॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|59
SK 2243
1|1|59
द्विर्वचनेऽचि
SK 2243
सूत्रच्छेद:
द्विर्वचने - सप्तम्येकवचनम् , अचि - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
द्विर्वचननिमित्तेऽचि अजादेशः स्थानिवद् भवति , द्विर्वचन एव कर्तव्ये । रूपातिदेशश्च अयं नियतकालः । तेन कृते द्विर्वचने पुनरादेश रूपम् एव अवतिष्ठते । आल्लोप-उपधालोप-णिलोप-यण्-अयवायावादेशाः प्रयोजनम् ।
आल्लोपः - पपतुः, पपुः । आतो लोप इटि च> 6|4|64 इति आकारलोपे कृते तस्य स्थानिवद्भावाद् <<एकाचो द्वे प्रथमस्य 6|1|1 इति द्विर्वचनं भवति ।
उपधालोपः - जघ्नतुः, जघ्नुः । गमहनजनखनघसां लोपः क्ङित्यनङि6|4|98 इत्युपधालोपे कृते अनच्कत्वाद् द्विर्वचनं न स्यात्, अस्माद् वचनाद् भवति ।
णिलोपः - आटिटत् । अटतेः णिचि लुङि चङि णिलोपे कृते तस्य स्थानिवत्त्वाद् अजादेर्द्वितीयस्य 6|1|2 इति टिशब्दस्य द्विर्वचनम् भवति ।
यण् - चक्रतुः, चक्रुः । करोतेः अतुसि उसि च यणादेशे कृते अनच्कत्वाद् द्विर्वचनं न स्यात्, स्थानिवत्त्वाद् भवति ।
अयवायावादेशाः - निनय, निनाय ; लुलव, लुलाव । नयतेः लुनातेश्च उत्तमे णलि गुणे कृते वृद्धौ च अयवायावादेशाः, तेषां स्थानिवत्त्वान् ने नै लो लौ इति द्विर्वचनं भवति ।
द्विर्वचने कर्तव्ये इति किम् ? जग्ले, मम्ले । श्रवणम् आकारस्य न भवति । द्विर्वचननिमित्ते इति किम् ? दुद्यूषति । ऊठि यणादेशो न स्थानिवद् भवति । अचि इति किम् ? जेघ्रीयते, देध्मीयते । ई घ्राध्मोः 7|4|31 यङि च 7|4|30 इति ईकारादेशः, तस्य स्थानिवद्भावादाकारस्य द्विर्वचनं स्यात्, अज्ग्रहणान् न भवति ॥
पूर्वं कार्यातिदेशः कृतः, इदानीं तु रूपातिदेशार्थमिदमारभ्यते। अथ वानिमित्तात् पूर्वमित्येतस्मिन् पक्षेऽनन्तरसूत्रेण द्विर्वचनविधिं प्रति प्रतिषेधः प्राप्तः इत्यस्यारम्भो वेदितव्यः। `द्विर्वचनेऽचि` 1|1|58 इति समानाधिकरणे सप्तम्यौ। तत्राज् विशेष्यः, द्विर्वचनं विशेषणम्। विशेषणविशेष्यभावस्य च प्रयोजनं `दुद्यूषति` इति प्रत्युदाहरण दर्शयिष्यते। कथं पुनरज् द्विर्वचनशब्देनोच्यते? द्वर्वचननिमित्तत्वात्। अत एव वृत्तावाह-- `द्विर्वचननिमित्तेऽचि` इति। भवति हितन्निमित्तत्वात् ताच्छब्द्यम, यथा -- `आर्युर्घुतम्` इति। परसप्तमी चेयमपीति `यस्मिनन् विधिस्तदादावल्ग्रहणम्` (व्या।प।127) इति अजादाविति द्रष्टव्यम्। परस्मिन्निति च प्रकृत्वात् परस्मिन्नजादाविति गम्यते।अथ वा - द्वर्वचनस्य प्रत्ययविशेषनिमित्त्वाद् द्विर्वचनग्रहणेन प्रत्ययः सन्निधापितः, तेनाजादौ प्रत्यय इति प्रतीयते। यदि तह्र्रजादावजादेशः स्थानिवद्भवति, `पपौ` इति न सिध्यति, न ह्रजादावादेशः, किं तर्हि? अच्येव; इहापि व्यपदेशिवद्भावेना-जादित्वमस्तीत्यदोषः। इह तर्हि न सिध्यति-- `चक्रतुः` इति; अच्येव तु यणादेशो विधीयते, न त्वजादौ? नैष दोषः; यो ह्रत्राचि यणादेशो विधीयते सोऽजादावपि भवत्येव। यदि द्विर्वचननिमित्तेऽच्यजादेशः स्थानिवद्भवति सर्वस्यामवस्थायां द्विर्वचनादुत्तरकालमपि स्यादित्यत आह--`द्विर्वचन एव कत्र्तव्ये` इति। एवकारेण द्विर्वचन क्रिया-कालात् कालान्तरे स्थानिवद्भावस्याभावं दर्शयति। कथं पुनरेतल्लभ्यते, यावतैकंद्विर्वचनग्रहणम्, तेन चाज् विशेषितः? एवं मन्यते-- द्वितीयमपि द्विर्वचनग्रहणमन-न्तरसूत्रादिहानुवत्र्तते।अथ वा- द्विर्वचनञ्चेत्येकशेषं कृत्वा `द्विर्वचने` इति निर्देशः कृतः।तत्रैकेन द्विर्वचनग्रहणेन `द्वर्वचननिमित्तेऽचि` इत्थेषोऽर्थो लभ्यते। द्वितीयेन तु `द्विर्वचन एव कत्र्तव्ये` इति। इह द्विर्वचने कत्र्तव्ये स्थानिवद्भावोविधीयते इत द्विर्वचनकार्यार्थं एवैष प्रतीयते। साच्कस्य द्विर्वचनं विधीयमानमनच्क-स्य न प्राप्नोति युज्यते द्विर्वचनकार्यार्थत्वमस्य। `द्वर्वचनकार्यार्थत्वमस्य। `द्विर्वचनकार्यार्थे त्वस्मिन् --`चक्रतुः,चक्रुः` इत्यत्रास्यानच्कस्य द्विर्वचने कृते सतीष्टमभ्यासरूपं न सिध्यति` इतिव्यामोहाद् यो मन्यते, तं प्रत्याह--`रूपातिदेशश्चायम्` इति। `च` शब्दोऽवधारणे, रूपातिदेश एव, न कार्यातिदेश इत्यर्थः। कुतः पुनरेष निश्चयः-स `रूपातिधेशश्चायम्` इति? अज्ग्रहणात्। तस्य ह्रेतत् प्रयोजनम्-- `जेघ्रीयते देध्मीयते` इत्यत्र मा भूदिति। यदि चायं द्विर्वचनकार्यातिदेशः स्यान्न रूपातिदेशः; अज्ग्रहणमनर्थकं स्यात्। भवत्वत्र स्थानिवद्भावः, तथापि न कश्चि-द्विशेषः। तथा हि-- यद्यप्यत्र स्थानिवद्भावः, एवमपि द्विर्वचनकार्येण भवितव्यम्; अथापि न स्थानिवद्भावः, एवमपि भवितव्यम्--उभयत्रापि साच्कत्वात्, ततश्च कथमेतत् प्रत्युदाहरणम्? तदेतदज्ग्रहणं कथमर्थवद् भवति? यद्येष रुपादेशः ररूपेऽस्यातिदि-श्यमाने यद्यज्ग्रहणं न क्रियते तदिहापि रूपातिदेशे सति ध्रा इति, ध्मा इति च द्वि-र्वचनं स्यात्, तथाऽनिष्टमभ्यासरूपं प्रसज्येत। तस्मादज्ग्रहणाद् रूपातिदेशोऽय-मिति निश्चीयते। यद्येवम्, भेदनिबन्धनो वतिर्नं प्राप्नोति; स्थान्येव हि पुनरात्मीयं रूपं प्रापित इति कुतो भेदः? आतिदेशिकानामतिदेशिकत्वेन रूपभेदस्य विवक्षितत्वाददोषः।`द्विर्वचन एव कत्र्तव्ये` इति यदुक्तं तस्यार्थं विस्पष्टीकर्तुमाह--`नियतकालः` इति। कृते द्विर्वचने इत्यादिना तदेव नियकालत्वं दर्शयति।`जघ्नतुः` इति। `अभ्यासाच्च` 7|3|55 इति हकारस्य कुत्वम्।`आटिटत्` इति। अटतेर्हेतुमति णिच्; लुङ्, चङ, `चङि` 6|1|11 इति `अजादे-र्द्वितीयस्य` 6|1|2 इति द्विर्वचनम्। `आडजादीनाम्` 6|4|72 इत्याड् भवति। `निनय` इत्यादि। `णलुत्तमो वा` 7|1|91 इति यदा णित्त्वं नास्ति तदा गुणः, यदा णित्वं तदा वृद्धिः।`जग्ले,मग्ले` इति। `ग्लै हर्षक्षये` (धातुपाठः- 904), `म्लै गात्रविनामे` (धातुपाठः-904) `आदेश उपदेशेऽशिति` 6|1|44 इत्यात्त्वम्। भावे आत्मनेपदम्, `लिटस्तझयो-रेशिरेच्` 3|4|81 इत्येश्। `श्रवणमाकारस्य न भवति` इति। यदा कालावधिपरिग्रहार्थंद्विर्वचनग्रहणं न क्रियते, तदोत्तरकालमपि स्थानिरूपं प्रसज्येत, ततश्चाकारस्य श्रवणमेव स्यात्। आतो लोपस्य तु गोद इत्येवमाद्यवकाशः। श्रूयमाणे चाकारे परेण सह वृद्धिः स्यात्। `दुद्युषति` इति। दिवेः `सनीवन्तर्ध` 7|2|49 इत्यादिना यदा पक्ष इडागमो न क्रियते तदा `इको झल्` 1|2|9 `हलन्ताच्च` 1|2|10 इति कित्त्वम्, ततः `च्छ्वोः शूडनुनासिके च` 3|4|19 इत्यूठ्। स च द्विर्वचननिमित्तं न भवति। तत्र यदि द्विर्वचननिमित्तत्वेन नाज् विशेष्यते, ऊठि परतो यो यणादेशस्तस्यापि स्थानिवद्भावः स्यात्। एवं चाभ्यासरूपमिवर्णान्तं श्रूयेत। द्विर्वचननिमित्तच्परिग्रहे तु `द्यु` इत्यस्य द्विर्वचनं भवति। तत्र हलादिशेषह्यस्वत्वयोर्दुद्यूषतीत्यभ्यासरूपमुकारा-न्तं सिध्यति॥
"अचः परस्मिन्" इत्यत्र "योऽनादिष्टादचः पूर्वः" इति स्थितम् । साच्कस्य द्विर्वचनं न त्वचः पूर्वस्येत्यप्राप्तं स्थानिवत्वं विधीयते, रूपातिदेशार्थ च । अत्र षट् पक्षाः सम्भवन्ति । अचीत्यादेशोपलक्षणम्, द्विर्वचन इति विषयनिर्देशः, अचि योऽजादेशः स द्विर्वचने स्थानिवद्भवतीति प्रथमः पक्षः । अचीत्येतदपि स्थानिवद्भावेनैव सम्बध्यते, द्विर्वचन इति विषयनिर्देशाद्, द्विर्वचने कर्तव्येऽजादेशः स्थानिवद्भवत्यचि पर इति द्वितीयः । द्विर्वचननिमितत्वादजेव द्विर्वचनग्रहणेन विषेष्यते, द्विर्वचनमस्मिन्नस्तीत्यर्शाअद्यच्प्रत्ययान्तेन वा, अधिकरणसाधनेन वा, आदेशोपलक्षणम्, द्विर्वचननिमितेऽचि योऽजादेश- स स्थानिवदिति तृतीयः । एवं विशेषितं वाज्ग्रहणं स्थानिवद्भावस्य विशेषणम्, अजादेशः स्थानिवद्भवति द्विर्वचननिमितेऽचि परत इति चतुर्थः । द्विर्वचनग्रहणमा वर्तते, तत्रैकेनाज्विशेष्यते, परेण विषयी निर्दिश्यत इति स्थिते तद्विशेषितमज्ग्रहणं स्थानिवद्भावस्य विशेषतणम्, द्विर्वचने कर्तव्येऽजादेशः स्थानिवद्भवति द्विर्वचननिमितेऽचि परत इति पञ्चमः । एवमेव स्थितेऽज्ग्रहणमादेशोपलक्षणम्, द्विर्वचननिमितेऽचि योऽजादेशः स द्विर्वचने कर्तव्ये स्थानिवद्भवतीति षष्ठः । अत्राद्ये पक्षेऽचो द्विर्वचनेनाविशेषितत्वाद् द्विर्वचननिमितेऽप्यचि आदेशः स्यानिवत्स्यात्, ततश्चाचिकीर्तद् इत्यत्र णिचि "उपधायाश्च" इतीत्वस्य "चङ्" ईति द्विर्वचने स्थानिवद्भावादचकीर्तदिति स्यात् । दुद्यौउषति--ऊठि यणादेशः स्थानिवत्स्यात् । भवनमिच्छति, भवनीयतेः सन्, बिभवनीयिषति-ल्युटि कृतयोर्गुणावादेशायोः स्थानिवत्वे बुभवनीयिषतीत्यनिष्ट्ंअ रूपं प्राप्नोति । द्वितीये तु अचिकीर्तदित्यत्र न दोषः, इत्वस्य तकारेण व्यवहितत्वात् स्थानिवद्भावभाजो ह्यादेशस्य स्थानिवत्वविधानवेलायामच्यचनन्तरे स्थानिवत्वेन भवितव्यम् । एवं ह्यचि परतः स्थानिवद्भावः कृतो भवति । दुद्यौउषतीत्यादौ तु स्यादेव । ययावित्यत्र "आत औ णलः" इत्यौकारेण वृद्धौ कृतायां संप्रत्यादेशात्परोऽज्नास्तीति स्थानिवत्वं न स्यात् । जग्मतुरित्यादौ च "गमहन" इत्युपधालोपस्य व्यवहितत्वान्न स्यात् । तृतीये तु कालावधारणं कर्तव्यम्, अन्यथा द्विर्वचनादुतरकालमपि स्थानिरूपमेवावतिष्ठेत । चतुर्थे तु ययौ, जग्मतुरित्यादौ पूर्वोक्तन्यायेन स्थानिवद्भावो न प्राप्नोति, कालावधारणं च कर्तव्यम् । पञ्चमेऽपि ययौ, जग्मतुरित्यादौ न स्यात्, अत एतेषु पक्षेष्वेवं दोषसम्भवात् षष्ठ्ंअ पक्षमाश्रित्याह-द्विर्वचननिमितेःऽचीत्यादि । अत्र हि पक्षे द्विर्वचनेनाचो विशेषणादचिकीर्तत्, दुद्यौउषति, बिभवनीयिषतीत्यादौ न दोषः । आदेशोपलक्षणत्वाच्च ययावित्यादावपि न दोषः पुनश्च द्विर्वचनग्रहणात् कालावधारणमपि लभ्यते । ननु "द्विर्वचननिमितेऽचि योऽजादेशः" इत्युच्यमाने नुनावयिषति, चक्षावयिषति, पुस्फारयिषतीत्यादौ णेरद्विर्वचननिमितत्वातन्निमितावादेशः, आकारश्च न स्थानिवत्स्यात्; ततश्चाभ्यास उकारो न श्रूयेत, नैष दोषः;"पुयण्जि" इति ज्ञापकाद् द्वित्वनिमितेऽपि णौ स्थानिवत्वापायात् । तथा हि- न हि णौ कृतस्य स्थानिवद्भावमन्तरेण ओः पराः पुयण्ज्योऽवर्णपराः सम्भवन्ति; पिपविषति, यियविषति-इत्यत्र सम्भव इति चेत्, किमेतावता पुग्रहणं प्रत्याहारग्रहणं जग्रहणं चार्थवद्भवतीति ? ज्ञापकमुक्तार्थस्य यद्येवम्; अचिकीर्तदित्यत्रेत्वस्य स्थानिवत्वादचकीर्तदिति स्यात्, नैष दोषः; ज्ञापकस्य तुल्यजातीयापेक्षत्वात् यत्रोतरभागस्याद्योऽवर्णपरो भावस्तत्रैव स्थानिवत्वज्ञापनात् । नन्वेवमपि "ओः पुयण्" इत्यत्र णेरित्यश्रवणात्सामान्येन द्वित्वनिमितं स्थानित्वं विज्ञायेत, ततश्च विभवनीयिषतीत्यत्रापि स्यात्, न ह्यत्राजमात्रं द्विर्वचननिमितम्, क्व तर्हि स्यात् ? चकार, चक्रे इत्यादौ ह्यज्मात्रं प्रत्ययः । स्यादेतत्-परस्मिन्नित्यनुव-तमचीत्यनेन विशेष्यते, तत्र यस्मिन्विधिस्तदादावल्ग्रहणमिति तदादिविधिर्भवति । अजादौ परस्मिन्निति द्विर्वचननिमितत्वेनापि अजाद्येव विशेष्यत इति । एवमपि चक्रतुरित्यत्र स्यात्, यद् द्विर्वचननिमितमजादि न तदादेशस्य निमितम्; अच्येव यणो विधानात् । यच्चादेशस्य निमितं न तद् द्विर्वचनस्य निमितम्; पपतः चख्नतुरित्यादावेन तु स्यात् । किञ्च "यस्मिन्विधिः" इति वचनाद्यत्र किञ्चिद्विधीयते तत्रैव तदादिविधिः, इह तु अचि योऽजादेश इत्यनुवादत्वातदादिविधेरेवासम्भवस्तस्यमादजेव गृह्यते, न तदादिः, उच्यते; चक्रतुरित्यादावतुसोद्विर्वचनं प्रति निमितत्वेनाश्रयणेऽप्यचि परत्रावस्थिते द्विर्वचनं दृष्टमित्येतावताजेव द्विर्वचननिमितमित्युच्यते । समुदायेऽप्ययं द्विर्वचनशब्द उपचारेण प्रवर्तते । एवमपि पपतुरित्यत्र न स्यात्, आल्लोपस्याजादिनिमितं नाज्मात्रम्, नैष दोषः; "अचि योऽजादेशः" इति कोऽर्थः ? अचि यो दृष्ट इत्यर्थः । यश्चाचि विधीयते, यश्चाजादौ-द्वावपि अचि दृष्टावेवेति सर्वत्र सिध्यति । अथ वा-अजादावाल्लोपो न हलादौ, तत्र प्राप्ताप्राप्तविवेकेनाच एव मिमितत्वम् । द्विर्वचन एव कर्तव्य इति एवकारेणैतद्दर्शयति--द्विर्वचनग्रहणमचं विशिनष्टि,कालं चावधारयतीति । एकस्योभयसम्बन्धे हि भवति एवकारः-देवदतो ग्रामं गच्छतु स एव गामानयत्विति । यद्यत्रापि पूर्ववत्कार्यातिदेशः स्यात्; चक्रतुरित्यादावनच्कत्वादप्राप्तं द्विर्वचनं स्थानिवद्भावाद् भवदपि यणाद्यादेशयुक्तस्यैव स्यादित्यभयासे स्थानिरूपं न श्रूयेत, तदर्थमाह-रूपातिदेशश्चायमिति । "च" शब्दोऽवधारणे । कथं पुनरवगम्यते रूपातिदेशोऽयमिति ? अज्ग्रहणात् । तद्धिजेघ्रीयत इत्यत्र "ई घ्राध्मोः" इति हलादौ विहितस्येत्वस्य स्थानिवत्वं मा भूदित्येवमर्थं क्रियते । यदि च रूपं स्थानिवत्, ततोऽसत्यज्ग्रहणे घ्राय्घ्रीय्ध्माय्ध्मीय् इति द्विर्वचनं स्यादिति तन्नवृतयेऽजग्रहणमर्थवद् भवति । अथ हि--कार्यं स्थानिवद् भवति, तस्य सत्यपि स्थानिवत्वे ईकारयुक्तस्यैव द्विर्वचनमिति नार्थोऽज्ग्रहणेन । भसेस्तु क्वसौ "घसिभसोर्हलि" इत्युपधालोपे कृते सत्यसति वा द्विर्वचनेभ्स्वानिति श्रुतौ विशेषाभावः । छान्दसच क्वसुः, च्छन्दसिदृष्टानुविधानमतो ज्ञापकमेवाज्ग्रहणम् । तत्र यद्यपि स्थान्येव स्वरूपमापद्यते, तथाप्यातिदेशिकानातिदेशिकरूपभेदाश्रयस्तु वतिर्द्विर्वचन एव कर्तव्य इत्येतदेव स्पष्टयति । नियतकाल इति । कृते द्विर्वचने इत्यादिना नियतकालत्वमेव दर्शयति । यदि कृते द्विर्वचने पुनरादेशरूपमेवावतिष्ठते, यथा--चक्रतुरित्यादौ द्विर्वचनादूर्ध्वं पूर्वं कृतो यणादेश एव श्रूयते तथा निन्यतुरित्यादावपि द्विर्वचनात्पूर्वमेकाच्त्वादि, यङदेशे कृते स्थानिवद्भावाद् द्विर्वचनेऽपि पूर्वप्रवृत इयणेóव स्यात् । अस्तुः तस्य "असिद्धवदत्राभात्" इत्यसिद्धत्वाद् "एरनेकाचः" इति यणि सति श्रवणं न भविष्यति । यद्वा-पूर्वप्रवृतोऽपीयङ् द्विर्वचनकालेऽपहृत इति पुनः प्रवर्तयितव्यः, तस्यां च दशायाम नेकाच्त्वाद्यणा बाध्यते । यद्येवम्, इयेष उवोषेति इषेरुषेश्च लिटि तिपि णलि प्रवृत्त्स्यापि गुणस्य द्विर्वचनकालेऽपहृतत्वात्कृते द्विर्वचने पुनः प्रवृत्तिः, ततश्चानादिष्टादचः पूर्वत्वेनाभ्यासो दृष्ट इति तस्याभ्यासस्य उवङ् किर्तव्ये गुणस्य स्थानिवद्भावादसवर्णं इति प्रतिषेधः स्यात् । असवर्णग्रहणसामर्थ्यात्स्थानिवत्वं न भविष्यति । अस्त विचनस्यावकाशः-इयर्ति, इयृतः । ह्यएकमुदाहरणमसवर्णेग्रहणं प्रयोजयति । यद्येतावत्प्रयोजनं स्यात्, अर्तावित्येव ब्रूयात् । कि तर्ह्युच्यते--द्विर्वचने पुनरादेशरूपमेवावतिष्ठत इति, अत्र हि "पुनः" शब्दाद्, "अवतिष्ठते" इति वचनाच्च पूर्वकृतस्यैवादेशस्योन्मज्जनमेवोक्तं प्रतीयत इति ? नायमर्थः; अपि तु कृते द्विर्वचने स्थानिरूपं नावतिष्ठते यत्प्राप्तं तद्भवतीत्येवंपरमेतत् । अल्लोपेत्यादि । उपलक्षणमेतत् । ततुरिः, पपुरिरित्यदौ "आञ्त ईद्धातोः" "उदोष्ठ।ल्पूर्वस्य" "बहुलं च्छन्दसि" इति इत्वोत्वयरपि स्थानिवत्वं भवति । आटिटदिति । अटतेर्ण्यन्ताल्लुङ् चिङ् "इजादेर्द्वितीयस्य" इति टिशब्दस्य द्विर्वचनम्, "आडजादीनाम्" । निनायेत्यादि । "णलुतमो वा" इति यदा णित्वं नास्ति तदा गुणः, णित्वपक्षे वृद्धिः । नेनैलोलाइति द्विर्वचनमिति । गृणवृद्ध्योस्तु स्थानिवद्भावे विशेषाभावान्नोक्तः । जग्ले, मम्ल इति । भावे लिट्, अनैमितिकमात्वम्, शिति तु प्रतिषेध इत्यात्वस्य स्थानिवत्वं न भवति । श्रवणमित्यादि । यदि कालो नावधार्येत, तदोतरकालमपि स्थानिरूपं प्रसज्येत, ततश्चाकारस्य श्रवणे सति परेण सह "वृद्धिरेचि" इति वृद्धिः स्यात् । इहाधिजगे इति "गाङ्लिटि" इति द्विलकारनिर्देशेन लकारादौ लिटि गाङदेशविधानादज्निमितत्वाभावात् स्थानिवत्वाभावः ॥
सिद्धान्तकौमुदी
द्वित्वनिमित्तेऽचिपरे अच आदेशो न स्याद्द्वित्वे कर्तव्ये ॥
द्विर्वचनेऽचि। द्विरुच्यते येन परनिमित्तेन तद्द्वर्वचनं। द्वित्वनिमित्तमिति यावत्। अचीत्यस्य विशेषणमिदम्। `अचः परस्मिन्नित्यतोऽच इति, `स्थानिवदादेश` इत्यत आदेश इति, न पदान्तेत्यतो नेति चानुवर्तते। द्विर्वचन इत्यावर्तते। एवं च `द्वित्वे कर्तव्ये सती` त्यपि लभ्यते। तदाह--द्वित्वनिमित्तेऽचीत्यादिना। `द्वित्वे कर्तव्ये सती`त्युक्तेः कृते द्वित्वे `चक्रे` इत्यादौ यणादयो भवन्ति। अन्यता तु न स्युः, द्वित्वनिमित्तस्य अचः सत्त्वात्। द्वित्वनिमित्त इति किम् ?। दुद्यूषति। दिव्धातोः सनि द्वित्वात्परत्वादूठि कृते द्वित्वात्प्राग्यण् भवत्येव। तथा च `द्यू` इत्यस्य द्वित्वे दुद्यूषतीति सिध्यति। द्वित्वे कर्तव्ये यणो निषेधे तु दिद्यूषतीत्यभ्यासे इकार एव श्रूयेत। न तूकारः। `द्वित्वनिमित्ते` इत्युक्तौ तूठि परे द्वित्वात्प्राग्यण्यो न निषेधः, ऊठो द्वित्वनिमित्तत्वाऽभावात्। अचीति किम् ? । जेघ्रीयते। अत्र घ्राधातोर्यङि द्वित्वात्प्राक `ई घ्राध्मो`रितीकारादेशो न निषिध्यते। ईत्वस्य द्वित्वनिमित्त यङ्?निमित्तकत्वेऽपि द्वित्वनिमित्ताऽज्निमित्तकत्वाऽभावात्। अचः किम् ?। असूषुपत्। इह स्वापेश्चङि द्वित्वात्प्राक् `स्वापेश्चङी`तिवकारस्य सम्प्रसारणं न निषिध्यते, तस्याऽजादेशत्वाऽभावात्। ततश्च कृते सम्रसारणे सुप् इत्यस्य द्वित्वेऽब्यासे उकारस्य श्रवणं संभवति। संप्रसारणे निषिद्दे तु `स्वप्` इत्यस्य द्वित्वेऽभ्यासे उकारो न श्रूयेत। एवं च प्रकृते यणादेशात्प्राग् `लिटि धातो`रिति द्वित्वे कृ कृ ए इति स्थिते--।
अचा सामानाधिकरण्यलाभाय द्विर्वचनशब्दस्य तन्निमित्ते लक्षणा स्वीक्रियते। यद्वा-- उच्यत इति वचनं, द्विः-- वचनं यस्मिन्नचि तद्द्विर्वचनम्। अथवा द्विर्वचनमस्मिन्नस्तीत्यर्शाअद्यच्। तदेतदाह-- द्वित्वनिमित्तेऽचीति। इह `अचः परस्मि`न्नित्यतोऽच इति, `स्थानिवदादेशः` इत्यस्मादादेश इति, `न पदान्ते`त्यतो नेति चानुवर्तते। तदाह-- अच आदेशो न स्यादिति। यद्यपीहि वृत्त्यादौ-- `अजादेशः स्थानिवत्स्या`दिति रूपातिदेशपक्षः स्वीकृतः फलं चोभयत्र तुल्यं, तथाप्यादेशनिषेधपक्षोऽपि भाष्यारूढ इति स एवात्र स्वीकृतः। किं च आदेशमङ्गीकृत्य पुनः स्थानिरूपाश्रयणापेक्षया निषेधपरतया व्याख्यानमेव लघु। `प्रक्षालनाद्धिपङ्कस्य दूरादस्पर्शनं वर`मिति न्यायात्। `न पदान्ते`ति निषेधानन्तरं पाठोऽप्येवं सत्यनुगृहीत इति श्रेयानयं पक्षः।
लघुसिद्धान्तकौमुदी
द्वित्वनिमित्तेऽचि अच आदेशो न द्वित्वे कर्तव्ये। गोपायाञ्चक्रतुः॥
महाभाष्यम्
द्विर्वचनेऽचि ।। आदेशे स्थानिवदनुदेशात् तद्वतो द्विर्वचनम्। ।। आदेशे स्थानिवदनुदेशात् तद्वतः। किंवतः। आदेशवतो द्विर्वचनं प्राप्नोति। तत्र को दोषः ? ।। तत्राभ्यासरूपम्।। तत्राभ्यासरूपं न सिध्यति। चक्रतुः चकुः इति। ।। अजग्रहणं ज्ञापकं रूपभावस्यस्थानिवद्भवतीति ।। यदयमजग्रहणं करोति तज् ज्ञापत्याचार्यः ‐ रूपं स्थानिवद्भवतीति । कथं कृत्वा ज्ञापकम्? अज्ग्रहणस्यैतत् प्रयोजनम् ‐ - इह मा भूत् जेघ्रीयते, देध्मीयते। यदि च रूपं स्थानिवद् भवति, ततोऽज्ग्रहणमर्थवद् भवति। अथ हि कार्यं नार्थोऽज्ग्रहणेन। भवत्येवात्र द्विर्वचनम्। ।। तत्र गाङ्प्रतिषेधः।। तत्र गाङः प्रतिषेधो वक्तव्यः। अधिजगे। इवर्णाभ्यासता प्राप्नोति। न वक्तव्यः। गाङ् ल्लिटि इति द्विलकारको निर्देशः। लिटि लकारादाविति। ।। कृत्येजन्तदिवादिनामधातुष्वभ्यासरूपम्।। कृत्येजन्तदिवादिनामधातुष्वभ्यासरूपं न सिध्यति। कृति- अचिकीर्तत्। एजन्त- जग्ले ल्मे। दिवादि- दुद्यूषति सूस्यूषति- दिवादि। नामधातु- भवनमिच्छति भवनीयति। भवनीयतेः सन् बिभनीयिषते। एवं तर्हि प्रत्यय इति वक्ष्यामि। ।। प्रत्यय इति चेत् कॄत्येजन्तनामधातुष्वभ्यासरूपम्। ।। प्रत्यय इति चेत् कॄत्येजन्तनामधातुष्वभ्यासरूपं न सिध्यति। दिवादय एके परिह्रताः। एवं तर्हि द्विर्वचननिमित्ते अचि अजादेशः स्थानिवदिति वक्ष्यामि। स तर्हि निमित्तशब्द उपादेयः। नह्यन्तरेण निमित्तशब्दं निमित्तार्थो गम्यते। अन्तरेणापि निमित्तशब्दं निमित्तार्थो गम्यते। तद्यथा ‐ दधित्रपुसं प्रत्यक्षो ज्वरः। ज्वरनिमित्तमिति गम्यते। नड्वलोदकं पादरोगः। पादरोगनिमित्तमिति गम्यते। आयुः धृतम् आयुषो निमित्तमिति गम्यते। अथवा ‐ अकारो मत्वर्थीयः। द्विर्वचनमस्मिन् अस्ति सोऽयं द्विर्वचनः, द्विर्वचने-इति। एवमपि न ज्ञायते ‐ कियन्तमसौ कालं स्थानिवद्भवतीति। यः पुनराह द्विर्वचने कर्तव्ये इति, कृते तस्य द्विर्वचने स्थानिवन्न भविष्यति। एवं तर्हि प्रतिषेधः प्रकृतः सोऽनुवर्तिष्यते। क्व प्रकृतः? न पदान्तद्विर्वचनेति। द्विर्वचननिमित्ते अचि अजादेशो न भवतीति। एवमपि न ज्ञायते ‐ - कियन्तमसौ कालमजादेशो न भवतीति। यः पुनराह द्विर्वचने कर्तव्ये इति। कृते तस्य द्विर्वचने अजादेशो भविष्यति। एवं तर्हि उभयमनेन क्रियते। प्रत्ययश्च विशेष्यते द्विर्वचनं च। कथं पुनरेकेन यत्नेनोभयं लभ्यम्? लभ्यमित्याह। कथम् ? एकशेषनिर्देशात्। एकशेषनिर्देशोऽयम्। द्विर्वचनं च द्विर्वचनश्च द्विर्वचने। द्विर्वचने कर्तव्ये द्विर्वचने अचि प्रत्यये इति। ।। द्विर्वचननिमित्तेऽचि स्थानिवदिति चेण्णौ स्थानिवद्वचनम्। ।। द्विर्वचननिमित्तेऽचि स्थानिवदिति चेण्णौ स्थानिवद्भावो वक्तव्यः। अवनुनावयिषति अवचुक्षावयिषति। न वक्तव्यः। ।। ओः पुयण्जिषु वचनं ज्ञापकं णौ स्थानिवद्भावस्य।। यदयमोः पुयण्ज्यपरे इत्याह तज्ज्ञापयत्याचार्यो भवति णौ स्थानिवत्- इति। यद्येत्तज् ज्ञाप्यते ‐ अचिकीर्तत् अत्रापि प्राप्नोति। तुल्यजातीयस्य ज्ञापकम्। कश्च तुल्यजातीयः? यथाजातीयकाः पुयण्जयः। कथं जातीयकाश्चैते ? अवर्णपराः। कथं जग्ले ल्मे ? अनैमित्तिकमात्वं, शिति तु प्रतिषेधः। कानि पुनरस्य योगस्य प्रयोजनानि ? पपतुः, पपुः। तस्थतुः, तस्थुः। जग्मतुः, जग्मुः। आटिटत्। आशिशत्। चक्रतुः, चक्रुरिति। आल्लोपोपधालोपणिलोपयणादेशेषु कृतेष्वनच्कत्वाद् द्विर्वचनं न प्राप्नोति। स्थानिवद्भावाद् भवति। नैतानि सन्ति प्रयोजनानि। पूर्वविप्रतिषेधेनाप्येतानि सिद्धानि। कथम् ? वक्ष्यति ह्याचार्यः- द्विर्वचनं यणयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्वेभ्यः इति। स पूर्वप्रतिषेधो न पठितव्यो भवति। किं पुनरत्र ज्यायः ? स्थानिवद्भाव एव ज्यायान्। पूर्वप्रतिषेधे हीदं वक्तव्यं स्यात् ओदौदादेशस्य उद् भवति चुटुतुशरादेरभ्यासस्येति। ननु च त्वयापीत्त्वं न वक्तव्यम्। परार्थं मम भविष्यति सन्यत इद् भवतीति। ममापि तर्हि उत्त्वं परार्थे भविष्यति। उत्परस्यातस्ति चेत्। इत्वमपि त्वया वक्तव्यम्। यत् समानाश्रयम्। उत्पिपविषते संयियविषतीत्येवमर्थम्। तस्मात् स्थानिवदित्येष एव पक्षो ज्यायान्।।59।। इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाषये प्रथमस्याध्यायस्य प्रथमे पादेऽष्टमाह्निकम्।