॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|70
SK 15
1|1|70
तपरस्तत्कालस्य
SK 15
सूत्रच्छेद:
तपरः - प्रथमैकवचनम् , तत्कालस्य - षष्ठ्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
तपर: तत्कालस्य
सूत्रार्थ:
तकारात् परः वर्णः, तकारः च यस्मात् परः सः वर्णः, उभौ अपि सवर्णग्रहणं न कुरुतः ।
अणुदित्सवर्णस्य चाप्रत्ययः 1|1|69 इत्यनेन अविधीयमानः "अण्" वर्णः सर्वणग्रहणं करोति इति ज्ञायते । अतः यत्र यत्र "अ" इति वदामः, तत्र तत्र अकारस्य सर्वे अष्टादश भेदाः गृह्यन्ते । एवम् अस्ति चेत् "केवलं ह्रस्व-अकारस्य निर्देशः कथं करणीयः" इति प्रश्नः जायते । तदर्थम् वर्तमानसूत्रेण "तपरकरण"स्य विधिः दीयते । एतत् सूत्रम् वदति - यदि तकारः कस्माच्चित् वर्णात् अनन्तरम् स्थापयामः, तर्हि सः वर्णः "तत्कालस्यैव" ग्रहणं करोति, सर्वेषां सर्वणानां ग्रहणं न करोति । इत्युक्ते, "अ" इति वदामश्चेत् सवर्णग्रहणम् भवति, परन्तु "अत्" इति वदामश्चेत् केवलं ह्रस्व-अकारस्यैव ग्रहणं भवति, दीर्घ-प्लुतयोः न । तथैव, तकारः कस्माच्चित् वर्णात् पूर्वं स्थापयामश्चेत् अपि सवर्णग्रहणं निषिध्यते । इत्ययक्ते, "त्अ" इत्यनेन अपि केवलं ह्रस्व-अकारस्यैव ग्रहणं भवति, दीर्घ-प्लुतयोः न ।

कानिचन उदाहरणानि पश्यामः -

1) अतो दीर्घो यञि 7|3|101 अस्मिन् सूत्रे "अतः" इति "अत्" इत्यस्य पञ्चमी-एकवचनम् अस्ति । अत्-इति तपरकरणम् । अतः "ह्रस्व-अकारात्-परस्य" इति तस्य अर्थः। इत्युक्ते, आकारान्तस्य अङ्गस्य विषये अनेन सूत्रेण प्रोक्तः विधिः न भवति, केवलं ह्रस्व-अकारान्तस्य अङ्गस्य विषये एव भवति ।

2) अदेङ् गुणः 1|1|2 अस्मिन् सूत्रे "अत् + एङ्" इत्यत्र तकारः अकारात् परः अस्ति, अतः अकारस्य अत्र तपरकरणम् कृतमस्ति । तथा च, तकारः एकारात् पूर्वम् अस्ति, अतः एकारस्य अपि अत्र तपरकरणम् कृतमस्ति । एवम् अत्र एकः एव तकारः द्वयोः वर्णयोः सवर्णग्रहणनिषेधं कारयति । अतः अनेन सूत्रेण केवलं ह्रस्व-अकारस्य तथा दीर्घ-एकार-ओकारयोः एव गुणसंज्ञा भवति, अन्येषां सवर्णानाम् न ।

3) इदितो नुम् धातोः 7|1|58 अस्मिन् सूत्रे "इत्" इत्यत्र तपरकरणम् कृतम् अस्ति । अतः अनेन सूत्रेण प्रोक्तः सिद्धान्तः ह्रस्व-इकारान्तस्य विषये एव अस्ति, ईकारान्तस्य विषये न ।

अस्मिन् विषये केचन बिन्दवः ज्ञातव्याः -

1) "तत्कालस्य" इत्युक्ते तस्य एव भेदस्य यस्य उच्चारणकालः तपरकृतस्य भेदस्य उच्चारणकालवत् अस्ति । इत्युक्ते, "अत्" इत्यनेन ह्रस्व-अकारस्य सर्वे षट्-भेदाः (उदात्त-अनुदात्त-स्वरित X अनुनासिक-अननुनासिक = 6) गृह्यन्ते, यतः सर्वेषाम् उच्चारणकालः समानः अस्ति । तथैव, "इत्" / "उत्" एतयोः अपि तेषां तेषां षड्-ह्रस्वभेदाः गृह्यन्ते । "ऋत्" इत्यनेन तु द्वादश-भेदाः गृह्यन्ते - ऋकारस्य षट् , ऌकारस्य षट् च - यतः, ऋकारऌकारौ ऋलृवर्णयोः मिथः सावर्ण्यम् वाच्यम् अनेन वार्त्तिकेन सवणौ भवतः ।

2) यत्र यत्र तकारस्य प्रयोगः कृतः दृश्यते तत्र तत्र सर्वत्र "तपरकरणम्" कृतम् इति न चिन्तनीयम् । तपरकरणम् तदा एव क्रियते यदा तपरकरणम् विना सवर्णग्रहणस्य दोषः आगच्छति । यदि मूलरूपेण सवर्णग्रहणमेव न भवति, तर्हि तपरकरणेन तस्य निषेधः अपि न भवितुं शक्यते । यथा - दिव औत् 7|1|84 इत्यस्मिन् सूत्रे तकारस्य प्रयोगः कृतः अस्ति । परन्तु एतत् तपरकरणम् न, यतः अस्मिन् सूत्रे "औ" इति विधीयमानः अण्-वर्णः अस्ति, अतः च तेन सवर्णग्रहणम् न क्रियते एव । यदि न क्रियते, तर्हि तस्य निषेधः कीदृशः? अतः अस्मिन् सूत्रे तकारः केवलं उच्चारणार्थः कृतः अस्ति, इति उच्यते ।

3) आकारः , ईकारः, ऊकारः, ॠकारः - एते वर्णाः सवर्णग्रहणम् कदापि न कुर्वन्ति, अतः एतेषां कदापि तपरकरणम् अपि न सम्भवति । अतः एतेषां पूर्वम् अनन्तरम् वा तकारः अस्ति चेत् सः उच्चारणार्थः ज्ञातव्यः । यथा - द्व्यन्तरुपसर्गेभ्योऽप ईत्‌ 6|3|97 अस्मिन् सूत्रे ईकारात् परः तकारः अस्ति, तस्य प्रयोजनम् केवलम् उच्चारणसौकर्यम्, न हि तपरकरणम् । तथैव, वृद्धिरादैच् [1।1।1] इत्यत्र "आत्" इति तपरकरणम् नास्ति । अत्र पदच्छेदः "वृद्धिः + आ + त्ऐच्" इति कर्तव्यः । तकारेण अत्र तपरकरणम् ऐच्-इत्यस्य कृतम् अस्ति, येन ऐ/औ -एतयोः केवलं दीर्घभेदौ एव वृद्धिसंज्ञकौ भवतः, प्लुतभेदौ न ।
One-line meaning in English
A letter when follows or is followed by त् represents only those subtypes whose उच्चारणकाल is same as itself.
काशिकावृत्तिः
तः परो यस्मात् सोऽयं तपरः, तादपि परः तपरः । तत्परो वर्णस्तत्कालस्य, आत्मना तुल्यकालस्य गुणान्तरयुक्तस्य सवर्णस्य ग्राहको भवति, स्वस्य च रूपस्य । विद्ध्यर्थम् इदम् । अणिति न अनुवर्तते । अणामन्येषां च तपराणाम् इदम् एव ग्रहणकशास्त्रम् । अतो भिस ऐस् 7|1|9 इत्येवम् आदिषु पूर्वग्रहणकशास्त्रं न प्रवर्तत एव । अतपरा अणस्तस्य अवकाशः । किम् उदाहरणम् ? अतो भिस ऐस् 7|1|9 - वृक्षैः, प्लक्षैः । विड्वनोरनुनासिकस्यात्‌ 6|4|41 - अब्जाः, गोजाः । तत्कालस्य इति किम् ? खट्वाभिः, मालाभिः ॥
तःपरो यस्मात् सोऽयं तपर इति बहुव्रीहिं दर्शयति, तादपि परस्तपर इति पञ्च-मीतत्पुरुषं च। स पुनः पञ्चमीति योगविभागात् समास इति वेदितव्यः। कथं पुनरेतत् समासद्वयं लभ्यते, यावतैकस्परशब्दः? एकस्याप्यावृत्त्या द्विधा भेदो भविष्यतीत्यदोषः। अत्र हि बहुव्रीहेर्लिङ्गम्--`अतो भिस ऐस्` 7|1|9 इति तपरकरणम्। न ह्रत्र पञ्चमीतत्पुरुष उपपद्यते। अवर्णो ह्रत्र तपरोऽभिमतः, न भिस्। यदि चेह पञ्चमीतत्पुरुषः स्यात्, तर्हि भिस् तपरः स्यात्; यतस्तपरो वर्ण इहोच्यते, न चासौ वर्णः, किं तर्हि? तत्समुदायः। पञ्चमीतत्पुरुषे तु लिङ्गम्--`वृद्धिरादैच्` 1|1|1 इति तपरकरणम्। न ह्रत्र बहुव्रीहिर्युज्यते। यदि बहुव्रीहिः स्यात् तदाऽ‌ऽकारस्य तपरत्वं स्यात्,न चाऽ‌ऽकारार्थं तपरकरणम्, अपि त्वैजर्थम्। एतच्च तत्रैव प्रतिपादितम्। सवर्णस्येति वत्र्तते, वर्णस्य च सवर्णो न भवति, ननु वर्णसमुदायस्य; तस्मादविशेषाभिधानेऽपि वर्ण एव तपरो विज्ञायत इत्याह-- `तपरो वर्णः` इति। तत्कालस्येति बहुव्रीहिः-- स कालोऽस्येति। अयुक्तोऽयं निर्देशः। तथा हि -- तच्छब्देन तपरः परामृश्यते, तपरश्च वर्णः। कालस्तु क्रियाविशेष इष्यते। तथा ह्रुक्तम्---आदित्यग्रहनक्षत्रपरिस्पन्दमथापरे।भिन्नमावृत्तिभेदेन कालं कालविदो विदुः॥ (वा।प।3.9.76) इति।तत् कुतो वर्णक्रियाविशेषाभिधायिनोस्तपरकालशब्दयोः सामानाधिकरण्यम्? एवं तत्काल इव कालो यस्य स तत्काल इति। अस्यार्थं दर्शयितुमाह-- `आत्मना` इत्यादि। यद्यपि तपरकरणसन्निधानादिहात्मशब्दस्य तत्र वृत्तिर्युक्ता; तथापीह साहचर्यात् तत्सहचरितायामुच्चारणक्रियायां कालाख्यायां स वत्र्तते। कुत एतत्? तपरेण वर्णेन क्रियायास्तुल्यत्वानुपपत्तेः। सम्भवति साहचर्यात् ताच्छब्द्यम्। तदेतदुक्तं भवति- तपर-वर्णसहचरितया क्रियया तुल्यकालस्येति यादृशी तपरवर्णस्योच्चारणक्रिया तादृगुच्चारण-क्रिया यस्येति यावत्। `गुणान्तरयुक्तस्य` इति। यन गुणेन धर्माख्येनोदात्तादिना विशिष्ट उच्चारितस्ततोऽन्यैरुदात्तादिभिर्गुणैः सम्बद्धस्येत्यर्थः।`स्वस्य च रूपस्य` इति। इहापि तदनुवृत्तेः। इहेदं सूत्रं नियमार्थं वा स्यात्? विध्यर्थं वा? यद्यणित्यनुवत्र्तते,ततः पूर्वेणैव `सिद्धे सत्यारम्भो नियमा-र्थो भवति`--- (कात्य।प।62)तपरोऽण् तत्कालस्यैव ग्राहको भवति, नान्यस्येति।अथाणिति निवृत्तम्, ततो विध्यर्थम्।तत्राद्ये पक्षे `विड्वनोरनुनासिकस्यात्` 6|4|41 इत्याकारो दीर्घस्तपरोनिरनुनासिकः सूत्र उपात्तः `भेदका गुणाः` इत्यस्मिन् दर्शने सानुनासिकस्य ग्राहको न स्यात्; अनण्त्वात्। ततश्च निरनुनासिक एवादेशः स्यात्। इतरत्र तु पक्षे सत्यपि भेदकत्वे गुणानामेष दोषो न भवतीति मन्यमानो द्वितीयं पक्षमाश्रित्याह-- `विध्यर्थमिदम्` इति। कथं विध्यर्थमित्याह-- `अणिति नानुवत्र्तते` इति। `अणामन्येषां च ` इत्यादि। युक्तं यदन्येषामेव तपराणां ग्रहणकशास्त्रमिति तेषां पूर्वेण ग्रहणस्यासिद्धत्वात्। अणां तु पूर्वेणैव सिद्धे ग्राहकत्वे कथममित्यत आह--- `अतो भिस ऐस्` इत्यादि।स्यादेतत्, इहापि तत् प्रवृत्तमेवानवकाशत्वादित्यत आह-- `अत पराः` इत्यादि।`आद्गुणः` 1|3|87 इत्यादावतपरा अणोऽवकाशः।अस्य त्वनणस्तपरा दीर्घाः। यथा `विड्-वनोरनुनासिकस्यात्` 1|4|41 इति। ये त्वणस्तपराः, तेषूभयप्राप्तौ परत्वादिदमेव ग्रहणकशास्त्रं प्रवत्र्तत इत्यभिप्रायः।`वृक्षै प्लक्षैः` इति। तृतीयाबहुवचनं भिस्।`अतो बिस ऐस्` ( 7|1|9 इत्यैसादेशः; वृद्धिरेचि` 6|1|85 इति वृद्धिः। `अब्जाः गोजाः` इति। `जनी प्रादु-र्भावे` (धातुपाठः-1149) अप्सु जायते, गोषु जायत इति-- `दजनसनकखनक्रमगमो विट्` 3|2|6 ।`खट्वाभिः` इति। कतं पुनरेतत् प्रत्युदाहरणम्, यावता `अन्तादिवच्च` 6|1|82 इत्यन्तादिवद्भावे भवितव्यमेवात्रैस्भावेन, तपरकरणस्य तु य्तरैकादेशो नास्ति तद्वयवच्छेद्यं भविष्यति-- `कीलालपाभिः, सोमपाभिः` इत्यादि? नैष दोषः; अन्तदिवच्च` 6|1|82 इत्यत्र वक्ष्यति--- `वर्णाश्रयविधावन्तादिवद्भावो नेष्यते`इति। तथा हि-- खट्वाभिरितद्यत्रान्तवद्भावाभावात् `अतो भिस ऐस्` 7|1|9 न भवतीति।अथ वा -- `अतः` इत्यत्राकारद्वयप्रश्लेषः कृतः, श्रूयमाणादतो यथा स्यात्।
तः परो यस्मादिति बहुव्रीहिं दर्शयति । तादपि परस्तपर इति पञ्चमीतत्पुरुषम् ॥ स पुनरस्मादेव निपातनाद्वेदितव्यः । एकस्यापि तपरशब्दस्य तन्त्रावृत्योरन्यतराश्रयणादर्थभेदो न विरुद्धः । तत्र बहुव्रीहेर्लिङ्गम्--"अतो भिस ऐस्" इति तपरकरणम् । तत्पुरुषस्य लिङ्गम्-वृद्धिरादैच्" इत्यैजर्थं हि तदित्युक्तम् । तपरो वर्ण इति । वर्णस्यैव सवर्णंसम्भवाद्वर्ण इत्युक्तम् । तत्कालस्येति बहुव्रीहिः-स कालोऽस्येति । अयुक्तोऽयं निर्देशः । तदित्यनेन तपरो वर्णः परामृश्यते, प्रसिद्धपरिमाणा च क्रिया प्रसिद्धपरिमाणस्य क्रियान्तरस्य परिच्छेदिका । कालो यथा--दिवसमधीत इति, दिवसशब्देनोदयादिरस्तमयान्त आदित्यगतिप्रबन्ध उच्यते । स चाध्ययनस्य परिच्छेदकत्वात् कालः; वर्णस्तु क्रियात्मको न भवतीत्ययुक्तं वर्णवाचिनस्तच्छब्दस्य कालशब्देन सामानाधिकरण्यम् ? एवं तर्ह्युतरपदलोपी समासो द्रष्टव्यः, उष्ट्रमुखवत् । गम्यमानार्थत्वाच्च प्रयोग एव लोपः, यथा-उष्ट्रो मुखमस्येत्येव विग्रहः । न च प्रणी प्रण्यन्तरस्य मुखमिति सामर्थ्यात् सादृश्यप्रतीतिः । उष्ट्र इव मुखमस्येति मुखेनैव मुखस्य सादडश्यं प्रसिद्धम्, न कृत्स्नेनोष्ट्रेणेति सामर्थ्यादयमर्थो भवति-उष्ट्रमुखमिव मुखमस्येति । एवमिहापि वर्णः कालो न भवतीति सामर्थ्यातदीया क्रियान्तरेण निमेषादिना परिच्छिन्ना सती वर्णान्तरस्य परिच्छेदिकेति वर्ण एव परिच्छेदक इत्युच्यते । स कालोऽस्येत्यस्य कोऽर्थः ? तत्कालसंबन्धिनी क्रिया परिच्छेदिका अस्येत्यर्थः । एतदेव दर्शयति--आत्मनेत्यादिना ॥ तपरवर्णसन्नधावुच्चारितोऽप्ययमात्मशब्दस्तत्सहचरितायामुच्चारणक्रियायां वर्तते, वर्णेन क्रियायास्तुल्यत्वानुपपतेः । यादृशी तपरस्य वर्णस्योच्चारणक्रिया निमेषादिपरिच्छिन्ना, तादृश्युच्चारणक्रियाऽस्येत्यर्थः । गुणान्तरयुक्तस्येति । यद्ग्रणक उपातस्ततो गुणान्तरयुक्तस्येत्यर्थः । किं पुनरिदं नियमार्थम् ? अहोस्विद्विध्यर्थम् ? तत्राणित्यनुवृतौ नियमार्थम्-तपरो वर्णस्तत्कालस्यैवेति । निवृतौ विध्यर्थम् । तत्राद्ये पक्षे "आतो धातोः", "आतां पुङ्णौ" "यस्येति च" "विड्वनोरनुवासिकस्यात्" इत्यादौ "भेदका गुणाः" "इत्यस्मिन् दर्शने यद्ग्रणक उपातस्ततो गुणान्तरयुक्तस्य ग्रहणं न स्यादिति द्वितीयं पक्षमाश्रित्याह-विध्यर्थमिति । अत्र हेतुमाह-अणिति नानुवर्तत इति । यदि विध्यर्थमिदम्, ततोऽस्यानण्सु चरितार्थत्वादण्सु पूर्वमेव प्रवर्तेत, तत्राह-अणामन्येषांचेति । एतदेव विशदयति-अतो भिस ऐसित्येवमादिष्विति । न प्रवर्तत एवेति । परेणानेन बाधितत्वादिति भावः । विरोधो ह्यत्र वर्तते-पूर्वसूत्रेण ह्यष्टादशानां ग्रहणम्, अनेन तु षण्णामिति । किमुदाहरणमिति । अभेदकत्वात् गुणानामनण्सु सिद्धमिति प्रश्नः, अण्सु भिन्नकालनिवृत्यर्थं तावदारब्धव्यं सूत्रम् । तदेवानण्स्वपि विधिमुखेन प्रवर्तमानमिष्ट्ंअ साधयतीत्युतरम् । विड्वनोरनुनासिकस्यादिति । कस्य पुनरत्र सवर्णस्य ग्रहणमिष्यत इति चिन्त्यम् । तस्मादुपलक्षणमेतत् । "आतो धातोः" "यस्येति च" इत्यादावेव प्रयोजनम् । तत्कालस्येति किमिति । प्रधानावयवद्वारेण सूत्रमेवाक्षिप्यते । खट्वामिरिति । वर्णाश्रयविधावन्तादिवद्भावो न भवति ॥
सिद्धान्तकौमुदी
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणः समकालस्यैव संज्ञा स्यात् । तेन अत् इत् उत् इत्यादयः षण्णां संज्ञा । ऋदिति द्वादशानाम् ॥
ग्रहणकसूत्रेऽण्सवर्णानां ग्राहक इति स्थितम्। एवं सति अत् इत् उत् इत्यादितपराणामप्यणां स्वस्वसर्वसवर्णग्राहकत्वे प्राप्ते इदमारभ्यते--तपरस्तत्कालस्य। `तपर` इत्यावर्तते। प्रथमस्तावत्तपरशब्दः-तः परो यस्मादिति बहुव्रीहिः। द्वितीयस्तु तात् पर इति पञ्चमीसमासः। ग्रहणकसूत्रादणित्यनुवर्तते। तस्य तपरत्वेन उच्चार्यमाणवर्णस्य काल इव कालो यस्येति बहुव्रीहिः। ऊकालः उष्ट्रमुख इत्यादिवत् समासः। एवं च `अत्``इत्` इत्याद्यात्मकोऽण् तपरत्वेन उच्चार्यमाणः स्वीयकालसदृशकालस्य संज्ञा स्यादित्यर्थः। तत्र अत् इत् उत् ऋत् इत्येतेषां तपराणां ह्रस्वाकारादीनामणां तत्तत्कालास्तत्तद्ध्रस्वप्रपञ्चाः। एत्, ऐत्, ओत्,औत् इत्येतेषां तु तपराणामेकारादीनां तत्तत्कालास्तत्तद्दीर्घप्रपञ्चाः। तत्र ह्रस्वाकारादीनां तपराणां तत्तद्ध्रस्वप्रपञ्चावाचकत्वस्य एकारादीनां च दीर्घाणां तपराणां स्वस्वदीर्घप्रपञ्चवाचकत्वस्य लोकसिद्धत्वात् `सिद्धे सत्यारम्भो नियमार्थः` इति न्यायेन सूत्रमिदं नियमार्थं सम्पद्यते--`अण् तपरश्चेत्तत्कालस्यैव सवर्णस्य ग्राहको न त्वतत्कालस्ये`ति। एवं च अतत्कालनिवृत्त्यात्मकपरिसंख्यार्थंमिदं सूत्रम्। वैयाकरणस्तु परिसंख्याविधिमेव नियमविधिरिति व्यवहरन्ति। तदिदं सर्वमभिप्रेत्य व्याचष्टे--तः परोयस्मादित्यादिना। नियमविधानस्य फलमाह--तेनेत्यादिना। तेन=नियमविधानेन। आदिना लृदित्यादिसंग्रहः। अत्, इत्, उत्, लृत्, एत, ऐत्, ओत्, औत्--इत्येते अष्टौ तपरा अणः स्वस्वसमानकालानां षण्णां षण्णामेव संज्ञाः , न त्वतत्कालानामित्यर्थः। ऋदिति द्वादशानामिति। ऋलृवर्णयोरिति सावर्ण्यविधानादिति भावः। नन्वेवम्लृदित्यपि द्वादशानां ग्रहणं स्यात्, तथा च `पुषादिद्युताद्य्?लृदितः` इत्यादिविधय ऋदित्सवपि प्रवर्तेरन्निति चेन्न, ऋदित्यनेन लृकारप्रपञ्चस्य ग्रहणेऽपि क्वचित् लृदिद्ग्रहणबलेन लृ इत्यनेन ऋकारप्रपञ्चस्य ग्रहणाऽभावात्। अन्यथा `ऋतो ङी`त्यादौ क्वचित् ऋद्ग्रहणस्य पुषादिद्युताद्य्?लृदित इत्यादौ क्वचित् लृदिद्ग्रहणस्य च वैयर्थ्यापत्तेः। प्रथमातिक्रमणे कारणाऽभावेन सर्वत्र ऋदिद्ग्रहणस्यैव कर्तु शक्यत्वात्। इदमेवाभिप्रेत्य ग्रहणकसूत्रे ऋदिति द्वादशानामित्येवोक्तम्, नतु लृदंपीति। अत्र च तः परो यस्मादिति बहुव्रीहेः-अत्, इत्, उत् इत्याद्युदाहरणम्। तात्पर इति पञ्चमीसमासस्य तु वृद्धिरादैजित्यैकार उदाहरणम्। आत् ईत् ऊत् इत्यादि तु न तपरसूत्रस्योदाहरणम् , आकारादिषु हि तपरसूत्रमपूर्वविधानार्थम्, उत नियमार्थम् ?, नाद्यः, तपरसूत्रे अण्ग्रहणानुवृत्त्यभावेऽपि जातिपक्षे आकारादिभिर्दीर्घैः स्वस्वसमानकालिकप्रपञ्चस्य वाच्यताया लोकत एव सिद्धत्वेन तेषु तपरसूत्रप्रवृत्तेर्व्यर्थत्वात्। न द्वितीयः। उक्तरीत्या ग्रहणकसूत्रस्य वार्णसमाम्नायिकवर्णमात्रविषयतया आकारादिषु तस्य प्रवृत्त्यसम्भवेन तपरसूत्रस्य तेष्वतत्कालव्यावृत्तिफलकतन्नियमनार्थत्वानुपपत्तेः, सिद्धे सत्यारम्भस्यैव नियमार्थत्वात्। एवं च आत्, ईदित्यादि तपरकरणमसन्देहार्थमेवेत्यास्तां तावत्। तदेवं वृत्तः प्रत्याहारप्रपञ्चो ग्रहणकशास्त्रप्रपञ्चश्च।
स च तापरश्चेति। तव्रादिना उभयं विवक्षितमिति भावः।
लघुसिद्धान्तकौमुदी
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात्॥
महाभाष्यम्
तपरस्तत्कालस्य अयुक्तोऽयं निर्देशस्तत्कालस्येति। तदित्यनेन कालं प्रतिनिर्देश्यते। तदित्ययं च वर्णः। तत्रायुक्तं वर्णस्य कालेन सह सामानाधिकरण्यम्। कथं तर्हि निर्देशः कर्तव्यः? तत्कालकालस्येति। किमिदं तत्कालकालस्येति। तस्य कालः तत्कालः। तत्कालः कालो यस्येति सोऽयं तत्कालकालः तत्कालकालस्येति। स तर्हि तथा निर्देशः कर्तव्यः। न कर्तव्यः। उत्तरपदलोपोऽत्र द्रष्टव्यः। तद्यथा- उष्ट्रमुखमिव मुखमस्य सोऽयमुष्ट्रमुखः। खरमुखः। एवं तत्कालकालः तत्कालः तत्कालस्यति। अथवा साहचर्यात् ताच्छब्द्यं भविष्यति। कालसहचरितो वर्णोपि काल एव। किं पुनरिदं नियमार्थमाहोस्वित् प्रापकम् ? कथं च नियमार्थे स्यात् कथं वा प्रापकम्। यद्यत्राण्ग्रहणमनुवर्तते ततो नियमार्थम्। अथ निवृत्तं ततः प्रापकम्। कश्चात्र विशेषः? तपरस्तत्कालस्येति नियमार्थमिति चेद् दीर्घग्रहणे स्वरभिन्नाग्रहणम्। तपरस्तत्कालस्येति नियमार्थमिति चेद् दीर्घग्रहणे स्वरभिन्नानां ग्रहणं न प्राप्नोति। केषाम्? उदात्तानुदात्तस्वरितानुनासिकानाम्। अस्तु तर्हि प्रापकम्। प्रापकमिति चेद् ह्रस्वग्रहणे दीर्घप्लुतप्रतिषेधः। प्रापकमिति चेद् ह्रस्वग्रहणे दीर्घप्लुतयोः प्रतिषेधो वक्तव्यः। न वक्तव्यः। विप्रतिषेधात् सिद्धम्। अण् सवर्णान् गृह्णातीत्येतदस्तु। तपरस्तत्कालस्य वा। तपरस्तत्कालस्येत्येतद् भवति विप्रतिषेधेन। अण् सवर्णान् गृह्णातीत्यस्यावकाशः ह्रस्वा अतपरा अणः। तपरस्तत्कालस्येत्यस्यावकाशः दीर्घास्तपराः। ह्रस्वेषु तपरेषूभयं प्राप्नोति। तपरस्तत्कालस्येत्येतद् भवति विप्रतिषेधेन। यद्येवम् ‐ - द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसमख्यानं कालभेदात्। द्रुतायां तपरकरणे मध्यमविसम्बितयोरुपसङ्ख्यानं कर्तव्यं, तथा मध्यमायां द्रुतविलम्बितयोः, तथा विलम्बितायां द्रुतमध्यमयोः। किं पुनः कारणं न सिध्यति? कालभेदात्। ये हि द्रुतायां वृत्तौ वर्णास्त्रिभागाधिकास्ते मध्यमायां वर्णास्त्रिभागाधिकास्ते विलम्बितायाम्। सिद्धं त्ववस्थिता वर्णा वक्तुश्चिराचिरवचनाद् वृत्तयो विशिष्यन्ते। सिद्धमेतत्। कथम्? अवस्तिथा वर्णा द्रुतमध्यमविलम्बितासु। किंकृतस्तर्हि वृत्तिविशेषः? वक्तुश्चिराचिरवचनाद् वृत्तयो विशिष्यन्ते। वक्ता कश्चिदाश्वभिधायी भवति। आशु वर्णानभिधत्ते। कश्चिच्चिरेण। कश्चिच्चितरेण। तद्यथा ‐ तमेवाध्वानं कश्चिदाशु गच्छति। कश्चिच्चिरेण कश्चिच्चितरेण। कश्चिच्चरतरेण गच्छति। रथिक आशु गच्छति। आश्विकश्चिरेण। पदातिश्चिरतरेण। शिशुश्चिरतरेण। विषम उपन्यासः। अधिकरणमत्राध्वा व्रजति-क्रियायाः। तत्रायुक्तं यदधिकरणस्य वृद्धिह्रासौ स्याताम्। एवं तर्हि स्फटोः शब्दः। ध्वनिः शब्दगुणः। कथम्? भेर्याघातवत्। तद्यथा ‐ भेर्याघातः भेरीमाहत्य कश्चिद्विंशति पदानि गच्छति। कश्चि त्र्रिंशत्। कश्चिच्चत्वारिशत्। स्फटोस्तावानेव भवति। ध्वनिकृता वृद्धिः। ध्वनिः स्फटोश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते। अल्पो महांश्च केषांचिदुभयं तत् स्वभावतः ।।