौ। `अष्टाभ्य औ`शित्यत्र कृतात्त्वनिर्देशाज्ज्ञापकाज्जश्शसोर्विषये प्रवर्त्तमानस्य `अष्टन` इत्यात्त्वस्याऽच्स्थानिकत्वे सति नैतत्सिद्धयेदिति दिक्। षष्ठ�न्तं पदमिति। तच्च सति संभवे सामानाधिकरण्येनैव संबध्यते न वैयधिकरण्येन। तेन `ह्रस्वो नपुंसके` इत्यजन्तप्रातिपदिकस्यैव ह्रस्वः। श्रीपम्। नेह सुवाग्रब्राआहृणकुलम्। `शमामष्टानां दीर्घः-` इत्यत्र तु सामानाधिकरण्याऽसंभवत्-शमादीनामच` इति संबध्यते , तेन `शाम्यती`त्यादि सिद्धम्। `वाक्यस्य टेः प्लुतः-` इत्यत्र सामानाधिकरण्यसंभवेऽपि टेर्ग्रहणसामर्थ्याट्टरेवयवस्याचः प्लुत इति व्याख्यायते। अन्यथा `अलोऽन्त्यस्य` `अतश्चे`ति परिभाषाभ्यामेहि कृष्णेत्यादिवाक्यान्त्यस्याऽचः प्लुतसिद्धौ किमनेन टेर्ग्रहणेन ?। तेन `आयुष्मानेधीन्द्रवर्मन्` इत्यादि सिध्यतीति दिक्।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अचश्च किमयमलोऽन्त्यशेष आहोस्विदलोन्त्यापवादः? कथं वाऽयं तच्छेषः स्यात्, कथं वा तदपवादः? यद्येकं वाक्यं तच्चेदं च अलोन्त्यस्य विधयो भवन्त्यचो ह्रस्वदीर्घप्लुता अन्त्यस्य इति, ततोऽयं तच्छेषः। अथ नानावाक्यम्- अलोन्त्यस्य विधयो भवन्ति अचो ह्रस्वदीर्घप्लुता अन्त्यस्यानन्त्यस्य च इति, ततोऽयं तदपवादः। कश्चाऽत्र विशेषः? - ह्रस्वादिविधिरलोन्त्यस्येति चेद्वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेष्वज्ग्रहणम् - ह्रस्वादिविधिरलोन्त्यस्येति चेद्वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेष्वज्र्गहणं कर्तव्यम्। वचिपृच्छ्योर्दीर्घः अचः इति वक्तव्यम्। अनन्त्यत्वाद्धि न प्राप्नोति। शमादीनां दीर्घः अच इति वक्तव्यम्। अनन्त्यत्वाद्धि न प्राप्नोति। हनिगम्योदीर्घः अच इति वक्तव्यम्। अनन्त्यत्वाद्धि न प्राप्नोति। अस्तु तर्हि तदपवादः। - अचश्चेन्नपुंसकह्रस्वाऽकृत्सार्वधातुकनामिदीर्घेष्वनन्त्यप्रतिषेधः - अचश्चेन्नपुंसकह्रस्वाऽकृत्सार्वधातुकनामिदीर्घेष्वनन्त्यस्य प्रतिषेधो वक्तव्यः। ह्रस्वो नपुंसके प्रातिपदिकस्य 1|2|47 यथेह भवति- रै अतिरि, नौ अतिनु। एवं सुवाग्ब्राह्मणकुलम् इत्यत्रापि प्राप्नोति। अकृत्सार्वधातुकयोर्दीर्घः 7|4|25 यथेह भवति- चीयते सूयते। एवं छिद्यते भिद्यते अत्रापि प्राप्नोति। नामि 6|4|3 दीर्घो यथेह भवति- अग्नीनाम् वायूनाम्। एवं षण्णामित्यत्रापि प्राप्नोति। नैष दोषः। नोपधायाः 6|4|7 इत्येतन्नियमार्थं भविष्यति। प्रकृतस्यैष नियमः स्यात्। किं च प्रकृतम्? नामि इति। तेन भवेदिह नियमान्न स्यात् षण्णामिति। अन्यते तन्यत इत्यत्रापि प्राप्नोति। अथाप्येवं नियमः स्यात्- नोपधाया नाम्येव इति। एवमपि भवेदिह नियमान्न स्यात्- अन्यते तन्यत इति। षण्णाम् इत्यत्र प्राप्नोति। अथाप्युभयतोऽयं नियमः स्यात्- नोपधाया एव नामि, नाम्येव नोपधाया इति। एवमपि भिद्यते छिद्यते सुवाग्ब्राह्मणकुलमित्यत्रापि प्राप्नोति। एवं तर्हि ह्रस्वो दीर्घः प्लुत इति यत्र ब्रूयाद् अचः इत्येतत्तत्रोपस्थितं द्रष्टव्यम्। किं कृतं भवति? द्वितीया षष्ठी प्रादुर्भाव्यते। तत्र कामचारः- गृह्यमाणेन वाऽचं विशेषयितुमचा वा गृह्यमाणम्। यावता कामचारः, इह तावद्वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु गृह्यमाणेनाऽचं विशेषयिष्यामः। एतेषां दीर्घो भवति, अच इति। इहेदानीं नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेष्वचा गृह्यमाणं विशेषयिष्यामः। नपुंसकस्य ह्रस्वो भवति, अचः अजन्तस्येति। अकृत्सार्वधातुकयोर्दीर्घो भवति, अचः अजन्तस्येति। नामि दीर्घो भवति अचः अजन्तस्येति। इह कस्मान्न भवति- द्यौः पन्थाः स इति। - सञ्ञ्ज्ञया विधाने नियमः - सञ्ञ्ज्ञया ये विधीयन्ते तेषु नियमः। किं वक्तव्यमेतत्? नहि। कथमनुच्यमानं गंस्यते? अजिति हि वर्तते। तत्रैवमभिसम्बन्धः करिष्यते- अचः अज्भवति ह्रस्वो दीर्घः प्लुत इत्येवं भाव्यमान इति। अथ पूर्वस्मिन् योगेऽज्ग्रहणे सति किं प्रयोजनम्? - अज्ग्रहणं संयोगाऽच्समुदायनिवृत्त्यर्थम् - अज्ग्रहणं कियते संयोगनिवृत्त्यर्थम्, अच्समुदायनिवृत्त्यर्थं च। संयोगनिवृत्त्यर्थं तावत्- प्रतक्ष्य प्ररक्ष्य। ह्रस्वस्य पिति कृति तुक् 6|1|71 इति तुङ्मा भूदिति। अच्समुदायनिवृत्त्यर्थम्- तितउच्छत्रं तितउच्छाया। दीर्घात्पदान्ताद्वा (6.1.75,76) इति विभाषा तुङ्मा भूदिति ।। अचश्च ।। 28 ।।