॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|9
SK 10
1|1|9
तुल्यास्यप्रयत्नं सवर्णम्   🔊
SK 10
सूत्रच्छेद:
तुल्य-आस्य-प्रयत्नम् - प्रथमैकवचनम् , सवर्णम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
तुल्य-आस्य-प्रयत्नम् सवर्णम्
सूत्रार्थ:
द्वयोः वर्णयोः यदि मुखस्थितम् उच्चारणस्थानम् आभ्यन्तरप्रयत्नाः च समानाः सन्ति, तर्हि तौ द्वौ वर्णौ परस्परयोः "सवर्णौ" स्तः ।
द्वयोः वर्णयोः "सवर्ण"संज्ञा तदा भवति यदा तयोः मुखस्थित-उच्चारणस्थानम् तथा आभ्यन्तरप्रयत्नः समानौ स्तः ।

वर्णानाम् उच्चारणस्थानानि एतादृशानि -
(1) अकुहविसर्जनीयानां कण्ठः - अ, क्, ख्, ग्, घ्, ङ् , ह् एतेषाम् उच्चारणस्थानम् कण्ठः ।
(2) इचुयशानां तालु - इ, च्, छ्, ज्, झ्, ञ्, य् , श् एतेषाम् उच्चारणस्थानम् तालु ।
(3) ऋटुरषाणां मूर्धा - ऋ, ट्, ठ्, ड्, ढ्, ण्, र्, ष् एतेषाम् उच्चारणस्थानम् मूर्धा ।
(4) ऌतुलसानां दन्ताः - ऌ, त्, थ्, द्, ध्, न्, ल्, स्, एतेषाम् उच्चारणस्थानम् दन्ताः ।
(5) उपूपध्मानीयानाम् ओष्ठौ - उ, प्-वर्ग, उपध्मानीय एतेषाम् उच्चारणस्थानम् ओष्ठौ ।
(6) ञमङणनानां नासिका च - ञ्, म्, ङ्, ण्, न् एतेषाम् उच्चारणस्थानम् नासिका अपि अस्ति । परन्तु एतत् मुखस्थितम् उच्चारणस्थानम् नास्ति, अतः सवर्णसंज्ञार्थम् अस्य चर्चा न क्रियते ।
(7) एदैतोः कण्ठतालु - ए, ऐ एतयोः उच्चारणस्थानम् कण्ठ + तालु ।
(8) ओदौतोः कण्ठोष्ठम् - ओ, औ एतयोः उच्चारणस्थानम् कण्ठ + ओष्ठौ ।
(9) वकारस्य दन्तोष्ठम् - व् वर्णस्य उच्चारणस्थानम् दन्त + ओष्ठौ ।
(10) जिह्वामूलीयस्य जिह्वामूलम् - जिह्वामूलीयवर्णस्य उच्चारणस्थानम् जिह्वामूलम् ।
(11) नासिका अनुस्वारस्य - अनुस्वारस्य उच्चारणस्थानम् नासिका । एतदपि मुखस्थितम् उच्चारणस्थानम् नास्ति, अतः सवर्णसंज्ञार्थम् अस्यापि चर्चा न क्रियते ।

वर्णानां आभ्यन्तरप्रयत्नाः एतादृशाः -
(1) स्पृष्टं प्रयत्नं स्पर्शानाम् - सर्वेषाम् वर्गीयव्यञ्जनानाम् आभ्यन्तरप्रयत्नः "स्पृष्टः" ।
(2) ईषत्स्पृष्टम् अन्तःस्थानाम् - य् , व्, र् , ल् - एतेषाम् आभ्यन्तरप्रयत्नः "ईषत्स्पृष्टः" ।
(3) विवृतम् ऊष्मणां स्वराणां च - सर्वेषाम् स्वराणाम् तथा श् , ष्, स्, ह् एतेषाम् वर्णानाम् आभ्यन्तरप्रयत्नः "विवृतः" ।
(4) ह्रस्वस्य अवर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव - ह्रस्व-अकारः प्रयोगे (इत्युक्ते) व्यवहारे संवृतभेदं प्रदर्शयति, परन्तु प्रक्रियायाम् (इत्युक्ते सूत्राणां प्रयोगेन रूपनिर्माणसमये) सः "विवृतः" अस्ति इत्येव मन्यते ।

ज्ञातव्यम् - पतञ्जलिमुनिना श् ष्, स्, ह् एतेषाम् आभ्यन्तरप्रयत्नः "ईषद्विवृतः" इति उक्तः अस्ति । अतः महाभाष्ये वर्णानाम् पञ्च-आभ्यन्तरप्रयत्नाः पाठ्यन्ते । पाणिनेः मतेन तु उपरिनिर्दिष्टाः चत्वारः एव आभ्यन्तरप्रयत्नाः सन्ति ।

ययोः द्वयोः वर्णयोः मुखस्थित-उच्चारणस्थानम् आभ्यन्तरप्रयत्नाः च समानाः भवन्ति, तेषाम् सवर्णसंज्ञा भवति ।
यथा -
1) अकार-आकारयोः उभयोः स्थानम् कण्ठः, यत्नः विवृतः । अतः अकार-आकारौ सवर्णौ स्तः ।
2) पकार-मकारयोः उभयोः मुखस्थित-उच्चारणस्थानम् ओष्ठौ, यत्नः स्पृष्टः । अतः पकार-मकारौ सवर्णौ स्तः । यद्यपि मकारस्य उच्चारणार्थम् नासिका अपि प्रयुज्यते, तथापि तस्याः अत्र ग्रहणं नैव क्रियते यतः नासिका "मुखस्थितम्" उच्चारणस्थानम् नास्ति ।
3) अकार-एकारयोः यद्यपि प्रयत्नौ समानौ स्तः, तथापि उच्चारणस्थानम् समानम् नास्ति । अतः अकार-एकारौ सवर्णौ न स्तः ।
4) अकार-ककारयोः यद्यपि उच्चारणस्थानम् समानम् अस्ति, तथापि प्रयत्नौ समानौ न स्तः । अतः अकार-ककारौ सवर्णौ न स्तः ।

अनेन प्रकारेण सवर्णाः एतादृशाः सिद्ध्यन्ति -
1) सर्वे कवर्गीयाः परस्पराणाम् सवर्णाः सन्ति । तथैव सर्वे चवर्गीयाः, टवर्गीयाः, तवर्गीयाः पवर्गीयाश्च ।
2) अकारस्य सर्वे (अष्टादश) भेदाः परस्पराणाम् सवर्णाः सन्ति । तथैव इकारस्य अष्टादशभेदाः, उकारस्य अष्टादशभेदाः च ।
3) ऋऌवर्णयोः मिथः सावर्ण्यम् वाच्यम् । अनेन वार्त्तिकेन ऋकार-ऌकारयोः सावर्ण्यम् विधीयते । अतः ऋकारस्य अष्टादशभेदाः तथा ऌकारस्य द्वादशभेदाः सर्वे परस्पराणाम् सवर्णाः सन्ति ।
4) यद्यपि एकार-ऐकारयोः उच्चारणस्थानम् आभ्यन्तरप्रयत्नः च समानौ स्तः, तथापि एतौ द्वौ परस्परयोः सवर्णौ न स्तः, यतः ऐकारस्य माहेश्वरसूत्रेषु पृथग्रुपेण निर्देशः क्रियते । तथैव, ओकार-औकारौ अपि परस्परयोः सवर्णौ न स्तः ।
5) यकारस्य अनुनासिक-अननुनासिकभेदौ (य् - य्ँ एतौ) परस्परयोः सवर्णौ स्तः । तथैव व् - व्ँ एतौ तथा ल् - ल्ँ एतौ अपि परस्परयोः सवर्णौ स्तः ।

ज्ञातव्यम् -
1. अनेन सूत्रेण अकार-हकारयोः, इकार-शकारयोः, ऋकार-षकारयोः, ऌकार-सकारयोः अपि सावर्ण्यम् विधीयते । परन्तु नाज्झलौ 1|1|10 इति अग्रिमसूत्रेण तस्य निषेधः भवति ।
2. तुल्यास्यप्रयत्नं सवर्णम् 1|1|9 तथा नाज्झलौ 1|1|10 एताभ्याम् सूत्राभ्याम् सवर्णसंज्ञायाः व्याख्या क्रियते । अस्मात् अनन्तरम् अणुदित्सवर्णस्य चाप्रत्ययः 1|1|69 अनेन सूत्रेण प्रत्याहारैः सवर्णग्रहणम् भवति । अस्य क्रमस्य विषये विस्तारेण अस्मिन् लेखे पाठितम् अस्ति, तत् दृश्यताम् ।
One-line meaning in English
Two letters are called सवर्ण of each other if their mouth-based location of pronunciation is same and their आभ्यन्तरप्रयत्न is also same.
काशिकावृत्तिः
तुल्यशब्दः सदृशपर्यायः । आस्ये भवमास्यं, ताल्वादिस्थानम् । प्रयतनं प्रयत्नः स्पृष्टतादिर्वर्णगुणः । तुल्य आस्ये प्रयत्नो यस्य वर्णस्य येन वर्णेन सह स समानजातीयं प्रति सवर्णसंज्ञो भवति । चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसंज्ञायाम् आश्रीयन्ते - स्पृष्टता, ईषत्स्पृष्टता, संवृतता, विवृतता च इति । अ अ अ इति त्रयोऽकारा उदात्तानुदात्तस्वरिताः प्रत्येकं सानुनासिका निरनुनासिकाश्च ह्रस्वदीर्घप्लुतभेदादष्टादशधा भिद्यन्ते । तथा इवर्णः । तथा उवर्णः । तथा ऋवर्णः ।
ऌवर्णस्य दीर्घा न सन्ति, तं द्वादशप्रभेदम् आचक्षते । सन्ध्यक्षराणां ह्रस्वा न सन्ति, तान्यपि द्वादशप्रभेदानि । अन्तःस्था द्विप्रभेदाः, रेफवर्जिता यवलाः सानुनासिका निरनुनासिकाश्च । रेफोष्मणां सवर्णा न सन्ति । वर्ग्यो वर्ग्येण सवर्णः - दण्डाग्रम्, खट्वाग्रम् । आस्यग्रहणं किम् ? कचटतपानां भिन्नस्थानानां तुल्यप्रयत्नानां मा भूत् । किं च स्यात् ? तर्प्ता, तर्प्तुम् इत्यत्र झरो झरि सवर्णे 8|4|65 इति पकारस्य तकारे लोपः स्यात् । प्रयत्नग्रहणं किम् ? इचुयशानां तुल्यस्थानानां भिन्नजातीयानां मा भूत् । किं च स्यात् ? अरुश्च्योतति इत्यत्र झरो झरि सवर्णे 8|4|65 इति शकारस्य चकारे लोपः स्यात् ।
ऋकारऌकारयोः सवर्णसंज्ञा वक्तव्या । होतृ ऌकारः, होतॄकारः - उभयोः ऋवर्णस्य ऌवर्णस्य च आन्तरतमः सवर्णो दीर्घो नास्ति इति ऋकार एव दीर्घो भवति । सवर्णप्रदेशाः अकः सवर्णे दीर्घः 6|1|101 इत्येवम् आदयः ॥
तुलया सम्मितं तुल्यमिति `नौवयोधर्म` 4|4|91 इत्यादिना यतमुत्पाद्य तुल्यशब्दो व्युत्पाद्यते। न च प्रयत्नस्य तुलया सम्मितत्वं सम्भवति, ततश्चासम्भवद्विशेषणमिति यश्चोदयेत्, तं प्रत्याह- `तुल्यशब्दः` इत्यादि। एवं मन्यते-व्युत्पत्त्यर्थं तु केवलं तुलोपादमते, न त्वत्र तुलार्थो विद्यते, न वासम्मितार्थः। सदृषपर्यायो ह्रयं तुल्यशब्दः। तथा हि- `तुल्य` इत्युक्ते `सदृश` इति पर्यायो भवति, न तु तुलया सम्मित इति। आस्यशब्दोऽयं ण्यदन्तोऽप्यस्ति। अस्यतेक्षिप्यतेऽन्नमनेनेति `कृत्यल्युटो बहुलम्` 3|3|113 इति करणे ण्यत्। आस्यम्- मुखम्। तत्पुनः ओष्ठात्प्रभृति प्राक् काकलकात्। काकलकं नाम ग्रीवायामुन्नतप्रदेशः, लोके यः कण्ठमणिः इत्युच्यते। तद्धितान्तोऽप्यास्यशब्दोऽस्ति- आस्ये भवमिति, `शरीरावयवाच्च` 4|3|55 इति यति कृते, `यस्येति च` 6|4|148 इत्यकारलोपे `हलो यमां यमि लोपः` 8|4|63 इति यलोपे च कृते `आस्यम्` इति। एतच्च मुखान्तर्वर्त्तिनां ताल्वादीनां वाचकम्। तत्र यदि पूर्वस्यास्यशब्दस्येदं ग्रहणंस्यात्, कचटतपानामपि सवर्णसञ्ज्ञा स्यात्, ण्यदन्तस्यास्यशब्दस्य वाच्येऽर्थेतेषां तुल्यत्वात् प्रयत्नविषयस्य। इममतद्धितान्तस्यास्यशब्दस्य ग्रहणे दोषं दृष्ट्वा तद्धितान्तस्येदं ग्रहणमिति दर्शयन्नाह- `आस्ये भवमास्यम` इति। किं पुनस्तदित्याह- `ताल्वादिस्थानम` इति। यस्मिन् वर्णा निष्पाद्यन्ते, तत् स्थानम्। आविशब्देननासिकादीनां ग्रहणम्। ननु च नासिका मुखाद्वहिर्वृत्तिरास्यं न भवति? नैतदस्ति; नहि मुखाद्बहिर्वर्त्तिनी नासिकेयं विवक्षिता, तस्यां वर्णानामनिष्पत्तेः। का तर्हि? अन्तरास्ये चर्म विततमस्ति पणवचर्मवत्, तत्सम्बद्धा रेखा, यस्यां वायुनाभिहन्यमा-नायां वर्णा निष्पद्यन्ते सेह नासिका विवक्षिता। कथं पुनर्विज्ञायते तद्धितान्तस्यास्यशब्दस्येदं ग्रहणमिति? आस्यग्रहणसाथ्र्यात्। यदि ह्रतद्धितान्तस्य ग्रहणंस्यात्, आस्यग्रहणमनर्थकं स्यात्। सर्वेषामेव हि तद्वाच्य एवार्थे प्रयत्नस्तुल्यः।नास्त्येव हि सः, यस्य व्यवच्छेदार्थमास्यग्रहणं स्यात्। ननु च विसर्जनीयस्य सत्य-सति वा सवर्णत्वे प्रयोजनमस्ति, नापि दोषः।`स्पृष्टतादिः` इति। आदिशब्देन ईषत्स्पृ-ष्टतादीनां ग्रहणम्। `वर्णगुणः` इति। अकारादीनां वर्णानां धर्म इत्यर्थः।`तुल्य आस्ये प्रयत्नो यस्य` इति। एतेन तुल्यास्यप्रयत्नशब्दस्त्रिपदोऽयं बहुव्रीहिरिति दर्शयति। व्याधिकरणानामपि गमकत्वनाद्बहुव्रीहिर्भवत्येव; यथा -`कण्ठेकालः, उरसिलोमा` इति। अथ द्वन्द्वगर्भबहुव्रीहिः कस्मान्नाश्रीयते- आस्यं च प्रयत्नश्च आस्यप्रयत्नौ,तौ तुल्यौ यस्य तत् तुल्यास्यप्रयत्नमिति? एवं मन्यते-द्वन्द्वगर्भबहुव्रीहावाश्रीयमाणे ताल्वादिना स्थानेन प्रयत्नो न विशेषितः स्यात्। ततश्च ककारङकारयोर्मिथः सवर्णसञ्ज्ञा न स्यात्, बाह्रस्य प्रयत्नस्य भिन्नत्वात्। ककारस्य विवृतकण्ठत्वादिर्बाह्रः प्रयत्नः। ङकारस्य संवृतकण्ठत्वादिः। असत्यां च सवर्णसञ्ज्ञायां शङ्कितेत्यत्र `अनुस्वारस्य ययि परसवर्णः` 8|4|57 इति ङकारो न स्यात्। अथ सत्यपि बाह्रस्य प्रयत्नस्य भेद आभ्यन्तरः स्पृष्टताख्योऽनयोस्तुल्यः प्रयत्नः, तं समाश्रित्यसवर्णसञ्ज्ञा भविष्यति? यद्येवम्, शकारचकारसयोरपि सत्यप्याभ्यन्तरयोर्विवृतास्पृष्टतयोः प्रयत्नयोर्भेदे योऽनयोर्बाह्रः प्रयत्नस्तुल्यो विवृत्कण्ठत्वादिस्तदाश्रया सवर्णसञ्ज्ञा स्यात्। ततश्च `अरुश्च्योतति` इति वक्ष्य-माणं प्रत्युदाहरणं नोपपद्यते।थ त्रिपदे तु बहुव्रीहौ ताल्वादिस्थानेन प्रयत्नोविशिष्यते। तेन बाह्रं प्रयत्नमुत्सृज्याभ्यन्तर एव स्पृष्टतादिर्गृह्रते। स एव हि ताल्वादावास्ये सम्भवति, नेतरः। आभ्यन्तरस्य प्रयत्नस्य ग्रहणे सति सत्यपि बाह्र-प्रयत्नभेदे भतत्येव ककार ङकारयोः सवर्णसञ्ज्ञा; आभ्यन्तरप्रयत्नस्य तुल्यत्वात्,तस्यैव चेह ग्रहणात्। न च चकारशकारयोः सत्यपि बाह्रस्य प्रयत्नस्य तुल्यत्वे सवर्णसञ्ज्ञा प्रसजति; तस्येहाग्रहणात्, यस्य च ग्रहणं तस्य चासमानत्वात्। तस्यात् त्रिपद एव बहुव्रीहिराश्रयितुं युक्तः; न द्वन्द्वगर्भ इति। यदि तर्हि त्रिपदो बहु-व्रीहिराश्रीयते, भिन्नविभक्तिकत्वादप्राधान्याच्चास्यं तुल्यत्वेनाविशेषितं भवति, ततश्च भिन्नस्थानानामपि सवर्णसञ्ज्ञा प्राप्नोति? नैष दोषः। यदाधेयं प्रति यदधिकरणमुपदीयते, तदाधेयतुल्ययैव तत् तुल्यमिति विज्ञायते। तथा हि- `देवदत्तयज्ञदत्तयोस्तुल्यं कांस्यपात्र्यां भोजनम्` इत्युक्ते कांस्यपात्र्यपि तयोस्तुल्येतिगम्यते। यं प्रति यस्तुल्यास्यप्रयत्नः, स तमेव प्रति सवर्णसञ्ज्ञो भवतीत्येषोऽ-र्थो यतो वचनाल्लभ्यत इह तन्नास्ति। ततश्च यो यं प्रति तुल्यास्यप्रयत्नः, स ततोऽ-न्यमपि प्रति सवर्णसञ्ज्ञः स्यादिति चोद्यमाशङ्क्याह- `समानजातीयं प्रति` इति। समानजातीयो यं प्रति यस्तुल्यास्यप्रयत्नः, तं प्रति स सवर्णसञ्ज्ञो भवति, न ततोऽन्यम्। एतच्च तुल्यास्यप्रयत्नशब्दस्य सवर्णशब्दस्य च सम्बन्धिशब्दत्वाल्लभ्यते। सम्बन्धिशब्दो ह्रन्तेरणापि शब्दान्तरसन्निधिः नियमेव सम्बन्धिनमुपस्थापयति, यथा-`पितरि शुश्रूषितव्यम्` इति। नोच्यते स्वस्मिन्निति, सम्बन्धाच्चैतदवगम्यते, `यो यस्य पिता` इति। तथेहापि। यद्यपि यो यस्य तुल्यास्यप्रयत्नः, स तं प्रति सवर्णसञ्ज्ञो भवतीति,न चोच्यते, तथापि सम्बन्धात् तुल्यास्यप्रयत्नः समानजातीयमेव प्रति सवर्णसञ्ज्ञो भवतीति गम्यते। अथ वा समानो वर्णः `सवर्णः` इत्यन्वर्थसञ्ज्ञेयम्। तेनतुल्यजातीयमेव प्रति सवर्णसञ्ज्ञो भवति। एवं हि समानोऽस्य वर्णो भवति, यदि तमेव प्रति सवर्णसञ्ज्ञो भवति, न विजातीयं प्रति।`चत्वारः` इत्यादि। द्विविधाः प्रयत्नाः, आभ्यन्तराः, बाह्राश्च। तत्राभ्य-न्तराः चत्वारो वृत्तरौ दर्शिताः। बाह्रास्त्वेकादशष। के पुनस्ते? `विवारः, संवारः,आआसः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितश्च` इति। तत्र नाभिप्रदेशात् प्रयत्नप्रेरितो वायुः प्राणो नाम ऊध्र्वमात्रामन्नुरःप्रभृतीनामन्यतमस्मिन् स्ताने प्रयत्नेन विधार्यते, स विधार्यमाणः स्थानमभिहन्ति, ततः स्थानाभिघाताद् ध्वनिरुत्पद्यते। आकाशे सावण्र्यश्रुतिः सवर्णस्यात्मलाभः। तत्र वर्णध्वनावुत्पद्यमाने यदा स्थानमभिहन्ति, ततः स्थानाभिघाताद् ध्वनिरुत्पद्यते। आकाशे सावण्र्यश्रुतिः सवर्णस्यात्मलाभः। तत्र वर्णध्वनावुत्पद्यमाने यदा स्थानकरण-प्रयत्नाः परस्परं स्पृशन्ति, तदा सा `स्पृष्टता`। ईषद्यदा स्पृशन्ति, तदा सा ईष-स्पृष्टता; सामीप्येन यदा स्पृशन्ति, सा संवृतता; दूरेण यदा स्पृशन्ति, सा विवृतता-एते चत्वार आभ्यन्तराः प्रयत्नाः। आभ्यन्तरत्वं पुनरेषां स्थानकरणप्रयत्न-व्यापारेणोत्पत्तिकाल एव सम्भवात्। तत्र स्पृष्टकरणाः स्पर्शाः। कादयो मावसानाः स्पर्शाः, स्पष्टता गुणः। करणं कृतिरुच्चारणप्रकारः। स्पृष्टतानुगतं करणं येषां ते स्पृष्टकरणाः। एवमन्यत्रापि वेदितव्यम्। ईषत्स्पृष्टकरणा अन्तः स्थाः।अन्तः स्था यरलवाः। विवृतं करणमूष्मणाम्, स्वराणां च। स्वराः सर्व एवाचः। उष्ममाणः शषसहाः।अथ बाह्राः प्रयत्नाः किंलक्षणाः? स एव प्राणो नाम वायुपरूध्र्वमाक्रामन्मुध्न प्रतिहतो निवृतो यदा कोष्ठमभिहन्ति तदा कोष्ठेऽभिहन्यमाने गलबिलस्य संवृतत्वात् संवारो नाम वर्णधर्म उपजायते। विवृतत्वाद् विवारः। संवृते गलबिलेऽव्यक्तः शब्दो नादः, विवृते आआसः। उपरिवर्तिनौ तौ आआसनादावनुप्रदानमिति केचिदाचक्षते। वर्णनिष्पत्तेरनु-पश्चात् प्रदीयत इत्यनुप्रदानम्। अन्ये तु ब्राउवते `अनुप्रदानमनु-स्वानो घष्टानिह्र्यादवत्` यथा- घण्टानिह्र्यादोऽनुस्वनमनुभवति तथा इति। तत्र यदा स्थानाभिघातजे ध्ननौ नादोऽनुप्रदीयते, तदा नादध्वनिसङ्गाद् घोषो जायते, यदा आआसोऽनुप्रदीयते, तदा आआसध्वनिसङ्गादघोषः, महित वायौ महाप्राणः, अस्पवायावल्प-प्राणः। यदा सर्वाङ्गानुसारी प्रयत्नस्तीव्रो भवति तदा गात्रस्य निग्रहः, कण्ठविवर-स्य च चाणुत्वम्, स्वरस्य च वायोस्तीव्रगतित्वाद् रौक्ष्यं भवति, तमुदात्तमाचक्षते। यदा तु मन्दः प्रयत्नो भवति, तदा गात्रस्य रुआंसनम्, कण्ठबिलस्य महत्त्वम्, स्वरस्य वायोर्मन्दगतित्वात् स्निग्धता भवति, तमनुदात्तमाचक्षते। उदात्तानुदात्तस्वरसन्निकर्षात् स्वरित इत्येवं लक्षणा बाह्राः प्रयत्नाः। बाह्रत्वं पुनरेषां वर्णनिष्पत्तिकालादूध्र्वं, वायुवशेनोत्पत्तेः। तत्र वर्गाणां प्रथम द्वितीयाः शषरविसर्ज-नीयजिह्वामूलीयोपध्मानीया यमौ च प्रथमद्वितीयौ विवृतकण्ठाः आआसानुप्रदाना अघोषाः।वग्र्ययमानां प्रथमेऽल्पप्राणाः। इतरे सर्वे महाप्राणाः। वर्गाणाञ्च तृतीयचतुर्था अन्तःस्था हकारानुस्वारौ यमौ च तृतीयचतुर्थौ संवृतकण्ठा नादानुप्रदाना घोषवन्तः।वग्र्यमानां तृतीया अन्तःस्थाश्च अल्पप्राणाः। इतरे सर्वे महाप्राणाः। यथा तृतीया-स्तथा पञ्चमाः, आनुनासिक्यमेषामधिको गुणः।य एवैते द्विप्रकाराः प्रयत्ना बाह्रा आभ्यन्तराश्चाख्याताः, तेषामिह सवर्णसञ्ज्ञायां पूर्वोक्ता आभ्यन्तराश्चत्वारः स्पृष्टतादय आश्रीयन्ते,न बाह्रा विवारादयः, आस्यग्रहणेन तेषां व्यावर्तितत्वात्। स्पृष्टतादय एव ह्रास्ये भवन्ति, नविवारादयः। यद्येवम्, किमर्थं प्रयत्नग्रहणम्, एतावदस्तु तुल्यास्यमिति, आस्यग्रहणेनैव हि स्पृष्टतादयोऽपि प्रयत्नाः सवर्णसञ्ज्ञायां निमित्तभूतास्ताल्वादिस्थानवल्लभ्यन्त एव, तेषामप्यास्ये भवनात्? सत्यमेतत्, तथाप प्रत्येकं व्यापार-निरासार्थमुभयोरुपादानाम्। इतरथा हि यथैव स्थानं तुल्यं स्थानान्तरनिरपेक्षं सवर्णसञ्ज्ञायां व्याप्रियते, एवं प्रयत्नोऽपि स्थाननिरपेक्षः, स्थानं च प्रयत्ननिर-पेक्षं व्याप्रियेत; ततश्च भिन्नप्रयत्नानामपि तुल्यस्थानानाम्, भिन्नस्थानानामपि तुल्यप्रयतनानां सवर्णसञ्ज्ञा स्यात्। `अ अ अ` इत्यादिना येषां यावतां च यादृशां च मिथो नित्या सवर्णसञ्ज्ञा, तान् दर्शयति। अकाराणां हि सर्वेषाम् `अकुहविसर्जनीयाःकण्ठ्याः` इति तुल्यं कण्ठस्थानम्। इकाराणामपि `इचुयशास्तालव्याः` इति तालु। उकारा-णामपि `उपूपध्मानीया ओष्ठ्याः` इत्योष्ठः। ऋकाराणामपि `ऋटुरषा मूर्धन्याः` इतिमूर्धा। लृकाराणामपि `लृतुलसा दन्त्याः` इत दन्तः। एकाराणामैकाराणां च `एऐ कण्ठतालव्यौ` इति कण्ठतालु। ओकाराणामौकाराणां च `ओ ओ कण्ठ्यौष्ठ्यौ` इतिकष्ठोष्ठम्। प्रयत्नस्तु सर्वेषामेवैषां विवृतं करणमूष्मणां स्वराणां चेति विवृतत्वम्। तस्मात् तुल्यस्थान्प्रयत्नत्वात् स्वरेऽकारादयो मिथः सवर्णसञ्ज्ञाः। एवंयावदौकारः। अन्तःस्था द्विप्रभेदाः, सानुनासिका निरनुनासिकाश्च रेफवर्जिताः। तेऽपि समानजातीयानन्तःस्थान् प्रति सवर्णसञ्ज्ञा भवन्ति। `रेफोष्मणां सवर्णा न सन्ति` इति। तेऽभ्योऽन्येऽकारादयो वर्णा विजातीया इत्येषोऽभिप्रायः। तुल्यजातीयास्तु रेफोष्माणस्तुल्यस्थानप्रयत्नाः सवर्णाः सन्त्येव। तत्र रेफस्य तावद् ऋटुरषेभ्यो यवलेभ्यश्चान्ये वर्णा भिन्नस्थानत्वाच्च भिन्नप्रयत्नत्वाच्च सवर्णा न भवन्ति। तथाहि- `अकुहविसर्जनीयाः कण्ठ्याः, इचुयशास्तालव्याः, लृतुलसा दन्त्याः,अपूपध्मानीया ओष्ठ्याः, एऐ कण्ठतालव्यौ, ओ औ कण्ठओष्ठयौ` इति वचनादकारादीनां यथायोगं कण्ठादि स्थानम्। रेफस्य त्वृटुरषा मूर्धन्या इति मूर्धा। प्रयत्नोऽप्यनन्तरनिर्दिष्टेष्वकारादिषु ये स्वराः तेषां विवृतं करणमूष्मणां स्वराणां चेति विवृतत्वम्। ये तु वर्गान्तः पातिनः ककारादयः, तेषां स्पृष्टकरणाः स्पर्शा इति स्पृष्टता। रेफ-स्येषत्स्पृष्टकरणा अन्तःस्था इतीषत्स्पृष्टता। शकारसकारावपि स्थानप्रयत्नभेदाद्रेफस्य सवर्णौ न भवतः। तौ हि यथाक्रमं तालव्यदन्त्यौ। रेफस्तु मूर्धन्यः। प्रयत्नोऽपि तयोर्विवृतत्वम्। रेफस्य तु पूर्वोक्त एव। ऋटुषाः प्रयत्नभेदाच्चैव रेफस्य सवर्णा न भवन्ति; न तु स्थानभेदेन; तेषामपि मूर्धन्यत्वात्। प्रयत्नभेदस्तु विद्यतेऋकारषकारयोः पूर्ववद् विवृतत्वम्, रेफस्य तु स एव पूर्वोक्तः। टवर्गस्य स्पृष्टता।यवलास्तु पुनः स्थानभेदादेव सवर्णा न भवन्ति, न तु प्रयत्नभेदात्; तेषामपीषत्स्पृ-ष्टगुणत्वात्। स्थानभेदस्तु विद्यते, यवलानां यथायोगं तालव्यदन्त्योष्ठत्वात्। एवं विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वाराः। कुँ खुँ गुँ घुँ इत्येते च यमाश्चातुल्यस्थानप्रयत्नत्वादेव रेफस्य सवर्णा न भवन्ति। विसर्जनीयो हि कण्ठः,जिह्वामूलीयो हि जिह्व्यः; उपध्मानीय ओष्ठ्यः, अनुस्वारयमा नासिक्याः, रेफस्तुमूर्धन्यः। प्रयत्नस्तु यस्तस्य पूर्वोक्तः, स विसर्जनीयादीनां नास्त्येव तदेवं रेफस्य रेफादन्यो नास्ति कश्चित् सवर्तो वर्णः। अनया दिशोष्मणामपि शकारादीनांसावण्र्याभावे वेदितव्यः।`वर्ग्यः` इत्यादि। वर्गे भवो वर्ग्यः। `दिगादित्वाद् यत्` 4|3|54 , `यस्येति च` 6|4|148 इत्याकारलोपः। वग्र्यो यो वर्णः, सोऽन्येन वर्ग्येणस्ववर्गान्तःपातिना तुल्यास्यप्रयत्नेन सह सवर्णो भवति,यथा-ककारः खकारेण। एवमन्यत्रापि वेदितव्यम्। `भिन्नस्थानानाम्` इत्यादि। एते हि ककारादयः सर्वे स्पृष्टगुणत्वात् तुल्यप्रयत्ना यथाक्रमं कण्ठतालुमूर्धदन्तोष्ठस्थानत्वाद्भिन्नस्थानाः। `तर्प्ता, तर्प्तुम्` इति। `तृप तृन्फ तृप्तौ` (धातुपाठः-1307,1308) इत्यस्य तृचि तुमुनि च रूपम्। `भिन्नप्रयत्नानाम्ित्यादि। इकारादयोहि तालव्यत्वात् सर्वे तुल्य-स्थाना विवृतत्वस्पृष्टत्वेषत्स्पृष्टत्वप्रयत्नात् यथायोगं भिन्नप्रयत्नाः। इकार-शकारयोर्यद्यपि प्रयतनोऽप्यभिन्नः,तथापि, तयोः प्रतिषेधं वक्ष्यतीति न भवति सवर्ण-त्वम्। `अरुश्च्योतति`इति `श्च्युतिर् क्षरणे` (धातुपाठः-41) इत्यस्य लटि रूपम्। तत्र परत्रावस्थितऽरुस्शब्दस्य सकारस्य रुत्वम्। तस्य विसर्जनीयः, तस्यापि `वा शरि` 8|3|36 इति सकारः, तस्यापि श्चुत्वं शकारः। `होतृकारः` इति। कथं पुनरत्र ऋकारआदेशो भवति, न हि ऋकारलृकारयोः समुदायस्य स्थानिनः सोऽन्तरतम इत्याह- `उभयोः`इत्यादि। ऋकारो मूर्धन्यः, लृकारस्तु दन्त्यः। तत्र तयोर्यद्येको मूर्धन्यो दन्त्यश्च दीर्घो वर्णोऽन्तरतमः सम्भवेत्, तदा सोऽन्तरतम आदेशो भवेत्। स च न सम्भवतीत्यवयवस्य योऽन्तरतमः, तेन भाव्यम्। तत्रापि यदि लृकारो दीर्घः स्यात्। सोऽपि पर्यायेण स्यात्, स च नास्ति; तस्मात् पारिशेष्यात् समुदायस्यैकादेशस्य योऽन्तरतमः स एव ऋकारो भवति।
तुल्यशब्दोऽयं यद्यपि तुलया संमितं तुल्यमिति ङौवयोधर्म" इति यतमुत्पाद्य व्युत्पाद्यते, तथापि व्युत्पत्यर्थमेव तुलोपादीयते, रूढशब्दस्त्वयं प्रवीणः, प्रतिलोमादिवदित्याह-ऽतुल्यशब्दः सदृशपर्यायऽ इति । ननु ङौवयोधर्म" इत्यत्र वक्ष्यति--"यथा तुला द्रव्यान्तरं परिच्छिनति, तथा तुल्यामपि सादृश्येन परिच्छिनतीत्येततुलया तुल्यस्य साधर्म्यम्" इति, सत्यम्; न ह्यएवं लौकिकाः प्रतियन्ति । तथा हि -"तुल्य" इत्युक्ते शदृश" इति प्रत्ययो भवति, न तु कश्चिदवयवार्थः प्रतीयते । ऽआस्ये भवमास्यमिऽति । लोकसिद्धं तावदास्यमोष्ठात्प्रभृति प्राक्काकलकाद्-अस्यन्ते क्षिप्यन्तेऽनेन वर्णा इति कृत्वा । काकलकं नाम ग्रीवाया उन्नतप्रदेशः । इह तु तस्मिन्नास्ये भवमास्यमित्यर्थः । "दिगादिभ्यो यत्" "शरीरावयवाच्च" इति यत्प्रत्ययः । किं पुनस्तदित्याह--ऽताल्वादिस्थानमिऽति । यस्मिन्वर्णा निष्पद्यन्ते तत् स्थानम् । आदिश्ब्देन नासिकादीनां ग्रहणम् । नासिकापि न बाह्या वर्णोत्पतिनिमितम्, किं तर्हि ? अन्तरास्ये चर्मविततमस्ति, पणवचर्मवत्, तत्संबद्धा रेखा नासिका, तस्यां वायुनाऽभिहतायां वर्णोत्पतिः । यदि पुनर्लौकिकमास्यं गःह्यएत, तदा तुल्यास्यप्रयत्नमिति द्वन्द्वगर्भो बहुव्रीहिः स्यात्-आस्यं च प्रयत्नश्च आस्यप्रयत्नौ, तौ तुल्यौ यस्येति; त्रिपदो वा बहुव्रीहिः - तुल्य आस्य प्रयत्नो यस्येति । तत्र द्वन्द्वगर्भे आस्यग्रहणं व्यर्थं स्यात्, सर्वेषां हि ततुल्यम् । विसर्जनीयस्यैकीयमतेनोरस्यत्वात् सावर्ण्याभावेऽपि न दोषः, त्रिपदे तु बहुव्रीहावास्येन प्रयत्नस्य विशेषितत्वादास्याद्वाह्याः प्रयत्ना हापिता भवन्ति, किन्तु ताल्वादिस्थानं तुल्यत्वेनाविशेषितं स्यात् । ततश्च भिन्नस्थानानामपि जबगडदानां सवर्णसंज्ञा प्राप्नोति । तत ऊर्ग्ज इति "झरो झरि" इति गकारस्य जकारे लोपः स्याद् । अतस्तद्धितान्तस्यैव ग्रहणम् । तत्रापि यदि द्वन्द्वगर्भो बहुव्रीहिः स्यात्, स्थानेन प्रयत्नो न विशेषितः स्यात्; ततश्च ककारङ्कारयोर्मिथः सवर्णसंज्ञा न स्यात्; बाह्यप्रयत्नस्य भिन्नत्वात् । ततश्च शङ्कितेति "अनुस्वारस्य ययि परसवर्णः" इति ङ्कारो न स्यात् । अथ सत्यपि बाह्यप्रयत्नभेदे आभ्यन्तरस्य प्रयत्नस्याभेदमाश्रित्य संज्ञा स्यात्, चकारशकारयोरपि सत्याभ्यन्तरभेदे बाह्याभेदमाश्रित्य सवर्णसंज्ञा प्राप्नोति । ततश्च अरुश्च्योततीति वक्ष्यमाणप्रत्युदाहरणं नोपपद्यते इतीमं दोषं दृष्ट्वा त्रिपदोऽयं बहुव्रीहिरिति दर्शयति--ऽतुल्य आस्ये प्रयत्नो यस्येऽति । तद्धितान्त आस्यशब्दो न स्वाङ्गवाच्येवेति"अमूर्द्धमस्तकात्" इत्यलुङ्न भवति । नन्वस्मिन्नपि पक्षे भिन्नविभक्तिकत्वात् प्राधान्याच्चास्यं तुल्यत्वेनाविशेषितं स्याद्; नैवात्रास्यं तुल्यतया विशेष्यते, भेदनिबन्धना हि तुल्यता । न च कखगघङं भिन्नं स्थानम्, एकत्वात्कण्ठस्य, किन्तु तद्धितान्तस्यास्यशब्दस्याश्रयणसामर्थ्यादस्य इत्येकत्वं विवक्षितम् । तेनैकस्मिन्नेव ताल्वादिके स्थाने यः प्रयत्नः, स तुल्यो ययोरित्याश्रयणान्न कश्चिद्दोषः । ऽसमानजातीयं प्रतीऽति । एतच्च संज्ञाविधानसामर्थ्याल्लभ्यते, अन्यथा यत्किञ्चनवर्णापेक्षया तुल्यास्याप्रयत्नत्वेन सवर्णत्वे लब्धे तदाश्रयमन्यस्यापि कार्यं स्यात्, सवर्णसंज्ञाविधानमनर्थकं स्यात् । न च रेफोष्मनिवृत्यर्थं वचनम्; रेफस्यापि रेफः सवर्ण एव, एवमूष्मस्वपि द्रष्टव्यम् । संबन्धिशब्दत्वाद्वा सम्बन्धिशब्दो हि तुल्यास्यप्रयत्नशब्दः, ततश्च यथा तुल्याय कन्या दातव्येत्युक्ते दात्रा तुल्यायेति गम्यते, तथेहापि । अथ वा, महती संज्ञा क्रियते; अन्वर्था यथा विज्ञायेत-समानएऽस्य वर्णः सवर्ण इति । यदि च समानजातीयमेव प्रति सवर्णसंज्ञा भवति, एवं समानोऽस्य वर्णो भवति । ऽचत्वारऽ इत्यादि । द्विविधाः प्रयत्नाः-बाह्याः, आभ्यन्तराश्च । तत्राभ्यन्तराश्चत्वारो वृतौ दर्शिताः । आभ्यन्तरत्वं पुनरेषाम्-स्थानकरणव्यापारेण; उत्पत्तिकाल एव भावात् । स्थानं ताल्वादि, करणं जिह्वाया अग्रोपाग्रमध्यमूलानि । बाह्याः पुनरेकादश-विवारः, संवारः, श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदातः, अनुदातः, स्वरितश्चेति । बाह्यत्वं पुनरेतेषाम्--वर्णनिष्पतिकालादूर्ध्वं वायुवशेनोत्पतेः । तत्र स्पृष्टकरणाः स्पर्शाः, कादयो मावसानाः स्पर्शाः । स्पृष्ट्ंअ स्पृष्टतागुणः, करणं कृतिरुच्चारणप्रकारः, स्पृष्टतानुगतं करणं येषां ते तथोक्ताः । एवमन्यत्रापि - ईषत्स्पृष्टकरणा अन्तःस्थाः; यरलवा अन्तःस्थाः । विवृतकरणा ऊष्माणः स्वराश्च; शपसहा ऊष्माणः, स्वराः सर्व एवाचः । वर्गाणां प्रथमद्वितीयाः; शषसविसर्जनीयजिह्वामूलीयोपध्मानीयाः; यमौ च प्रथमद्वितीयौ; विवृतकण्ठाः, श्वासानुप्रदानाः अघोषाः; वर्गयमानां प्रथमेऽल्पप्राणाः, इतरे महाप्राणाः । वर्गाणां तृतीयचतुर्थाः, अन्तःस्थाः, हकारानुस्वारौ,यमौ तृतीयचतुर्थौ संवृतकण्ठा नादानुप्रदाना घोषवन्तश्च । वर्गयमानां तृतीया अन्तःस्था अल्पप्राणाः, इतरे महाप्राणाः । यथा तृतीयास्तथा पञ्चमाः, आनुनासिक्यमेषामधिको गुणः । तत्र यमा नाम वर्गेष्वादितश्चतुर्णां पञ्चमेषु परतः त एव नासिक्या भवन्ति । तद्यथा--पलिक्रीरिन्, चख्नतुः, आग्मन्नायः, जघ्नतुः, अप्नस्वतीमित्यादि? । य एते द्विविधाः प्रयत्नाः, तेषामिह सवर्णसंज्ञायामाभ्यन्तराः स्पृष्टतादयश्चत्वार एवाश्रीयन्ते, न विवारादयो बाह्याः; आस्यग्रहणेन तेषां निवर्तितत्वात् । अ अ अ इत्यादि । अत्र सवर्णसंज्ञो भवतीति प्रकृतं बहुवचनान्तं विपरिणतमनुषज्यते, त्रयोऽकारा मिथः सवर्णंसंज्ञा भवन्तीत्यर्थः । कथं त्रयोऽकाराः, यावता प्रत्युच्चारणं भेदेऽनन्ताः, अभेदे त्वेक एव ? तत्राह--ऽउदातेऽति । अनेन प्रकारेण त्रय इत्यर्थः । एवं च "त्रयः" इत्यस्य "त्रिविधा"इत्यर्थो भवति । तत्राकुहविसर्जनीयाः कण्ठयाः, इचुयशास्तालव्याः, उपूपध्मानीया ओष्ठयाः, ऋटुअरषा मूर्द्धन्याः, लृतुलसा दन्त्याः, एऐ कण्ठ।ल्तालव्यौ, ओऔ कण्ठ।लेष्ठयौ, वकारो दन्तोष्ठयः-इत्येवं तुल्यस्थानप्रयत्नाः सर्वेऽकारादयो मिथः सवर्णसंज्ञा भवन्तीति । ऽअन्तःस्था । द्विप्रभेदाऽ इति । अत्रापि पूर्ववदनुषङ्गः, अन्तःस्था इत्युक्तेऽपि रेफनिवृत्यर्थं स्वरूपेण पठति । ऽयवला ऽइति । ऽरेफोष्मणां सवर्णा न सन्तीऽति । विजातीयाभिप्रायमेतत् । सजातीयास्तु रेफोष्माणस्तुल्यस्थानप्रयत्नास्सवर्णा भवन्त्येव । तत्र रेफस्य तावद्यवला भिन्नस्थाना ऋटुअरषा भिन्नप्रयत्ना अन्ये भिन्नस्थानप्रयत्नाः । एवमूष्मणामपि सवर्णाभावो वेदितव्यः । ऽवर्ग्यऽ इत्यादि । वर्गे भवो वर्ग्यः, दिगादित्वाद्यत् । ऽवर्ग्येणऽ--स्ववर्गान्तःपातिना । तद्यथा ककारः खकारेण । ऽतर्प्तेऽति । "तृप् प्रीणने" । ऽइचुयशानामिऽति । एषां मध्ये येषां प्रसङ्गः, तेषां मा भूदित्यर्थः । ऽअरुश् श्च्योततीऽति । "श्च्युतिर् क्षरणे" । अरुःशब्दस्य रुत्वविसर्जनीययोः "वा शरि" इति सकारः, तस्यापि श्चुत्वे शकारः । ऽऋकारलृकारयोरिऽति । स्थानभेदान्न प्राप्नोतीत्यारम्भः । श्रुतत्वाच्चानयोरेवमिथः सवर्णसंज्ञा विधीयते, न त्वेतयोरन्येन सह । ऽहोतृकारऽ इति । कथं पुनरत्र समुदायिनोऽन्तरतमो भवति न समुदायस्य, तत्रापि ऋकारस्यैव न लृकारस्येत्यत आह-ऽउभयोरिऽत्यादि । उभयोरन्तरतमो दीर्घो न सम्भवति, लृकारस्यापि दीर्घो न सम्भवतीत्यत आञ्कार एव भवत्युभयोरित्यर्थः । ननु च नैतत्सवर्णसंज्ञायाः प्रयोजनम्, कथम् ? "अकः सवर्णे" इत्यत्र तु वक्ष्यति "ऋति ऋ वा वचनम्, लृति लृ वा वचनम्" इति । तत्र चायमर्थः-अकां सवर्णे ऋति परतो वा ऋ भवति; द्विमात्रोऽयम्, मध्ये द्वौ रेफौ तयोरेका मात्रा,अभितोऽज्भक्तेरपरा, ईषत्स्पृष्टश्चायम् । तत्र प्रयत्नभेदादृकारेणाग्रहणाद् अनण्त्वाद्दीर्घसंज्ञाया अभावादप्राप्तोऽयं विधीयते । लृति लृ वा वचनमित्ययमपि द्विमात्र ईषत्स्पृष्टश्च, मध्ये द्वौ लकारौ, तयोरेका मात्राऽभितोऽज्भक्तेरपरा । पूर्ववदप्राप्तौ विधीयते । तत्र ऋति ऋ वा वचनमित्यत्र वाशब्दो दीर्घस्य समुच्चयार्थः, तेनाप्राप्त एव दीर्घो भविष्यति । ननु यद्यविधायैव सवर्णसंज्ञां तदुच्यते, ततोऽक इति सम्बन्धादङ्मात्रस्य लृति तत्कार्य स्याद् दध्य्लृकारो मध्व्लृकार इति, संज्ञाविधाने तु ऋकार ऋकारस्यैव सवर्ण इति तत्रैव व्यवस्थितं भवति । तस्मादविधेया सवर्णसंज्ञा ? न विधेया, यदेतद् ऋतीति "एतदृत इति वक्तव्यम्, सवर्ण इत्येव, ऋकारस्य ऋकार एव सवर्णः" इति ऋत्येव भविष्यति । तत लृति, ऋत इत्येव । इदं चासवर्णार्थम्, तेन लृति रूपद्वयं सिद्धम्-होतृकारः, होत्लृकार इति । तन्न वक्तव्यं भवति । कथम् ? ऋ वा वचनम्, लृ वा वचनमिति ब्रुवतापि तयोरच्त्वं वक्तव्यम्; अन्यथा विधानमात्रमनयोः स्याद्, न त्वच्कार्यः प्लुतः । सति त्वच्त्वे ताभ्यां त्रिमात्रयोरपि सावर्ण्याद् ग्रहणे सति प्लुतसंज्ञा भवतीति प्लुतसिद्धिः । एवं च होतृ ऋकार इति ऋकारयो रेफद्वययुक्तत्वाद्विवृतत्वाच्च कदाचिद्रेफद्वययुक्त ऋ भविष्यति, कदाचिद्विवृतः शुद्धो दीर्घः । लृकारेऽपि कदाचिदृकारान्तरतम ऋकारः, कदाचिद् लृकारान्तरतम लृकार इति, सत्यम्; सवर्णसंज्ञायां तन्न वक्तव्यं भवति, तद्वोच्येत, इदं वा, को न्वत्र विशेषः । इदं वाऽवश्यं वक्तव्यम्, इदमपि सिद्धं भवति "ऋत्यकः" - खट्वालृकारः, मातृलृकारः । "वा सुप्यापिशलेः"-उपलृकारीयति, उपाल्कारीयतीति । ऋदिताम्लृदितां च धातूनां पृथगुपदेशसामर्थ्यादनुबन्धकार्याणअमसङ्करः ॥
सिद्धान्तकौमुदी
ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् । अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । लृतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदैतोः कण्ठतालु । ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् ॥ जिह्वामूलीयस्य जिह्वामूलम् । नासिकानुस्वारस्य । इति स्थानानि । यत्नो द्विधा - आभ्यन्तरो बाह्यश्च । आद्यश्चतुर्धा - स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात् । तत्र स्पृष्टं प्रयत्नं स्पर्शानाम् । ईषत्स्पृष्टमन्तस्थानाम् । विवृतमूष्मणां स्वराणां च । ह्रस्वस्याऽवर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । एतच्च सूत्रकारेण ज्ञापितम् । तथाहि ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
तुल्यास्य। आस्ये भवमास्यं `शरीरावयवाद्यत्` इत्यभिप्रेत्याह-ताल्वादीति॥ आभ्यन्तरेति। एतच्च प्रशब्दबलाल्लभ्यते। ओष्ठात्प्रभृति प्राककाकलकादास्यम्। तुल्यास्यं किम् ?, तर्प्ता। अत्र पकारस्य तकारे परे `झरो झरि` इति लोपो मा भूत्। प्रयत्नग्रहणं किम्, वाक्श्चोतति। अत्र शस्य लोपो न॥ ञमङणनानामिति। नासिका चेति। चकारेण स्ववर्गानुकूलं ताल्वादि समुच्चीयते॥ एदैतोरित्यादौ तपरत्वमसंदेहार्थं, न तत्कालग्रहणार्थम्। तेन प्लुतस्यापि संग्रहः॥ चतुर्धेति। निष्कर्षपक्षे तु पञ्चधा, ऊष्माणामीषद्विवृतप्रयत्नाभ्युपगमात्॥ स्पृष्टेषत्स्पृष्टेति। एतेषामाभ्यन्तरत्वं, वर्णोत्पत्तिप्राग्भावित्वात्। तथाहि-नाभिप्रदेशात्प्रयत्नप्रेरितो वायुः प्राणो नाम ऊर्ध्वमाक्रामन्नुरःप्रभृतीनि स्थानान्याहन्ति, ततो वर्णस्य तदभिव्यञ्जकध्वनेर्षा उत्पत्तिः। तत्रोत्पत्ते प्राग्यदा जिह्वाग्रोपाग्रमध्यमूलानि तत्तद्वर्णोत्पत्तिस्थानं ताल्वादि सम्यक् स्पृशन्ति तदा स्पृष्टता, ईषद्यदा स्पृशन्ति तदा ईषत्स्पृष्टता, समीपावस्थानमात्रे संवृतता, दूरत्वे विवृतता। अत एव इचुयशानां तालव्यत्वाऽविशेषेऽपि तालुस्थानेन सह जिह्वाग्रादीनां चवर्गोच्चारणे कर्तव्ये सम्यक् स्पर्शः, यकारे ईषत्सपर्शः , शकारेकारयोस्तु दूराऽवस्थितिरित्याद्यनुभवं, शिक्षाकारोकिं?त चानुसृत्य विवेचनीयम्। विवारसंवारादयस्तु वर्णोत्पत्तेः पश्चान्मू�ध्न प्रतिहते निवृत्ते प्राणाख्ये वायावुत्पद्यन्त इति बाह्या इत्युच्यन्ते। गलबलिस्य संकोचात्संवारः, तस्यैव विकासाद्विवारः। एतौ च संवृतविवृतरूपाभ्यामाभ्यन्तराभ्यां भिन्नावेव। तयोः समीपदूरावस्थानात्मकत्वादित्यवधेयम्।
लघुसिद्धान्तकौमुदी
ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात्। (ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम्)। अकुहविसर्जनीयानां कण्ठः। इचुयशानां तालु। ऋटुरषाणां मूर्धा। ऌतुलसानां दन्ताः। उपूपध्मानीयानामोष्ठौ। ञमङणनानां नासिका च। एदैतोः कण्ठ तालु। ओदौतोः कण्ठोष्टम्। वकारस्य दन्तोष्ठम्। जिह्वामूलीयस्य जिह्वामूलम्। नासिकानुस्वारस्य। यत्नो द्विधा - आभ्यन्तरो बाह्यश्च। आद्यः पञ्चधा - स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृत भेदात्। तत्र स्पृष्टं प्रयतनं स्पर्शानाम्। ईषत्स्पृष्टमन्तःस्थानाम्। ईषद्विवृतमूष्मणाम्। विवृतं स्वराणाम्। ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्। प्रक्रियादशायां तु विवृतमेव। बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणोमहाप्राण उदात्तोऽनुदात्तः स्वरतिश्चेति। खरो विवाराः श्वासा अघोषाश्च। हशः संवारा नादा घोषाश्च। वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः। वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः। कादयो मावसानाः स्पर्शाः। यणोऽन्तःस्थाः। शल ऊष्माणः। अचः स्वराः। -क-ख इति कखाभ्यां प्रगर्धविसर्गसदृशो जिह्वामूलीयः। -प-फ इति पफाभ्यां प्रागर्धविसर्गसदृश उपध्मानीयः। अं अः इत्यचः परावनुस्वारविसर्गौ॥
महाभाष्यम्
तुल्यास्यप्रयत्नं सवर्णम् तुलया संमितं तुल्यम्। आस्यं च प्रयत्नश्च आस्यप्रयत्नम्। तुल्यास्यं च तुल्यप्रयत्नं च सवर्णसञ्ञ्ज्ञं भवति। किं पुनरास्यम् ? लौकिकमास्यम्। ओष्ठात् प्रभृति प्राक् काकलकात्। कथं पुनरास्यम् ? अस्यन्त्यनेन वर्णानिति आस्यम्। अन्नमेतदास्यन्दते इति वा आस्यम्। अथ कः प्रयत्नः ? प्रयतनं प्रयत्नः। प्रपूर्वाद्यततेर्भावसाधनो नङ् प्रत्ययः। यदि लौकिकमास्यं, किमास्योपादाने प्रयोजनम्। सर्वेषां हि तत् तुल्यं भवति। वक्ष्यत्येतत्- प्रयत्नविशेषणमास्योपादानमिति। ।। सवर्णसञ्ज्ञायां भिन्नदेशेष्वतिप्रसङ्गः प्रयत्नसामान्यात् ।। । सवर्णसञ्ज्ञायां भिन्नदेशेष्वतिप्रसङ्गो भवति ‐ -जबगडदशाम्। किं कारणम्? प्रयत्नसामान्यात्। एतेषां हि समानः प्रयत्नः । सिद्धं त्वास्ये तुल्यदेशप्रयत्नं सवर्णम्। सिद्धमेतत्। कथम्। आस्ये येषां तुल्यो देशः प्रयत्नश्च ते सवर्णसञ्ज्ञा भवन्तीति वक्तव्यम् । एवमपि किमास्योपादाने प्रयोजनम्। सर्वेषां हि तत् तुल्यम् । प्रयत्नविशेषणमास्योपादानम्। सन्ति ह्यास्याद् बाह्याः प्रयत्नाः। ते हापिता भवन्ति। तेषु सत्स्वसत्स्वपि सवर्णसञ्ज्ञा सिद्धा भवति। के पुनस्ते ? विवारसंवारौ, श्वासनादौ, घोषवदघोषता, अल्पप्राणता, महाप्राणतेति। तत्र वर्गाणां प्रथमद्वितीया विवृतकण्ठाः श्वासानुप्रदाना अघोषाश्च। एकेऽल्पप्राणा इतरे महाप्राणाः। तृतीयचतुर्थाः संवृतकण्ठा नादानुप्रदाना घोषवन्तः। एकेऽल्पप्राणाः। अपरे महाप्राणाः। यथा तृतीयास्तथा पञ्चमाः। आनुनासिक्यवर्जम्। आनुनासिक्यमेषामधिको गुणः । एवमप्यवर्णस्य सवर्णसञ्ज्ञा न प्राप्नोति। बाह्यं ह्यास्यात् स्थानमवर्णस्य । सर्वमुखस्थानमवर्णमेकं इच्छन्ति । एवमपि व्यपदेशो न प्रकल्पते- आस्ये येषां तुल्यो देश इति । व्यपदेशिवद्भावेन व्यपदेशो भविष्यति । सिध्यति। सूत्रं तर्हि भिद्यते। यथान्यासमेवास्तु। ननु चोक्तं सवर्णासञ्ज्ञायां भिन्नदेशेष्वतिप्रसङ्गः प्रयत्नसामान्यात् इति। नैष दोषः। नहि लौकिकामस्यम्। किं तर्हि? तद्धितान्तमास्यम्। आस्ये भवम् आस्यम्। शरीरावयवाद्यत्। किं पुनरास्ये भवम्। स्थानं करणं च । एवमपि प्रयत्नोऽविशेषितो भवति । प्रयत्नश्च विशेषतः। कथम्। न हि प्रयतनं ‐ प्रयत्नः। किं तर्हि? प्रारम्भो यत्नस्य प्रयत्नः। यदि प्रारम्भो यत्नस्य प्रयत्नः एवमप्यवर्णस्य एङोश्च सवर्णसञ्ज्ञा प्राप्नोति। प्रश्लिष्टावर्णावेतौ। अवर्णस्य तर्ह्यैचोश्च सवर्णसञ्ज्ञा प्राप्नोति। विवृततरावर्णावेतौ। एतयोरेव तर्हि मिथः सवर्णसञ्ज्ञा प्राप्नोति। नैतौ तुल्यस्थानौ। उदात्तादीनां तर्हि सवर्णसञ्ज्ञा न प्राप्नोति। अभेदका उदात्तादयः। अथवा किं न एतेन प्रारम्भो यत्नस्य प्रयत्न इति। प्रयतनमेव प्रयत्नः तदेव च तद्धितान्तमास्यम्। यत् समानं तदाश्रयिष्यामः । किं सति भेदे ? सतीत्याह। सत्येव हि भेदे सवर्णसञ्ञ्ज्ञया भवितव्यम्। कुत एतत्। भेदाधिष्ठाना हि सवर्णसञ्ज्ञा। यदि हि यत्र सर्वं समानं तत्र स्यात्, सवर्णसञ्ज्ञावचनमनर्थकं स्यात् । यदि तर्हि सति भेदे किंचित्समानमिति कृत्वा सवर्णसञ्ज्ञा भविष्यति। शकार-छकारयोः षकार-ठकारयोः सकार-थकारयोः सवर्णसञ्ज्ञा प्राप्नोति। एतेषां हि सर्वमन्यत् समानं करणवर्जम्। एवं तर्हि प्रयतनमेव प्रयत्नः। तदेव हि तद्धितान्तमास्यम्। न त्वयं द्वन्द्वः आस्यं च प्रयत्नश्च आस्यप्रयत्नमिति। किं तर्हि? त्रिपदोऽयं बहुव्रीहिः ‐ तुल्य आस्ये प्रयत्न एषामिति। अथवा पूर्वस्तत्पुरुषस्ततो बहुव्रीहिः ‐ तुल्य आस्ये तुल्यास्यः। तुल्यास्यः प्रयत्न एषामिति। अथवा परस्तत्पुरुषस्ततो बहुव्रीहिः ‐ आस्ये प्रयत्न आस्यप्रयत्नः। तुल्य आस्यप्रयत्न एषामिति। ।। तस्य ।। । तस्येति तु वक्तव्यम्। किं प्रयोजनम्? यो यस्य तुल्यास्यप्रयत्नः स तस्य सवर्णसंज्ञो यथा स्यात्। अन्यस्य तुल्यास्यप्रयत्नोऽन्यस्य सवर्णसंज्ञो मा भूत्-इति । ।। तस्यावचनं वचनप्रमाण्यात् ।।। तस्येति न वक्तव्यम्। अन्यस्य तुल्यास्यप्रयत्नोऽन्यस्य सवर्णसंज्ञः कस्मान्न भवति। वचनप्रामाण्यात्। सवर्णसञ्ज्ञावचनसार्मथ्यात्। यदि हि अन्यस्य तुल्यास्यप्रयत्नोऽन्यस्य सवर्णसंज्ञः स्यात् सवर्णसञ्ज्ञावचनमनर्थकं स्यात्। ।। सम्बन्धिशब्दैर्वा तुल्यम् ।।। सम्बन्धिशब्दैर्वा पुनस्तुल्यमेतत्। तद्यथा ‐ सम्बन्धिशब्दः मातरि वर्तितव्यम्। पितरि शुश्रूषितव्यमिति। न चोच्यते ‐ - स्वस्यां मातरि स्वस्मिन् पितरीति। सम्बन्धाच्चैतद् गम्यते या यस्य माता यश्च यस्य पितेति। एवमिहापि ‐ तुल्यास्यप्रयत्नं सवर्णमित्यत्र सम्बन्धिशब्दावेतौ। तत्र सम्बन्धादेतद्गन्तव्यम् ‐ यत्प्रति यत्तुल्यास्यप्रयत्नं तत्प्रति तत्सवर्णसञ्ञ्ज्ञं भवतीति। ।। ऋकारलृकारयोः सवर्णविधिः ।। । ऋकारलृकारयोः सवर्णसञ्ज्ञा विधेया। होतृ- लृकारः होतृकार इति। किं प्रयोजनम्? अकः सवर्णे दीर्घ इति दीर्घत्वं यथा स्यात्। नैतदस्ति प्रयोजनम्। वक्ष्यत्येतत् ‐ - सवर्णदीर्घत्वे ऋति ऋ वा वचनम्। लृति लृ वा वचनमिति। तत्सवर्णे यथा स्यात्। इह मा भूत्। दध्य्लृकारः मध्व्लृकार इति । यदेतत् सवर्णदीर्घत्वे ऋतीति एतद् ऋतः इति वक्ष्यामि। ततः लृति। लृकारे परतः लृकारो वा भवतीति। ऋत इत्येव । तन्न वक्तव्यं भवति । अवश्यं तद् वक्तव्यम्। ऊकालोऽच् ह्रस्वदीर्घप्लुतसंज्ञो भवतीत्युच्यते। न च ऋकार लृकारो वाऽजस्ति । ऋकारस्य लृकारस्य चाच्त्वं वक्ष्यामि। तच्चावश्यं वक्तव्यम्। प्लुतो यथा स्यात्। होतृ- ऋकारः- होतॄकारः । होतॄ3कारः इति। होत्लृकारः। होत्लृकारः। होत्लृ3कारः इति । किं पुनरत्र ज्यायः ? सवर्णसञ्ज्ञावचनमेव ज्यायः। दीर्घत्वं चैव हि सिद्धं भवति। अपि च ऋकारग्रहणेन लृकारग्रहणं संनिहितं भवति। यथेह भवति। ऋत्यकः खट्व ऋश्यः माल ऋश्यः। इदमपि सिद्धं भवति खट्व लृकारो माल लृकार इति। वा सुप्यापिशलेः । उपर्कारीयति, उपार्कारीयति। इदमपि सिद्धं भवति। उपल्कारीयति। उपाल्कारीयति । यदि तर्हि ऋकारग्रहणेन लृकारग्रहणं संनिहितं भवति। उरण् रपरः लृकारस्यापि रपरत्वं प्राप्नोति । लृकारस्य लपरत्वं वक्ष्यामि। तच्चावश्यं वक्तव्यम्। असत्यां सवर्णसञ्ज्ञायां विध्यर्थम्। तदेव सत्यां रेफबाधनार्थं भविष्यति । इह तर्हि रषाभ्यां नो णः समानपदे इत्यत्र ऋकारग्रहणं चोदितम्। मातृणां पितृणामित्येतदर्थम्। तदिहापि प्राप्नोति क्लृप्यमानं पश्येति । अथासत्यामपि सवर्णसञ्ज्ञायामिह कस्मान्न भवति प्रक्लृप्यमानं पश्येति। चुटुतुलर्शव्यवाये न इति वक्ष्यामि। अपर आह त्रिभिश्च मध्यमैर्वर्गैर्लशसैश्च व्यवाये नेति वक्ष्यामि इति। वर्णैकदेशाश्च वर्णग्रहणेन गृह्यन्ते इति योसौ लृकारे लकारस्तदाश्रयः प्रतिषेधो भविष्यति। यद्येवं नार्थो रषाभ्यां नो णत्वे ऋकारग्रहणेन। वर्णैकदेशाश्च वर्णग्रहणेन गृह्यन्त इति योऽयौ ऋकारे रेफस्तदाश्रयं णत्वं भविष्यति ।