Page loading... Please wait.
1|1|62 - प्रत्ययलोपे प्रत्ययलक्षणम्
॥ तस्मै पाणिनये नम: ॥
1|1|62
SK 262
प्रत्ययलोपे प्रत्ययलक्षणम्   🔊
सूत्रच्छेद:
प्रत्ययलोपे - सप्तम्येकवचनम् , प्रत्ययलक्षणम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
प्रत्ययलोपे प्रत्ययलक्षणम्
सूत्रार्थ:
प्रत्ययस्य लोपे कृते अपि प्रत्ययस्य निमित्तकम् कार्यम् भवति ।
प्रत्ययस्य यद्यपि लोपः भवति, तथापि प्रत्ययनिमित्तकम् कार्यम् भवत्येव इत्याशयः । यथा -

1. नदी-शब्दस्य प्रथमैकवचने -
नदी + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ नदी [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्> 6|1|68 इति सुँ-प्रत्ययस्य लोपः । सुँ-प्रत्ययस्य लोपे अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1|1|62 इत्यनेन प्रत्ययनिमित्तकम् कार्यम् भवति, अतः सुप्-तिङन्तम् पदम् 1|4|14 इत्यनेन "नदी" इत्यस्य पदसंज्ञा भवति ।

2. अदस्-शब्दस्य प्रथमैकवचने -
अदस् + सुँ
→ अद औ [अदस औ सुलोपश्च 7|2|107 इति सकारस्य औकारः, सुलोपश्च]
→ अदौ [वृद्धिरेचि 6|1|88 इति वृद्धि-एकादेशः]
→ असौ [यद्यपि सुँ-प्रत्ययस्य लोपः कृतः अस्ति, तथापि प्रत्ययलोपे प्रत्ययलक्षणम् 1|1|62 इत्यनेन सुँ-प्रत्ययविशिष्टम् कार्यम् भवत्येव । अतः तदोः सः सावनन्त्ययोः 7|2|106 इति दकारस्य सकारः भवति, तथा च सुप्-तिङन्तम् पदम् 1|4|14 इत्यनेन "असौ" इत्यस्य पदसंज्ञा अपि भवति ।]

3. "अग्नि" इत्यस्मात् परस्य स्वादिगणस्य "चि" धातो" अग्नौ चेः 3|2|91 इत्यनेन क्विप्-प्रत्ययः भवति । अस्य प्रक्रिया इयम् -
अग्नि + चि + क्विप्
→ अग्नि + चि + व् [ककार-इकार-पकाराणाम् इत्संज्ञा, लोपः ।]
→ अग्नि + चि [वकारस्य वेरपृक्तस्य 6|1|67 इति लोपः ]
→ अग्नि + चित् [यद्यपि प्रत्ययस्य लोपः कृतः अस्ति, तथापि प्रत्ययलोपे प्रत्ययलक्षणम् 1|1|62 इत्यनेन प्रत्ययविशिष्टम् अङ्गकार्यम् भवत्येव । अतः ह्रस्वस्य पिति कृति तुक् 6|1|71 इत्यनेन पित्-कृत्-प्रत्यये परे धातोः तुगागमः भवति ।]
One-line meaning in English
Even when a प्रत्यय is removed, the कार्य that it was expected to do still happens.
काशिकावृत्तिः
प्रत्ययनिमित्तं कार्यम् असत्यपि प्रत्यये कथं नु नाम स्यात् - इति सूत्रम् इदम् आरभ्यते । प्रत्ययलोपे कृते प्रत्ययलक्षणं प्रत्ययहेतुकं कार्यं भवति । अग्निचित्, सोमसुत्, अधोक् - इत्यत्र सुप्तिङोः लुप्तयोः सुप्तिङन्तं पदम् 1|4|14 इति पदसंज्ञा भवति । अधोक् - इति दुहेः लङि तिपि शब्लुकि तिलोपे घत्व-भष्भाव-जश्त्व-चर्त्वेषु कृतेषु रूपम् । प्रत्यय इति वर्तमाने पुनः प्रत्ययग्रहणं किम् ? कृत्स्नप्रत्ययलोपे यथा स्यात् । इह मा भूत् - आघ्नीय । सङ्ग्मीय । हनिगम्योर्लिङात्मनेपदे लिङः सलोपोऽनन्त्यस्य 7|2|79 इति सीयुट्सकारलोपः प्रत्ययैकदेशलोपः, तत्र प्रत्ययलक्षणेन झलि इत्यनुनासिकलोपो न भवति 6|4|37 । प्रत्ययलक्षणम् इति किम् ? रायः कुलं रैकुलम्, गवे हितम् गोहितम् - आयवादेशौ न भवतः वर्णाश्रयत्वात् ॥
`प्रत्ययलक्षणम्` इति। प्रत्ययो लक्षणं यस्येति कार्येऽन्यपदार्थे बहुव्रीहिः। प्रत्ययनिमित्तमित्यादिना सूत्रारम्भस्य प्रयोजनमाह।ननु च स्थानिवद्भावनाप्येतत् सिध्यति, नैतदस्ति; अलाश्रयमपि हि प्रत्ययलोपे प्रत्ययलक्षणं कार्यमिष्यते। तथा ह्रग्निचिदित्यत्र `ह्यस्वस्य पिति कृति तुक्` 6|1|69 इत्यलाश्रयोऽपि तुग् भवत्येव। `अग्निचित्` इति। `अग्नौ चेः` 3|2|9 इति क्विप्। अधोगिति हल्ङ्यादिसूत्रेण तिलोपः; अदादित्वाच्छपो लुक् 2|4|72 `दादेर्धातोर्घः` 8|2|32 इति धत्वम्, `एकाचो बशो भष्` 8|2|37 इत्यादिना भष् धकारः, `झलाञ्जशोऽन्ते` 8|2|39 इति जश्त्वम्, घकारस्य गकारः,तस्य `वावसाने` 8|4|55 इति चर्त्वं ककारः।`प्रत्ययः` इति। `वर्तमाने` इति पूर्वसूत्रात्। `आहो यमहनः` 1|3|28 इत्या-त्मनेपदम्। `गमहन` 6|4|99 इत्यादिनोपधालोपः। `हो हन्तेः` 7|3|54 इति घःष। `संग्मीय` इति। संपूर्वाद् गमेः `समो गमि` 1|3|29 इत्यादिनात्मनेपदम्। `इटोऽत्` इत्यद्भावः। `बहुलं छन्दसि` 2|4|73 इति शपो लुक्। पूर्ववदुपधालोपः।`अनुनासिकलोपो न भवति` इति। `अनुदात्तोपदेश` 6|4|37 इत्यादिना।`रैकुलम्` इति। षष्ठीसमासः। `गोहितम्` इति। `चतुर्थी` 2|1|35 इत्यादिना। अस्त्यत्र षष्ठीचतुर्थ्येकवचनयोः प्रत्ययर्लोपः; किं त्वयावादेशयोरचि विधानात्तद्विधौ वर्ण आश्रयीते, न तु प्रत्ययः। तेन वर्णनिमित्तकौ तौ न प्रत्ययनिमित्त-काविति न भवतः। ननु च चात्र प्रत्ययस्य लोपः क्रियते, किं तर्हि? लुक्, नैतदस्ति; लोपशब्दोऽपि सामान्येन तद्भावितस्यातद्भावितस्य चाऽदर्शनस्य संज्ञा। तस्माल्लुगपि लोपो भवत्येव॥
सूत्रारम्भस्य प्रयोजनमाह--प्रत्ययनिमितमित्यादि । लक्षणशब्दोऽयमस्ति भावसाधनः प्रादुर्भाववचनः, अस्ति च करणसाधनो निमितवचनः । तत्राद्यस्य ग्रहणे प्रत्ययलोपे सति प्रत्ययस्य प्रादुर्भावो भवतीत्यर्थः स्यात् । तत्र लुप्तस्यैव प्रत्ययस्य पुनः प्रादुर्भावविधौ लोपविधिर्व्यर्थः स्यात् । ननु च यः प्रत्यस्यैव लोपः "णेरनिटि" इत्यादि, तस्य वैयर्थ्यं नामास्तु; यस्तु "टेः" इत्यादिना सामान्येन विहितः, स यदा प्रत्ययस्य भवति--भिक्षुमाचष्टे भिक्षयतीति, तदा तस्य पुनः प्रादुर्भावेऽपि न तस्य वैयर्थ्यम्; उप्रत्यये चरितार्थत्वात् । एवं तर्हि लुप्तस्यैव प्रत्ययस्य पुनः प्रादुर्भाव इष्टे, न प्रत्ययस्य लोप इति वक्तव्यम्--सामान्यविहितो लोपः प्रत्ययस्य न भवतीति । अथ प्रत्ययान्तरस्य लुप्तप्रत्ययनिमितकस्य पादुर्भावो विधीयते, यथा--ग्रामणीरिति क्विपो लोपे तन्निमितस्य सोर्विधिः । एवमपि "प्रत्ययलोपे प्रत्यय" इत्येव वक्तव्यम्--प्रत्ययस्य लोपे न तन्निमितकः प्रत्ययो भवतीति । अतो निमितपर्यायेण लक्षणशब्देन बहुव्रीहिः, कार्यं चान्यपदार्थं इत्याह--प्रत्ययहेतुकं कार्यमिति । प्रत्यासतेश्च यः प्रत्ययो यस्य कार्यस्य निमितं तस्य लोपेऽपि तद्भवतीत्यर्थः । पदसंज्ञा भवतीति । ननु च स्थानिवद्भावेनापि सिद्धा पदसंज्ञा, इह तर्हि ता ता पिणाडानामिति-तच्छब्दात्परस्य जसः शिः, "शेश्च्छन्दसि बहुलम्" इति लोपे ङपुंसकस्य झलचः" इति नुम्, "सर्वनामस्थाने" इति दीर्घश्च भवति; अनड्वान्-- सोर्लोपे नुम्भवति; अधोक्--अड्गुणौ भवतः; न्यमार्ट्-मृजेर्वृद्धिः; उन्देर्लङ् इतिलोपे श्नमाटौ भवतः; "श्नान्नलोपः"--औनत्; अग्निचित्-क्विपो लोपे तुग्भवति ? एतान्यपि स्थानिवद्भावेनैव सिद्ध्यन्ति; अल्विधित्वात् । सर्वत्रैवाल्मत्रप्रत्ययः, तदाश्रयो विधिरल्विधिरिति । नैतत्सुष्ठूअच्यते, उक्तं हि कार्यापेक्षमल्विधित्वं नोदाहरणापेक्षमिति । नुमादिविधौ च सर्वत्र शास्त्रे यद्रूपमाश्रीयते--सर्वनामस्थाने सार्वधातुके पिति कृति सुप्तिङ्न्तमिति, साधारणं तदलश्चानलश्च । केवलं ताता पिण्डानामित्याद्यौदाहरणेऽर्थादलात्मकं तदित्येतावत् । इह तर्हि अतृणेट्-"तृहि हिसायाम्", लङ्, तिप्, श्नम्,"इतश्च" इतीकारलोपः, तकारस्य हल्ङ्यादिलोपे हलादौ पिति सार्वधातुके विधीयमानोऽल्विधिः "तृणहैम्" अस्माद्भवति; तथा आशीरित्यत्र "शास ईदङ्हलोः" इतीत्वं लुप्तेऽपि क्विपि भवति । ननु च "वर्णाश्रये नास्ति प्रत्ययलक्षणम्"; नैवंविधं वचनमस्ति । द्वितीयस्य प्रत्ययग्रहणस्य प्रयोजनमिदं पठ।ल्ते - अत्र हि " प्रत्ययलोपे तल्लक्षणम्" इत्येव सिद्धे पुनः प्रत्ययग्रहणाद्यत्र प्रत्ययस्यैवासाधारणं रूपं निमितत्वेनाश्रीयते सुपि सार्वधातुके कृति सुप्तिङ्न्तमिति तदेव यथा स्यात् । तेन गोहितमित्यवादेशो न भवति । न हि "एचोऽयवायावः" इत्यत्र प्रत्ययस्यासाधारणं किञ्चिद्रूपमुपातम्, किन्त्वचीति यदुपातं तद्गवे हितमित्यस्मिन्नुदाहरणे अर्थात्प्रत्ययात्मकमित्येतावत् । इत्वेमागमयोस्तु हलादौ क्ङिति हलादौ पिति सार्वधातुक इति प्रत्यय एव प्राधान्येन निमितम्, हल् तु तद्विशेषणमिति नेमौ वर्णाश्रयौ । तस्मादल्विध्यर्थमिदमारब्धव्यम् । यद्येवम्, भसंज्ञाङीप्ष्फेषु दोषः । भसंज्ञायां तावद्-राज्ञः पुरुषो राजपुरुष इति श्रूयमाणे प्रत्यये यथा संज्ञा भवति, एवं लुप्तेऽपि स्यात् । ततश्च तया पदसंज्ञाया बाधितत्वाद् लनोपो न स्यात् । ननु च द्वे अत्र पदसंज्ञे--स्वादाविति च, सुप्तिङ्न्तमिति च । तत्र या स्वादौ पदमिति पदसंज्ञा, साऽपवादभूतया बाध्यते; या तु शुप्तिङ्न्तम्" इति पदसंज्ञा, सा न बाधनीया, यथा--श्रूयमाणे प्रत्यये "राज्ञः" इति समुदायस्य ? नैतदेवम्; श्रूयमाणे प्रत्यये ततः पूर्वस्य भागस्य भसंज्ञा, समुदायस्य तु विसर्जनीयान्तस्य पदसंज्ञेति युक्तम्-विभिन्नावधिकया भसंज्ञया पदसंज्ञा न बाध्यत इति । लुप्ते तु प्रत्यये यस्यैवावधेः स्वादौ पदमिति पदसंज्ञा,सुबन्तं पदमित्यपि तस्यैवावधेः पदसंज्ञा । तत्रैवावधौ भसंज्ञा भवन्ती यथाऽयवदत्वात् स्वादिलक्षणां पदसंज्ञां बाधते, तथा सुबन्तलक्षणामपि परत्वाद्वाधते । एवं तर्हि ङ लुमताङ्गस्य" इति प्रतिषेधाद् भसंज्ञा न भविष्यति, यचीति सप्तमीनिर्देअषात् । ततः पूर्वस्य भागस्य वस्तुतोऽस्य प्रवर्तमाना भसंज्ञाप्यङ्गकार्यमेव । एवं च बुध्वा ङ ङिसंबुद्ध्योः" इत्यत्र ङै नलोपः प्रतिषिध्यते, यदि प्रत्ययलक्षणेन भसंज्ञा स्याद्, अपवादत्वादेवार्द्रेअ चर्मन्निति नलोपो न भविष्यतीति किं तेन प्रतिषेधेन ? इह तर्हि चित्रायां जाता "चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम्" इत्यणो लुकि "लुक्तद्धितलुकि" इति टापि लुप्ते, चित्र इति स्थिते प्रत्ययलक्षणेनाणन्तत्वात् ङीप् प्राप्नोति, नैष दोषः; "टिड्ढाणञ्" इत्यत्र "अतः" इत्यनुवर्तते, तत्र चाणाकारो विशेष्यते--अणोऽकार इति, ततश्चाकार एव ङीपो निमितम्; अण् तु तद्विशेषणमिति प्रत्ययलक्षणत्वाभावाद् ङीबभावः । इह तर्हि वतण्डस्यात्यं स्त्री "वतण्डाच्च" इत्यञः "लुक् स्त्रियाम्" इति लुकि वतण्डी-शार्ङ्गरवादिलक्षणं ङीनं बाधित्वा "प्राचां ष्फस्तद्धितः सर्वत्र" इति सर्वत्रग्रहणस्य पूर्वत्रापकर्षात्प्राचां मतेन यञन्तलक्षणः ष्फः प्राप्नोति, यथा आवट।लच्चापं वा बाधित्वा ष्फ एव भवतीति ? नैष दोषः; अत्रापि यञाकारो विशेष्यते-यञोऽकार इति, यञवयवो योऽकारस्तदन्तादिति । तेनात्राप्यकार एव निमितम्, तद्विशेषणन्तु यञिति ष्फो न भवति । अयं तर्हि दोषः-परिवीरिति, परिपूर्वाद्ध्येञः क्विपो लोपे यजादित्वात् संप्रसारणे पूर्वत्वे च तुक् प्राप्नोति, "हलः" इति दीर्घश्च; तत्र विप्रतिषेधेन दीर्घ इष्यते, स विप्रतिषेधो न सिद्ध्यति । किङ्कारणम् ? इह प्रत्ययलोपे सर्वाणि प्रत्ययाश्रयाणि कार्याणि पर्यवसन्नानि, तान्यनेन प्रत्युत्थाप्यन्ते, अनेनैव तुक्, अनेनैव दीर्घः-तदेकयोगलक्षणयोरयुक्तो विप्रतिषेधः ? नैष दोषः; अवस्थिते प्रत्यये, तन्निबन्धनं यत्कार्यं भवत्येव तदेवानेन लुप्ते तस्मिन् प्रत्युत्थाप्यते, न तु यस्य प्राप्तिमात्रं तदपि । परिवीयेत्यादौ श्रूयमाणे प्रत्यये दीर्घ एव परत्वाद् भवति, न तुक्; ततश्चात्रापि यदि क्विबेवास्थास्यद्, दीर्घ एवाभविष्यदिति स एवानेन प्रत्युत्थाप्यते । तदेवमारब्धव्यं सूत्रं न कश्चिद्दोष इति स्थितम् । अत्रोच्यते--यदुक्तं "तृणह इम्" हलाश्रय इति; नायं हलाश्रयः, हलीति निवर्तिष्यते । यदि निवर्तते, तृणहानि--अत्रापि प्राप्नोति ? नाभ्यस्तस्याचीत्यतो नाचीत्यनुवर्तते, ततश्चानल्विधित्वात् स्थानिवद्भावेनैव सिद्ध इमागमः । आशीरित्यत्रापि "आसासः क्वावुपसंख्यानम्" इत्यस्माद् वचनात्सिद्धमित्वम् । आरब्धेऽपि खल्वस्मिंस्तदवश्यं वक्तव्यम् । यदि तावत् "शास इदङ्हलोः" इत्यत्र शासिमात्रस्य ग्रहणम्, ततो नियमार्थम् "आशासः क्वावेव यथा स्याद्, आशास्त इत्यादा मा भूत्" इति । अथ यस्माच्छासेरङ् विहितस्तस्य ग्रहणम्, ततो यथाऽऽशास्त इत्यादौ न भवति तथा क्विप्यपि न स्यादिति विध्यर्थमिदम् । इह तर्हि बिदस्यापत्यानि बहूनि "अनुष्यानन्तर्ये बिदादिभ्योऽञ्" बिदाः, बिदानामपत्यं युवा, "अत इञ्", तस्य ण्यक्षत्रियार्षञितः" इति लुकि कृते, अञो गोत्रबहुत्व उत्पन्नस्य लुकि प्राप्ते"गोत्रेऽलुगचि" इति प्रतिषेध इष्यते, सोऽजादाविति लुप्तेऽप्यस्माद्वचनाद्भवति ? एतदपि नास्ति प्रयोजनम्; अचीति विषयसप्तमी, तेन गोत्र इति विवक्षितेऽनुत्पन्न एव लुकि प्रतिषिद्धे पश्चादिञो लुगिति सिद्धमिष्टम् । तदेवमल्विधेः कस्यचिद् दर्शनात् स्थानिवद्भअवेनैव सिद्धमिति नार्थोऽनेन । एवं तर्हि नियमार्तमिदम्-"प्रत्ययलोपे प्रत्ययलक्षणमेव यथा स्यात् प्रत्ययाप्रत्यलक्षणं मा भूत्" इति । एतदुक्तं भवति--यस्मिन्कार्ये विधीयमाने प्रत्ययस्यैवासाधारणं किञ्चिद्रूपं निमितत्वेनाश्रीयते, तदेव प्रत्ययलोपेऽपि भवति, न पुनः प्रत्ययाप्रत्यसाधारणं रूपमाश्रित्य यद्विधीयते तदिति । तेन शोभना दृषदो यस्य सुदृषदिति शोर्मनसी अलोमोषसी" इत्युतरपदाद्यौदातत्वं न भवति । अन्यथा लुप्तेऽपि जसि स्थानिवद्भावेनासन्तमुतरपदमिति स्यात्प्रसङ्गः । प्रत्ययलक्षणं तु न भवति, "अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन तदन्तविधिं प्रयोजयन्ति" इत्यस्मातस्य ग्रहणात् । वृत्तिकारेण तु " नियमार्थमप्येतत् प्रत्ययलोपे सर्वत्र प्रवर्तते" इति मत्वोक्तं पदसंज्ञा भवतीति । आघ्नयेति । "आङे यमहनः" । संग्मीयेति । शमो गम्यच्छि" इत्यात्मनेपदम्, "इटोऽत्", बहुलं च्छन्दसि" इति शपो लुक्, उभयत्र "गमहन" इत्युपधालोपः ॥
सिद्धान्तकौमुदी
प्रत्यये लुप्तेऽपि तदाश्रितं कार्यं स्यात् । इति जसि चेति गुणे प्राप्ते ॥
प्रत्ययलोपे प्रत्ययलक्षणम् - जसि लुप्तेऽपिजसि चे॑ति गुणमाशङ्कितुमाह-प्रत्यय-लोपे प्रत्यय । प्रत्ययो लक्षणं=निमित्तं यस्य तत्-प्रत्ययलक्षणम् । प्रत्ययस्य लोपे सति प्रत्ययनिमित्तकं कार्यं स्यादित्यर्थः । फलितमाह — प्रत्यये लुप्तेऽपीत्यादिना । स्थानिवद्भावादेव सिद्धे अल्विध्यर्थमिदं सूत्रम् । यत्र प्रत्ययस्याऽसाधारणं रूपं प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवतीति नियमार्थं चेति भाष्यादिषु स्पष्टम् । इति जसि चेतीति । अनेन सूत्रेण लुप्तं प्रत्ययमाश्रित्यजसि चे॑ति गुणे प्राप्ते इत्यर्थः ।
प्रत्ययलोपे प्रत्ययलक्षणम् - प्रत्ययलोपे प्रत्यय । विशेषविहिता अपि लुगादिसंज्ञा लोपसंज्ञां न बाधन्ते, एकसंज्ञाधिकारदन्यत्र संज्ञायां बाध्यबाधकभावानङ्गीकारादिति भावः । स्थानिवत्सूत्रेण सिद्धे नियमार्थमिदं सूत्रं,॒प्रत्ययस्याऽसाधरणं रूपरं यत्र प्रयोजकं, तदेव कार्यं प्रत्ययलोपे सति भवति न तु प्रत्ययाऽप्रत्ययासाधरण॑मिति । तेन शोभना दृषदो यस्य सुदृषत्प्रासाद इत्यत्रनञ्सुभ्यां॑मित्यन्तोदात्ततां बाधित्वासोर्मनसी अलोमोषसी॑इत्युत्तरपदाद्युदात्तत्वम्,अत्वसन्तस्ये॑ति दीर्घश्च न भवति । यद्वा, — यत्र प्रत्ययः प्राधान्येनाश्रीयते तत्राऽल्विधावपि विध्यर्थसिद्धम् । तेनअतृणे॑डित्यत्र हलादौ पिति सार्वधातुके विहित इम् लुप्तेऽपि तस्मिन्भवति ।वर्णाश्रये नास्ति प्रत्ययलक्षण॑मिति तु वर्णप्राधान्यविषयकम्, तेन गवे हितंगोहित॑मित्यत्राऽवैदेशोन । यद्यपीदं पक्षद्वयमाकरारूढं, तथापि नियमपक्ष एव प्रबल इति यड्लुगन्ते मनोरमायां स्थितम् । स्यादेतत्-सूत्रस्याऽस्याऽवश्यकत्वेऽपिप्रत्ययलोपे तल्लक्षण॑मित्येव सूत्र्यतां किमनेन द्वितीयप्रत्ययग्रहणेन अत्राहुः-॒प्रत्ययस्याऽसाधारणं रूपं यत्रे॑त्यादिलाभाय द्वितीयप्रत्ययग्रहणमिति ।
लघुसिद्धान्तकौमुदी
प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्। इति जसि चेति गुणे प्राप्ते॥
महाभाष्यम्
प्रत्ययलोपे प्रत्ययलक्षणम् प्रत्ययग्रहणं किमर्थम् ? लोपे प्रत्ययलक्षणम् इतीयत्युच्यमाने सौरथी वैहतीति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत। नैष दोषः। नैवं विज्ञायते ‐ लोपे प्रत्ययलक्षणं भवति ‐ प्रत्ययस्य प्रादुर्भाव इति। कथं तर्हि? प्रत्ययो लक्षणं यस्य कार्यस्य तत् लुप्तेपि भवति। इदं तर्हि प्रयोजनम्। सति प्रत्यये यत् प्राप्नोति तत् प्रत्ययलक्षणं यथा स्यात्। लोपोत्तरकालं यत् प्राप्नोति तत् प्रत्ययलक्षणं मा भूदिति। किं प्रयोजनम् ? ग्रामणिकुलं सेनानिकुलम् इत्यत्रौत्तरपदिके ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुगिति तुक् प्राप्नोति स मा भूदिति। यदि तर्हि यत् सति प्रत्यये प्राप्नोति तत् प्रत्ययलक्षणेन भवति, लोपोत्तरकालं यत् प्राप्नोति तन्न भवन्ति, जगत् जनगदित्यत्र तुक् न प्राप्नोति। लोपोत्तरकालं ह्यत्र तुगागमः। तस्मान्नार्थ एवमर्थेन प्रत्ययग्रहणेन। कस्मान्न भवति ग्रामणिकुलं, सेनानिकुलम्। बहिरङ्गं ह्रस्वत्वम्। अन्तरङ्गस्तुक्। असिद्धं बहिरङ्गमन्तरङ्गे। इदं तर्हि प्रयोजनम् ‐ - कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणं यथा स्याद एकदेशलोपे मा भूदिति। आघ्नीति। सं रायस्पोषेण ग्मीय-इति। पूर्वस्मिन्नपि योगे प्रत्ययग्रहणस्यैतत् प्रयोजनमुक्तम्। अन्यतरच्छक्यमकर्तुम्। अथ द्वितीयं प्रत्ययग्रहणं किमर्थम्? प्रत्ययलक्षणं यथा स्यात्। वर्णलक्षणं मा भूदिति। गवे हितं गोहितम्। रायः कुलं रैकुलमिति। किमर्थं पुनरिदमुच्यते? प्रत्ययलोपे प्रत्ययलक्षणवचनं सदन्वाख्यानाच्छास्त्रस्य। प्रत्ययलोपे प्रत्ययलक्षणमित्युच्यते। सदन्वाख्यानाच्छास्त्रस्य। सच्छास्त्रेणान्वाख्यायते। सतो वा शास्त्रमन्वाख्यायकं भवति। सदन्वाख्यानाच्छास्त्रस्य। उगिदचां सर्वनामस्थानेऽधातोरिति इहैव स्याद् ‐ - गोमन्तौ, यवमन्तौ। गोमान्, यवमान् इत्यत्र न स्यात्। इष्यते च स्यादिति। तच्चान्तरेण न सिध्यतीत्यतः प्रत्ययलोपे प्रत्ययलक्षणवचनमित्येवमर्थमिदमुच्यते। अस्ति प्रयोजनमेतत्। किं तर्हीति? लुक्युपसङ्ख्यानम्। लुक्युपसङ्ख्यानं कर्तव्यम्। पञ्च सप्त। किं पुनः कारणं न सिध्यति? लोपे हि विधानम्। लोपे हि प्रत्ययलक्षणं विधीयते तेन लुकि न प्राप्नोति। न वा दर्शनस्य लोपसञ्ज्ञित्वात्। न वा कर्तव्यम्। किं कारणम्? अदर्शनस्य लोपसञ्ज्ञित्वात्। अदर्शनं लोपसञ्ञ्ज्ञं भवतीत्युच्यते। लुमत्संज्ञाश्चाप्यदर्शनस्य क्रियन्ते। तेन लुक्यपि भविष्यति। यद्येवम्। प्रत्ययादर्शनं तु लुमत्संज्ञम्। प्रत्ययादर्शनं तु लुमत्संज्ञमपि प्राप्नोति। तत्र को दोषः ? तत्र लुक श्लुविधिः प्रतिषेध्यः। तत्र लुकि श्लुविधिः प्राप्नोति स प्रतिषेध्यः। अत्ति हन्ति। श्लाविति द्विर्वचनं प्राप्नोति। न वा पृथक् सञ्ज्ञाकरणात्। न वा एष दोषः। किं कारणम्? पृथक् सञ्ज्ञाकरणात्। पृथक् सञ्ज्ञाकरणसार्मथ्याल्लुकि श्लुविधिर्न भविष्यति। तस्माददर्शनसामान्याल्लोपसञ्ज्ञा लुमत्संज्ञा अवगाहते। यथैव तर्हि अदर्शनसामान्यल्लोपसञ्ज्ञा लुमत्सज्ञा अवगाहते एवं लुमत्संज्ञा अपि लोपसञ्ज्ञामवगाहेरन्। तत्र को दोषः। अगोमती गोमती सम्पन्ना गोमती भूतेति लुक् तद्धितलुकीति ङीपो लुक् प्रसज्येत। ननु चात्रापि न वा पृथक् सञ्ज्ञाकरणादित्येव सिद्धम्। यथैव तर्हि पृथक् सञ्ज्ञाकरणसार्मथ्यादत्र लुमत्संज्ञा लोपसञ्ञ्ज्ञां नावगाहन्ते एवं लोपसञ्ज्ञापि लुमत्संज्ञा नावगाहेत। तत्र स एव दोषो लुक्युपसङ्ख्यानमिति। अस्त्यन्यल्लोपसञ्ज्ञायाः पृथक् करणे प्रयोजनम्। किम्? लुमत्संज्ञासु यदुच्यते तल्लोपमात्रे मा भूदिति। लुमति प्रतिषेधाद्वा। अथवा यदयं न लुमताङ्गस्येति प्रत्ययलक्षणप्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यो भवति लुकि प्रत्ययलक्षणमिति। सतो निमित्ताभावात् पदसञ्ज्ञाभावः। सन् प्रत्ययो येषां कार्याणामनिमित्तं राज्ञः पुरुष इति, स लुप्तोऽप्यनिमित्तं स्याद् राजपुरुष इति। अस्तु तस्या अनिमित्तं या स्वादौ पदमिति पदसञ्ज्ञा। या तु सुबन्तं पदमिति पदसञ्ज्ञा सा भविष्यति। सत्येतत् प्रत्यय आसीत्। अनया भविष्यत्यनया न भविष्यतीति। लुप्त इदानीं प्रत्यये यावत एवावधेः स्वादौ पदमिति पदसञ्ज्ञा तावत एव सुबन्तं पदमिति। अस्ति च प्रत्ययलक्षणेन यजादिपरतेति कृत्वा भसञ्ज्ञा प्राप्नोति। तुग्दीर्घत्वयोश्च विप्रतिषेधानुपपत्तिरेकयोगलक्षणत्वात् परिवीर् इति। तुग्दीर्घत्वयोश्च विप्रतिषेधो नोपपद्यते। क्व? परिवीरिति। किं कारणम्? एकयोगलक्षणत्वात्। एकयोगलक्षणे हि तुग्दीर्घत्वे। इह लुप्ते प्रत्यये सर्वाणि प्रत्ययाश्रयाणि कार्याणि पर्यवपन्नानि भवन्ति। तान्येतेन प्रत्युत्थाप्यन्ते। अनेनैव तुक्। अनेनैव च दीर्घत्वमिति। तदेकयोगलक्षणं भवति। एकयोगलक्षणानि च कार्याणि न प्रकल्पन्ते। सिद्धं तु स्थानिसञ्ज्ञानुदेशादान्यभाव्यस्य। सिद्धमेतत्। कथम्? स्थानिसञ्ज्ञाऽन्यभूतस्य भवतीति वक्तव्यम्। किं कृतं भवति? सत्तामात्रमनेन क्रियते। यथाप्राप्ते तुग्दीर्घत्वे भविष्यतः। तद् वक्तव्यं भवति। यद्यप्येतदुच्यते।अथवैतर्हि स्थानिवद्भावो नारभ्यते। स्थानिसञ्ज्ञान्यभूतस्यानल्विधाविति वक्ष्यामि। यद्येवमाङो यमहन इत्यात्मनेपदं भवतीति हन्तेरेव स्यात्, वधेर्न स्यात्। नहि काचिद् हन्तेः सञ्ज्ञास्ति या वधेरतिदिश्येत। हन्तेरपि सञ्ज्ञास्ति। का? हन्तिरेव। कथम्? स्वं रूपं शब्दस्याशब्दसंज्ञेति वचनात् स्वं रूपं शब्दस्य सञ्ज्ञा भवतीति हन्तेरपि हन्तिः सञ्ज्ञा भविष्यति। भसञ्ज्ञा- ङीप्- गोरात्वेषु च सिद्धम्। भसञ्ज्ञा ङीप्ष्फ गोरात्वेषु च सिद्धं भवति। भसञ्ज्ञा- राज्ञः पुरुषः राजपुरुषः प्रत्ययलक्षणेन यचीति भसञ्ज्ञा प्राप्नोति। स्थानिसञ्ज्ञान्यभूतस्यानल्विधाविति वचनान्न भवति। ङीप्- चित्रायां जाता चित्रा। प्रत्ययलक्षणेनाणान्तदितीकारः प्राप्नोति . स्थानिसञ्ज्ञान्यभूतस्यानल्विधविति वचनान्न भवति। ष्फ- वतण्डी। प्रत्ययलक्षणेन यञ्ञन्तादिति ष्फः प्राप्नोति। स्थानिसञ्ज्ञान्यानल्विधाविति वचनान्न भवति। गोरात्वम्- गामिच्छति गव्यति। प्रत्ययलक्षणेनामि औतोम्शसोरित्यात्वं प्राप्नोति। स्थानिसञ्ज्ञान्यभूतस्यानल्विधाविति वचनान्न भवति। तस्य दोषो ङौ नकारलोपेत्वेम् विधियः। तस्यैतस्य लक्षणस्य दोषः। ङौ नकारलोपः। आर्द्रे चर्मन् लोहिते चर्मन्। प्रत्ययलक्षणेन यचीति सिद्धा भवति। स्थानिसञ्ज्ञान्यभूतस्यानल्विधाविति वचनान्न प्राप्नोति। इत्त्वम्- आशीः। प्रत्ययलक्षणेन हलीति इत्वं भवति। स्थानिसञ्ज्ञान्यभूतस्यानल्विधाविति वचनान्न प्राप्नोति। इम्- अतृणेट्। प्रत्ययलक्षणेन हलीति इम् सिद्धो भवति। स्थानिसञ्ज्ञान्यभूतस्यानल्विधाविति वचनान्न प्राप्नोति। सूत्रं च भिद्यते। यथान्यासमेवास्तु। ननु चोक्तं सतो निमित्ताभावात् पदसञ्ज्ञाभावः। तुग्दीर्घत्वयोश्च विप्रतिषेधानुपपत्तिरेकयोगलक्षणत्वात् परिवीरिति। नैष दोषः। वक्ष्यत्यत्र परिहारम्। इहापि परिवीरिति। शास्त्र परविप्रतिषेधेन परत्वात् दीर्घत्वं भविष्यति।प्रयोजनमपृक्तशिलोपे नुममामौ गुणवृद्धी दीर्घत्वेमडाट्श्नम्विधयः। अपृक्तलोपे शिलोपे च कृते नुम्-अमामौ- गुणवृद्धी दीर्घत्वम् इम् अडाटौ श्नम्विधिरिति प्रयोजनानि। नुम्- अग्ने त्री ते वाजिना त्री षधस्था। ता ता पिण्डानाम्। अमामौ- हे अनड्वन्। अनड्वान्। गुणः- अधोक्। अलेट्। वृद्धिः- न्यमार्ट्। दीर्घत्वम्- अग्ने त्री ते वाजिना त्री षधस्था। ता ता पिण्डानाम्। इम्- अतृणेट्। अडाटौ- अधोक्। अलेट्। ऐयः। औनः। श्नम्विधिः- अभिनोऽत्र। अच्छिन्नोऽत्र। अपृक्तशिलोपयोः कृतयोरेते विधयो म प्राप्नुवन्ति। प्रत्ययलक्षणेन भवन्ति। नैतानि सन्ति प्रयोजनानि। स्थानिवद्भावेनाप्येतानि सिद्धानि। न सिध्यन्ति। आदेशः स्थानिवदित्युच्यते। न च लोप आदेशः। लोपोऽप्यादेशः। कथम्? आदिश्यते यः स आदेशः। लोपोऽप्यादिश्यते। दोषः खल्वपि स्याद् यदि लोपो नादेशः स्यात्। इहाचः परस्मिन् पूर्वविधावित्येतस्य भूयिष्ठानि लोप उदाहरणानि तानिः न स्युः। यत्र तर्हि स्थानिद्भावो नास्ति तदर्थमयं योगो वक्तव्यः। क्व च स्थानिवद्भावो नास्ति? योऽल्विधिः। किं प्रयोजनम्? प्रयोजनं ङौ नकारलोरेत्वेम्विधयः। भसञ्ज्ञाङीप्ष्फगोरात्वेषु च दोषः। भसञ्ज्ञा ङीप्ष्फगोरात्वेषु च दोषो भवति । भसञ्ज्ञायां तावन्न दोषः। आचार्यप्रवृत्तिज्ञापयति न प्रत्ययलक्षणेन भसञ्ज्ञा भवतीति। यदयं न ङिसम्बुद्धयोरिति ङौ प्रतिषेधं शास्ति। ङीप्यपि नैवं विज्ञायते अण्तादकारान्तादिति। कथं तर्हि ? अण् योऽकार इति। ष्फोऽपि नैवं विज्ञायते यञ्ञन्तादकारान्तादिति। कथं तर्हि? यञ्ञ् योऽकार इति। गोरात्वेऽपि नैवं विज्ञायते अमि अचीति। कथं तर्हि अच्यमीति? प्रयोजनान्यपि तर्हि नैतानि सन्ति। यत्तावदुच्यते ङौ नकारलोप इति। कियते एतन्नास एव, न ङि सम्बुद्धयोरिति। इत्त्वमपि, वक्ष्यत्येतत्- शास इत्तवे आशासः क्वाविति। इम्विधिरपि हलीति निवृत्तम्। यदि हलीति निवृत्तम्। तृणहानि अत्रापि प्राप्नोति। एवं तर्हि अचि नेत्यनुवर्तिष्यते। न तर्हीदानीमयं योगो वक्तव्यः। वक्तव्यश्च। किं प्रयोजनम्? प्रत्ययं गृहीत्वा यदुच्यते तत् प्रत्ययलक्षणेन मा भूदिति। किं प्रयोजनम्? शोभना दृषदोऽस्य ब्राह्यणस्य सुदृषद् ब्राह्यणः। सोर्मनसी अलोमोषसी इत्येष स्वरो मा भूत्।