॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|52
SK 42
1|1|52
अलोऽन्त्यस्य
SK 42
सूत्रच्छेद:
अलः - षष्ठ्येकवचनम् , अन्त्यस्य - षष्ठ्येकवचनम्
अनुवृत्ति:
षष्ठी  [1|1|49] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
षष्ठी-अन्त्यस्य अल:
सूत्रार्थ:
सूत्रे यदि षष्ठीविभक्त्याः निर्दिष्टस्य शब्दस्य आदेशः उक्तः अस्ति, तर्हि सःआदेशः तस्य शब्दस्य अन्तिम-वर्णस्य स्थाने भवति ।
एतत् परिभाषासूत्रम् अस्ति । अनियमे नियमकारिणी परिभाषा इत्यनेन परिभाषासूत्राणाम् प्रयोजनं स्पष्टीक्रियते । यत्र कस्यचन सूत्रस्य अर्थज्ञाने सन्देहः जायते, तर्हि तस्य सन्देहस्य निवारणम् परिभाषासूत्राणि कुर्वन्ति । यथा - वर्तमानसूत्रेण प्रोक्तया परिभाषया एतत् ज्ञायते, यत् - यदि कस्मिंश्चित् सूत्रे षष्ठीनिर्दिष्टस्य शब्दस्य आदेशः उक्तः अस्ति, परन्तु अयम् आदेशः "कस्य वर्णस्य भवति" अस्मिन् विषये स्पष्टरूपेण उक्तम् नास्ति, तर्हि सः आदेशः तस्य शब्दस्य केवलं अन्तिमवर्णस्यैव करणीयः ।

यथा - त्यदादीनाम् अः 7|2|102 अनेन सूत्रेण त्यदादीगणस्य शब्दानाम् "अ" इति आदेशः विधीयते । अस्मिन् सूत्रे "त्यदादीनाम्" इति षष्ठ्यन्तं पदम् अस्ति, यस्य स्थाने आदेशः प्रोक्तः अस्ति । अतः वर्तमानसूत्रेण त्यदादिगणस्य शब्दस्य अन्तिमवर्णस्य स्थाने अयम् अकारादेशः भवति इति ज्ञायते । यथा - "तत् + औ" इत्यस्य प्रक्रियायाम् -
तत् + औ
→ त अ + औ [त्यदादीनाम् अः 7|2|102 अनेन सूत्रेण त्यदादीगणस्य शब्दानाम् "अ" इति आदेशः। अलोऽन्त्यस्य 1|1|52 इत्यनेन अन्तिमवर्णस्य आदेशः]
→ त औ [अतो गुणे 6|1|97 इति पररूप-एकादेशः अकारः]
→ तौ [वृद्धिरेचि 6|1|101 इति वृद्धि-एकादेशः]

ज्ञातव्यम् - एतत् सूत्रम् औत्सर्गिकसूत्रम् अस्ति । ङिच्च 1|1|53, आदेः परस्य 1|1|54, अनेकाल् शित् सर्वस्य 1|1|55 एतानि त्रीणि सूत्राणि अस्य अपवादरूपेण विधीयन्ते । एतेषां सर्वेषाम् संक्षेपरूपेण अर्थः तथा परस्परेभ्यः बलाबलम् अस्मिन् लेखे निर्दिष्टम् अस्ति ।
One-line meaning in English
In a sutra, if an आदेश is mandated for a word using षष्ठी विभक्ति, then that आदेश happens for the last letter of that word.
काशिकावृत्तिः
षष्ठीनिर्दिष्टस्य य उच्यते आदेशः, सोऽन्त्यस्य अलः स्थाने वेदितव्यः । इद् गोण्याः 1|2|50 पञ्चगोणिः, दशगोणिः ॥
अल्ग्रहणमन्त्यस्य विशेषणम्, नादेशस्य; अन्यथा ह्रलन्त्यस्येत्येवं ब्राऊयात्। आदेशः पुनरत्रैकाल्लभ्यते। अन्यस्य `अनेकाल्शित् सर्वस्य` 1|1|54 इति सर्वादेशतां वक्ष्यति। `षष्ठीनिर्दिष्टस्य` इति। सामान्यवचनेऽपि `षष्ठी स्थानेयोगा` (1।149) इत्यधिकारात् स्थानषष्ठआ निर्दिष्टस्येति वेदितव्यम्; अन्यथा टित्किन्मितोऽप्यवयवसम्बन्धषष्ठीनिर्दिष्टा विधीयमाना अन्त्यस्य स्युः। `इद् गोण्याः` 1|2|50 इति। येयं षष्ठी सान्त्यमलं नीयते- अन्त्यस्याल इत्त्वमिति। `पञ्चगोणिः` इति।पञ्चभिर्गोणीभिः क्रीत इति `तद्धितार्थोत्तरपदसमाहारे च` 2|1|50 इति समासः। `तेनक्रीतम्` 5|1|36 इति `प्राग्वहतेष्ठक्` 4|4|1 `अध्यर्धपूर्वद्विगोर्लुगसंज्ञा-याम्` 5|1|28 इति तस्य लुक्। यद्यलोऽन्त्यस्य षष्ठीनिर्दिष्टस्यादेशो भवति,`इदोऽय् पुंसि` 7|2|111 इत्यतः `इदः` इत्यनुवृत्तेः `हलि लोपः` 7|2|113 विधीयमान इद्रूपस्य योऽन्त्यस्तस्य स्यात्। तथा च - आभ्यामिति न सिध्येत्, नैष दोषः; `नानार्थकेऽलोऽन्त्यविधिरनभ्यासविकारेषु` (व्या।प।62) इति परिभाषया न भविष्यति॥
"अलः" इति जसन्तं चेदयमर्थः स्यात्-अलात्मका आदेशा अन्त्यस्येति । तत्र रहोरजसां लोपः सर्वादेशः स्याद्--नीरजीकरोतीति । अन्त्यस्य चविशेषितत्वात् "वसुस्रंसुध्वंस्वनडुहां दः" इति दत्वं पदस्याप्यन्त्यस्य स्यात्--परमानडुद्भ्यामिति । असन्देहार्थं चालोऽन्त्यस्येति वाच्यं स्याद् । अतोऽलोन्त्यस्येत्यनेन सामानाधिकरण्यात् षष्ठ।ल्न्तमिति स्थितम् । यदि "षष्ठी स्थानेयोगा" इत्येनैकवाक्यताऽस्य स्यात्, ततोऽयमर्थः स्यात्--"इह शास्त्रे या काचन षष्ठी सान्त्यस्यालो भवति सा स्थानेयोगा इति । ततश्च "आर्द्धधातुकस्येड्वलादेः" इत्यस्याप्यन्तेऽल्यनुसंहारादार्द्धधातुकान्त्यस्यैवेट् स्यात्, स च भवन् "आद्यन्तौ टकितौ" इत्यन्त्यात्प्राक् स्यात् । "आद्यन्तौ टकितौ" इत्यनेन हि स्थानेयोगात्वमेव षष्ठ।ल बाध्यते, न पुनरन्त्येऽल्यनुसंहारोऽपि । अतो भिन्नं वाक्यम्, तदाह--षष्ठीनिर्दिष्टस्येत्यादि । सामान्यवचनेऽपि "षष्ठी स्थानेयोगा" इत्याधिकारात् स्थान षष्ठीनिर्दिष्टस्येति वेदितव्यम्; अन्यथा षष्ठीमात्रस्याधिकारे यस्य षष्ठोनिर्दिष्टस्य यत्कार्यं यथाभूतमुच्यते--आदेशरूपम्, ताअथगमरूपं वा, ततथाभूतमेव तदन्तस्य भवतीत्यर्थः स्यात् । ततश्च स एव दोषो य एकवाक्यतायाम् । अतः "षष्ठी स्थानेयोगा" इति सर्वमनुवर्त्यम् । अयञ्चार्थो भवति--श्थानषष्ठीनिर्दिष्टस्य यदुच्यते ततदन्त्यस्यालो भवति, न तस्य कृत्स्नस्य" इति । सोऽयं कार्यस्यान्त्येऽल्यनुसंहारो वृत्तिकारेण दर्शितः । यद्वा-"या स्थानेयोगा षष्ठी साऽन्त्यस्यालः" इति षष्ठ।ल एवानुसंहारो वेदितव्यः । अत्र पक्षे "डिच्च" इत्यस्यायमर्थः -"यत्र ङिदादेशो इविधीयते तत्र या षष्ठी सान्त्यस्यालः" इति । एवं सर्वत्र । कार्यानुसंहारे तु यताश्रुतमेव षष्ठयाः स्याद्, अनुसंहारे "डिच्च" इत्यादावसङ्गतिः । अतः कार्यानुसंहारो वृत्तिकारेण दर्शितः ॥
सिद्धान्तकौमुदी
षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेशः स्यात् ॥
अलोऽन्त्यस्य। `अ`लिति प्रत्याहारो वर्णपर्यायः। `अल` इति षष्ठ�न्तम्। `षष्ठी स्थानेयोगा` इत्यतः `षष्ठी स्थाने इत्यनुवर्तते। तच्च षष्ठीति प्रथमान्तं तृतीयान्ततया विपरिणम्यते। `निर्दिष्टस्ये`ति शेषः। `स्थाने` इत्यनन्तरं `विधीयमान` इति शेषः। स्थाने विधीयमान आदेशः षष्ठीनिर्दिष्टस्य योऽन्त्योऽल् तस्य स्यादित्यर्थः। तदाह--षष्ठीत्यादिना। `त्यदादीनामः`-यः सः। आदेश इति किम् ?, `आर्धधातुकस्येट्` तृच ऋकारात् पूर्वो मा भूत्। अल इति किम् ?। पदस्येत्यधिकृत्य विधीयमानं वसुरुआंस्विति दत्वं परमानडुभ्द्यामित्यत्राऽन्त्यस्य कृत्स्नस्य पदस्य मा भूत्।
अलोऽन्त्यस्य। स्थानषष्ठीनिर्दिष्टस्य य उच्यते सोऽन्त्यस्यालः स्थाने स्यादित्यर्थः। `त्यदादीनामः`। सः, यः। स्थानषष्ठीति किम् ?, `आर्धधातुकस्यैट्` तृच् ऋकारात्पूर्वो मा भूत्। इदं च `षष्ठी स्थाने` इत्यनुवृत्त्या लभ्यते। अल इति किम् ?, `पदस्ये`त्यधिकृत्य विधीयमानं `वसुरुआंसु` इति दत्वं परमानडुद्भयामित्यादावन्त्यस्य पदस्य मा भूत्।
लघुसिद्धान्तकौमुदी
षष्ठीनिर्दिष्टाऽन्त्यस्याल आदेशः स्यात्। इति यलोपे प्राप्ते - (यणः प्रतिषेधो वाच्यः)। सुद्ध्युपास्यः। मद्धरिः। धात्रशः। लाकृतिः॥
महाभाष्यम्
अलोऽन्त्यस्य किमिदमल्ग्रहणमन्त्यविशेषणम् आहोस्विद् ‐ आदेशविशेषणम्? किं चातः? यद्यन्तविशेषणम्, आदेशोऽविशेषितो भवति। तत्र को दोषः। अनेकालप्यादेशोऽन्त्यस्य प्रसज्येत। यदि पुनरलन्त्यस्येत्युच्यते तत्रायमप्यर्थः- अनेकाल् शित्सर्वस्येत्येतन्न वक्तव्यं भवति। इदं नियमार्थं भविष्यति ‐ अलेवान्त्यस्य भवति नान्य इति। एवमप्यन्त्योऽविशेषितो भवति। तत्र को दोषः। वाक्यस्यापि पदस्याप्यन्त्यस्य प्रसज्येत। यदि खल्वप्येषोऽभिप्रायस्तन्न क्रियेतेति, अन्त्यविशेषणेपि सति तन्न करिष्यते। कथम्? ङिच्च अलोन्त्यस्येत्येतन्नियमार्थं भविष्यति- ङिदेवानेकालन्त्यस्य भवति नान्य इति। किमर्थं पुनरिदमुच्यते? ।। अलोन्त्यस्येति स्थाने विज्ञातस्यानुसंहारः।। अलोऽन्त्यस्येत्युच्यते। स्थाने विज्ञातस्यानुसंहारः क्रियते। स्थाने प्रसक्तस्येति। ।। इतरथा ह्यनिष्टप्रसङ्गः।। इतरथा ह्यनिष्टं प्रसज्येत। टित्किन्मितोऽप्यन्त्यस्य स्युः। यदि पुनरयं योगशेषो विज्ञायेत। ।। योगशेषे च।। किम्? अनिष्टं प्रसज्येत। टित्किन्मितोऽप्यन्त्यस्य स्युः। तस्मात् सुष्ठूच्यते- अलोन्त्यस्येति स्थाने विज्ञातस्यानुसंहारः। इतरथा ह्यनिष्ट प्रसङ्ग इति।