अलोऽन्त्यस्य 1|1|52 इत्यनेन एतत् ज्ञायते, यत् भिन्नैः सूत्रैः प्रोक्तः आदेशः स्थानिनः अन्तिमवर्णस्य स्थाने आगच्छति । यदि अयम् आदेशः अनेकाल् अस्ति (इत्युक्ते, यदि अस्मिन् आदेशे द्वौ वा अधिकाः वर्णाः सन्ति, तर्हि अयम् आदेशः
अलोऽन्त्यस्य 1|1|52 इत्यनेन अन्तिमवर्णस्य स्थाने न भवति, अपितु वर्तमानसूत्रेण सम्पूर्णः स्थानिनः स्थाने भवति ।
यथा - अस्तेर्भूः
2|4|52 इत्यनेन अस्-धातोः सार्वधातुकप्रत्ययस्य विवक्षायां भू-आदेशः विधीयते । अयम् अनेकाल्-आदेशः, अतः अयम् "अस्" इत्यस्य सम्पूर्णशब्दस्य स्थाने आगच्छति । अतएव अस्-धातोः "क्त्वा" अस्मिन् आर्धधातुके प्रत्यये परे "भूत्वा" इति रूपं जायते ।
यदि आदेशे शकारः इत्संज्ञकः अस्ति, तर्हि अपि अयम् आदेशः सम्पूर्णः स्थानिनः स्थाने भवति ।
यथा -
इदमः इश् 5|3|3 इत्यनेन इदम्-शब्दस्य इश्-आदेशः भवति । अस्मिन् आदेशे शकारः इत्संज्ञकः अस्ति, अतः अयम् आदेशः वस्तुतः एकाल् अस्ति । परन्तु, शित्-त्वात्
अनेकाल्शित्सर्वस्य 1|1|55 इत्यनेन अयमपि सर्वादेशः एव भवति । अतः "इतः" "इह", "इयत्" - एतेषु सर्वेषु शब्देषु इदम्-इत्यस्य सम्पूर्ण-शब्दस्य स्थाने इकारस्य आदेशः कृतः दृश्यते ।
ज्ञातव्यम् -
1. आदेशः अनेकाल् अस्ति वा एकाल् तत् ज्ञातुम् सर्वप्रथमम् आदेशे उपस्थितानाम् इत्-संज्ञकवर्णानां तथा उच्चारणार्थं प्रयुक्तानाम् लोपं कृत्वा अनन्तरम् वर्णगणना करणीया । यथा,
दिवः औत् 7|1|84 अनेन सूत्रेण "औत्" आदेशः दीयते । यद्यपि अस्मिने आदेशे द्वौ वर्णौ दृश्येते, तथापि अत्र तकारः केवलं उच्चारणार्थः अस्ति । अतः तस्य लोपं कृत्वा एकः एव वर्णः अवशिष्यते । अतः अयम् एकालः आदेशः एव ।
2.
ङिच्च 1|1|53 एतत् सूत्रम्
अनेकाल्शित्सर्वस्य 1|1|55 इत्यस्य अपवादरूपेण आगच्छति । इत्युक्ते, यदि आदेशः ङित्-अस्ति, तर्हि सः अनेकाल् भवेत् वा एकाल्,
ङिच्च 1|1|53 इत्यनेन सर्वदा स्थानिनः अन्तिमवर्णस्य स्थाने एव भवति ।
विशेषः - अष्टाध्याय्याम् आदेशस्थानविधायकानि चत्वारि सूत्राणि सन्ति । एतेषां सर्वेषाम् संक्षेपरूपेण अर्थः तथा परस्परेभ्यः बलाबलम्
अस्मिन् लेखे निर्दिष्टम् अस्ति ।
विशेषः - अस्य सूत्रस्य व्याख्याने काशिकाकारः "शित्वात्" इत्यस्य उदाहरणार्थम्
जश्शसोः शिः 7|1|20 इति सूत्रम् उदाहरणरूपेण ददाति । एतत् तु सर्वथा प्रामादिकम् अस्ति । "शि" इत्यस्य शकारस्य
लशक्वतद्धिते 1|3|8 इत्यनेन तदा एव इत्संज्ञा भवितुम् अर्हति यदा "शि" इति स्थानिवद्भावेन प्रत्ययसंज्ञां प्राप्नोति । आदेशावस्थायाम् तु अस्य प्रत्ययसंज्ञा नास्ति एव । अतः
जश्शसोः शिः 7|1|20 इत्यत्र अनेकाल्त्वात् एव सर्वादेशः भवति, न हि शित्वात् । प्रक्रियाक्रमः एतादृशः -
फल + जस् [जस्-प्रत्ययविधानम्]
→ फल + शि [
जश्शसोः शिः 7|1|20 इत्यनेन जस्-प्रत्ययस्य "शि" आदेशः । अत्र "शि" इति प्रत्ययसंज्ञां नैव प्राप्तवान्, अतः अत्र
लशक्वतद्धिते 1|3|8 इत्यस्य प्रसक्तिरेव नास्ति (यतः
लशक्वतद्धिते 1|3|8 इत्यनेन केवलम् प्रत्ययस्य आदिशकारस्यैव इत्संज्ञा भवति, अन्येषां आदिशकारस्य न) ।]
→ फल + इ [इदानीं
स्थानिवदादेशोऽनल्विधौ 1|1|56 इत्यत्र निर्दिष्टेन स्थानिवद्भावेन "शि" इति प्रत्ययसंज्ञां प्राप्नोति । अस्यां स्थितौ शकारस्य
लशक्वतद्धिते 1|3|8 इत्यनेन इत्संज्ञा, लोपश्च भवति ।
→ फलानि [अग्रे
नपुँसकस्य झलचः 7|1|72 इत्यनेन नुमागमे कृते अन्तिमं रूपं सिद्ध्यति ।]