॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|2|11
SK 2300
1|2|11
लिङ्सिचावात्मनेपदेषु
SK 2300
सूत्रच्छेद:
लिङ्-सिचौ - प्रथमाद्विवचनम् , आत्मनेपदेषु - सप्तमीबहुवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
हलन्ताद् इको झल् कितिति वर्तते । सन् इति निवृत्तम् । इगन्तात् इग्समीपाद् हलः परौ झलादी दिक्समीपाद्धलः परौ झलादी लिङ्सिचावात्मनेपदेषु परतः कितौ भवतः - भित्सीष्ट, भुत्सीष्ट । सिचि खल्वपि - अभित्त, अबुद्ध । इकः इत्येव - यक्षीष्ट, अयष्ट । सम्प्रसारणं हि स्यात् । आत्मनेपदेषु इति किम् ? अस्राक्षीत् , अद्राक्षीत् । सृजिदृशोर्झल्यमकिति 6|1|58 इत्यमागमो न स्यात् । हलन्तादित्येव - चेषीष्ट, अचेष्ट । गुणो न स्यात् । झलित्येव - वर्तिषीष्ट, अवर्तिष्ट । गुणो न स्यात् । लिङ्सिचौ इति किम् ? द्वेष्टा, द्वेक्ष्यते ॥
`लिङसिचावात्मनेपदेषु परतः`इति। कथं पुनर्लिङात्मनेपदेषु परतो भवति, यावता सिच एवात्मनेपदेषु परत्वं सम्भवति, न लिङः? एवं मन्यते-- लिङेकदेशेऽत्र सीयुटि लिङशब्दो वर्तते, यथा-- `न धातुलोप आर्धधातुके` 1|1|4 इत्यत्र धात्वेकदेशे धातुशब्दो वर्तते। तस्मात् सीयुट एवानेन प्रकारेण कित्त्वं विधीयते। अथ वा-- यथा हल्ङ्यादिसूत्रे 6|1|66 ययोरेव दीर्घत्वं सम्भवति तयोरेव ङ्यापो दीर्घादित्येतद्विशेषणम्, तथेहापि यस्मादात्मनेपदं परं सम्भवति सिचः, तस्यैवैतद्विशेषणम्। आत्मनेपदग्रहणं भवति परस्मैपदव्यवच्छेदार्थम्। `भिस्तीष्ट`इति। `आशिषि लिङलोटौ` 3|3|173 इति लिङ्; स्वरितत्वादात्मनेपदम्। एवमुत्तरत्रापि स्वरितञितः कत्र्रयात्मनेपदमनेनैव वेतितव्यम्। `सुट तिथोः` 3|4|107 इति सुट्। कर्तरि श्नम्, `लिङ सलोपोऽनन्त्यस्य` 7|2|79 इति च न भवति, `लिङाशिषि` 3|4|116 इत्यार्धधातुकत्वात्, तयोश्च सार्वधातुके विधानात्। `भुत्सीष्ट` इति। बुधेः `अनुदात्तङितः` 1|3|12 इत्यात्मनेपदं वेदितव्यम्। उत्तरत्राप्यनुदात्तङिद्भ्यः कर्तर्यात्मनेपदमनेनैव वेदितव्यम्। `अभित्त` इति। `झलो झलि` 8.2.26) इति सिचो लोपः। `अबुद्ध` इति। `झषस्तथोर्धोऽधः` 8|2|40 इति तकारस्य धकारः, `झलां जश् झशि` 8|4|52 इति पूर्वधकारस्य दकारः। `यक्षीष्ट` इति। स्वरितेत्त्वादात्मेपदम्। पूर्ववत् षत्वं कत्वञ्च। `संप्रसारणं हि स्यात्` इति। वच्यादिसूत्रेण 6|1|15 ।`अद्राक्षीत्` इति। `अस्ति सिचोऽपृक्ते` 7|3|96 इतीट्, `वदव्रजहलन्तस्याचः` 7|2|3 इति वृद्धिः। पूर्ववत् षत्वकत्वे॥
आत्मनेपदेषु परत इति । एतत्सिच एव विशेषणम्, न लिङ्परस्मैपदस्य; झल्ग्रहणानुवृत्यैव व्यावर्तितत्वात् । भित्सीष्टेति । भिदिः स्वरितेत्, ऽलिङ्ः सीयुट्ऽ,ऽसुट् तिथोःऽ । भुत्सीष्टेति । बुधिरनुदातेत्, पूर्ववद् भष् । अबुद्धेति । च्लेः सिच्ऽ, झलो झलिऽ, ऽझषस्तथोर्धोऽधःऽ,ऽझलां जश् झशिऽ इति धकारस्य दकारः । यक्षीष्टेति । स्वरितेत्वादात्मनेपदम्, व्रश्चादिषत्वम्, ऽषढोः कः सिऽ । अद्राक्षीदिति । अमागमे यणि च कृते ऽवदव्रजऽ इत्यकारस्य वृद्धिः ॥
सिद्धान्तकौमुदी
इक्समीपाद्धलः परौ झलादी लिङ् आत्मनेपदपरः सिच्चेत्येतौ कितौ स्तः । कित्त्वान्न गुणः । तिप्सीष्ट । तिप्सीयास्ताम् । तिप्सीरन् । लुङि । झलौ झलि-(कौमुदी-2281) इति सलोपः । अतिप्त । अतिप्साताम् । अतिप्सत । तेपते । तितेपे । तिष्टिपे । तिष्टिपाते । तिष्टिपिरे । तिष्टिपे । तिष्टेपाते । तिष्टेपिरे ॥ तेपृ कम्पने च । 366 ग्लेपृ दैन्ये । ग्लेपते । 367 टुवेपृ कम्पने । वेपते । 368 केपृ 369 गेपृ 370 ग्लेपृ । चात्कम्पने गतौ च । सूत्रविभागादिति स्वामी । मैत्रेयस्तु चकारमन्तरेण पठित्वा कम्पने इत्यपेक्षत इत्याह । ग्लेपेरर्थभेदात्पुनः पाठः । 371 मेपृ 372 रेपृ 373 लेपृ गतौ 374 त्रपूष् लज्जायाम् । त्रपते ॥
लिङ्। इको झलिति, हलन्ताच्चेति च सूत्रमनुवर्तते। `असंयोगा`दित्यतः किदिति च। इक इति सामीप्ये षष्ठी, हलि अन्वेति। तदाह--इक्समीपादित्यादिना। आत्मनेपदपरकत्वं सिच एव विशेषणं, न तु लिङः, लिङादेशस्यात्मनेपदस्य लिङः परत्वाऽसंभवात्। इकः किम् ?। `वह्`वक्षीष्ट। सति तु कित्त्वे `वचिस्वपी`ति संप्रसारणं स्यात्। आत्मनेपदेषु किम् ?। अद्राक्षीत्। इह कित्त्वे सति `सृजिदृशोर्झल्यमकिती`त्यम्न स्यात्। अतिप्तेति। लुङस्तादेशे, च्लिः, सिच्। `झलो झली`ति लोपः। आत्मनेपदपरकत्वेन सिचः कित्त्वान्न लघूपधगुणः। अथ तेपृधातोरेदुपधत्वस्य प्रयोजनमाह-- तितेपे इति। इदुदुपधत्वे तु कित्त्वाद्गुणो न स्यादिति भावः। सेट्कोऽयमिति सूचयति-- तेपितेति। तेपिषीष्ट। अतेपिष्ट। ष्टिपृधातोस्तु `धात्वादेः षः स` इति सत्वे ष्टुत्वनिवृत्त्या लटि स्तेपत इति रूपं सिद्धवत्कृत्य लिटि रूपमाह-- तिष्टिप इति। `शर्पूर्वाः खयः` इति तकारः शिष्यते, षकारस्य निवृत्तौ ष्टुत्वनिवृत्तेः। कित्त्वान्न गुणः। तिष्टेप इति। ष्टेपृधातो रूपम्। तेपृ कम्पने चेति। चात्क्षरणे। वस्तुतस्तु चकारेण क्षरणार्थस्य लाभात्पू?रवत्रास्य पाटस्त्यक्तुं शक्यः। केचित्तु `देपृ`इति वर्गतृतीयादिं पठन्ति। चात्कम्पने गतौ चेति। अनुक्तसमुच्चयार्थश्चकार इति भाव-। एतच्च टु वेपृ केपृ गेपृ कम्पन इत्येव सिद्धे पृथ`क्पाठाल्लभ्यते। अर्थभेदादिति। ग्लेपृ दैन्ये` इति पूर्वं पठितम्। #इह त्वर्थभेदात्पुनः पाठः। अन्यथा `ग्लेपृ दैन्ये कम्पने गतौ चे`ति गौरवं स्यादिति भावः। त्रपूषिति। ऊकारः षकारश्च इत्। अदुपधः।
`इको झल्`, `हलन्ताच्च` इति वर्तते। `असंयेगाल्लिट् कित्` इत्यतः किदिति च। तदाह-- इक्समीपादित्यादि। इकः किम् ?। यक्षीष्ट। सतिकित्त्वे संप्रसारणं स्यात्। आत्मनेपदेति किम् ?। अद्राक्षीत्। कित्त्वे सति `सृजिदृशोर्झल्यमकिति` इत्यम्न स्यात्। आत्मनेपदपरत्वं सिच एव विशेषणं न तु लिङ्स्थानिकस्यात्मनेपदस्य। लिङः परत्वाऽसंभवात्। तेपृ कम्पनेच। चकारात्क्षरणार्थस्य लाभादस्य पूर्वत्र पाठस्त्यक्तुं शक्यः। केचित्तु `तिपृ देपृ` इति पठन्ति। टुवेपृ। वेपथुः। केपृ गेपृ ग्लेपृ च। योगविभागात्पूर्वोत्तरार्थौ चकारेणानुकृष्येते। तदाह--चात्कम्पने गतौ चेति। योगविभागसामर्थ्यादेवार्थद्वयलाबे चकारो व्यर्थ इत्यन्ये। पुनः पाठ इति। दैन्ये पठितस्य कम्पनाद्यर्थलाभार्थमिति भावः। तृ?फल। तरतेरकारस्य गुणशब्देन भावितत्वात्फलभजोर्वैरूप्यसंपादकादेशादित्वात्तरपतेस्त्वेकहल्मध्यस्थत्वाऽभावादप्राप्ते विधिरयम्। तेरतुः। तेरुः। फेलतुः। फेलुः। भेजतुः। भेजुः। अबि शब्दे। अस्मात् `गुरोश्च हलः` इति अप्रत्यये अम्बाशब्दः। तिरुआः--अम्बाः= अकारोकारमकारात्मकाः शब्दा यस्य इति बहुव्रीहौ `शेषाद्विभाषे`ति कप्रत्यये त्र्यम्बक इत्येके। केचित्तु त्र#ईणि अम्बकानि नेत्राणि यस्येतिविगृह्णन्ति। अभिरभी इति। `सर्वधातुभ्योऽसु` न्नित्यधिकारे `उदके नुम्-भौ चे`ति वक्ष्यमाणत्वाद्धात्वन्तरेणापि अम्भः-- शब्दः सिध्यतीति बोध्यम्। अम्भः-- तोयम्। तस्यापत्यम् आम्भिः-- भीष्मः। `अम्भसो लोपश्चे`ति बाह्वादिपाठादिञि सलोपः। तद्वीजं त्विति। पूर्वसवर्णप्रवृत्तेः, षत्वाऽप्रवृत्तेश्च बीजमित्यर्थः।
लघुसिद्धान्तकौमुदी
इक्समीपाद्धलः परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। धुक्षीष्ट॥
महाभाष्यम्
लिङ्सिचावात्मनेपदेषु कथमिदं विज्ञायते- आत्मनेपदं यौ लिङ्सिचाविति। आहोस्विदात्मनेपदेषु परतो यौ लिङ्सिचाविति? किं चातः? यदि विज्ञायते- आत्मनेपदं यौ लिङि्सचाविति। लिङ् विशेषितः, सिजविशेषितः। अथ विज्ञायते- आत्मनेपदेषु परतो यौ लिङि्सचाविति, सिज्विशेषितः, लिङविशेषितः। यथेच्छसि तथास्तु। अस्तु तावद्- आत्मनेपदं यौ लिङि्सचौ इति। ननु चोक्तम्- लिङ् विशेषितः, सिजविशेषितः इति। सिच्च विशेषितः। कथम्?। आत्मनेपदं सिज्नास्तीति कृत्वा आत्मनेपदपरे सिचि कार्यं विज्ञास्यते। अथ वा पुनरस्तु- आत्मनेपदेषु परतो यौ लिङ्सिचौ- इति। ननु चोक्तम्- सिज्विशेषितो लिङविशेषितः- इति। लिङ् च विशेषितः। कथम्? आत्मनेपदेषु परतो लिङ् नास्तीति कृत्वाऽऽत्मनेपदे लिङि कार्यं विज्ञास्यते। नैव वा पुनरर्थो लिङि्वशेषणेनात्मनेपदग्रहणेन। किं कारणम्? झलिति वर्तते। आत्मनेपदेषु चैव लिङ् झलादिः, न परस्मैपदेषु। तदेतत्सिज्विशेषणमात्मनेपदग्रहणम्। अथ सिज्विशेषणे आत्मनेपदग्रहणे सति किं प्रयोजनम्? इह मा भूत्- अपाक्षीत्। अवाप्सीत्। नैतदस्ति। इक इति वर्तते। एवमपि- अचैषीत् अनैषीत् अत्रापि प्राप्नोति। एतदपि नास्ति प्रयोनम्। हलन्तादिति वर्तते। एवमपि अकोषीत् अमोषीत् अत्रापि प्राप्नोति। नैतदस्ति। झलिति वर्तते। एवमपि- अभैत्सीत् अच्छैत्सीत् अत्रापि प्राप्नोति। नैतदस्ति। इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। न चैषेग्लक्षणा वृद्धिः। इदं तर्हि प्रयोजनम्- इह मा भूत्- अस्राक्षीत् अद्राक्षीत्। किं च स्यात्? अकिल्लक्षणेऽमागमो न स्यात् ।। लिङि्सचावात्मनेपदेषु ।। 11 ।।