॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|58
SK 51
1|1|58
न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु   🔊
SK 51
सूत्रच्छेद:
न - अव्ययम् , पदान्त-द्विर्वचन-वरे-यलोप-स्वर-सवर्ण-अनुस्वार-दीर्घ-जश्-चर्-विधिषु - सप्तमीबहुवचनम्
अनुवृत्ति:
अचः  [1|1|57] - षष्ठ्येकवचनम् , परस्मिन्  [1|1|57] - सप्तम्येकवचनम् , स्थानिवत्  [1|1|56] - अव्ययम् , आदेशः  [1|1|56] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
परस्मिन् पदान्त-द्विर्वचन-वरे-यलोप-स्वर-सवर्ण-अनुस्वार-दीर्घ-जश्-चर्-विधिषु अच: आदेश: स्थानिवद् न
सूत्रार्थ:
परनिमित्तकः अजादेशः पदान्त-द्विर्वचन-वरे-यलोप-स्वर-सवर्ण-अनुस्वार-दीर्घ-जश्-चर्-विधिषु स्थानिवद् न भवति ।
स्थानिवदादेशोऽनल्विधौ 1|1|56 इत्यनेन अल्-आश्रितं गुणधर्मं वर्जयित्वा अन्येषां विषये आदेशः स्थानिवत् भवति । तथा, अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यनेन परनिमित्तकः अजादेशः पूर्वविधौ कर्तव्ये अल्-आश्रितस्य गुणधर्मस्य विषये अपि स्थानिवत् भवति । अस्यापि अपवादत्वेन वर्तमानसूत्रम् विधीयते । यदि सः पूर्वविधिः "पदान्त, द्विर्वचन, वरे, यलोप, स्वर, सवर्ण, अनुस्वार, दीर्घ, जश्, चर्" एतेषु कश्चन अस्ति, तर्हि अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यनेन अल्-आश्रितस्य गुणधर्मस्य विषये निर्दिष्टः स्थानिवद्भावः निषिध्यते - इति अस्य सूत्रस्य आशयः । क्रमेण पश्यामः -

1. पदान्त-विधिः
अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यस्य प्रयोगे विहितः "पूर्वविधिः" यदि पदान्तविधिः अस्ति, तर्हि अल्-आश्रितस्य गुणधर्मस्य विषये स्थानिवद्भावः न विधीयते । यथा, "फलानि सन्ति" इत्यत्र "फलानि + अस् + झि" इति स्थिते श्नसोरल्लोपः 6|4|111 इत्यनेन अस्-इत्यस्य अकारस्य लोपः विधीयते । अस्य लुप्त-अकारस्य अल्-आश्रितः गुणधर्मः (अच्-प्रत्याहार-समावेशत्वम्) स्थानिवद्भावेन आदेशे अपि आगन्तुम् अर्हति, यतः अत्र अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यस्य प्रसक्तिः अस्ति -
अ) लोपः अच्-वर्णस्य स्थाने भवति, अतः आदेशः अजादेशः अस्ति ।
आ) अपित्-सार्वधातुके प्रत्यये परे अयम् लोपः विधीयते, अतः परनिमित्तम् अपि अस्ति ।
इ) स्थानिवद्भावे कर्तव्ये अकारस्य अच्-त्वात् "फलानि + अ" इत्यत्र इकारस्य यणादेशः भवितुम् अर्हति । अयम् पूर्वविधिः अस्ति ।
अतः अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यनेन अत्र अकारस्य अच्त्वम् स्थानिवद्भभावेन आदेशे अपि आगन्तुम् अर्हति । परन्तु "फलानि" इत्यस्य इकारः पदान्ते अस्ति, अतः अस्य इकारस्य यणादेशः पदान्तविधिः अस्ति । अस्यां स्थितौ वर्तमानसूत्रेण अत्र अकारस्य स्थानिवद्भावः निषिध्यते । अतएव "फलानि + सन्ति" इत्यत्र इकारस्य यणादेशः न जायते ।

2. द्विर्वचन-विधिः - द्विर्वचनम् इत्युक्ते द्वित्वम् । अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यस्य प्रयोगे विहितः "पूर्वविधिः" यदि द्वित्वविधिः अस्ति, तर्हि अल्-आश्रितस्य गुणधर्मस्य विषये स्थानिवद्भावः न विधीयते । यथा, मधु + अरि इत्यत्र -
मधु + अरि
→ मध् व् + अरि [इको यणचि 6|1|77 इति यणादेशः]
→ मध् ध् व् + अरि [अनचि च 8|4|47 इति द्वित्वम्]
→ मद्ध्वरि [झलां जश् झशि 8|4|55 इति जश्त्वम्]
अत्र यणादेशेन उकारस्य वकारे कृते उकारस्य "अच्त्वम्" अयम् एकाल्-गुणधर्मः अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यनेन वकारे अपि आगन्तुम् अर्हति -
अ) अत्र उकारस्य आदेशः विहितः अस्ति अतः अयम् अजादेशः अस्ति ।
आ) अस्य निमित्तम् अग्रे विद्यमानः अकारः अस्ति अतः अयम् परनिमित्तकः अपि अस्ति ।
इ) स्थानिवद्भावेन उकारस्य गुणधर्मः वकारे स्वीक्रियते चेत् द्वित्वस्य निषेधः विधीयते यतः अनचि च 8|4|47 इत्यस्य प्रसक्तिः न भवति । अतः अयम् "पूर्वविधिः" अपि अस्ति ।
अतः अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यनेन अत्र उकारस्य अच्त्वम् स्थानिवद्भभावेन आदेशे (वकारे) अपि आगन्तुम् अर्हति । परन्तु "अत्र निर्दिष्टः पूर्वविधिः द्वित्वविषयकः अस्ति, अतः अत्र स्थानिवद्भावः निषिध्यते । अतएव "मधु + अरि" इत्यत्र द्वित्वनिषेधः न भवति ।

3. वरे-विधिः - "वरे"विधिः इत्युक्ते वरच्-प्रत्ययसम्बन्धी विधिः । "वरच्" इति कश्चन कृत्-प्रत्ययः । स्थेशभासपिसकसो वरच् 3|2|175 तथा यश्च यङः 3|2|176 एताभ्याम् सूत्राभ्याम् वरच्-प्रत्ययः दीयते । अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यस्य प्रयोगे विहितः "पूर्वविधिः" यदि अस्य प्रत्ययस्य सम्बन्धी विधिः अस्ति, तर्हि तर्हि अल्-आश्रितस्य गुणधर्मस्य विषये स्थानिवद्भावः न विधीयते ।

4. यलोप-विधिः - अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यस्य प्रयोगे विहितः "पूर्वविधिः" यदि यकारलोपः अस्ति, तर्हि अल्-आश्रितस्य गुणधर्मस्य विषये स्थानिवद्भावः न विधीयते । यथा, "कण्डूय" अस्मात् धातोः "स्त्रियां क्तिन्" इत्यनेन क्तिन्-प्रत्यये कृते "कण्डूय + क्तिन्" इत्यत्र अतो लोपः 6|4|48 इत्यनेन यकारात् परस्य अकारस्य लोपः जायते । अयम् अकारलोपः अजादेशः अस्ति, परनिमित्तकः अस्ति, तथा अत्र "अच्-गुणधर्मस्य" स्थानिवद्भावे कृते यकारस्य लोपो व्योर्वलि 6|1|66 इत्यनेन वलि-परे विहितः लोपः निषिध्यते । अतः अत्र अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यनेन अल्-गुणधर्मस्य स्थानिवद्भावः भवितुम् अर्हति । परन्तु अयम् पूर्वविधिः यकारलोपसम्बन्धी अस्ति, अतः अत्र वर्तमानसूत्रेण स्थानिवद्भावस्य निषेधः जायते । अतः "कण्डूय् + ति" इत्यत्र लोपो व्योर्वलि 6|1|66 इति यकारलोपे कृते "कण्डूति" इति रूपम् सिद्ध्यति ।

5. स्वर-विधिः - अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यस्य प्रयोगे विहितः "पूर्वविधिः" यदि स्वरविधिः अस्ति, तर्हि अल्-आश्रितस्य गुणधर्मस्य विषये स्थानिवद्भावः न विधीयते । यथा, "चिकीर्ष" धातोः ण्वुल्-प्रत्यये कृते युवोरनाकौ 7|1|1 इत्यनेन वु-इत्यस्य अक-आदेशे कृते, "चिकीर्ष + अक" अस्याम् स्थितौ अतो लोपः 6|4|48 इत्यनेन षकारात् परस्य अकारस्य लोपः भवति, अतः "चिकीर्ष् + अक" इति अवशिष्यते । अत्र लिति 6|1|193 अनेन सूत्रेण अङ्गस्य अन्तिमस्वरः उदात्तसंज्ञकः भवति । "चिकीर्ष्" इत्यत्र अयम् अन्तिमस्वरः ककारात्-परः ईकारः अस्ति । परन्तु, अत्र लुप्त-अकारस्य "अच्-गुणधर्मः" स्थानिवद्भावेन आदेशे अपि भवितुम् अर्हति, यतः अत्र -
अ) अकारस्य लोपः कृतः अस्ति, अतः अजादेशः अस्ति ।
आ) अयं लोपः आर्धधातुके प्रत्यये परे कृतः अस्ति, अतः अत्र परनिमित्तम् अस्ति ।
इ) स्थानिवद्भावे कृते "की" इत्यस्य उदात्तत्वं निषिध्यते, अतः अत्र पूर्वविधिः अपि अस्ति ।
अतः अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यनेन अत्र लुप्त-अकारस्य अच्-गुणधर्मः आदेशे अपि भवितुम् अर्हति । परन्तु तथा न भवति, यतः वर्तमानसूत्रेण "स्वरविधेः" विषये स्थानिवद्भावस्य निषेधः क्रियते अतः अत्र "की" इत्यस्य ईकारः एव उदात्तसंज्ञकः भवति ।

6. सवर्ण-विधिः - अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यस्य प्रयोगे विहितः "पूर्वविधिः" यदि सवर्णविधिः अस्ति, तर्हि अल्-आश्रितस्य गुणधर्मस्य विषये स्थानिवद्भावः न विधीयते ।

7. अनुस्वार-विधिः - अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यस्य प्रयोगे विहितः "पूर्वविधिः" यदि अनुस्वारविधिः अस्ति, तर्हि अल्-आश्रितस्य गुणधर्मस्य विषये स्थानिवद्भावः न विधीयते ।

8. दीर्घ-विधिः - अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यस्य प्रयोगे विहितः "पूर्वविधिः" यदि दीर्घविधिः अस्ति, तर्हि अल्-आश्रितस्य गुणधर्मस्य विषये स्थानिवद्भावः न विधीयते ।

9. जश्-विधिः - अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यस्य प्रयोगे विहितः "पूर्वविधिः" यदि जश्त्वविधिः अस्ति, तर्हि अल्-आश्रितस्य गुणधर्मस्य विषये स्थानिवद्भावः न विधीयते ।

10. चर्-विधिः - अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यस्य प्रयोगे विहितः "पूर्वविधिः" यदि चर्त्वविधिः अस्ति, तर्हि अल्-आश्रितस्य गुणधर्मस्य विषये स्थानिवद्भावः न विधीयते ।
One-line meaning in English
The स्थानिवद्भाव that is brought in by the sutra अच: परस्मिन् पूर्वविधौ 1|1|57 is prohibited if the "पूर्वविधि" used while applying that sutra is one of these ten - पदान्त, द्वित्व, वरच्, यकारलोप, स्वर, सवर्ण, अनुस्वार, दीर्घ, जश् or चर्.
काशिकावृत्तिः
पूर्वेण अतिप्रसक्तः स्थानिवद्भाव एतेषु विधिषु प्रतिषिध्यते ।
पदान्तविधिः - पदान्तविधिं प्रत्यजादेशो न स्थानिवद् भवति - कौ स्तः, यौ स्तः ; तानि सन्ति, यानि सन्ति । श्नसोरल्लोपः क्ङिति सार्वधातुके इति परनिमित्तकः, स पूर्वविधौ आवादेशे यणादेशे च कर्तव्ये स्थानिवत् स्यात्, अस्माद् वचनान्न भवति ।
द्विर्वचनविधिः - द्विर्वचनविधिं प्रति अजादेशो न स्थानिवद् भवति - दद्ध्यत्र, मद्ध्वत्र । यणादेशः परनिमित्तकः, तस्य स्थानिवद्भावाद् अनचि च 8|4|47 इति धकारस्य द्विर्वचनं न स्याद्, अस्माद् वचनाद् भवति ।
वरेविधिः - वरे योऽजादेशः स पूर्वविधिं प्रति न स्थानिवद् भवति -अप्सु यायावरः प्रवपेत पिण्डान् । यातेः यङन्तात् यश्च यङः 3|2|176 इति वरचि कृते अतो लोपः 6|4|48 परनिमित्तकः, तस्य स्थानिवत्त्वाद् अतो लोप इटि च 6|4|64 इत्याकारलोपः स्याद्, अस्माद् वचनान् न भवति ।
यलोपविधिः - यलोपविधिं प्रत्यजादेशो न स्थानिवद् भवति - कण्डूतिः । कण्डूयतेः क्तिचि कृते, अतो लोपः परनिमित्तकः, लोपो व्योर्वलि 6|1|66 इति यलोपे स्थानिवत् स्याद् , अस्माद् वचनान् न भवति ।
स्वरविधिः - स्वरविधिं प्रति अजादेशो न स्थानिवद् भवति - चिकीर्षकः, जिहीर्षकः । ण्वुलि कृते अतो लोपः परनिमित्तकः, लिति 6|1|193 प्रत्ययात् पूर्वम् उदात्तम् - इति स्वरे कर्तव्ये न स्थानिवद् भवति ।
सवर्णविधिः - सवर्णविधिं प्रति अजादेशो न स्थानिवद् भवति - शिण्ढि, पिण्ढि । शिषेः पिषेश्च लोण्मध्यमपुरुषैकवचने रुधादिभ्यः श्नम् 3|1|78, हित्व-धित्व-ष्टुत्व-जश्त्वेषु कृतेषु, श्नसोरल्लोपः 6|4|111 क्ङिति सार्वधातुके परनिमित्तकः, अनुस्वारस्य ययि परसवर्णे कर्तव्ये न स्थानिवद् भवति ।
अनुस्वारविधिः - अनुस्वारविधिं प्रति अजादेशो न स्थानिवद् भवति - शिंषन्ति, पिंषन्ति । नश्चापदान्तस्य झलि 8|3|24 इति अनुस्वारे कर्तव्ये श्नसोरल्लोपः न स्थानिवद् भवति ।
दीर्घविधिः - दीर्घविधिं प्रति अजादेशो न स्थानिवद् भवति - प्रतिदीव्ना, प्रतिदीव्ने । प्रतिदिवन् इत्येतस्य भस्य 6|4|129 इत्यधिकृत्य तृतीयैकवचने चतुर्थ्येकवचने च अल्लोपोऽनः 6|4|134 इत्यकारलोपः परनिमित्तकः, तस्य स्थानिवद्भावाद् हलि च 8|2|77 इति दीर्घत्वं न स्यात्, न ह्ययं वकारो हल्परः इति, अस्माद् वचनाद् भवति ।
जश्विधिः - जश्विधिं प्रत्यजादेशो न स्थानिवद् भवति - सग्धिश्च मे सपीतिश्च मे ; बब्धां ते हरी धानाः । अदेः क्तिनि बहुलं छन्दसि 2|4|39 इति घस्लादेशः, घसिभसोर्हलि च 6|4|100 इत्युपधालोपः, झलो झलि 8|2|26 इति सकारलोपः, झषस्तथोर्धोऽधः 8|2|40 इति धत्वम् । उपधालोपस्य स्थानिवत्त्वात् झलां जश् झशि 8|4|53 इति घकारस्य जश्त्वं न स्यात्, अस्माद् वचनाद् भवति । समाना ग्धिः - समानस्य सभावः, सग्धिः । "बब्धाम्" इति - भसेर्लोड्द्विवचने शपः स्लुः, द्विर्वचनम्, अभ्यासकार्यम्, घसिभसोर्हलि च
6|4|100 इति उपधालोपः, झलो झलि 8|2|26 इति सकारलोपः, झषस्तथोर्धोऽधः 8|2|40 इति धत्वम् । उपधालोपस्य स्थानिवत्त्वात् झलाम् जश् झशि 8|4|53 इति धकारस्य जश्त्वं न स्यात्, अस्माद् वचनाद् भवति ।
चर्विधिः - चर्विधिं प्रति अजादेशो न स्थानिवद् भवति - जक्षतुः, जक्षुः । अक्षन् पितरोऽमीमदन्त पितरः । लिड्द्विवचनबहुवचनयोरदेर्घस्लाऽदेशः , गमहनजनखनघसां लोपः क्ङित्यनङि 6|4|98 इति उपधालोपः, द्विर्वचनम्, अभ्यासकार्यम् । तत्र उपधालोपस्य स्थानिवत्त्वात् खरि च 8|4|55 इति घकारस्य चर्त्वं न स्याद्, अस्माद् वचनाद् भवति । शासिवसिघसीनां च 8|3|60 इति षत्वम् । "अक्षन्" इति - अदेः लुङ् बहुवचने घस्लादेशः, च्लेरागतस्य मन्त्रे घसह्वर... 2|4|80 इति लुक् । गमहनजनखनघसां लोपः क्ङित्यनङि6|4|98 इत्युपधालोपः, तस्य स्थानिवत्त्वात् खरि च 8|4|55 इति चर्त्वं न स्यात्, अस्माद् वचनाद् भवति ।
स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद् भवति, अन्यत्र तु स्थानिवदेव - तेन बहुखट्वकः, किर्योः, गिर्योः, वाय्वोः इति स्थानिवत्त्वात् स्वरदीर्घयलोपा न भवन्ति ॥
अत्रापि विधिशब्दो भावसाधनः कर्मसाधनश्च। स च प्रत्येकमभिसम्बध्यते। तत्र यथायोगं क्वचित् भावसाधन आश्रीयते, क्वचित् कर्मसाधनः। तत्र द्विर्वचनविधौ भावसाधनः, तत्र हि तदेव विधातव्यम्, न हि तस्यावस्थितस्य किञ्चित् कार्यम्। अन्यत्र तु कर्मसाधनः। तत्र हि व्यवस्थितस्य पदान्तादेः कार्यान्तरविधानात्।`कौ स्तः, यौ स्तः` इति। अस्तेर्लट्, तस्, अदादित्वाच्छपो लुक्, पूर्वविधा-वावादेशे यणादेशे च कत्र्तव्ये स्थानिवत् स्यादिति। कथं पुनः स्थानिवत् स्यात्,यावता पदसंस्कारायैव प्रयुक्तत्वाद् व्याकरणस्य? `स्तः` इत्यादिकं पदं पदान्तरनिर-पेक्षमेव संस्क्रियते, अनादिष्टादचो यः पूर्वः, तस्य विधिं प्रति स्थानिवद्भावेन भवितव्यम्। न चायं प्रकारः पदानतरनिरपेक्षे पदसंस्कारे सम्भवति; `स्तः` इत्यादिकेपदे संस्क्रियमाणे कावित्यादेः पदान्तररस्यासन्निधानात्। किं पुनरिदं राजशासनम्--पदसंस्कारायैव शब्दानुशासनं कत्र्तव्यमिति? अथ शास्त्रकारस्यैवायमभिप्रायः? इतिचेत्, न; शास्त्रकारेण दि `युष्मद्यपपदे समानाधिकरणे स्थानिन्यपि मध्यमः` 1|4|104 इति युष्मदाद्युपपदे मध्यमादिपुरुषविधानाद् वाक्यसंस्कारप्रयुक्तमपि शास्त्रमेतदिति सूचितम्। अत्र `कौ` इत्यादिकं पदं प्रागेव व्यवस्थाप्य `स्तः` इत्यादेः पदस्य संस्कारे क्रियमाणेऽनादिष्टावचः पूर्वं औकारादिर्भवतीति स्थानिवद्भावः स्यात्। अतः प्रतिषेध उच्यते।ननु च `दध्यत्र` इत्येवमादौ` प्रतिषिद्धेऽपि स्थानिवद्भावे बहिरङ्गस्य यणादेशस्यासिद्धत्वादन्तरङ्गं द्वर्वचनं न प्राप्नोति। तत् किमित्येवमाह-- `अस्माद्वच-नात् भवति` इति। न च शक्यं वक्तुम्--` स्थानिवद्भावप्रतिषेधात् `असिद्धं बहिरङ्गम्`(व्या।प।42) इत्येषा न प्रवत्र्तते` इति। यत्रोभयमेकपदाश्रयम्-- `पट्व्यौ पट्व्यः शुच्यौ शुच्यः` इत्येवमादौ,तत्र स्थानिवद्भावप्रतिषेधस्यार्थवत्त्वान्नैष दोषः। द्विर्वचनमेव बहिरङ्गम्; बह्वपेक्षत्वात्। तथा ह्रच उत्तरस्य योरऽनचीति च त्रितयं तदपेक्षते। यणादेशस्त्विकोऽचीति द्वयमेव।`वरे` इति। ननु चात्र समासे सति सप्तम्या लुका भवितव्यम्। तत् कथं वरे इति निर्देशः? अत एव निपातनादलुगित्यदोषः। अन्ये त्वीकारप्रश्लेषोऽत्रेतिवर्णयन्ति। एवं च सम्बन्धं कुर्वन्ति--`वरे योऽजादेशस्तस्य विधिं प्रति नस्थानिवत्, ईविधिं च प्रति न स्थानवत्` इति। तेनामलक्याः फलं विकार इति नित्यं वृद्धशरादिभ्यः` 4|3|142 इति मयट्, तस्य `फले लुक्` 4|3|161 इति लुक्, अतः `लुक् तद्धितलुकि` 1|2|49 गौरादिलक्षणस्य ङीषो लुकि कृते तस्य स्थानिवद्भावात् `यस्येति च` 6|4|148 इति लोपः प्राप्नोति। ईकारे परतो यो विधिस्तं प्रति स्थानिवद्भावप्रतिषेधान्न भवति। ननु चाजादेशः परनिमित्तकः लोपः पूर्वविधौ स्थानिवद्भवतीत्यु-च्यते, न च लुका पौर्वापर्यमस्तीत्यत एव स्थानिवद्भावो न भविष्यति? तदप्रयोजनमीकार-प्रश्लेषस्य। लोपेनापि तर्हि पौर्वापर्यं नास्तीति पटयतीत्यादावपि स्थानिवद्भावो नस्यात्। अथ तत्र स्थानिद्वारकं पौर्वापर्यं सम्भवति, इहापि तथा स्यात्। ये त्वीकार-प्रश्लेषं नेच्छन्ति, त आयलक्याः फलं विकार आमलकमित्येतदर्थं नेति योगविभागं कुर्वन्ति।`यायावरः` इति। अत्यर्थं यातीति `धातोरेकाचः` 3|1|22 इत्यादिना यङ, द्विर्वचनम्, अभ्यासस्य ह्यस्वः, `दीर्घोऽकितः` 7|4|83 इति दीर्घः, ततो वरच्च, अतो लोपे कृते `लोपो व्योर्वलि` 6|1|64 इति यकारलोपः। `अतो लोपः परनिमित्तकः` इति।आर्धधातुके परतो विधानात्। यद्यतो लोपः परनिमित्तकः, ततः `अचो यत्` 3|1|97 इत्यत्र `अज्ग्रहणं किम्, यावता हलन्ताण्ण्यतं वक्ष्यति` इति चोद्यं समुत्थाप्य `अजन्तभूतपूर्वावपि यथा स्यात्--- दित्स्यं धित्स्यम्` इति यद् वक्ष्यति तद् विरुध्यते; न हि परनिमित्तकेऽतो लोपेऽजन्तभूतपूर्वाद् यतो विधिः सम्भवति, प्राक्कृदुत्प-त्तेरतो लोपस्याभावात्, अभावस्तु परस्य निमित्तस्याभावात्? पक्षे भेदादविरोधः। तत्र ह्रार्धधातुक इति वत्र्तते। `आर्धधातुके` इति विषयप्तमी चैषा, परसप्तमी चेति पक्ष-द्वयम्; आर्धधातुकसमान्यविवक्षायां सामान्येन पौर्वापर्यं न सम्भवतीति विषयसप्तमी भवति आर्धधातुकव्यक्तिविवक्षायां तु व्यक्तेः पौर्वापर्यं सम्भवतीति परसप्तमी। यदातु व्यक्तिद्वारकं सामान्यस्य पौर्वापर्यं विवक्ष्यते; तदापि परसप्तम्येव।तत्राद्ये पक्ष आर्धधातुके विषयभूते प्रागेव यदुत्पत्तेरतो लोपो भवति, इतरत्र तु तस्मिन्नुत्पन्ने। तत्र `अचो यत्` 3|1|97 इत्यत्र यदज्ग्रहणस्य प्रयोजनं वक्ष्यति, तत् पूर्वं पक्षमाश्रित्य। यत् पुनरिहातो लोपः परनिमित्तक इत्युक्तम्, तदितरं पक्षम्। तस्माद् विषयभेदादविरोधः। परसप्तमीपक्षे तु तत्राज्ग्रहणं विस्पष्टार्थमेव वेदितव्यम्।कथं पुनज्र्ञायते परसप्तमीपक्षोऽपि तत्राभिमत इति? `अनुदात्तेतश्च हलादेः` 3|2|149 इत्यादिग्रहणात्। तद्ध्येवमर्थं क्रियते-- हलन्तादित्येवं मा विज्ञायीति। एवं हि विज्ञायमाने जुगुप्सनः, मीमांसनः इत्यत्र युज् न स्यात्; अजन्त-त्वात्। यदि च `आर्धधातुके` इति विषयसप्तम्येवैषाभिमता स्यात्, न परसप्तमीतदाऽ‌ऽदिग्रहणमनर्थकं स्यात्; आर्धधातुके विषयेऽकारलोपे कृते जुगुप्सतिमीमांसत्योरपि हलन्तत्वात्। तस्मादादिग्रहणाद् विज्ञायते-- परसप्तमीपक्षोऽपि तत्राभीष्ट इति। विषयसप्तमीपक्षे तु तत्रादिग्रहणं विस्पष्टार्थमेव द्रष्टव्यम्।`कण्डूतिः` इति। `कण्ड्वादिभ्यो यक्` 3|1|27 `स्त्रियां क्तिन्` 3|3|94 । `चिकीर्षकः, जिहीर्षकः` इति। चिकीर्षजिहीर्षशब्दाभ्यां ण्वुल्। `शिशेः, पिषेश्च` इति। `शिष्लु विशेषणे` (धातुपाठः-1452)`पिष्लृ संचूर्णने` (धातुपाठः-1453)। हित्वधित्व-ष्टुत्वजश्त्वेष्विति। `सेह्र्रपिच्च` 3|4|87 इति हेरादेशे कृते `हुझल्भ्यो हेर्धिः` 6|4|101 ति धिरादेशः। `ष्टुना ष्टुः` 8|4|40 इति ष्टुत्वम्, `झलां जश् झशि` 8|4|52 इति जश्त्वम्। ननु चात्र स्थानिवद्भावस्य प्राप्तिरेव नास्ति; यो ह्रनादिष्टादचः पूर्वस्तस्य विधौ स्थानिवद्भवतीत्युच्यते, न चामानादिष्टादचः पूर्वः, तत् किं प्रतिषेधेन? नैष दोषः; स्थानिनो नाकरस्याऽनादिष्टाजपेक्षं पूर्वत्वम-स्तीति तदादेशोऽप्यनुस्वारः स्थानिवद्भावादनादिष्टादचः पूर्व इति लभ्यते।`शिषन्ति` इत्यादि। किमर्थं पुनरुदाहरणान्तरोपन्यासः, यावता शिण्ढीत्याद्य-न्तरोक्तमेवेदं युक्तमुदाहरण्? एवं मन्यते-- यदि तदेवोदाह्यियते तदा यत्र परसवर्ण-स्तत्रानुस्वारेण भवितव्यम्,तत्रैव हि स विधीयते; ततश्च नान्तरीयकत्वात् परसवर्ण-विधौ स्थानिवद्भावप्रतिषेधेऽनुस्वारविधावपि स्थानिवद्भावप्रतिषेधः कृत एव, ततोऽ-नुस्वारग्रहणं पृथङ न कत्र्तव्यमिति कस्यचिद् भ्रान्तिः स्यात्। तस्माद् यत्र परसवर्णो न सम्भवति, तदेवोदाहरणं युक्तमिति।`प्रतिदिव्ना` इति। दिवेः `कनिन्युवृषि` (द।उ।6।51) इत्यादिना कनिन् प्रत्यये रूपम्। `हलि च` इति। `उपधायाञ्च` 8|2|78 इत्येतदिदानीन्तनकुलेखकैः प्रमादाल्लिखितम्। तथा हि `उपधायाञ्च` 8|2|78 इत्यत्र वक्ष्यति ` प्रतिदीव्न इत्यत्र तु `हलि च` 8|2|77 इति दीर्घत्वम्` इति। ननु च स्थानिवद्भावे प्रतिषिद्धेऽपि `न भकुर्छु-राम्` 8|2|79 इति दीर्घत्वप्रतिषेधेनात्र भवितव्यम्, तत् किमित्येवमाह--`अस्माद् वचनाद् भवति` इति। न च स्थानिवद्भावप्रतिषेधसामथ्र्यादत्र प्रतिषेधो न भवतीति शक्यं परिकल्पयितुम्; स्थानिवद्भावप्रतिषेधस्य पिपठीरित्यत्रार्थत्वात्। अत्र हि पिपठिषतेः क्विपि कृतेऽतो लोपे रुत्वे च, रुत्वं पुनरस्य पूर्वत्रासिद्धमिति षत्व-स्यासिद्धत्वात्, यदि स्थानिवद्भावो न प्रतिषिध्येत, ततोऽकारलोपस्य स्थानिवद्-भावात् `र्वोरुपधाया दीर्घ इकः` 8|2|76 इत्यधिकाराद् रेफवकारान्तस्य भस्य दीर्घत्वं प्रतिषिध्यते। न चैतद् रेफवकारान्तं भसंज्ञकम्, अपि तु नाकरान्तमिति।`सग्धिः` इति। समाना ग्धिरिति विशेषणसमासः। `समानस्य च्छन्दस्यमूर्ध` 6|3|83 इति सभावः। `बब्धाम्` इति। `भस भत्र्सनदीप्त्योः` (धातुपाठः-1100), `अभ्यासे चर्च` 8|4|53 इत्यभ्यासभकारस्य जश्त्वं बकारः।`चक्षतुः, जक्षुः` इति। `लिटन्यतरस्याम्` 2|4|40 इति घस्लादेशः, `कुहोश्च` 7|4|62 इत्यभ्यासघकारस्य चुत्वं झकारः; तस्य पूर्ववज्जश्त्वं जकारः। बहुवचने घस्लादेश इति। `लुङ सनोर्घस्लु` 2|4|37 इत्यनेन। `बहुखट्वकः` इति। अत्र स्थानिवद्भावाद् `ह्यस्वान्तेऽन्त्यात्पूर्वम्` 6|2|173 इति, खकारस्योदात्तत्वं न भवति। `कपि पूर्वम्` 6|2|172 इति ट्वशब्दस्याकारास्यैव भवति।`किर्योः, गिर्योः` इति। `र्वोरुपधाया दीर्घ इकः` 8|2|76 `हलि च` 8|2|77 इति दीर्घत्वं न भवति। एतच्च व्युत्पत्तिपक्षमाश्रित्योक्तम्, `कृग्रोरिच्च` इति किरिगिरिशब्दौ व्युत्पाद्येते। अव्युत्पत्तिपक्षे त्वसत्यपि स्थानिवद्भावे धातुत्वाभावान्न भवत्येव दीर्घत्वम्। तथा ह्रव्युत्पत्तिपक्षमाश्रित्य `उपधायाञ्च` 8|2|78 इत्यत्र वक्ष्यति--`उणादयऽव्युत्पन्नानि प्रातिपदिकानि` (हे।प।103) इति किर्यो-गिर्योरित्येवमादिषु दीर्घो न भवति` इति। `वाय्वोः` इति। `लोपो व्योर्वलि` 6|1|64 इति यलोपो न भवति।
द्विर्वचने यलोपादौ च तावत् तदेव विधेयम्, न तु तस्य व्यवस्थितस्य किञ्चित् । कौ स्त इत्यादौ तु पदान्तस्य सतः कार्यमावादि पदान्तस्य वाऽऽवादेर्विधानमित्युभयथा सम्भवः । एवं वरेविधावपि । तथापि सर्वग्रहाय भावसाधन एव विधिशब्दः । एतेष्विति । पदान्तादिविधेयभेदेन भिन्नानि यानि विधानानि एतेष्वित्यर्थः । पूर्वविधावित्यादि । यद्यपि व्याकरणे न पदानि संस्क्रियन्ते, न वाक्यम्, तथापि वाक्यगते स्त इत्यादिके पदे व्युत्पाद्यमाने कावित्यादेः पदस्यासत्यपि निमितत्वे सन्निधानमविरुद्धम् । ततश्चानादिष्टादचः पूर्वत्वसम्भवादस्ति स्थानिवत्वप्रसङ्ग इति भावः । दध्यत्रेति । स्थानिवद्भावप्रतिषेधसामर्थ्याद् "असिद्धं बहिरङ्गमन्तरङ्गे" इत्येतदपि न प्रवर्तते । शच्यावित्यादावपि बहिर्भूताजपेक्षत्वाद्यण् बहिरङ्ग एव "वर" इति निपातनादलुक् । यायावर इति । ङित्यं कौटिल्ये गतौ" इति यङ् । अतो लोपः परनिमितक इति । " आर्द्धधातुके" इति परसप्तमीपक्ष इति भावः । तथा च "अनुदातेतश्च हलादेः" इत्यत्रादिग्रहणम् । असति हि तस्मिन् हलन्तादिति विज्ञायेत, ततश्च जुगुप्सनो मीमांसन इत्यत्र युज्न स्यादिति । यदि च सा विषयसप्तमी स्यात्, प्रगेव प्रत्ययोत्पतेरतो लोपे सति हलन्तत्वादत्रापि युच् सिद्धः स्यात् । यतु "अचो यत्" इत्यत्र वक्ष्यति--"अज्ग्रहणं किम्, यावता हलन्ताण्ण्यं वक्ष्यति ? अजन्तभूतपूर्वादपि यथा स्याद्-दित्स्यम्, धित्स्यमिति । तद्विपयसप्समीपक्ष इति वेदितव्यम् । परसप्तमीपक्षे हि प्राक्प्रत्ययोत्पतेरतो लोपाभावादनुपपन्नं तत्स्यात् । कण्डूअयतेः क्तिनि कृत इति । "क्तिन्नावादिभ्यो वक्तव्यः" इत्यनेनेति भावः । "क्तिचि" इति तु युक्तः पाठः । कण्डूअतिरित्यत्राल्लोपस्य स्थानिवत्वादुवङ् प्राप्नोति, अस्तु; च्छवोः शूठ" इत्यूट् भविष्यति । न चोठ।ल्पि स्थानिवत्वम्, आदिष्टादचः पूर्वत्वात् । अत एवोठः पुनरुवङ् न भवति । परसवर्णे न स्थानिवद्भवतीति । ननु श्नसोरल्लोपे कृते पश्चादनुस्वारो भवन्नादिष्टादचः पूर्व इति कथमस्य परसवर्णे कर्तव्ये स्थानिवत्वप्रसङ्गः ? स्यादेतत्स्थानिनो नकारस्यानादिष्टादचः पूर्वत्वादादेशोऽनुस्वारोऽपि स्थानिवद्भावादनादिष्टादचः पूर्व इति, तन्न; न ह्यनादिष्टादचः पूर्वत्वं नाम शास्त्रीयं यदतिदिश्येत । एवं तर्ह्यनादिष्टादचः पूर्वत्वापेक्षेऽचः परस्मिन्नत्यतिदेशे कर्तव्ये स्थानिवदादेश इत्येतत् प्रवर्तते, अतः सवर्णग्रहणं कृतम् । शिषन्तीति । यद्यपि शिण्ढैइत्येवानुस्वारविधेरप्युदाहरणम्, तथापि तस्मिन्नेवोदाहृते परसवर्णविधौ स्थानिवत्वनिषेधः, तस्य स्थानिनोऽनुस्वारस्यापि विधौ स्थानिवत्वप्रतिषेधमन्तरेणानुपपन्न इति पृथगनुस्वारग्रहणं न कर्तव्यमित्याशङ्का निराकरणाय केवलानुस्वारोदाहरणं दर्शितम् । प्रतिदीव्नेति । प्रतिपूर्वाद्दिवेः "कनिन्युवृषितक्षिराजिधन्विद्यौप्रतिदिवः" इति कनिन्प्रत्ययः भस्येत्यधिकृत्येति । परनिमितकत्वोपपादनार्थः । किमिदमुक्तम्हलि चोपधायां चेति दीर्घत्वं न स्यादिति, उपधायाञ्चेत्येतल्लेखकैः प्रमादाल्लिखितम्, तथा चोपधायाञ्चेत्यत्र वक्ष्यति-प्रतिदीव्नेत्यत्र "हलि च" इति दीर्घत्वमिति । अस्माद्वचनाद्भवतीति । ङ भकुर्छुअराम्" इति तु प्रतिषेधो रेफवकारान्तस्य भस्येत्यत्र न प्रवर्तते । झलो झलीति सलोप इति । सकारे सिचो लोप इत्येततु नाश्रीयते, तस्मिंस्त्वाश्रिते छान्दसत्वाद्वर्णलोपः । बहुखट्वक इति । अत्र स्थानिवद्भावद् "ह्रस्वान्तेऽन्त्यात्पूर्वम्" इति खकारा कारस्योदातत्वं न भवति,"कपि पूर्वम्" इत्येतदेव तु भवति । किर्योः, गिर्योरिति । "कृग्रोरिच्च" इति व्युत्पत्तिपक्ष एतदुदाहृतम् । "उपाधायाञ्च" (8।2।78) इत्यत्रत्वव्युत्पत्तिपक्षमाश्रित्य वक्ष्यति--"उणादयोऽव्युत्पन्नानि प्रातिपदिकानि, इति किर्योगिर्योरित्यादिषु दीर्घो न भवति" इति । "क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेष्वजादेशो न स्थानिवद्भवति" इति वक्तव्यम् । क्वि-क्वौ यद्विधीयते तत्र कर्तव्ये यत्र कुत्रचित् कृतोऽजादेशो न स्थानिवद्भवतीति; लवमाचक्षाणो लौः, अत्र णिचि यष्टिलोपः, यश्च क्वौ णिलोपस्तदुभयमपि "च्छवोः शूठ" इति वकारस्य क्विनिमिते ऊठि कर्तव्ये न स्थानिवद्भवतीति "एत्येधत्यूठसु" इति वृद्धिः । ये तु "क्वौ लुप्तं न स्थानिवत्" इति पठन्ति तेषामेतन्न स्यात् । तथा पिपठिषतेः क्वौ, अतो लोपे नपुंसके बहुवचने जसिझल्लक्षणे नुमि जस्निमितेऽपि कर्तव्येऽयो लोपस्य स्थानिवत्वनिषेधः स्यात्, क्वौ कृतत्वात् । क्वौ विधिं प्रतीत्यत्र तु पक्षे प्रतिषेधो न भवति, पिपठीषि ब्राह्मणकुलानि, नुम्यसति शान्तमहतः" इति दीर्घत्वं न भवति । देवयतेद्यौउÇरित्यत्रोभयथापि सिध्यति । लुक्-लुका लुप्ते न स्थानिवत्, आमलक्या विकारफलम् ङित्यं वृद्धशरादिभ्यः" इति मयटः "फले लुक्" "लुक्तद्धितलुकि" इति ङीपो लुक् परिनिमितकः यस्येति लोपे न स्थानिवद् भवति । केचित्वेतदर्थं सूत्रे वराई उ वरे इति ईकारप्रश्लेषं वर्णयन्ति, ईविधिं प्रति न स्थानिवदिति । उपधात्वेउपधात्वे कर्तव्ये न स्थानिवत् । परिखअशब्दाच्चातुरर्थिके णिकृते पारिखे भवः पारिखीय इति "वृद्धादकेकान्तखोपधात्" इति छाए न स्यात्, आकारलोपस्य स्थानिवत्वादनुपधाखकार इति । प्रत्ययविधिविषयं चैतत्, यत्रोपधासंज्ञानिबन्धन प्रत्ययो विधातुमिष्यते तत्रैवेत्यर्थः, घटयतीत्यादौ तु तन्न भवति । चङ्परो ये निर्हासो ह्रस्वस्तत्र न स्थानिवद्भवति--वादितवन्तं प्रयोजितवान् अवीवदद् वीणां परिवादकेन, योऽसौ णौ णिर्लुप्यते तस्य स्थानिवद्भावाद् णौ चङ्युपधाया ह्रस्वो न स्यात्, यश्चङ्परो णिर्न तस्मिन्नङ्गस्योपधा, यस्मिंश्चाङ्गस्योपधा न चङ्पर इति । कुत्वम्--पाचयतेः क्तिचि पाक्तिः । कुत्वमुपलक्षणम् । लेहयतेर्लेढिः, दोहयतेर्दोग्धिः, याचयतेर्याक्तिः, वेशयतेर्वेष्टिरित्यादि ॥
सिद्धान्तकौमुदी
पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवत् । इति स्थानिवद्भावनिषेधः ॥
न पदान्तद्विर्वचन। स्थानिवदादेश` इति `अचः परस्मि`न्निति चानुवर्तते। परनिमित्तकोऽजादेशो न स्थानिवदित्यन्वयः। पदान्तश्च द्विर्वचनं च वरे च यलोपश्च स्वरश्च सवर्णश्च अनुस्वारश्च दीर्घश्च जश्च चर्चेति द्वन्द्वः। तेषां विधयः=विधानानि। कर्मणि षष्ठ�आ समासः। ततश्च पदान्तादिषु विधेयेषु इति लभ्यते। वर इत्यनेन वरे योऽजादेशः स विवक्षितः। आर्षो द्वन्द्वः। सप्तम्या अलुक्च। विधिशब्दः प्रत्येकमन्वेति--पदान्तविधौ द्विर्वचनविधावित्यादि। पदस्यान्तः=चरमावयवः। पदान्तस्य विधाने=पदान्तकर्मके विधाने। पदस्य चरमावयवे कार्ये द्विर्वचनादौ च कार्ये इति यावत्। तदाह--पदस्य चरमेत्यादिना। पदान्तस्य स्थाने विधाविति तु न व्याख्यातम् , तथा सति एषो यन् हसतीत्यसिद्धेः। तथाहि--एषः यन् इति छेदः। इण्धातोर्लटः शतरि शपि लुकि इकारस्य इणो यणिति यण्। अत्र एतत्तदोरिति सुलोपो न भवति, तस्य हलि परतो विधानात्, इह च तस्मिन् कर्तव्ये इकारस्थानिकस्य यकारस्य स्थानिवद्भावेनाऽच्त्वात्। नच न पदान्तेति निषेधः शङ्ख्यः, यो विधीयमानः पदस्य चरमावयवः संपद्यते तत्रैव तन्निषेधात्, इह च विधेयस्य सुलोपस्य पदानवयवत्वात्। `पदान्तस्य स्थाने विधा`विति व्याख्याने तु इह यकारस्य स्थानिवद्भावो न सिध्येत्, लोपस्य पदान्तसकारस्य स्थाने विधानात्। अत्र हशि चेत्युत्वे तु कर्तव्ये यकारो न स्थानिवद्भवति, उकारस्य विधीयमानस्य पदचरमावयवत्वात्। एवं च पदान्तविधावित्यस्य एषो यनित्येतदुत्वविषये उदाहरणम्। सुलोपविषये तु प्रत्युदाहरणमिति भाष्ये स्पष्टम्। बाष्यप्रदीपोद्द्योते स्पश्टतरमेतत्। पदान्तविधौ कानि सन्तीत्याद्युदाहरणमनुपदमेव मूले स्पष्टीभविष्यति। द्विर्वचने सुध्? य् इतयुदाहरणम्। नचेह द्वित्वे कर्तव्ये यकारस्य स्थानिवद्भावविरहेऽपि तन्निषेधे स्थानिवद्भावः स्यादेवेति वाच्यम्, अनचि चेति द्वित्वस्याऽनैमित्तिकतयातद्विषये यकारस्थानिवद्भावस्यानपेक्षितत्वेन तत्र तन्निषेधस्य वैयर्थ्यापत्त्या द्विर्वचनशब्देनात्र अचि नेति द्वित्वनिषेधस्यैव विवक्षितत्वादिति भावः। वरे यथा--यायावरः। `यश्च यङ` इति याधातोर्यङन्ताद्वरच्। `सन्यङो`रिति द्वित्वम्। यायाय वर इति स्थि अतो लोप इति यङोऽकारस्य लोपः। `लोपो व्यो`रिति यकारलोपः। अत्र अजाद्यार्धधातुकमाश्रित्य `अतो लोप इटि च` इत्याकारलोपे कर्तव्ये अल्लोपो न स्थानिवत्। यलोपे यता--यातिः। याध#आतोर्यङि द्वित्वं। क्तिच्। यायाय ति इति स्थिते-अतो लोपः। `लोपो व्यो`रिति यलोपः। अल्लोपस्य स्थानिवत्त्वादातो लोपः। लोपो व्योरिति यलोपः। यातिरिति रूपम्। अत्र अल्लोपो यलोपे कर्तव्ये न स्थानिवत्। न च वाय्वोरित्यत्रापि लोपो व्योरिति यलोपे कर्तव्ये उकारादेशस्य वकारस्य स्थानिवत्त्वनिषेधः स्यादिति वाच्यं, स्वरदीर्घयलोपेषु लोप एवाजादेशो न स्थानिवदिति वार्तिके परिगणनात्, इह च वकारस्य लोपरूपत्वाऽभावात्। स्वरविधौ यथा--चिकीर्षकः। चिकीर्ष इति सन्नन्तात् ण्वुल्। अकादेशः। सनोऽकारस्य अतो लोपः। अत्र ईकारस्य वितीत्युदात्तत्वे कर्तव्ये अल्लोपो न स्थानिवत्। यद्यपि ईकारोऽल्लोपस्थानीभूतादकारान्नाव्यवहितपूर्व इति स्थानिवद्भावस्य प्राप्तिरिह नास्ति, तथाप्यस्मादेव ज्ञापकात् पूर्वसूत्रे पूर्वत्वं व्यवहिताव्यवहितसाधारणम्। तत्प्रयोजनं तु पूर्वसूत्र एवोक्तम्।
न पदान्त। पदान्तादीनां चरन्तानां द्वन्द्वः, ततो `विधि` शब्देन कर्मषष्ठ�न्तस्य समासः। विधिशब्दश्च भावसाधनो-विधानं विधिरिति। स च द्वन्द्वान्ते श्रूयमाणत्वांत्प्रत्येकं संबध्यते। पदस्य चरमावयव इति। वृक्षं वेतीति वृक्षवीः, वृक्षं वातीति वृक्षवाः। तमाचष्टे वृक्षवयति। ततो विच्। वृक्षव्। इह `लोपो व्योर्वली`ति वलोपो न, टिलोपस्य णिलोपस्य वा स्थानिवत्त्वात्। न च `सुबन्ताण्णि`जिति हरदत्तादिमते अन्तर्वर्तिसुपा पदत्वात् `न पदान्ते`ति निषेधः शङ्क्यः, विधेयस्य लोपस्य पदानवयवत्वात्। `पदान्तस्य स्थाने विधौ ने`ति व्याख्याने तु `न पदान्ते`ति स्थानिवत्त्वनिषेधाद्वलोपः स्यादेवेत्यादि मनोरमायां स्थितम्। द्विर्वचनादौ चेति। यलोपादय आदिशब्दार्थः। `वरे` इति तु वरे योऽजादेशः स न स्थानिवदिति व्याख्येयम्। सहविवक्षाभावेऽपि निपातनाद्द्वन्द्वः सप्तम्यलुक्व।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु पदान्तविधिं प्रति न स्थानिवदित्युच्यते। तत्र वेतस्वानिति रुः प्राप्नोति। नैष दोषः। भसञ्ज्ञाऽत्र बाधिका भविष्यति ‐ तसौ मत्वर्थे इति। अकारान्तमेतद् भसञ्ञ्ज्ञां प्रति। पदसञ्ञ्ज्ञां प्रति तु सकारान्तम्। ननु चैवं विज्ञायते यः सम्प्रतिपदान्त इति। कर्मसाधनस्य विधिशब्दस्योपादाने एतदेवं स्यात्। अयं च विधिशब्दोऽस्त्येव कर्मसाधनः। विधीयते इति विधिरिति। अस्ति च ‐ भावसाधनो विधानं- विधिरिति। तत्र भावसाधनस्य विधिशब्दस्योपादाने एष दोषो भवति। इदं च ‐ ब्रह्यबन्ध्वा, ब्रह्यबन्ध्वै धकारस्य जश्त्वं प्राप्नोति। अस्ति पुनः किंचिद् भावसाधनस्य विधिशब्दस्योपादाने सतीष्टं संगृहीतम्। आहोस्विद् दोषान्तमेवेति। अस्तीत्याह। इह कानि सन्ति, यानि सन्ति, कौ स्तः, यौ स्तः इति। योऽसौ पदान्तो यकारो वकारो वा श्रूयेत, न स श्रूयते। षडिकश्चापि सिद्धो भवति। वाचिकस्तु न सिध्यति। अस्तु तर्हि कर्मसाधनः। यदि कर्मसाधनः, षडिको न सिध्यति। अस्तु तर्हि भावसाधनः। वाचिको न सिध्यति। वाचिकषडिकौ न संवदेते। कर्तव्योऽत्र यत्नः। कथं ‐ ब्रह्यबन्ध्वा, ब्रह्यबन्ध्वै? उभयत आश्रयणे नान्तादिवत् इति। कथं वेतस्वान् ? नैवं विज्ञायते ‐ पदस्यान्तः, पदान्तः। पदान्तस्य विधिः पदान्तविधिः। पदान्तविधिं प्रतीति। कथं तर्हि? पदे अन्तः पदान्तः। पदान्तस्य विधिः पदान्तविधिः। पदान्तविधिं प्रतीति। अथवा यथैवान्यान्यपि पदकार्याण्युपप्लवन्ते रुत्वं जश्त्वं च, एवमिदमपि पदकार्यमुपप्लोष्यते। किम्? भसञ्ज्ञा नाम। वरे यलोपविधिं प्रति न स्थानिवद्भवतीत्युच्यते तत्र ते अप्सु यायावरः प्रवपेत पिण्डान् इति। अवर्णलोपविधिं प्रति स्थानिवत् स्यात्। नैष दोषः। नैवं विज्ञायते ‐ वरे यलोपविधिं प्रति न स्थानिवदिति। कथं तर्हि? वरे अयलोपविधिं प्रतीति। किमिदमयलोपविधिं प्रतीति? अवर्णलोपविधिं प्रति, यलोपविधिं च प्रतीति। अथवा योगविभागः करिष्यते। वरे लुप्तं न स्थानिवत् ततो यलोपविधिं प्रति न स्थानिवदिति। यलोपे किमुदाहरणम् ? कण्डूयतेरप्रत्ययः कण्डूः इति। नैतदस्ति। क्वौ लुप्तं न स्थानिवत्। इदं तर्हि प्रयोजनम्। सौरी बलाका। नैतदस्ति। उपधात्वविधिं प्रति न स्थानिवत्। इदं तर्हि प्रयोजनम्। आदित्यः। नैतदस्ति। पूर्वत्रासिद्धे न स्थानिवत्। इदं तर्हि प्रयोजनम्। कण्डूतिर्वल्गूतिः। नैतदस्ति प्रयोजनम्। कण्डूया , वल्गूया इति भवितव्यम्। इदं तर्हि- कण्डूयतेः क्तिच्। ब्राह्मणकण्डूतिः। क्षत्रियकण्डूतिः । ।। प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्।। प्रतिषेधे स्वरदीर्घयलोपविधिषु लोपाजादेशो न स्थानिवदिति वक्तव्यम्। स्वर- आकर्षिकः। चिकीर्षकः। यो ह्यन्य आदेशः स्थानिवदेवासौ भवति ‐ - पञ्ञ्चारत्न्यो, दशारत्न्यः। स्वर। दीर्घ- प्रतिदीव्ना। प्रतिदीव्ने। यो ह्यन्य आदेशः स्थानिवदेवासौ भवति। किर्योः गिर्योः। दीर्घ। यलोप- ब्राह्मणकण्डूतिः क्षत्रियकण्डूतिः। यो ह्यन्य आदेशः स्थानिवद्वासौ भवति। वाय्वोः अर्ध्वय्वोरिति । तत्तर्हि वक्तव्यम्। न वक्तव्यम्। इह हि लोपोपि प्रकृतः। आदेशोपि। विधिग्रहणमपि प्रकृतमनुवर्तते। दीर्घादयोपि निर्दिश्यन्ते। केवलं तत्राभिसम्बन्धमात्रं कर्तव्यम्। स्वरदीर्घयलोपविधिषु लोपाजादेशो न स्थानिवदिति। आनुपूर्व्येण सन्निविष्टानां यथेष्टमभिसम्बन्धः शक्यते कर्तुम्। न चैतान्यानुपूर्व्येण संनिविष्टानि। अनानुपूर्व्येंणापि संनिविष्टानां यथेष्टमभिसम्बन्धो भवति। तद्यथा अनड्वाहमुदहारि या त्वं हरसि शिरसा कुम्भं, भगिनि साचीनमभिधावन्तमद्राक्षीः इति। तस्य यथेष्टमतिसम्बन्धो भवति ‐ उदहारि भगिनि या त्वं कुम्भं हरसि शिरसा, अनड्वाहं साचीनमभिधावन्तमद्राक्षीः इति। क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषूपसङ्ख्यानम्। ।। क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषूपसङ्ख्यानं कर्तव्यम्। ।। क्वौ किमुदाहरणम् ? कण्डूयतेरप्रत्ययः कण्डूरिति। नैतदस्ति। यलोपविधिं प्रति न स्थानिवत्। इदं तर्हि पिपठिषतेरप्रत्ययः पिपठीः। नैतदस्ति। दीर्घविधिं प्रति न स्थानिवत्। इदं तर्हि ‐ लावयते र्लौः। पावयतेः पौः। नैतदस्ति। अकृत्वा वृद्ध्यावादेशौ णिलोपः। प्रत्ययलक्षणेन वृद्धिर्भविष्यति। इदं तर्हि लवमाचष्टे लवयति। लवयतेरप्रत्यये लौः। स्थानिवद्भावाद् णेरूठ् न प्राप्नोति। क्वौ लुप्तं न स्थानिवदिति भवति। एवमपि न सिध्यति। कथम्? कण्डूतिः क्वौ णिलोपो णावकारलोपः। तस्य स्थानिवद्भावादूठ् न प्राप्नोति। नैष दोषः। नैवं विज्ञायते ‐ क्वौ लुप्तं न स्थानिवदिति। कथं तर्हि ? क्वौ विधिं प्रति न स्थानिवदिति। लुकि किमुदाहरणम् ? बिम्बम्। बदरम्। नैतदस्ति। पुंवद्भावेनाप्येतत् सिद्धम्। इदं तर्हि आमलकम्। नैतदस्ति। वक्ष्यत्येतत् फले लुग्वचनार्थक्यं प्रकृत्यन्तरत्वादि। इदं तर्हि पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः दशपटुरिति। ननु चैतद् पुंवद्भावेनैव सिद्धम्। कथं पुंवद्भावः ? भस्याढे तद्धिते पुंवद् भवतीति। भस्येत्युच्यते। यजादौ च भसञ्ज्ञा भवति। न चात्र यजादिं पश्यामः। प्रत्ययलक्षणेन यजादिः। वर्णाश्रये नास्ति प्रत्ययलक्षणम्। एवं तर्हि ठक् छसोश्च इत्येवं भविष्यति। ठक्छसोश्चेत्युच्यते। न चात्र ठक्छसौ पश्यामः। प्रत्ययलक्षणेन। न लुमता तस्मिन्नितिप्रत्ययलक्षणस्य प्रतिषेधः। न खल्वप्यवश्यं ठगेव क्रीतप्रत्ययः। क्रीताद्यर्थो एव वा तद्धिताः। किं तर्हि, अन्येपि तद्धिता ये लुकं प्रयोजयन्ति। पञ्ञ्चेन्द्राण्यो देवता अस्येति पञ्ञ्चेन्द्रः। दशेन्द्रः। पञ्ञ्चाग्निः। दशाग्निः। उपधात्वे किमुदाहरणम् ? पिपठिषतेरप्रत्ययः पिपठीरिति। नैतदस्ति। दीर्घविधिं प्रति न स्थानिवत्। इदं तर्हि सौरी बलाका। नैतदस्ति। यलोपविधिं प्रति न स्थानिवत्। इदं तर्हि पारिखीयः। चङ्परनिर्ह्रासे चोपसङ्ख्यानं कर्तव्यम्। वादिवतन्तं प्रयोजितवान्। अवीवदत् वीणां परिवादकेन। किं पुनः कारणं न सिध्यति ? योऽसौ णौ णिर्लुप्यते तस्य स्थानिवद्भावाद् ह्रस्वत्वं न प्राप्नोति। ननु चैतदप्युपधात्वविधिं प्रति न स्थानिवदित्येव सिद्धम्। विशेषत एव तद् वक्तव्यम्। क्व ? प्रत्ययविधौ इति। इह मा भूत्। पटयति लघयति। कुत्वे चोपसङ्ख्यानं कर्तव्यम्। अर्चयतेरर्कः। मर्चयतेर्मकः। नैतद् घञ्ञन्तम्। औणादिक एष कप्रत्ययः। तस्मिन् आष्टमिकं कुत्वम्। एतदपि णिचा व्यवहितत्वान्न प्राप्नोति। ।। पूर्वत्रासिद्धे च ।। पूर्वत्रासिद्धे च न स्थानिवदिति वक्तव्यम् । किं प्रयोजनम् ? ।। प्रयोजनं क्सलोपः सलोपे। ।। क्सलोपः सलोपे प्रयोजनम्। अदुग्ध, अदुग्धाः। लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये इति लुग्ग्रहणं न कर्तव्यं भवति। ।। दध आकारलोप आदिचतुर्थत्वे प्रयोजनम्।। धत्से, धद्ध्वे, धद्ध्वम्। दधस्तथोश्चेति चकारो न कर्तव्यो भवति। ।। हलो यमां यमि लोपे ।। हलो यमां यमि लोपे प्रयोजनम्। आदित्यः। हलो यमां यमि लोपः सिद्धो भवति। ।। अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु ।। ।। प्रयोजनम्। पापच्यतेः, पापक्तिः। यायज्यते ‐ -यायष्टिः। पाचयतेः, पाक्तिः। याजयते, याष्टिः। द्विर्वचनादीनि च। ।। द्विर्वचनादीनि च न पठितव्यानि भवन्ति। पूर्वत्रासिद्धेनैव सिद्धानि भवन्ति। किमविशेषेण ? नेत्याह। वरे यलोपस्वरवर्जम्। ।। वरे यलोपं स्वरं च वर्जयित्वा।। ।। तस्य दोषः संयोगादिलोपलत्वणत्वेषु। ।। तस्यैतस्य लक्षणस्य दोषः संयोगादिलोपलत्वणत्वेषु। संयोगादिलोप ‐ -काक्यर्थम्,वास्यर्थम्। स्कोः संयोगाद्योरन्ते च इति लोपः प्राप्नोति। लत्व-निगार्यते,निगाल्यते। अचि विभाषा इति लत्वं न प्राप्नोति। णत्व ‐ माषवपनी-व्रीहिवपनी। प्रातिपदिकान्तस्य इति णत्वं प्राप्नोति। न पदान्तद्विर्वचन ।।58।।