॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|6
SK 2190
1|1|6
दीधीवेवीटाम्   🔊
SK 2190
सूत्रच्छेद:
दीधी-वेवी-इटाम् - षष्ठीबहुवचनम्
अनुवृत्ति:
न  [1|1|4] - अव्ययम् , इकः  [1|1|3] - षष्ठ्येकवचनम् , गुण-वृद्धी  [1|1|3] - प्रथमाद्विवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
दीधी-वेवी-इटाम् इक: गुण-वृद्धी न
सूत्रार्थ:
दीधीङ्-धातोः, वेवीङ्-धातोः तथा च इडागमस्य यः इक्-वर्णः तस्य गुणः वृद्धिः वा न भवतः ।
दीधीङ् (दीप्तिदेवनयोः) तथा वेवीङ् (वेतिना तुल्ये) एतौ अदादिगणस्य धातू । एतयोः धात्वोः यः इकारः , तस्य गुणः वृद्धिः वा न भवतः । तथैव, इडागमस्य यः इकारः, तस्यापि गुणवृद्धी न भवतः । यथा -

1) आङ्-उपसर्गयुक्तस्य दीधीङ्-धातोः ल्युट्-प्रत्ययस्य प्रक्रिया -
आङ् + दीधीङ् + ल्युट् [ल्युट् च 3|3|115]
→ आ + दीधी + अन [युवोरनाकौ 7|1|1 इति अन-आदेशः]
अत्र अन-प्रत्ययः आर्धधातुकः अस्ति, अतः सार्वधातुकार्धधातुकयोः 7|3|84 अनेन अङ्गस्य (इत्युक्ते धकारोत्तर-ईकारस्य) गुणादेशः विधीयते । परन्तु अस्य गुणस्य वर्तमानसूत्रेण निषेधः भवति ।
→ आदीध्यन [इको यणचि 6|1|77 इति यणादेशः]

2) वेवीङ्-धातोः अपि एतादृशम् एव "आवेव्यन" इति रूपं सिद्ध्यति ।

3) पठ्-धातोः तृच्-प्रत्ययान्तरूपस्य प्रक्रिया -
पठ् + तृच् [ण्वुल्तृचौ 3|1|133 इति ण्वुल्-प्रत्ययः]
→ पठ् + इ + तृच् [आर्धधातुकस्य इड् वलादेः 7|2|35 इति इडागमः]
अत्र तृच्-प्रत्ययः आर्धधातुकः अस्ति, अतः सार्वधातुकार्धधातुकयोः 7|3|84 अनेन तस्मात् पूर्वः यः इकारः, तस्य गुणादेशः विधीयते । परन्तु तस्य वर्तमानसूत्रेण निषेधः भवति । वर्णमेलनं कृत्वा केवलं "पठितृ" इति प्रातिपदिकं सिद्ध्यति ।

ज्ञातव्यम् - दीधीङ् तथा वेवीङ् - उभावपि छान्दसौ धातू स्तः । इत्युक्ते धातू इमौ केवलं वेदेषु दृश्येते, लौकिकसंस्कृते अनयोः प्रयोगः नास्ति ।
One-line meaning in English
The इक् letter of - (a) the verb दीधीङ्, (b) The verb वेवीङ् , and (c) इडागम - do not undergo गुण or वृद्धि.
काशिकावृत्तिः
दीधीवेव्योः इटश्च ये गुणवृद्धी प्राप्नुतः, ते न भवतः । आदीध्यनम्, आदीध्यकः ; आवेव्यनम्, आवेव्यकः । इटः खल्वपि - कणिता श्वः, रणिता श्वः । वृद्धिरिटो न संभवति इति लघूपधगुणस्यात्र प्रतिषेधः ॥
`दीधीवेव्योः` इति। दीधीङ दीप्तिदेवनयोः` (धातुपाठः- 1076); `वेवीङ वेतिना तुल्ये (धातुपाठः-1077) इत्येतयोग्र्रहणम्। ननु च `दीङ क्षये` (धातुपाठः- 1134) `धीङ अनादरे`(धातुपाठः-1136), `वेञ् तन्तुसन्ताने` (धातुपाठः-1006) `वी गतिप्रजनकान्त्यसनखादनेषु` (धातुपाठः-1048) इत्येतेषां ग्रहणं कस्मान्न विज्ञायते? यद्येषां ग्रहणमभिमतं स्यादसन्देहार्थं `वीवेधीदीटाम्` इत्येवं न्यासं कुर्यात्। अन्यथा तु कृतम्। तस्मात् पूर्वोक्तयोरेव धात्वोरिह ग्रहणम्। इटश्चेति- `आर्धरधातुकस्य` 7|2|35 इत्यादिना विहितस्य। अथ `इट्, किट, कटी गतौ` (धातुपाठः-318,319320) इत्यस्य ग्रहणं कस्मान्न भवति, युक्तं चैतत्, धातुसाहचर्यात्? नैतदस्ति; इह`अल्पाच्तरम्` 2|2|34 इत इटः पूर्वनिपाते कत्र्तव्ये तद्विपर्यासं कुर्वतैतत् सूचितम्-`अन्योऽ-प्यत्र कश्चिद्विपर्यासो विज्ञेयः` इति। तेन धातुसाहचर्याद्धातुग्रहणे प्राप्ते तद्विपरीतस्यैवागमस्य ग्रहणं विज्ञायते। `आदीध्यनम्` इति। ल्युट्। `आदीध्यकः` इति। ण्वुल्।`कणिता आः, रणिता आः` इति। `अण रण कण` (धातुपाठः-444,445,449) इत्यादौ शब्दार्थे धातुवर्गे कणिरणी पठएते , ताभ्यां लुटि स्यताशी लृलुटोः` 3|1|33 इति तासिः, `लुटः प्रथमस्य ` 2|4|85 इत्यादिना तिषो डादेशः, टिलोपः, `आर्धधातुकस्य` 7|2|35 इत्यादिनेट्। अथेटो वृद्धेरुदाहरणं कस्मान्न प्रदर्शितमित्याह- `वृद्धिरिटो न सम्भवति` इति। अङ्गस्य वृद्धिर्ञ्णिदादौ प्रत्यये विधीयते इट् चायमार्धधुकभवतः। न चार्धधातुकस्याङसञ्ज्ञास्ति ञ्णिदादौ प्रत्यये। तस्मादिटो वृद्धिर्न भवति।
ऽदीधीवेव्योऽरिति । "दीधीङ् दीप्तदेवनयोः" "वेवीङ् वेतिना तुल्ये" इत्येतयोः । अथ दीङ् क्षये" "धीङ् अनादरे" "वेञ् तन्तुसन्ताने" वी गत्यादिषु"-एतेषां ग्रहणं कस्मान्न भवति ? दीङस्तावन्न भवति, "मीनातिमिनोतिदीङं ल्यपि च" इति चकारेणैज्विषय आत्वविधानात् । वेञोऽपि न भवति, गुणप्राप्त्यभावात्, नैतदस्ति; चकारस्तावन्मीनातिमिनोत्यर्थः स्यात्, दीङेऽपि ग्रहणं ल्यबर्थं स्यात्, वेञोऽपि प्रवेयमित्यत्र "ईद्यति" इति ईत्वे कृते गुणः प्राप्नोति । एवं तर्हि चतुर्णां ग्रहणेऽभिप्रेते, असन्देहार्थं "वीवेधीदीटाम्" इति ब्रूयात् । किञ्च-"अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी" । ऽइटश्चेऽति । आर्धधातुकस्येडित्यागमस्य । ननु धातुसाहचर्यात् "इट किट गतौ" इत्यस्य धातोर्ग्रहणं युक्तम्, सत्यम्; प्रसिद्ध्यतिशयादागमस्य ग्रहणम्, आगमो हि प्रसिद्धतरः । शास्त्रेऽल्पाचरत्वेन पूर्वनिपाताभावाच्च धातुरिट्, दीधीवेव्योस्तु धातुत्वात्प्रकृतित्वाद् "अभ्यर्हितं च" इति पूर्वनिपातः । अथ दीधीवेव्योः किमर्थं ग्रहणं, यावता छान्दसावेतौ च्छन्दसि च दृष्टानुविधिः, दृश्यते च गुणः "होत्राय वृतः कृपयन्नदीधेत्", "अधीधयुर्दाशराज्ञः" इति, अतस्तयोरनर्थकः प्रतिषेधः ? केचिदाहुः-"आदीध्यनमावेव्यनम् इत्युदाहरतो वृत्तिकारस्य नानयोश्छान्दसत्वमभिप्रेतम्, अन्यथा हि च्छन्दस्येव किंचिदुदाहार्यम्" इति, इदं तु वार्तिकविरुद्धम्; यदाह-"दीधीवेव्योश्छन्दोविषयत्वाद् दृष्टानुविधानाच्च च्छन्दस्यदीधेददीधयुरिति च गुणदर्शनादप्रतिषेधः" इति । ऽ आदीध्यनमिऽति । ल्युटि "एरनेकाचः" इति यणादेशः । ऽकणितेऽति । "कणिरणी शब्दार्थौ" लुटि तिपौ डादेशस्तासि टिलोपः, कणित् अ आ इति स्थिते तकारन्तं लघूपधमङ्गमिति प्राप्तस्य गुणस्य प्रतिषेधः । ननु च ङेड्वशि कृति" इत्यत इडित्यनुवर्तमाने "आर्धधातुकस्येट्" इति पुनरिड्ग्रहणम् "इडेव यथा स्याद्, विकारो मा भूद्" इत्येवमर्थं भविष्यति । यद्येवम्; अलावीत्, पिपठिषतेः क्विपि पिपठी रित्यत्र "अकः सवर्णे दीर्घः" "र्वोरुपधायाः" इति च दीर्घो न स्याद् । अङ्गप्रकरणे नियमादाङ्ग एव विकारो निवर्त्यते, इह च पिपठिषतेरप्रत्यये नपुंसके जसः शिः, अतो लोपस्य स्थानिवत्वान्नुम्न भवतीति शान्तमहतः" इति दीर्धत्वं न भवतीति पिपठिषि ब्राह्मणकुलानीति भवति ॥
सिद्धान्तकौमुदी
दीधीवेव्योरिटश्च गुणवृद्धी न स्तः । भविता ।
दीधीवेवी। `दीधीह् दीप्तिदेवनयोः` `वेवीङ् वेतिनी तुल्ये`। दीधीश्च वेवीश्च इट् चेति द्वन्द्वात् षष्ठी। `इको गुणवृद्धी` इत्यतो गुणवृद्धी इति, `न धातुलोप` इत्यतो नेति चानुवर्तते।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
दीधीवेवीटाम् किमर्थमिदमुच्यते ? गुणवृद्धी मा भूताम् इति। आदीध्यनम्। आदीध्यकः। आवेव्यनम्। आवेव्यकः । अयं योगः शक्योऽकर्तुम्। कथम्? ।। दीधीवेव्योश्छन्दोविषयत्वाद् दृष्टानुविधित्वाच्च छन्दसश्छन्दस्यदीधेददीधयुरिति च गुणस्य दर्शनादप्रतिषेधः ।। । दीधीवेव्योश्छन्दोविषयत्वात्। दीधीवेव्यौ छन्दसो विषयौ। दृष्टानुविधित्वाच्च छन्दसः। दृष्टानुविधिश्च छन्दसि भवति। अदीधेत्, अदीधयुः इत्यत्र च गुणस्य दर्शनादप्रतिषेधः। अनर्थकः प्रतिषेधः अप्रतिषेधः। प्रजापतिर्वै यत् किंचिन्मनसा अदीधेत्। होत्राय वृतः कृपयन्नदीधेत्। अदीधयुर्दाशराज्ञे वृतासः। भवेदिदं युक्तमुदाहरणमदीधेदिति। इदं त्वयुक्तमदीधयुरिति। अयं जुसि गुणः प्रतिषेधविषय आरभ्यते स यथैव क्ङिति चेत्येन बाधते एवमेनमपि बाधेत। नैष दोषः। जुसि गुणः प्रतिषेधविषय आरभ्यमाणस्तुल्यजातीयं प्रतिषेधं बाधते। कश्च तुल्यजातीयः प्रतिषेधः। यः प्रत्ययाश्रयः। प्रकृत्याश्रयश्चायम्। अथवा येन नाप्राप्ते तस्य बाधनं भवति। न चाप्राप्ते क्ङिति नेत्येतस्मिन् प्रतिषेधे जुसि गुण आरभ्यते। अस्मिन् पुनः प्राप्ते चाप्राप्ते च । यदि तर्ह्ययं योगो नारभ्यते, कथं दीध्यत् इति, वेव्यत् इति च । ।। दीध्यदिति श्यन्व्यत्ययेन ।।। दीध्यदिति वेव्यदिति च स्यन्व्यत्ययेन भविष्यति । इटश्चापि ग्रहणं शक्यमकर्तुम्। कथम् अकणिषम् अरणिषम्। कणिता श्वो रणिता श्वः इति। आर्धदातुकस्येड्वलादेरित्यत्र इडित्यनुवर्तमाने पुनरिङ्ग्रहणस्य प्रयोजनम् इट् इडेव यथा स्यात्। यदन्यत् प्राप्नोति तन्मा भूदिति। किं चान्यत् प्राप्नोति। गुणः । यदि नियमः क्रियते पिपठिषतेरप्रत्ययः पिपठीः दीर्घत्वं न प्राप्नोति । नैष दोषः। आङ्गं यत्कार्यं तन्नियम्यते न चैतदाङ्गम्। अथवा असिद्धं दीर्घत्वं तस्यासिद्धत्वान्नियमो न भविष्यति ।