॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|8
SK 9
1|1|8
मुखनासिकावचनोऽनुनासिकः
SK 9
सूत्रच्छेद:
मुख-नासिका-वचनः - प्रथमैकवचनम् , अनुनासिकः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
मुख-नासिका-वचनः अनुनासिकः
सूत्रार्थ:
यस्य वर्णस्य उच्चारणार्थम् मुखेन सह नासिकायाः अपि प्रयोगः भवति, सः वर्णः अनुनासिकसंज्ञां प्राप्नोति ।
सर्वेषां वर्णानाम् उच्चारणार्थम् मुखस्य प्रयोगः भवत्येव । परन्तु मुखेन सह नासिकायाः अपि प्रयोगः येषाम् उच्चारणे क्रियते, ते वर्णाः अनुनासिकवर्णाः नाम्ना ज्ञायन्ते । सर्वे अनुनासिकवर्णाः एतादृशाः सन्ति -

(1) सर्वेषाम् स्वराणाम् अनुनासिकभेदः दृश्यते -
अँ / आँ / अँ3 - कण्ठ + नासिका
इँ / ईँ / इँ3 - तालु + नासिका
उँ / ऊँ / उँ3 - ओष्ठौ + नासिका
ऋँ / ॠँ / ॠँ3 - मूर्धा + नासिका
ऌँ / ऌँ3 - दन्ताः + नासिका
एँ / एँ 3 / ऐँ / ऐँ3 - कण्ठतालु + नासिका
ओँ / ओँ3 / औँ / औँ3 - कण्ठोष्ठ + नासिका

(2) वर्गीयव्यञ्जनेषु वर्गपञ्चमाः सर्वे अनुनासिकाः सन्ति । यथा -
ङकारः = कण्ठ + नासिका
ञकारः = तालु + नासिका
णकारः = मूर्धा + नासिका
नकारः = दन्ताः + नासिका
मकारः = ओष्ठौ + नासिका

(3) यकार-वकार-लकारानाम् अपि अनुनासिकभेदः अस्ति । यथा -
य्ँ - तालु + नासिका
व्ँ - दन्तोष्ठ + नासिका
ल्ँ - दन्ताः + नासिका

ज्ञातव्यम् -
1) अनुस्वारः अनुनासिकवर्णेषु न समाविश्यते, यतः अनुस्वारस्य उच्चारणार्थम् यद्यपि नासिकायाः प्रयोगः भवति तथापि मुखस्य प्रयोगः न क्रियते ।
2) अनुस्वार-अनुनासिकयोर्मध्ये इतोऽपि एकः भेदः अस्ति - अनुस्वारः स्वयमेव एकः वर्णः अस्ति । परन्तु अनुनासिकः स्वयंरूपेण वर्णः नास्ति । सः केवलं वर्णस्य एकः भेदः अस्ति । इत्युक्ते - अनुनासिक-अकारः / अननुनासिक-अकारः - आदयः ।
3) सर्वे स्वराः अनुनासिक-अननुनासिकभेदं दर्शयन्ति । यकार-वकार-लकाराः अपि अनुनासिक-अननुनासिकभेदं दर्शयन्ति । वर्गपञ्चमाः तु केवलं अनुनासिकाः एव सन्ति । वर्गपञ्चमवर्णेषु अनुनासिक-अननुनासिक-भेदः न दृश्यते ।
One-line meaning in English
A letter that requires use of mouth as well as nose for its pronunciation is called अनुनासिक |
काशिकावृत्तिः
मुखसहिता नासिका मुखनासिका, तया य उच्चार्यते वर्णः सोऽनुनासिकसंज्ञो भवति । आङोऽनुनासिकश्छन्दसि 6|1|126 । अभ्र आं अपः (ऋग्वेदः 5.48.1) । गभीर आं उग्रपुत्रे (ऋग्वेदः 8.67.11) । च न आं इन्द्रः । मुखग्रहणं किम् ? अनुस्वारस्यैव हि स्यात् । नासिकाग्रहणं किम् ? कचटतपानां मा भूत् । अनुनासिकप्रदेशाः आङोऽनुनासिकश्छन्दसि 6|1|26 इत्येवम् आदयः ॥
`मुखसहिता नासिका मुखनासिका` इत्यनेन मुखनासिकाशब्दोऽयं तत्पूरुषः, न द्वन्द्व इति दर्शयति। तत्पुरुषस्तु मयूरव्यंसकादित्वाद्वेदितव्यः। यदि च मुखं चनासिका चेति द्वन्द्व स्यात्, प्राणितूर्यादिसूत्रेण 2|4|2 एकवद्भावः स्यात्।ततश्च `स नपुंसकम्` 2|4|17 इति नपुंसकत्वं स्यात्। तस्मश्च सति `ह्यस्वोनपुंसके प्रातिपदिकस्य` 1|2|47 इति ह्यस्वत्वं प्रसज्येतेति भावः। ननु चोच्यते-अनयेति करणे ल्युटि कृते, तदन्तात् `टिड्ढाणञ्` 4|1|15 इत्यादिना ङीपा भवितव्यम्, ततशच् तदन्तेन बहुव्रीहौ `मुखनासिकावचनः` इति निर्देशो नोपपद्यते? नैतदस्ति; वचनशब्दोऽयं `कृत्यल्युटो बहुलम्` 3|3|113 इति बहुलवचनात् कर्मसाधनः- उच्यत इतिवचनो वर्णे वर्तते, न नासिकायाम्। अत एवाह- `तया य उच्चार्यते` इति।` उच्चार्यते` इति कर्मणि लकारः। एवं कृत्वा `मुखनासिकावचनः` इति षष्ठीसमासोऽयं वेदितव्यः, न बहुव्रीहिः। `अनुस्वास्यैव` इति। अनुस्वारे ह्रुच्यमाने नासिकायाश्च व्यापारो न मुखस्य ; तेन तस्यैव स्यात्, न तु स्यात् ञमङणनानाम् ; नापि `अभ्र आँ अपः` (ऋ।5।48।1) इत्यात्रार्धचन्द्राकृतेर्वर्णस्य; तदुच्चारणे मुखस्यापि व्यापारात्। ततश्च `यरोऽनुनासिके ` 8|4|44 इत्येतस्मिन् कार्ये कत्र्तव्येऽनुस्वारस्यैव ग्रहणं स्यात्, न तु ङकारादीनामित्यभिप्रायः। ननु च प्रासादवासिन्यायेन तेषामपि भविष्यति? यथा`प्रासादवासिन आनीयन्ताम्` इत्युक्ते ये प्रासाद एव निवसन्ति, तेषामपि ग्रहणं भवति, येऽपि प्रासादे भूमौ च उभयत्र वसन्ति तेषामपि। यथा ह्रभय आनीयन्ते, तथेहापि `नासिकावचनः` इत्येतावत्युच्यमाने नासिकावचनस्यानुस्वारस्य मुखानसिकावचनानांच ङकारादीनां ग्रहणं भविष्यति,ततश्चानुस्वारस्य हि स्यादित्ययुक्तमुक्तम्। एवं तुवक्तव्यम्- अनुस्वारस्यापि हि स्यादिति? नैतदस्ति; इह हि त्रीणि दर्शनानि सम्भवन्ति,-` समस्त एवानुनासिको वर्णओ नासिकावचनो मुखवचनश्च` इत्येकं दर्शनम्; `पूर्वभागस्त्वस्य मुखवचनः` इति तृतीयम्। उभयोरप्यनन्तरयोर्दर्शनयोर्नासिकामुखवचनेभागे तथानुरागं करोति यथाऽसावपि नासिकावचनभाग इव लक्ष्यते। तत्र यदेतदनन्तरदर्शन-द्वयम्, तस्यान्यरत् पाणिनेरभिमतम्। न चास्मिन् प्रासादवासिन्याय एकत्राप्यवतरति। यदि हि ङकारादयो नासिकायोऽपि साकल्येनोच्चार्येरन्, मुखेनापि; ततः प्रासादवासिन्यायेन `नासिकावचनः` इत्येतावत्युक्ते तेषामपि ग्रहणं स्यात्। न चैवं भागस्यैव; तेषां नासिकया मुखेन चोच्चारणात्। तदसति मुखग्रहणे तेषां ग्रहणं न स्यात्, तदभावे चसञ्ज्ञा न स्यादिति युक्तमुक्तम्- अनुस्वनारस्यैव हि स्यात्` इति। `कचटतपानां मा भूत्` इति। एते हि ककारादयो मुखेनैवोच्चार्यन्ते, न नासिकया; ततश्चासति नासिका-ग्रहणे तेषामेव स्यात्। एवं च `शक्तः`, `सुप्तम्` इत्यत्र `अनुदात्तोपदेशवनति` 6|4|37 इत्यादिना लोपः प्रसज्येत, `ओदनपक्` इत्यत्र `अनुनासिकस्य क्विझलोः क्ङिति` 6|4|15 इति दीर्घत्वम्।अथ किमर्थं महती सञ्ज्ञा क्रियते? अनु पश्चान्नासिका व्याप्रियते यस्मिन्, अथ वा - अनु पश्चान्नासिकाया व्याप्रियते यस्मिन्, यद्वा- नासिकायाः पश्चात् व्याप्रियते? मुखस्य तु प्रकृतत्वात् तदेव गम्यते। तत्र ये ते द्वे दर्शने, ययोःपाणिनेरन्यतरदभीष्टम्, तयोः पूर्वस्मिन् नासिका मुखात् पश्चात् व्याप्रियते,उत्तरत्र मुखं नासिकायाः। अन्वर्थसञ्ज्ञाकरणं तु पूर्वोक्तयोर्दर्शनयोरन्यतराभ्युपगमसूचनार्थम्। तदभ्युपगमसूचनं तु प्रासादवासिन्यायमाश्रित्य मुखग्रहणं ये प्रत्य-चक्षीरन्, तेषां निराकरणार्थम्।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादशभेदाः । लृवर्णस्य द्वादश, तस्य दीर्घाभावात् । एचामपि द्वादश, तेषां ह्रस्वाभावात् ॥
तदेवमनुनासिका नव अचः, अननुनासिकाश्च नवेत्यष्टादशविधत्वमेकैकस्याऽच इति स्थितम्। अथाऽनुनासिकसंज्ञामाह--मुखनासिका। मुखसहिता नासिका मुखनासिका। शाकपार्थिवादित्वात्सहितपदस्य लोपः। उच्यते उच्चार्यते इति वचनः। कर्मणि ल्युट्। मुखनासिकया वचन इति `कर्तृकरणे कृता बहुलम्` इति तृतीयासमासः। तदेतदाह--मुखसहितेत्यादिना। मुखं च नासिका चेति द्वन्द्वस्तु न। तथा सति `द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्` इति समाहारद्वन्द्वनियमात् `स नपुंसक`मिति नपुंसकत्वे `ह्रस्वो नपुंसके प्रातिपदिकस्य` इति ह्रस्वत्वे `मुखनासिकवचन` इत्यापत्तेः। ननु अष्टादश भेदाः किं सर्वेषामचामविशिष्टाः?, नेत्याह--तदित्थमिति। इयता प्रबन्धेन यत् अचां भेदप्रपञ्चनं तत्--इत्थं=वक्ष्यमाणप्रकारेण व्यवस्थितं वेदितव्यमित्यर्थः। अष्टादश भेदा इति। अष्टादश प्रकारा इत्यर्थः। दीर्घाभावादिति। तथा च उदात्तलृकारदीर्घः, अनुदात्तलृकारदीर्घः, स्वरितलृकारदीर्घः। ते च अनुनासिकास्त्रयः अननुनासिकास्त्रय इति षड्?भेदानामभावे सति ह्रस्वप्रपञ्चः प्लुतप्रपञ्चश्च ,ड्विध इति लृकारस्य द्वादशविधत्वमेवेति भावः। लृकारस्य दीर्घाऽभावे होतृ लृकार इत्यत्र सवर्णदीर्घे कृते होतृ?कार इति ॠकारस्यैव अकस्सवर्ण इति सूत्रे च भाष्योदाहरणमेव प्रमाणम्। ह्रस्वाभावादिति। यद्येचो ह्रस्वाः स्युस्तर्हि वर्गसमाम्नाये त एव लाघवात् अ इ उ इत्यादिवत् पठ�एरन्, नतु दीर्घाः, गौरवात्। अत एचो ह्रस्वा न सन्तीति विज्ञायते। एवं च ह्रस्वप्रपञ्चषड्भेदाभावाद्द्वादशविधत्वमेवैचामिति भावः।
मुखनासिका। मुखं च नासिका चेति विग्रहे प्राण्यङ्गत्वादेकवद्भावे मुखनासिकमिति स्यादत आह-मुखसहितेति। नासिकयोच्चार्येति। फलितार्थकथनमिदम्। उच्यतेऽनेनेति वचनं, मुखनासिका वचनमस्यास्तीति विग्रहः॥
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
मुखनासिकावचनोऽनुनासिकः किमिदं मुखनासिकावचनम् ? मुखं च नासिका च मुखनासिकम्। मुखनासिकं वचनमस्य सोऽयं मुखनासिकावचनः । यद्येवं मुखनासिकवचन इति प्राप्नोति। निपातनाद् दीर्घत्वं भविष्यति। अथवा मुखनासिकमावचनमस्य सोऽयं मुखनासिकावचनः। अथ किमिदमावचनमिति। इर्षद्वचनमावचनम्। किंचिन्मुखवचनं किंचिन्नासिकावचनम्। मुखद्वितीया वा नासिका वचनमस्य सोऽयं मुखनासिकावचनः। मुखोपसंहिता वा नासिका वचनमस्य सोऽयं मुखनासिकावचनः । अथ मुखग्रहणं किमर्थम् ? नासिकावचनोनुनासिकः इतीयत्युच्यमाने यमानुस्वाराणामेव प्राप्नोति। मुखग्रहणे पुनः क्रियमाणे न दोषो भवति । अथ नासिकाग्रहणं किमर्थम् ? मुखवचनोनुनासिक इतीयत्युच्यमाने क-च-ट-त-पानामेव प्राप्नोति। नासिकाग्रहणे पुनः क्रियमाणे न दोषो भवति । मुखग्रहणं शक्यमकर्तुम्। केनेदानीमुभयवचनानां सिद्धं भविष्यति। प्रासादवासिन्यायेन। तद्यथा केचित्प्रासादवासिनः। केचिद् भूमिवासिनः। केचिदुभयवासिनः। तत्र ये प्रासादवासिनो, गृह्यन्ते ते प्रासादवासिग्रहणेन। ये भूमिवासिनो, गृह्यन्ते ते भूमिवासिग्रहणेन। ये तूभयवासिनो, गृह्यन्ते ते प्रासादवासिग्रहणेन भूमिवासिग्रहणेन च। एवमिहापि केचिन्मुखवचनाः। केचिन्नासिकावचनाः केचिदुभयवचनाः । तत्र ये मुखवचनाः,गृह्यन्ते ते मुखग्रहणेन । ये नासिकावचनाः, गृह्यन्ते ते नासिकाग्रहणेन। ये उभयवचनाः, गृह्यन्ते ते मुखग्रहणेन नासिकाग्रहणेन च । भवेदुभयवचनानां सिद्धम्। यमानुस्वाराणामपि प्राप्नोति। नैवं दोषो न प्रयोजनम् । इतरेतराश्रयं तु भवति। का इतरेतराश्रयता? सतोनुनासिकस्य सञ्ञ्ज्ञया भवितव्यम्। सञ्ञ्ज्ञया चानुनासिको भाव्यते। तदितरेतराश्रयं भवति। इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । ।। अनुनासिकसञ्ज्ञायामितेरेतराश्रये उक्तम् ।। । किमुक्तम्। सिद्धं तु नित्यशब्दत्वादिति। नित्याः शब्दाः। नित्येषु च शब्देषु सतोनुनासिकस्य सञ्ञ्ज्ञां क्रियते। न सञ्ञ्ज्ञया अनुनासिको भाव्यते । यदि तर्हि नित्याः शब्दाः किमर्थं शास्त्रम् ? ।। किमर्थं शास्त्रमिति चेन्निवर्तकत्वात् सिद्धम् ।। । निवर्तकं हि शास्त्रम्। कथम्। आङस्मायविशेषेणोपदिष्टोननुनासिकस्तस्य सर्वत्राननुनासिकबुद्धिः प्रसक्ता। तत्रानेन निवृत्तिः क्रियते। छन्दस्यचि परत आङोऽननुनासिकस्य प्रसङ्गेनुनासिकः साधुर्भवतीति ।