Page loading... Please wait.
1|2|15 - यमो गन्धने
॥ तस्मै पाणिनये नमः ॥
1|2|15
SK 2698
यमो गन्धने   🔊
सूत्रच्छेदः
यमः (पञ्चम्येकवचनम्) , गन्धने (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सिच् , आत्मनेपदेषु इति वर्तते । यमेर्धातोर्गन्धने वर्तमानात् परः सिच् प्रत्ययः किद् भवति आत्मनेपदेषु परतः । गन्धनं सूचनं, परेण प्रच्छाद्यमानस्यावद्यस्याविष्करणम् । अनेकार्थत्वाद् धातूनां यमिस्तत्र वर्तते । उदायत, उदायसाताम्, उदायसत । सूचितवानित्यर्थः । सिचः कित्त्वादनुनासिकलोपः । आङो यमहनः 1|3|28 इत्यात्मनेपदम् । गन्धन इति किम् ? उदायंस्त पादम्, उदायंस्त कूपादुदकम् । उद्धृतवानित्यर्थः । सकर्मकत्वेऽपि समुदाङ्भ्यो यमोऽग्रन्थे 1|3|75 इत्यात्मनेपदम् ॥
ननु च `यम उपरमे` (धातुपाठः-984) इति पठते, तत् कथमयं गन्धने वर्तते, इत्यत आह-- `अनेकार्थत्वात्` इति। `आङो यमहनः` 1|3|28 इत्यत्र `अकर्मकाच्च` 1|3|26 इत्यतोऽकर्मकग्रहणमनुवर्तते। तत् कथमिह सकर्मकत्वे सत्यात्मनेपदमित्यत आह-- `सकर्मकत्वेऽपि इत्यादि। सकर्मकत्वन्तु पदादेः क्रमणोऽत्र विद्यमानत्वात्। `उदायंस्त पादम्` इति। आकृष्टवानित्यर्थः॥
ननु यमिरुपरमे पठ।ल्ते, कथं गन्धने वर्तत इत्यत आह--अनेकार्थत्वादिति । उदायतेति । परावद्यं स्वयं प्रकाशितवानित्यर्थः । उदायंस्त पादमिति । अपकृष्टवानित्यर्थः ॥
सिद्धान्तकौमुदी
सिच्कित्सयात् । गन्धनं सूचनं परदोषाविष्करणम् । उदायत । गन्धने किम् ? उदायंस्त पादम् । आकृष्टवानित्यर्थः ॥
यमो गन्धने - यमो गन्धने । सिच्कित्स्यादिति । शेषपूरणम् । सिचः कित्त्वे मकारस्य "अनुदात्तोपदेशे" ति लोपः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.