`वन्चु प्रलम्भने` (धातुपाठः-1703), `लुन्च अपनयने` (धातुपाठः-187), `ऋत` इति सौत्रौ धातुः, यत्र `ऋतेरीयङ`
3|1|29 इतीयङ विहितः। `ऋतेरीयङ` आर्धधातुके विकल्प्यते` इति। `आदाय आर्धधातुके वा`
3|1|31 इत्यनेन। `वचित्वा` इति। `अनिदिताम्।
6|4|24 इति नलोपः। `वक्तवा` इति। `उदितो वा`
7|2|56 इतीडभावः पक्षे। चकारो वाग्रहणस्य स्वरितत्वविस्पष्टीकरणार्थः। तेनोत्तरसूत्रे काश्यपग्रहणस्य पूजार्थता; अन्यथा हि तस्यविकल्पार्थता विज्ञायेत। तथा च द्वयोर्विभाषयोर्मध्यवर्त्तित्वान्नित्योऽयं विधिः स्यात।