Page loading... Please wait.
1|1|74 - त्यदादीनि च
॥ तस्मै पाणिनये नमः ॥
1|1|74
SK 1336
त्यदादीनि च   🔊
सूत्रच्छेदः
त्यद्-आदीनि (प्रथमाबहुवचनम्) , च (अव्ययम्)
अनुवृत्तिः
वृद्धम्  1|1|73 (प्रथमैकवचनम्)
अधिकारः
-
सम्पूर्णसूत्रम्
त्यदादीनि च वृद्धम्
सूत्रार्थः
त्यदादिगणस्य शब्दानाम् "वृद्ध" इति संज्ञा भवति ।
"वृद्ध" इति व्याकरणविशिष्टा काचन संज्ञा । ये शब्दाः "त्यदादिगणे" सन्ति, तेषाम् वर्तमानसूत्रेण "वृद्ध"संज्ञा भवति ।

त्यदादिगणः अयम् "सर्वादिगणस्य" उपगणः अस्ति । अस्मिन् गणे अष्ट-सर्वनामशब्दाः समाविश्यन्ते - त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतुँ, किम् । एतेषां सर्वेषाम् अनेन सूत्रेण "वृद्ध"संज्ञा भवति ।

"वृद्ध" संज्ञायाः प्रयोगः वृद्धात् छः 4|2|114, अवृद्धाभ्यः नदीमानुषीभ्यः तन्नामिकाभ्य 4|1|113 एतादृशेषु सूत्रेषु कृतः अस्ति ।

ज्ञातव्यम् - वृद्धिर्यस्याचामादिस्तद् वृद्धम् 1|1|73 इत्यनेन अपि "वृद्ध"संज्ञा दीयते ।
One-line meaning in English
The words of the त्यदादिगण are called "वृद्ध".
काशिकावृत्तिः
यस्य अचाम् आदिग्रहणम् उत्तरार्थम् अनुवर्तते, इह तु न सम्बध्यते । त्यदादीनि शब्दरूपाणि वृद्धसंज्ञानि भवन्ति - त्यदीयम्, तदीयम्, एतदीयम्, इदमीयम्, अदसीयम्, त्वदीयम्, त्वादायनिः, मदीयम्, मादायनिः, भवदीयम्, किमीयम् ॥
`उत्तरार्थम्` इति। उत्तरसूत्रेऽस्य प्रयोजनवत्त्वात् यद्यनुवत्र्तते,एतद-र्थमपि कस्मान्न भवतीत्याह-- `इह न सम्बध्यते` इति। यदीहापि सम्बध्येत तदायमर्थःस्यात्--- `त्यदादीनि यस्याचामादिभूतानि तद्वद्धम्` इति। ततश्च त्वत्पुत्र इत्यादावेव स्यात्, केवालानां च त्यदादीनां न स्यादित्यभिप्रायः। ननु च त्वत्पुत्रोमत्पुत्र इत्यादावुपसर्जनानि त्यदादीनि, उपसर्जनानां च तेषां त्यदादित्वंनिवर्तितम्, तत् कुतोऽयं प्रसङ्गः? यदि यस्याचामादेरित्येतदिह सम्बध्यते तदा सत्युपसर्जनत्वे वचनात् त्यदादावेव संज्ञा स्यात्, न केवलानामिति मन्यते; कथंपुनरिहानुवर्तमानं शक्यमसम्बन्धुम्? स्वसम्ब्नधानुवृत्तेः। `वृद्धिर्यस्याचामादिस्तद्वृद्धम्` 1|1|72 इति त्यदादीनि च वृद्धिसंज्ञकानि भवन्ति। `वृद्धिर्यस्याचामादिस्तद्वृद्धम्` इति तद्वृद्धम्, `एङ प्राचां देशे` 1|1|74 यस्याचामादिग्रहणमनुवत्र्तते। वृद्धिग्रहणं निवृत्तम्। एवं वृद्धिग्रहणं निवृत्तम्। एवं वृद्धिशब्देन सम्बन्धमनुवत्र्तमानं न शक्यते त्यदादिभिः सम्बन्धुम्। `त्वादायनिः, मादायनिः` इति। `उदीचां वृद्धादगोत्रात्` 4|1|157 इति फिञ्, `प्रत्ययोत्तरपदयोश्च` 7|2|97 इति युष्मदस्मदोस्त्वामादेशौ। चकारोऽनुक्तसमुच्चयार्थः। तेन `वा नामधेयस्य` (वा।15) इत्यादि वक्तव्यं न भवति॥
उतरार्थमिति । तत्र प्रयोजनवत्वात् यस्याचामादिरेङिति सम्बन्धसम्भवाच्च । इह तु न सम्बध्यत इति । अयोग्यत्वाद् निर्द्धारणस्य सजातीय वषयत्वात् त्यदादीनां चाजात्मकत्वाभावाद् न ह्यस्ति सम्भवः । यस्याचामादयस्त्यदादय इति । न च त्यदादिस्थेऽचि त्यदादिशब्दो वर्तत इति क्लिष्टकल्पनायुक्ता; उतरार्थमप्यनुवृत्तिसम्भवात् । तदुक्तम् - उतरार्थमनुवर्तत इति । त्यादायनिरति । "उदीचां वृद्धादगोत्राद्" इति फञ्, "प्रत्ययोतरपदयोश्च" ॥
सिद्धान्तकौमुदी
वृद्धसंज्ञानि स्युः ॥
त्यदादीनि च - त्यदादीनि च । शेष पूरणेन सूत्रं व्याचष्टे — वृद्धसंज्ञानि स्युरिति । आदेरचो वृद्धिसंज्ञकत्वाऽभावादारम्भः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
वृद्धसंज्ञानि स्युः॥
महाभाष्यम्
त्यदादीनि च यस्याचामादिग्रहणमनुवर्तते उताहो न। किं चातः? यद्यनुवर्तते, इह च प्रसज्येत त्वत्पुत्रस्य छात्राः त्वात्पुत्रा। इह च न स्यात् त्वदीयो मदीय इति। अथ निवृत्तम्, एङ् प्राचां देशे यस्याचामादिग्रहणं कर्तव्यम्। एवं तर्ह्यनुवर्तते। कथं त्वात्पुत्रा मात्पुत्रा इति ? सम्बन्धमनुवर्तिष्यते। वृद्धिर्यस्याचामादिस्तद् वृद्धम्। त्यादादीनि च वृद्धसञ्ज्ञानि भवन्ति। वृद्धिर्यस्याचामादिस्तद् वृद्धम्। एङ् प्राचां देशे यस्याचामादिग्रहणमनुवर्तते। वृद्धिग्रहणं निवृत्तम्। तद्यथा कश्चित् कान्तारे समुपस्थिते सार्थमुपादत्ते। स यदा निष्कान्तकान्तारो भवति तदा सार्थे जहाति।