Page loading... Please wait.
1|1|54 - आदेः परस्य
॥ तस्मै पाणिनये नमः ॥
1|1|54
SK 44
आदेः परस्य   🔊
सूत्रच्छेदः
आदेः (षष्ठ्येकवचनम्) , परस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
अलः  1|1|52 (षष्ठ्येकवचनम्)
अधिकारः
-
सम्पूर्णसूत्रम्
परस्य आदेः अलः
सूत्रार्थः
परशब्दस्य उक्तः आदेशः तस्य प्रथमवर्णस्य स्थाने विधीयते ।
अलोऽन्त्यस्य इत्यनेन एतत् ज्ञायते, यत् भिन्नैः सूत्रैः प्रोक्तः आदेशः स्थानिनः अन्तिमवर्णस्य स्थाने आगच्छति । वर्तमानसूत्रम् अस्य अपवादरूपेण आगच्छति । यदि कस्मिंश्चित् सूत्रे पूर्वनिमित्तं दत्वा "परशब्दस्य" आदेशः उच्यते, तत्र सः आदेशः अन्तिमवर्णस्य न भवति, अपितु तस्य परशब्दस्य "प्रथमवर्णस्य" भवति - इति अस्य सूत्रस्य अर्थः ।

यथा, उदः स्थास्तम्भोः पूर्वस्य 8|4|61 अनेन सूत्रेण उद्-उपसर्गात् परस्य स्था-धातोः पूर्वसवर्णः (थकारः) आदेशः भवति । अत्र अयम् आदेशः "पर"शब्दस्य प्रोक्तः अस्ति, अतः वर्तमानसूत्रेण परशब्दस्य प्रथमवर्णस्य स्थाने आगच्छति । प्रक्रिया इयम् -

उद् + स्थानम्
→ उत् + स्थानम् [खरि च 8|4|55 इति चर्त्वम्]
→ उत् + थ्थानम् [उदः स्थास्तम्भोः पूर्वस्य 8|4|61 इति "स्था" इत्यस्य थकारादेशः । आदेः परस्य 1|1|54 इत्यनेन सः आदि-वर्णस्य आदेशः भवति ।]
→ उत्थ्थानम्
→ उत्थानम् [झरो झरि सवर्णे 8|4|65 इत्यनेन थकारस्य विकल्पेन लोपः]

विशेषः - अष्टाध्याय्याम् आदेशस्थानविधायकानि चत्वारि सूत्राणि सन्ति । एतेषां सर्वेषाम् संक्षेपरूपेण अर्थः तथा परस्परेभ्यः बलाबलम् अस्मिन् लेखे निर्दिष्टम् अस्ति ।
One-line meaning in English
The आदेश told on the following word happens on its first letter.
काशिकावृत्तिः
परस्य कार्यं शिष्यमाणम् आदेरलः प्रत्येतव्यम् । क्व च परस्य कार्यम् शिष्यते ? यत्र पञ्चमीनिर्देशः । तद् यथा ईदासः 7|2|83 आसीनो यजते । द्व्यन्तरुपसर्गेभोऽप ईत् 6|3|97 द्वीपम्, अन्तरीपम्, प्रतीपम्, समीपम् ॥
अलोऽन्त्यस्यापवादोऽयम्। शास्त्रे न क्वचित् परस्येतुच्चार्य कार्यं विधीयते। ततश्च निर्विषयमेतदित्यभिप्रायेणाह-`क्व च` इत्यादि। `यत्र पञ्चमीनिर्देशः`इति। `तस्मादित्युत्तरस्य` 1|1|66 इति वचनाद् यत्र पञ्चमीनिर्देशस्तत्र परस्य कार्यं शिष्यते। `आसीनः` इति। `आस उपवेशने` (धातुपाठः-1021), लट्, अनुदात्तेत्वादात्मनेपदम्, शानच्, अदादित्वाच्छपो लुक्। `द्वीपम्, अन्तरीपम्` `समीपम्` इति। द्विर्गताअन्तर्गताः सङ्गता` आपोऽस्मिन्निति विगृह्र बहुव्रीहिः। `ऋक्पूः` 5|4|74 इत्यादिना अकारप्रत्ययः समासान्तः॥
शास्त्रे न क्वचित्परस्येत्युच्चार्य्य कार्यं विधीयत इति निर्विषयमेतदित्यभिप्रायेणाह--क्व चेति । यत्रेत्यादि । पञ्चमीनिर्देशेषु "तस्मादित्युतरस्य" इति परस्य कार्यं विधीयत इत्यर्थः । आसीन इति । "आस उपवेशने" अनुदातेत् । द्वीपमिति । द्विधागता आपो।स्मिन्निति "ऋक्पूरब्धूःपथामानक्षे" इति अकारः समासान्तः ॥
सिद्धान्तकौमुदी
परस्य यद्विहितं तत्तस्यादेर्बोध्यम् । अलोऽन्त्यस्य (कौमुदी-42) इत्यस्यापवादः ॥
आदेः परस्य - आदेः परस्य । परस्येति ।द्व्यन्तरुपसर्गेभ्योऽप ई॑दित्यादौतस्मादित्युत्तरस्ये॑ति परिभाषायां परस्य नियमितं कार्यं यत् तत्तस्यादेरेव भवति, नत्वलोऽन्त्यस्येति तदन्तस्येत्यर्थः । तदाह — अलोन्त्यस्येत्यस्यापवाद इति । तत्र "अल" इत्यप्यनुवर्तनीयम् । तेनद्वीप॑मित्यत्र ईत्वं पान्तसमुदायस्य न भवति ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
परस्य यद्विहितं तत्तस्यादेर्बोध्यम्। इति सस्य थः॥
महाभाष्यम्
आदेः परस्य अलोन्त्यस्यादेः परस्यानेकाल्शित्सर्वस्येत्यपवादविप्रतिषेधात् सर्वादेशः। अलोन्त्यस्येत्युत्सर्गः। तस्यादेः परस्य, अनेकाल्शित्सर्वस्येत्यपवादौ। अपवादविप्रतिषेधात् सर्वादेशो भविष्यति। आदेः परस्येत्यस्यावकाशः द्व्यन्तरुपसर्गेभ्योऽप इर्त्। द्वीपम्। अन्तरीपम्,समीपम्। अनेकाल्शित्सर्वस्येत्यस्यावकाशः। अस्तेर्भूः। भविता, भवितुम्। इहोभयं प्राप्नोति । अतो भिस ऐस्। अनेकाल्शित्सर्वस्येत्येतद् भवति विप्रतिषेधेन। शित्सर्वस्येत्यस्यावकाशः इदम इश् इतः। इह। आदेः परस्येत्यस्यावकाशः स एव। इहोभयं प्राप्नोति अष्टाभ्य औश्। शित्सर्वस्येत्येतद् भवति विप्रतिषेधेन।