॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|66
SK 40
1|1|66
तस्मिन्निति निर्दिष्टे पूर्वस्य   🔊
SK 40
सूत्रच्छेद:
तस्मिन् - सप्तम्येकवचनम् , इति - अव्ययम् , निर्दिष्टे - सप्तम्येकवचनम् , पूर्वस्य - षष्ठ्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
"तस्मिन्" इति निर्दिष्टे पूर्वस्य
सूत्रार्थ:
सप्तमीविभक्तेः साहाय्येन यस्य उल्लेखः क्रियते, तस्मात् अव्यवहितस्य पूर्वस्य कार्यम् भवति ।
अष्टाध्याय्याम् भिन्नेषु सूत्रेषु यत्र सप्तमीविभक्तेः प्रयोगः कृतः दृश्यते, तत्र निर्दिष्टम् कार्यम् तस्मात् शब्दात् अव्यवहितस्य पूर्वस्य भवति ।

यथा - इको यणचि 6|1|77 इत्यत्र "अचि" इति सप्तम्यन्तम् पदम् अस्ति । अस्य अर्थः - इक्-वर्णस्य तदैव यण् भवति यदा इक्-वर्णः अच्-वर्णात् अव्यवहितम् पूर्वम् आगच्छति ।

सामान्यरूपेण सूत्राणाम् अर्थज्ञाने सप्तमीविभक्तेः पदम् स्वीकृत्य "परे" इति उच्यते । यथा, "इक्-वर्णस्य अच्-वर्णे परे यणादेशः भवति" इति ।

ज्ञातव्यम् -
1. सूत्रमेतत् "परिभाषा"सूत्रम् अस्ति । अनियमे नियमकारिणी परिभाषा अनेन सिद्धान्तेन परिभाषायाः प्रयोगः तत्रैव भवति यत्र कश्चन अनियमः (सन्देहः) अस्ति । अतः यत्र सप्तमीविभक्तेः अर्थः स्पष्टः अस्ति, तत्र अस्य सूत्रस्य प्रयोगः न करणीयः ।
2. अस्मिन् सूत्रे आचार्येण "तस्मिन् इति निर्दिष्टे" इति उक्तम् अस्ति । अत्र "तस्मिन्" इत्यनेन आचार्यः "सप्तमी" इत्यस्य निर्देशः करोति, तद्-शब्दस्य सप्तम्येकवचनस्य न ।
One-line meaning in English
The words in the सप्तमी विभक्ति are typically used to indicate that the mentioned कार्य happens to an immediately previous entity.
काशिकावृत्तिः
तस्मिनिति सप्तम्यर्थनिर्देशे पूर्वस्यैव कार्यं भवति, नोत्तरस्य । <<इको यणचि> 6|1|77 दध्युदकम्, मध्विदम्, पचत्योदनम् । निर्दिष्टग्रहणम् आनन्तर्यार्थम् । "अग्निचिदत्र" इति व्यवहितस्य मा भूत् ॥
किमर्थमिदम्? `इको यणचि` 6|1|74 इत्येवमादावचीत्येवमादेराधाराधेयभावः प्रत्यासत्तिनिबन्धनः, यथा -- गङ्गायां घोषः प्रतिवसतीति। अत्र गङ्गायाः सा च प्रत्यासत्तिर्यथा पूर्वमपेक्ष्य भवति, तथा परमपि। ततदश्च दध्युदकादिषु न ज्ञायते-- किं पूर्वस्येकः प्रत्यासत्तिभाजो यणादेशः, उत परस्येति। तत्र सन्देहेसति नियमार्थेयं परिभाषाऽ‌ऽरभ्यते। यद्येवं सन्देहविषय इयमारभ्यत इति यत्र सन्देहस्तत्रोपतिष्ठते, ततश्च दध्युदकमिति सिद्धं स्यात्; इदं तु न सिध्यति-- दध्यत्रेति। ननु च विनैव परि-भाषैतत् सिद्धम्, न ह्रत्र सन्देहोऽस्ति। इदं तर्हि न सिध्यति-- समिदत्रेति, अग्निचिदत्रेति। यदि हि यत्र सन्देहो नास्ति, तत्रैषा परिभाषा न स्यादिहानुपस्थानात्, व्यवधानेऽपि यणादेशः स्यादेव। तस्मादसन्देहविषयेऽप्येषा परिभाषा यथा भवति स यत्नःकत्र्तव्यः। एष क्रियते-- इह (तस्मिन्निति) `सप्तमीनिर्दिष्टे पूर्वस्य` 1|1|65 तावत् सूत्रं कत्र्तव्यम्; इयतैवाभिलषितार्थसिद्धेः। तत्राप्ययमर्थः-- स्वरूपग्रहणशङ्कां निराकर्तुमितिकरणो न कत्र्तव्यो भवति। न हि क्वचिच्छास्त्रं सप्तमीनिर्दिष्टः शब्दः श्रूयते, येन स्वरूपग्रहणमाशङ्क्येत। सोऽयमल्पेन सूत्रेण सिद्धे यन्महत्सूत्रं करोति तन्महाविषयेयं परिभाषेति। सूचनार्थम्। एवं च महाविषयेयं भवति यदि सर्वत्र-- सन्देहविषये, अन्यत्र च प्रवत्र्तते।स्यादेतत्-- `सप्तमीनिर्दिष्ट` इत्युच्यमाने सप्तम्या यद्यप्यधिकरणं निर्दि-श्यते, तथापि तस्याधेयप्रधानत्वात् `इको यणचि` 6|1|74 इत्यत्राचि योल्व्यवस्थित-स्तस्मिन् यणादेशो विज्ञायते, ततश्चेहैव स्यात् दधि भुङ्क्त इति, इह तु न स्यात्-- दध्यत्रेति; यथान्यासे त्वेष दोषो नास्ति, तस्मात् महत् सूत्रं प्रणीतम्` इति, नैतदस्ति; यदयं `दाधाघ्वदाप्` 1|2|20 इति निर्देशं करोति, तज्ज्ञापयति-- अधिकरणएव यणादेशादिकार्यं भवति, न त्वाधेय इति। अपि च-यथान्यासेऽप्यधिकरणस्यादेयप्रधानत्वादाधेय एव यणादेशादिकार्यं तेन सर्वत्रैषा परिभाषोपतिष्ठत इति सर्वमिष्टं सिद्धं भवति।इह `स्वं रूपं शब्दस्याशब्दसंज्ञा` 1|1|67 इति स्वरूपस्यैव ग्रहणेनभवितव्यम्। ततश्च यत्रैव तस्मिन्नित्येतत् पदमुच्चार्यते तत्रैवेयं परिभाषा स्यात् `तस्मिन्नणि च यष्माकास्माकौ` 4|3|2 इति। अस्ति ह्रत्र तस्याः परिभाषायाः परनिवृत्तिः प्रयोजनम्-- यौष्माकीणं युष्मभ्यं देहि, आस्माकीनमस्मभ्यं देहीति।युष्मभ्यं देहि यौष्माकीणम्, अस्मभ्यं देह्रास्माकीनमिति। `इको यणचि` 6|1|74 इत्येवमादौ त्वेषा नोपतिष्ठते,इत्यत आह-- `तस्मिन्` इति।`सप्तम्यर्थनिर्देशे` इति। एवं मन्यते-- इतिकरणो ह्रत्र कृतः, स च स्वरूप-पदार्थकत्वं निरस्यार्थपदार्थकत्वं तस्मिन्नित्यस्य सम्पादयति, तेनार्थस्यैव ग्रहणं भवति। स त्वर्थोऽवश्यं येन केनचिचछब्देन निर्देष्टव्य इति नानार्थकत्वात् सामान्यवाचिना तस्मिन्नित्यनेन पदेन निर्दिष्ट इति।ननु च शब्दस्यार्थेन पौर्वापर्यं न सम्भवतीत्यर्थेनासम्भवात् तद्वाचिना शब्देन विज्ञास्यत इत्यदोषः। अत्रेदं चोद्यते-- अर्थस्य ग्रहणं यथा स्यात् स्वरूपस्य च ग्रहणं मा भूदित्येवमर्थमितिकरणः क्रियते, तच्च स्वरूपग्रहणम् `तस्मिन्नणि चयुष्माकास्माकौ` 4|3|2 इति सूत्रेण सम्भाव्यते; यदि च स्वरूपग्रहणं स्यात्, तत्रैव पूर्वग्रहणं कुर्यात्, न च कृतम्; तसमादवगम्यते-- अन्तरेणापीतिकरणमर्थस्यैव ग्रहणं भविष्यति, न स्वरूपस्येति नार्थस्तेन?। स्तयमेतत्; ये तु मन्दवुद्ध्य एव प्रतिपत्तुमसमर्थास्तान् प्रति सुखावबधनार्थमितिकरणः क-तः। निर्दिष्टग्रहणमिदर्थस्य विशेषणम्। इह चशास्त्रे `इको यणचि` 6|1|74 इत्यादिषु वाक्येषु यत्र सप्तम्यर्थोऽस्ति तत्रासौ निर्दिष्ट एव सर्वत्र। तदपार्थकं निर्दिष्टग्रहणविशेषणं व्यभिचाराभावादित्यत आह--`निर्दिष्टग्रहणम्` इत्यादि। आनन्तर्यमव्यवधानमर्थो यस्य तत् तथोक्तम्। कथं पुनस्त-दानन्तर्यार्थं भवति? ततस्तत्प्रतीतेः। तथा हि दिशिरयमुच्चारणक्रियः, निःशब्दोऽ-प्ययमिह नैरन्तर्यं द्योतयति। तत्र निरन्तरं दिष्टः= निर्दिष्ट इति प्रादिसमासेकृते स्फुटमेनानन्तरमुच्चारितमिति प्रतीयते।किमर्थं पुनरानन्तर्यमाश्रितमित्यत आह-- अग्निचिदत्रेत्यादि। पूर्वशब्दोऽ-यं व्यवहितेऽपि वत्र्तते। तत्र यद्यानन्तर्य नाश्रीयते ततो व्यवहितेऽपि स्यादित्यभिप्रायः। ननु च `अचि` इत्यौपश्लेषिकमधिकरणं विज्ञायते, न च व्यवहितमुपश्लिष्टंभवति, तत् किमानन्तर्यार्थेन निर्दिष्टग्रहणेन? असदेतत्; असति हि निर्दिष्ट्ग्रहणाउपश्लेषिकमधिकरणमेव न शक्यं विज्ञातुम्। यस्मात् पूर्वशब्दो व्यवहितेऽपि वत्र्तमानः परस्यैव निवृतिंत करोति, न व्यवहितपूर्वस्यापि। निर्दिष्टग्रहणे तु सति, सप्तम्या औपश्लेषिकाधिकरणाभिधायिन्याः प्रत्यासत्तिरुपादीयते। सा च पूर्वग्रहणेन न निवर्त्त्यते, परनिवृत्तिरेव क्रियत इत्येषोऽर्थो लभ्यते। तेन व्यवहितस्य कार्यंन भवति। उत्तरार्थं च निर्दिष्टग्रहणं कत्र्तव्यमेव॥
इतिकरणस्य गौरित्ययमाहेत्यादौ स्वरूपपदार्थकत्वेन व्यवस्थापकत्वादर्शनात् "तस्मिन्नणि च" इत्यत्रोपातस्यैदमनुकरणम्, ततश्च तत्रैवास्य प्रवृत्तिः स्याद् । अस्ति च तत्र व्यवच्छेद्यं हे यौष्माकीणमस्मभ्यं देहि, आस्माकीनं युष्मभ्यं ददामीति परनिवृत्तिः, तामिनां भ्रान्तिमपाकरोति--तस्मिन्निति सप्तम्यर्थनिर्देश इति । एतेन "तस्यापत्यम्" "तत्र भवः" इत्यादिवत् स्वतन्त्रस्य सर्वनाम्नोऽयं निर्देशः, तद्वदेव तस्मिन्निति सामान्यविशेषणमचि, हलीत्यादीनामुपलक्षणम्; न त्वनुकरणमिति दर्शयति । एतच्चेतिकरणाल्लभ्यते । स हि पदार्थविपर्यासकृत् । शास्त्रे च स्वारुपपादर्थः, तस्य विपर्यासोऽर्थपदार्थकता । यदि च "तस्मिन्नणि च" इत्यत्रैवैतदुपास्थास्यत तत्रैव पूर्वग्रहणमकरिष्यतेति भावः । किमर्थं पुनरिदमारभ्यते ? "इको यणचि" इत्यादौ सन्देहः-किं सत्सप्तमी ? किं वा गङ्गायां घोष इति वदौपश्लेषिकाधिकरणे सप्तमी ? इति । तत्र सत्वं परस्य च पूर्वस्य च सम्भवति, एवमुपश्लेषोऽपि । तत्र पूर्वस्य परस्य च व्यवहितानन्तरस्य यण् प्राप्तः, दध्युदकादिषु तु युगपदेकस्य कार्यित्वनिमितत्वायोगात्पर्यायेण यण् प्राप्तः; इष्यते च पूर्वस्यैव स्यादनन्तरस्यैवेति, तत्र निमार्थमिदम्--सप्तमीनिर्देशे पूर्वस्य भवति अनन्तरस्यैवेति । "इको यणचि" इत्यादेश्च सकृत्प्रवृत्तिः, सा चेवं विशोषितेति न क्वाप्यनिष्टशङ्का । तत्राद्यं नियमं दर्शयति-पूर्वस्यैवेति । व्यावत्यं दर्शयति-नोतरस्येति । पचत्योदनमिति । यद्यप्यत्रानियमप्रसङ्गो नास्ति, तथापि "इको यणचि" इत्यस्मिन्सूत्रेऽनियमप्रसङ्गे नियमः क्रियत इत्येतदपि भवत्येवोदाहरणम् । द्वितीयं नियमं दर्शयति-निर्दिष्टग्रहणमिति । दिशिरुच्चारणक्रियः, निःशब्दो नैरन्तर्ये, निरन्तरं दिष्टो निर्दिष्ट इत्येवमानन्तर्यमर्थो भवति, तत्रैवं वचनव्यक्तिः-अचि हलीत्यादौ पूर्वस्यैव कार्यं भवति, तत्र निर्दिष्टे उ निरन्तर एवोच्चारित इति तत्रार्थात्पूर्वस्यानन्तरस्येत्यर्थो भवति । तदाह-व्यवहितस्य मा भूदिति । अन्यथा व्यवहिते मा भूदिति वक्तव्यम्; पूर्वपदस्य व्यवहितेऽपि वृतेस्तस्य प्रसङ्गात् ॥
सिद्धान्तकौमुदी
सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् ॥
तस्मिन्निति निर्दिष्टे। `इको यणची`त्यत्र अचि इको यण् स्यादित्यवगतम्। तत्राऽचो वर्णान्तराधिकरणत्वं न संभवतीति सतिसप्तम्याश्रयणीया,-अचि सति इको यण् स्यादिति। तत्र व्यवहितेऽव्यवहिते च इको यण् प्राप्तः। ततश्च `समिध`मित्यत्र धकारल्यलहितेऽकारे सत्यरि मकारादिकारस्य यण् स्यात्। तथा अचि सति पूर्वस्य परस्य वा इको यण् प्राप्तः। ततश्च दध्युदकमित्यत्र इकारे अचि सति उकारस्य परस्यापि इको यण् स्यात्। तत्राऽव्यवहित एव अचि भवति न व्यवहिते, पूर्वस्यैव भवति न परस्येत्येतदर्थमिदमारभ्यते। तस्मिन्निति न तच्छब्दः स्वरूपपरः। तथा सति `तस्मिन्नणि च युष्माकास्माकौ` इत्यादावेव प्रवर्तेत, न त्विको यणचीत्यादौ। किन्तु इको यणचीत्यादिसूत्रगतस्याऽचीत्यादिसप्तम्यन्तपदस्य `तस्मिन्नि`त्यनुकरणम्। `इती`त्यनन्तरं `गम्येऽर्थे` इति शेषः। निरिति नैरन्तर्ये। दिशिरुच्चारणे। एवं च इको यणचि रायो हलीत्यादिसूत्रेषु इचि हलि इत्येवं सप्तम्यन्तपदगम्येऽर्तेऽकारादौ दध्यत्र सुध्युपास्य इत्यादिप्रयोगदशायां निर्दिष्टेऽव्यवहितोच्चारिते सति पूर्वस्य कार्यं भवति, न तु व्यवहितोच्चारिते नापि परस्येति फलितोऽर्थः। व्यवधान#ं च वर्णान्तरकृतमेव निषिध्यते, नतु कालकृतम्। `इको यणची`त्यादौ कालकृतव्यवधानस्य संहिताधिकारादेव निरासलाभात्, तत्र कालकृतव्यवधानस्याप्यनेनैव सूत्रेण निरासे संहिताधिकारस्य वैयर्थ्यापातात्। एवं च ये संहिताधिकारबहिर्भूताः `आनङृतो द्वन्द्वे` `देवताद्वन्द्वे च` इत्यादय उत्तरपदे परत आनङादिविधयस्ते सर्वे अगनाविष्णू इत्यग्नाविष्णू इत्याद्यवग्रहे कालव्यवधानेऽपि भवन्ति। एतत्सर्वमभिप्रेत्य पर्यवसन्नार्थमाह--सप्तमीनिर्देशेनेत्यादिना।--इति सूत्राक्षरानुयायी पन्थाः। `अतिशयने तम`बित्यत्र तु नेयं परिभाषा प्रवर्तते, सर्तम्यन्तातिशायनपदार्थस्य शब्दरूपत्वाभावेनाऽव्यवहितोच्चारितत्वरूपनिर्धिष्टत्वाऽसंभवात्। नचैवमपि `कर्तृकर्मणोः कृती`त्यत्रापि अस्याः परिभाषायाः प्रवृत्तौकर्तृषष्ठी कर्मणिषष्ठी च कृष्णस्य कृतिः जगतः कर्ता कृष्ण इत्यत्रैव स्यान्नतु `कृतिः कृष्णस्य` `कर्ता जगत` इत्यत्र इति वाच्यं, लक्ष्यानुरोधेन क्वचिदेवंजातीयकेष्वस्याः परिभाषाया अप्रवृत्तिरिति `श्नान्नलोप` इति सूत्रे भाष्ये प्रपञ्चितत्वात्। वस्तुतस्तु भाष्यानुसारेणाऽत्र सूत्रे निर्दिष्टग्रहणं संहिताधिकारसूत्रं च विफलमेवेति इको यणचीत्यत्र वक्ष्यते।
तस्मिन्निति। सप्तम्यन्तानुकरणमिदम्। `निःशब्दो नैरन्तर्यपरः। दिशिरुच्चारणक्रियः। `अचि य`णित्युक्ते व्यवहितेऽव्यवहिते च सति प्राप्तमव्यवहिते एवेति, पूर्वस्य परस्य च प्राप्तं पूर्वस्यैवेति त नियम्यते। अव्यवहितस्येति तु फलितार्थकथनम्। पूर्वस्यैवेति किं ?, दध्युदकम्। अत्रोकारस्य मा भूत्। अव्यवहितस्यैवेति किम् ?, अग्निचिदत्र सोमसुदत्र। व्यवधानं चात्र वर्णकृतमेव निषिध्यते, नतु कालकृतम्। संहिताधिकाराज्ज्ञापकात्। अन्यथा निर्दिष्टग्रहणादेवाऽसंहितायां यणाद्यप्रसङ्गा�त्क तेन संहिताधिकारेण ?। अतो व्याचष्टे-वर्णान्तरेणेति। एवं च संहिताधिकारबहिर्भूतविधयः कालव्यवायेपि संभवन्ति। तेनाग्नाविष्णू इत्यादाववग्रहेऽपि `अनाङृतो द्वन्द्वे` `देवताद्वन्द्वे चे`त्यादिना उत्तरपदे परतो विहिता आनङादयो भवन्तीति दिक्।
लघुसिद्धान्तकौमुदी
सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहतिस्य पूर्वस्य बोध्यम्॥
महाभाष्यम्
तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य किमुदाहरणम् ? इह तावत् तस्मिन्निति निर्दिष्टे पूर्वस्येति इको यणचि दध्यत्र,मध्वत्र। इह तस्मादित्युत्तरेति द्वयन्तरूपसर्गेभ्योऽप इर्त्। द्वीपम्। अन्तरीपम्। समीपम्। अन्यथाजातीयकेन शब्देन निर्देशः कियते। अन्यथाजातीयक उदाह्रियते। किं तर्ह्युदाहरणम् ? इह तावत् तस्मिन्निति निर्दिष्टे पूर्वस्येति तस्मिन्नणि च युष्माकास्माकाविति। तस्मादित्युत्तरस्येति। तस्माच्छसो नः पुंसीति। इदं चाप्युदाहरणम् ‐ इको यणचि, द्वयन्तरूपसर्गेभ्योऽप इर्दिति। कथम्? सर्वनाम्नायं निर्देशः क्रियते। सर्वनाम च सामान्यवाची। तत्र सामान्ये निर्दिष्टे विशेषः अप्युदाहरणानि भवन्ति। किं पुनः सामान्यं, को विशेषः ? गौः सामान्यं कृष्णो विशेषः। न तर्हीदानीं कृष्णः सामान्यं गौर्विशेषो भवति। भवति च। यदि तर्हि सामान्यमपि विशेषो विशेषोपि सामान्यं, सामान्यविशेषौ न प्रकल्पेते। प्रकल्पेते च। कथम्? विविक्षातः। यदास्य गौः सामान्येन विविक्षतो भवति कृष्णो विशेषत्वेन, तदा गौः सामान्यं, कृष्णो विशेषः। यदास्य कृष्णः सामान्येन विवक्षितो भवति गौर्विशेषत्वेन तदा कृष्णः सामान्यं, गौर्विशेषः। अपर- आह- प्रकल्पेते च। कथम्? पितापुत्रवत्। तद्यथा स एव कंचित् प्रति पिता भवति। कंचित् प्रति पुत्रो भवति। एवमिहापि स एव कंचित् प्रति सामान्यं कंचित् प्रति विशेषः। एते खल्वपि नैर्द्देशिकानां वार्त्ततरका भवन्ति, ये सवर्नाम्ना निर्देशाः क्रियन्ते। एतैर्हि बहुतरकं व्याप्यते। अथ किमर्थमुपसर्गनिर्देशः क्रियते ? शब्दे सप्तम्या निर्दिष्टे पूर्वस्य कार्यं यथा स्यात्। अर्थे मा भूत्। जनपदे अतिशायने इति। किं गतमेतदुपसर्गेण। आहोस्विच्छब्दाधिक्यादर्थाधिक्यम्। गतमित्याह। कथम्? निरयं बहिर्भावे वर्तते। तद्यथा ‐ निष्क्रान्तो देशात् ‐ निर्देशः। बर्हिर्देश इति गम्यते। शब्दश्च शब्दाद् बहिरभूतः। अर्थोऽबहिर्भूतः। अथ निर्दिष्टग्रहणं किमर्थम् ? निर्दिष्टग्रहणमानन्तर्यार्थम्। निर्दिष्टग्रहणं क्रियते। आनन्तर्यार्थम्। आनन्तर्यमात्रे कार्यं यथा स्यात्। इको यणचि। दध्यत्र। मध्वत्र। इह मा भूत् समिधौ। समिधः। दृषदौ। दृषदः। किमर्थं पुनरिदमुच्यते ? तस्मिंस्तस्मादिति पूर्वोत्तरयोर्योगयोरविशेषान्नियमार्थं वचनं दध्युदकं प्रचत्योदनम्। तस्मिन् तस्मात् इति पूर्वोत्तरयोर्योगयोरविशेषान्नियमार्थोऽयमारम्भः। ग्रामे देवदत्तः। पूर्वः पर इति सन्देहः। ग्रामाद् देवदत्तः पूर्वः पर इति सन्देहः। एवमिहापि दध्युदकं पचत्योदनम्। उभाविकौ। उभावचौ। अचि पूर्वस्य अचि परस्येति संदेहः। तिङि्ङ्तङ इति अतिङः पूर्वस्य अतिङः परस्येति सन्देहः। इष्यते चाचि पूर्वस्य स्यात्। अतिङश्च परस्येति। तच्चान्तरेण यत्नं न सिध्यतीति नियमार्थं वचनम्। एवमर्थमिदमुच्यते। अस्ति प्रयोजनमेतत्। किं तर्हीति? अथ यत्रोभयं निर्दिश्यते किं तत्र? पूर्वस्य कार्यं भवति आहोस्वित् परस्येति। उभयनिर्देशे विप्रतिषेधात् पञ्चमीनिर्देशः। उभयनिर्देशे विप्रतिषेधात् पञ्चमीनिर्देशो भविष्यति। किं प्रयोजनम् ? प्रयोजनमतो लसार्वधातुकानुदात्तत्वे। वक्ष्यति तास्यादिभ्योऽनुदात्तत्वे सप्तमीनिर्देशोऽभ्यस्तसिजर्थ इति। तस्मिन् क्रियमाणे तास्यादिभ्यः परस्य लसार्वधातुकस्य लसार्वधातुके परतस्तास्यादीनामिति सन्देहः। तास्यादिभ्यः परस्य लसार्वधातुकस्य। बहोरिष्ठादीनामादिलोपे। बहोरुत्तरेषामिष्ठेमेयसाम्। इष्ठेमेयःसु परतो बहोरिति सन्देहः। बहोरुत्तरेषामिष्ठेमेयसाम्। गोतो णित्। गोतः परस्य सर्वनामस्थानस्य सर्वनामस्थाने परतो गोत इति सन्देहः। गोतः परस्य सर्वनामस्थानस्य। रुदादिभ्यः सार्वधातुके। रुदादिभ्यः परस्य सार्वधातुकस्य। सार्वधातुके परतो रुदादीनामिति सन्देहः। रुदादिभ्यः परस्य सार्वधातुकस्य। आने मुगीदासः। आस उत्तरस्यानस्य। आने परत आस इति सन्देहः। आस उत्तरस्य आनस्य। आमि सर्वनाम्नः सुट्। सर्वनाम्न उत्तरस्यामः। आमि परतः सर्वनाम्न इति सन्देहः। सर्वनाम्न उत्तरस्यामः। घेर्ङित्याण् नद्याः। नद्या उत्तरेषां ङितां, ङित्सु परतो नद्या इति सन्देहः। नद्या उत्तरेषां ङिताम्। याडापः। आप उत्तरस्य ङितः, ङिति परत आप इति सन्देहः। आप उत्तरस्य ङितः। ङमो ह्रस्वादचि ङमुणम् नित्यम्। ङम उत्तरस्याचः, अचि परतो ङम इति सन्देहः। ङम उत्तरस्माचः। विभक्तिविशेषनिर्देशानवकाशत्वादविप्रतिषेधः। विभक्तिविशेषनिर्देशस्यानवकाशत्वादयुक्तो विप्रतिषेधः। सर्वत्रैवात्र कृतसार्मथ्या सप्तमी। अकृतसार्मथ्या पञ्चमीति कृत्वा पञ्चमीनिर्देशो भविष्यति। यथार्थं वा षष्ठीनिर्देशः। यथार्थं वा षष्ठीनिर्देशः कर्तव्यः। यत्र पूर्वस्य कार्यमिष्यते तत्र पूर्वस्य षष्ठी कर्तव्या। यत्र परस्य कार्यमिष्यते तत्र परस्य षष्ठी कर्तव्या। स तर्हि तथा निर्देशः कर्तव्यः। न कर्तव्यः। अनेनैव प्रक्लृप्तिर्भविष्यति। तस्मिन्निति निर्दिष्टे पूर्वस्य षष्ठी। तस्मादित्युत्तरस्य षष्ठीति। तत्तर्हि षष्ठीग्रहणं कर्तव्यम्। न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्? षष्ठी स्थानेयोगेति। प्रकल्पकमिति चेन्नियमाभावः। प्रकल्पकमिति चेत् नियमस्याभावः। उक्तं चैतन्नियमार्थोऽयमारम्भ इति। प्रत्ययविधौ खल्वपि पञ्चभ्यः प्रकल्पिकाः स्युः। तत्र को दोषः? गुप्तिज्किद्भ्यः सन्। गुप्तिज्किद्भ्य इत्येषा पञ्चमी सन्निति प्रथमायाः षष्ठीं प्रकल्पयेत् तस्मादित्युत्तरेति। अस्तु। न कश्चिदन्य आदेशः प्रतिनिर्दिश्यते तत्रान्तर्यतः सनः सन्नेव भविष्यति। नैवं शक्यम्। इत्संज्ञा न प्रकल्पेत। उपदेश इतीत्संज्ञोच्चते। प्रकृतिविकारव्यवस्था च। प्रकृतिविकारयोश्च व्यवस्था न प्रकल्पते। इको यणिचि , अचीत्येषा सप्तमी यणिति प्रथमायाः षष्ठीं प्रकल्पयेत् तस्मिन्निति निर्दिष्टे पूर्वस्येति। सप्तमीपञ्चम्योश्च भावादुभयत्र षष्ठीं प्रक्लृप्तिस्तत्रोभयकार्यप्रसङ्गः। सप्तमीपञ्चम्योश्च भावादुभयत्र षष्ठीं प्राप्नोति। तास्यादिभ्य इत्येषा पञ्चमी लसार्वधातुके इत्यस्याः षष्ठीं प्रकल्पयेत्। तस्मादित्युत्तरस्येति। तथा लसार्वधातुके इत्येषा सप्तमी तास्यादिभ्य इति पञ्चम्याः षष्ठीं प्रकल्पयेत् तस्मिन्निति निर्दिष्टे पूर्वस्येति। तत्र को दोषः। तत्रोभयकार्यप्रसङ्गः। तत्र उभयोः कार्ये प्राप्नोति। नैष दोषः। यत्तावदुच्चते प्रकल्पकमिति चेन्नियमाभाव इति। मा भून्नियमः। सप्तमीनिर्दिष्टे पूर्वस्य षष्ठीं प्रकल्पयते पञ्चमीनिर्दिष्टे परस्य। यावता सप्तमीनिर्दिष्टे पूर्वस्य षष्ठीं प्रकल्पयते पञ्चमीनिर्दिष्टे परस्य नोत्सहते सप्तमीनिर्दिष्टे परस्य कार्यं भवितुम्। नापि पञ्चमीनिर्दिष्टे पूर्वस्य। यदप्युच्चते प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः स्युरिति। सन्तु प्रकल्पिकाः। ननु चोक्तं गुप्तिज्किद्भ्यः सन् इत्येषा पञ्चमी सन्निति प्रथमायाः षष्ठीं प्रकल्पयेत् तस्मादित्युत्तरस्येति। परिहतमेतत्। न कश्चिदन्य आदेशः प्रतिनिर्दिश्यते तत्रान्तर्यतः सनः सन्नेव भविष्यति। ननु चोक्तं नैवं शक्यमित्संज्ञा न प्रकल्पेत। उपदेश इति इत्संज्ञोच्यते। स्यादेष दोषो यदीत्संज्ञा आदेशं प्रतीक्षेत। तत्र खलु कृतामित्संज्ञायां लोपे च कृते आदेशो भविष्यति। उपदेश इति हीत्संज्ञोच्यते। अथवा ‐ ननुपन्ने सनि प्रक्लृप्त्या भवितव्यम्। यदा चोत्पन्नः सन् तदा कृतस्मार्थ्या पञ्चमीति कृत्वा प्रक्लृप्तिर्न भविष्यति। यदप्युच्चते प्रकृतिविकारव्यवस्था चेति। अत्रापि प्रकृतौ षष्ठी इक इति। विकृतौ प्रथमा यणिति। यत्र च नाम सौत्री षष्ठी नास्ति तत्र प्रक्लृप्त्या भवितव्यम्। अथवा- अस्तु तावदिको यणिति यत्र नाम सौत्री षष्ठी। यदि चेदानीमचीत्येषा सप्तमी यणिनि प्रथमायाः षष्ठी नास्ति तत्र प्रकल्पयेत् तस्मिन्निति निर्दिष्टे पूर्वस्येति। अस्तु। न कश्चिदन्य आदेशः प्रतिनिर्दिश्यते तत्रान्तर्यतो यणो यणेव भविष्यति। यदप्युच्चते सप्तमीपञ्चम्योश्च भावादुभयत्र षष्ठीप्रक्लृप्तिस्तत्रोभयकार्यप्रसङ्ग इति नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति नोभे युगपत् प्रकल्पिके भवति इति। यदयमेकः पूर्वपरयोरिति पूर्वपरग्रहणं करोति।