॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|50
SK 39
1|1|50
स्थानेऽन्तरतमः
SK 39
सूत्रच्छेद:
स्थाने - सप्तम्येकवचनम् , अन्तरतमः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
स्थाने अन्तरतम:
सूत्रार्थ:
यत्र कस्यचन स्थानिनः अनेकाः आदेशाः दत्ताः सन्ति, तत्र स्थानेन यः सदृशतमः, सः एव आदेशः भवति ।
बहुषु सूत्रेषु एकस्य स्थानिनः अनेके आदेशाः दीयन्ते । यथा - मिदेर्गुणः 7|3|82 इत्यनेन मिद्-धातोः इकारस्य गुणः भवति । अदेङ् गुणः 1|1|2 इत्यनेन अ, ए, ओ - एतेषां त्रयाणाम् वर्णानाम् गुणसंज्ञा भवति । अतः अत्र इकारस्य स्थाने त्रयः आदेशाः उच्यन्ते । एतेभ्यः त्रिभ्यः आदेशेभ्यः कः आदेशः करणीयः, अस्य उत्तरम् स्थानेऽन्तरतमः 1|1|50 अनेन सूत्रेण लभ्यते । "यः आदेशः स्थानेन सदृशतमः अस्ति, सः एव करणीयः", इति अस्य सूत्रस्य अर्थः ।

सादृश्यम् कथं निर्णीयते? वस्तुतः सादृश्यम् चतुर्विधम् अस्ति - स्थानसादृश्यम्, अर्थसादृश्यम्, गुणसादृश्यम्, प्रमाणसादृश्यम् । क्रमेण पश्यामः -

1. स्थानसादृश्यम् -
"स्थानम्" इत्युक्ते वर्णोत्पत्तिस्थानम् । यत्र भिन्नानाम् आदेशानाम् उच्चारणस्थानम् भिन्नम् अस्ति, तत्र उच्चारणस्थानसाधर्म्येण यः वर्णः सदृशतमः, तस्य स्वीकारः करणीयः । यथा, मिदेर्गुणः 7|3|82 इत्यनेन यद्यपि इकारस्य स्थाने अकार-एकार-ओकाराः विधीयन्ते, तथापि एतेभ्यः केवलं एकारस्य उच्चारणस्थानम् ( = कण्ठतालु) इकारस्य उच्चारणस्थानेन (= तालु) सह सदृशतमम् अस्ति । अतः अत्र "मिद्" धातोः इकारस्य एकारादेशः करणीयः । अतएव "मेद्यति" इति रूपं सिद्ध्यति ।

अत्र एतत् स्मर्तव्यम्, यत् आदेशनिर्णये केवलं "सादृश्यम्" आवश्यकम् अस्ति, "समानता" न । इत्युक्ते, यद्यपि इकारस्य उच्चारणस्थानम् "अ/ए/ओ" एतेषाम् उच्चारणस्थानैः सह "समानम्" नास्ति, तथापि एतेभ्यः एकारस्य उच्चारणस्थानम् इकारस्य उच्चारणस्थानस्य "सदृशतमम्" अस्ति, अतः आदेशरूपेण तस्य विधानम् भवितुम् अर्हति ।

2. अर्थसादृश्यम् -
अर्थेन सादृश्यम् अर्थसादृश्यम् । यत्र स्थानसादृश्येन आदेशनिर्णयः न भवितुं शक्यते, तत्र अर्थसादृश्यस्य विचारः करणीयः । यथा - पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु 6|1|63 अनेन सूत्रेण "पद्-दत्-नस्-मास्-ह्रत्-निश्-असन्-यूषन्-दोषन्-यकन्-शकन्-उदन्-आसन्" एते आदेशाः निर्दिष्टाः सन्ति । अत्र स्थानिनः न उक्ताः । अतः ये शब्दाः अर्थसादृश्येन आदेशसमानाः सन्ति, ते स्थानीरूपेण स्वीक्रियन्ते । यथा - पद्-शब्दस्य स्थानी "पाद", दत्-शब्दस्य स्थानी "दन्त" आदयः । एतदेव अर्थसादृश्यम् ।

3. गुणसादृश्यम् -
गुण-इत्युक्ते बाह्यप्रयत्नाः । यत्र स्थानसादृश्येन अर्थसादृश्येन वा निर्णयं कर्तुं न शक्यते, तत्र गुणसादृश्यस्य उपयोगः करणीयः । यथा - झयो होऽन्यतरस्याम् 8|4|62 अनेन सूत्रेण झय्-वर्णात् परस्य हकारस्य पूर्वसवर्णः भवति । यथा - "वाग् + हरि" इत्यत्र अनेन सूत्रेण हकारस्य पूर्वसवर्णः - इत्युक्ते गकारस्य सवर्णः विधीयते । गकारस्य सवर्णाः इत्युक्ते सर्वे कवर्गीयाः - क्, ख्, ग्, घ्, ङ् । एतेभ्यः हकारस्य स्थाने कः वर्णः आगच्छेत् ? एतत् ज्ञातुम् स्थानसादृश्यस्य अर्थसादृश्यस्य वा साहाय्यं स्वीकर्तुं न शक्यते । अतः अत्र गुणसादृश्यम् द्रष्टव्यम् । हकारस्य बाह्यप्रयत्नाः संवार-नाद-घोष-महाप्राणः । तादृशाः एव घकारस्यापि । अतः अत्र हकारस्य स्थाने घकारः विधीयते । अतः "वाग् + हरि = वाग्घरि" इति सन्धिः भवति ।
[सर्वेषाम् वर्णानाम् बाह्यप्रयत्नाः अत्र निर्दिष्टाः सन्ति, ते दृश्यन्ताम् ।]

4. प्रमाणसादृश्यम् -
प्रमाण-इत्युक्ते उच्चारणमात्रा (अर्धमात्रा / एकमात्रा / द्विमात्रा / त्रिमात्रा) । यत्र स्थानसादृश्येन, अर्थसादृश्येन, गुणसादृश्येन च निर्णयंं न भवति, तत्र प्रमाणसादृश्यस्य साहाय्यम् स्वीक्रियते । यथा - अदसोऽसेर्दादु दो मः 8|2|80 अनेन सूत्रेण अदस्-शब्दस्य दकारस्य मकारः, तथा दकारात् परस्य वर्णस्य उकारादेशः भवति । अयम् उकारादेशः यदि ह्रस्व-वर्णस्य स्थाने भवति तर्हि ह्रस्व-उकारः आदेशरूपेण विधीयते, तथा अयम् उकारादेशः यदि दीर्घ-वर्णस्य स्थाने भवति तर्हि दीर्घ-ऊकारः आदेशरूपेण आगच्छति । (अत्र यद्यपि उकारः विधीयमानः अस्ति तथापि अयम् सवर्णग्रहणं करोति इति भाष्ये स्पष्टीकृतम् अस्ति ।)

ज्ञातव्यम् - आदेशस्य निश्चये कर्तव्ये एतेषाम् चतुर्ण्णाम् प्रयोगः अनेनैव क्रमेण भवति । इत्युक्ते, सर्वप्रथमम् स्थानसादृश्येन आदेशस्य निश्चयः करणीयः । यदि स्थानसादृश्येन निर्णयः न भवति, तर्हि अर्थसादृश्यस्य प्रयोगः कर्तव्यः । तदनन्तरम् आवश्यकम् चेद् गुणसादृश्यस्य अन्ते च प्रमाणसादृश्यस्य प्रयोगः करणीयः । यथा, मिदेर्गुणः 7|3|82 इत्यस्य विषये स्थानसाधर्म्येणैव इकारस्य गुणरूपेण एकारः विधीयते, अतः अत्र अन्यसादृश्यस्य साहाय्यम् न स्वीकर्तव्यम् । नो चेत् प्रमाणसादृश्येन ह्रस्व-इकारस्य स्थाने ह्रस्व-अकारस्य अनुचितं विधानम् भवितुम् शक्नोति । अतः सादृश्यनिश्चये "स्थान-प्रयत्न-गुण-प्रमाणम्" अयम् क्रमः नित्यं स्मर्तव्यः । एतदेव यत्र अनेकविधम् आन्तर्यम्, तत्र स्थानतः आन्तर्यं बलीयः अनया परिभाषया स्पष्टीक्रियते ।
One-line meaning in English
When multiple आदेशा: appear to be mandated for a स्थानी, the आदेश which is closest to the स्थानी is the one that actually happens.
काशिकावृत्तिः
स्थाने प्राप्यमाणानाम् अन्तरतम आदेशो भवति सदृशतमः । कुतश्च शब्दस्य आन्तर्यम् ? स्थानार्थगुणप्रमाणतः । स्थानतः - अकः सवर्णे दीर्घः 6|1|101 - दण्डाग्रम्, यूपाग्रम् - द्वयोरकारयोः कण्ठ्य एव दीर्घ आकारो भवति । अर्थतः - वतण्डी च असौ युवतिश्च वातण्ड्ययुवतिः - पुंवद्भावेन आन्तरतमः पुंशब्दोऽतिदिश्यते । गुणतः - पाकः, त्यागः, रागः - चजोः कु घिण्यतोः 7|3|52 इति चकारस्य अल्पप्राणस्य अघोषस्य तादृश एव ककारो भवति, जकारस्य घोषवतोऽल्पप्राणस्य तादृश एव गकारः । प्रमाणतः - अमुष्मै, अमूभ्याम् - अदसोऽसेर्दादु दो मः 8|2|80 इति ह्रस्वस्य ह्रस्वः, दीर्घस्य दीर्घः । स्थाने इति वर्तमाने पुनः स्थानेग्रहणं किम् ? यत्र अनेकम् आन्तर्यं सम्भवति तत्र स्थानत एव आन्तर्यं बलीयो यथा स्यात् - चेता, स्तोता । प्रमाणतोऽकारो गुणः प्राप्तः, तत्र स्थानत आन्तर्यादेकारौकारौ भवतः । तमब्ग्रहणं किम् ? वाग् घसति, त्रिष्टुब् भसति । झयो होऽन्यतरस्याम् 8|4|62 इति हकारस्य पूर्वसवर्णे क्रियमाणे सोष्मणः सोष्माणः इति द्वितीयाः प्रसक्ताः ; नादवतो नादवन्तः इति तृतीयाः ; तमब्ग्रहणाद् ये सोष्माणो नादवन्तश्च ते भवन्ति चतुर्थाः ॥
परिभाषेयमादेशनियमार्था।`स्थाने प्राप्यमाणानाम्` इति। एतेन नेदं विधायकं वाक्यम्, किं तर्हि? लक्षणान्तरेण प्राप्तानामनन्तरतमानामितरेषां च योऽन्तरतमः, स एव भवतीति नियमार्थमिति दर्शयति। विधायकत्वे हि `दधि मधु` इतादावपि प्रसज्यते। किं पुनरत्रानिष्टम्? यावतान्तरतम्याद् दधिमधुशब्दयोस्तावेवादेशौ भविष्यतः, तयोरप्यादेशयोरन्यौ दधिमधुशब्दौ यावादेशौ स्याताम्, तयोरप्यन्यावित्येवमपरिसमाप्तादेशपर-म्पराविधानादनवस्था स्यात्। ततश्चार्थप्रत्यायनं प्रति शब्दानां विनियोगो न स्यात्न्वाख्यायकस्य शास्त्रस्य प्रवृत्त्यनुपरमात्। शास्त्रोपरतौ ह्रन्वाख्यातास्ते प्रयुज्यते, नान्यथेत्यनिष्टम्। ननु च सकृत्प्रवृत्तौ लक्षणस्य चरितार्तत्वात् पुनः प्रवृत्तिर्न भविष्यति, नैतदस्तिच यत्र हि प्रयोजनार्था प्रवृत्तिस्तत्रैतदुक्तम्, इह पुनरकस्मादन्तरतमो विधीयत इत्यनुपरतैवास्य प्रवृत्तिः। नियमाकत्वेऽप्यस्य यदीदं विहितानां नियमं कुर्यात् ! अनर्थकमेव वचनं स्यात्। यो हि भुक्तवन्तं ब्राउयात्-`मा भुङ्क्ष्य` इति,किं तस्य तेन कृतं स्यात् ! तस्मात् प्राप्यमाणावस्थायामेव वाक्यान्तरः सह संहत्यानन कार्यं निर्वत्र्यते; तदेकदेशभूत्वादस्य। `सदृशतमः` इति।? अन्तरतमशब्दस्यार्थ कथयति।`अर्थतः` इत्यादि। वतण्डशब्दात् स्त्रियामपत्यार्थे `वतण्डाच्च` 4|1|108 इति यञ्,तस्य `लुक् स्त्रियाम्` 6|4|14 इत्यकारलोपः, वतण्डी चासौ युवतिश्चेति `पोटायुवति` 2|1|64 इत्यादिना समासः। तत्रानेन `पुंवत कर्मधारयः` 6|3|41 इत्यादिना पुंवद्भावे कर्तव्ये सर्वः पुंशब्दः प्रसक्तः। तत्रानेन वतण्डापत्यार्थ-स्य वतण्डी शब्दस्यार्थतोऽन्तरतमो वतण्डापत्यार्थ एव वातण्डशब्दो भवति।`पाकः` इत्यादौ भावे घञ्। `चकारस्य` इत्यादि। `वर्गाणां प्रथमा अल्पप्राणाः` (आपि।शि। 4।3।) इति चकारककारावल्पप्राणौ। `वर्गाणां प्रथमद्वितीयाः शषसविसर्जनीय-जिह्वामूलीयोपध्मानीया यमौ च प्रथमद्वितीयौ विवृतकण्ठाः आआसानुप्रदाना अघोषाः` (आपि।शि।4।2।) इत्यघोषौ। `जकारस्य` इत्यादि। `वर्गाणां तृतीयचतुर्था अन्तःस्थाहकारानुस्वारौ यमौ च द्वितीयचतुर्थौ नासिक्याश्च संवृकण्ठा नादानुप्रदाना घोषवन्तः`महाप्राणाः` इत्यल्पप्राणौ। `अमुष्मै, अमूभ्याम्` इति। अदसश्चतुर्थ्येकवचने भ्यामि च परतस्त्यदाद्यत्वम्,तो गुणे` 6|1|94 पररूपत्वम्, `सर्वनाम्नः स्मैः` 7|1|4 इति स्मैभावः। भ्यामि `सुपि च` 7|3|102 इति दीर्घः, ततो ह्यस्वस्य ह्यस्व उकारो भवति, दीर्घस्य दीर्घः।`स्थाने इति वत्र्तमाने` इति। प्रकृतो हि स्थानशब्दः प्रसङ्गवाची। तदनुवृ-त्तौ स्थाने प्राप्यमाणानामन्तरतमो भवति` इत्येषोऽर्थो लभ्यते। ननु च यत्रानेकमा-न्तर्यं तत्र ताल्वादिस्थानत एवान्तर्यस्य बलीयस्त्वम्, तस्मात् तद् यथा स्यादिति पुनस्ताल्वादिस्थानवाचिनः स्थानशब्दस्योपादानं क्रियते। यद्येवम्,स्थानकृतमेवेहान्तर्यं विशिष्टमुपात्तमिति प्रमाणादिकृतं परित्यक्तं स्यात्? नैष दोषः, वाक्यभेदं हि कृत्वा तत्र सम्बन्धः क्रियते, स्थाने प्राप्यमाणानामन्तरतम आदेशो भवति। `स्थाने च भवति` इति पूर्वत्र वाक्ये प्रसङ्गवाची स्थाशब्दः, उत्तरत्र ताल्वादिस्थानवाची। एवं वाक्यभेदेन सम्बन्धे सति, पूर्वस्मिन् वाक्ये स्थानादिकृतानामान्तर्याणां -परिग्रहः प्रतीयते। द्वितीये तु तेषामेव बलाबलवत्त्वम्। `स्थाने` इति च निमित्तसप्तमी। तेनेदमुक्तं भवति- यत्रानेकमान्तर्यं तत्र स्थानेन निमित्तेन योऽन्तरतमः, स एव भवति। वाक्यभेदस्य च तमब्ग्रहणं लिङ्गम्। सादृश्ये प्रकर्षो हि तेन प्रतिपादयितुमिष्टः। स चानेकस्मिन् सादृश्ये सति सादृश्यान्तरापेक्षया भवति। एकवाक्यतायां च स्थानग्रहणेन सादृश्यान्तरे निरस्ते किमपेक्षया सादृश्यप्रकर्षः स्यात् ! तस्मात् तम-ब्ग्रहणाद् वाक्यभेदोऽनुमीयते, अन्यथा हि तस्य वैयथ्र्यं स्यात्।`चेता` इति। अत्रेकारस्य तालव्यत्वादेकारस्य कष्ठतालव्यत्वात् स्थानत आन्तर्यम्; इकाराकारयोस्तु प्रमाणयोरपि मात्रिकत्वात्। `स्तोता` इति। अत्राप्युकार-स्यौष्ठत्वादोकारस्य कण्ठ्यौष्ठत्वात् स्थानत आन्तर्यम्। उकाराकायोस्तु प्रमाणतः पूर्ववत्। तत्रासति पुनः स्थानग्रहणे, प्रमाणत आन्तर्यात् कदाचिदकारो गुणः स्यात्, स्थानत आन्तर्यात् कदाचिदेकारौ। पुनः स्थानग्रहणात् तु स्थानकृतस्यान्तर्यस्य बलीयस्त्वादेकारौकारौ एव भवतः, न कदाचिदकारः। `सोष्मणः, सोष्माण इति ` इत्यादि। इतिकरणो हेतौ; यस्मात् सोष्माणो द्वितीयस्तस्मात् सोष्मणो हकारस्यद्वितीयाः प्रसक्ता इत्यर्थः। एवं `नादवतो नादवन्तः` इत्यादौ वाक्ये हेत्वर्थोयोज्यः। `शादय ऊष्माणः सस्थानेन द्वितीया हकारेण चतुर्थाः` इति शिक्षा (आ।शि।1।4।द्वितीयाः` इत्यनेन तु वर्गद्वितीयानां खकारादीनाम्। `हकारेण चतुर्थाः` इत्यनेनापि वर्गचतुर्थानां धकारादीनाम्। समानं स्थानं यस्य स सस्थानः। `सस्थानेन` इति। इत्थ-म्भूतलक्षणे तृतीया। सस्थानेन द्वितीया ऊष्मतया लक्ष्यन्ते। एतदुक्तं भवति- `यथा सस्थान एवेषामूष्मा, एवमेतेऽपि वर्गाणां द्वितीया ऊष्माणः` इति। अथ वा - तुल्यार्थयोग एषा तृतीया, तुल्यशब्दस्त्वध्याहार्यः, तुल्यत्वमूष्मतया वेदितव्यम्। तत्र खकारस्य सस्थानो हकारः, छकारस्य शकारः, ठकारस्य षकारः, थकारस्य सकारः। फकारस्य सस्थान ऊष्मा नास्ति। तस्मात् तस्यापि विशेषेणोष्मत्वं लक्ष्यन्ते, तत्सदृशत्वात्। तेन यथा हकार ऊष्मा एवं तेऽपीत्यर्थः। `नादवतः` इत्यादि। `वर्गाणां तृतीयचतुर्थाः` इत्यादिना पूर्वोक्तेन ग्रन्थेन तृतीयानां हकारस्य नादवत्त्वमुक्तम्। ये सोष्माणो `नादवन्तश्च` इति। सोष्मत्वं हकारस्य `शादय ऊष्माणः` (आ।शि।1.4.8) इत्यनेनाख्यातम्,चतुर्थानां तु `हकारेण चतुर्थाः` (आ।शि। 1.4.1) इत्यनेन नादवत्त्वम्, उभयेषां वर्गाणां तृतीयचतुर्था इत्यादिनैव पूर्वोक्तेन।
यद्ययं स्वतन्त्रो विधिः स्याद्, अत्रापि प्राप्नोति - दघि, मघु । अस्तु; न कश्चिदन्य आदेशः प्रतिनिर्द्दिश्यते, तत्रान्तर्यतः स एव तस्य भविष्यति, न; तस्याप्यन्य इत्यनवस्थाप्रसङ्गात् । प्रयोजनमन्तरेण हि प्रवर्तमानमसकृदपि प्रवर्तते । ततश्च सर्वस्य निवृत्युन्मुखत्वादर्थप्रत्यायनाय प्रयोगो न स्यात् । अपि च बिसं मुसलमित्यादौ यदा समुदायस्य समुदायस्तदा सकारमात्रस्यानादेशत्वात् षत्वाप्रसङ्गेऽपि सकारमात्रस्य सकार इति षत्वं प्राप्नोति । अतः परिभाषाप्रकरणात् परिभाषेयं यत्र स्थानषष्ठी तत्रोपतिष्ठते । तेन विधिवाक्यानामनेन सूत्रेणैकवाक्यत्वाद् विधानकाल एवान्तरतम आदेशो विधीयत इत्याह--स्थाने प्राप्यमाणानामिति । अत्रैवशब्दाप्रयोगात् प्राप्यमाणानामिति वचनच्च विशिष्टविधिरेवायम्, न नियमः । अर्थात्वनन्तरतमव्युदास इति दर्शितं भवति । अन्तरतम इत्यस्यार्थमाह--सदृशतम इति । कुतश्चेति । शब्दत्वस्य साधारणत्वात् प्रापतिस्विकविशेषस्य चासाधारणत्वात् प्रश्नः । वतण्डी चासौ युवतिरिति । विग्रहवाक्यम्, इतरदुदाहरणम् । अत्र वतण्डस्यापत्यं स्त्री "वतण्डाच्च" "लुक् स्त्रियाम्" इति यञो लुक्, शार्ङ्गरवादिपाठान्ङीन् । "पएटायुवति" इति समासे सति पुंवत्कर्मधारयेति पुंशब्दो निर्द्दिश्यमानो वतण्डापत्यवाचिनो वतण्डशब्दस्यतदपत्यवाची वातण्ड।ल्शब्दो भवति । चकारस्येत्यादि । अल्पप्राणत्वादिकं सवर्णसंज्ञायामुक्तम् । अमुष्मै, अमूभ्यामिति । अदसश्चतुर्थ्येकवचने त्यदाद्यत्वम्, शर्वनाम्नः स्मै", भ्यामिशुपि च" इति दीर्घत्वम् । स्थान इति वर्तमान इति । पूर्वसूत्राद् । यद्यपि तत्र समस्तम्, तथापि स्वरितत्वानुषङ्गादनुवृत्तिरिविरुद्धा । पुनः स्थानेग्रहणमिति । प्रकृतेन हि स्थानशब्देन स्थाने प्राप्यमाणानामित्ययमर्थो लभ्यते, अयं तु ताल्वादिस्थानवचनो वाक्यभेदेन सम्बध्यते, स्थानैऽन्तरतमो भवति । यत्रानेकमान्तर्थं तत्र स्थानकृतान्तर्थमाश्रीयत इति वाक्यभेदस्य च तमब्ग्रहणं लिङ्गम् । स्थानकृत एव हि सादृश्ये गृह्यमाणे सादृश्यान्तरपरित्यागात् तमब्ग्रहणं व्यर्थमेव स्यात् । तमब्ग्रहणं किमिति । सुमदृश्यव्यवहारदर्शनात् तमब्ग्रहणमिति भावः । सोष्मणः, सोष्माण इत्यादि । ऊष्मशब्दोऽत्र गुणमात्रवचनः । इतिकरणो हेतौ । यस्मादूष्मगुणयुक्ताः, तस्मादूष्मगुणयुक्तस्य हकारस्य द्वितीयाः प्रसक्ता इत्यर्थः । "शादय ऊष्माणः सस्थानेन द्वितीया हकारेण चतुर्थाः" इति शिक्षा । अत्रोष्मशब्दो गुणवचनः, सस्थानेनेति इत्थंभूतलक्षणे तृतीया । हशषसाः खच्छादीनां द्वितीयानां स्थाना यथा ते ऊष्माण एवं द्वितीया अपीत्यर्थः । फकारस्य सस्थान ऊष्मा नास्ति, तस्मातस्य विशेषत ऊष्मत्वं वक्तव्यम् । हकारेण चतुर्था इति, यथाहकार ऊष्मा एवं तेऽपीत्यर्थः । एवं नादवतो नादवन्त इतीत्यत्रापि हेत्वर्थो योज्यः । इह इष्टम्, उप्तम्--आन्तर्यतोऽर्द्धमात्रस्य व्यञ्जनस्यार्द्धमात्रेक् संप्रसारणं प्राप्नोति; इह च दध्यत्र, कुमार्यत्र, ब्रह्मबन्ध्वर्थम्--मात्रिकद्विमात्रिकत्रिमात्रिकाणामिकां मात्रिकद्विमात्रिकत्रिमात्रिका यणः प्राप्नुवन्त्यान्तर्यतः । नैव लोके वेदेऽर्द्धमात्र इगस्ति, नापि मात्रिको द्विमात्रिको वा यण्, योऽस्ति स भविष्यति । इहान्तरतमशब्दः सप्तम्यन्तोऽपि पठितो भाष्ये । "स्थानेऽन्तरतम उरण् रपरः" इति संहितापाठोऽनित्यः" तत्र पदच्छेदे सप्तम्यन्तमपि सम्भवति । तत्र चायमर्थः-षष्ठीति वर्तते,अन्तरतमो य आदेशस्य स्थानी, तत्र षष्ठी, तस्यादेश इति "अकः सवर्णे दीर्घः" इत्यादौ विधीयमानस्य दीर्घस्यान्तरतमे स्थानिन्यक इति षष्ठ।लेपसंहारात् सिद्धमिष्ठम् । तथा "वान्तो यि प्रत्यये" इत्यत्रैव इत्यनुवृतायाः षष्ठ।ल वान्तादेशस्यान्तरतमयोरोदौतोरुपसंहारात् सिद्धम्, इतरथैज्मात्रस्य वान्तादेशः स्यात् । अत्र यक्षे दोषः -"इको यणचि" इति यणो येऽन्तरमा इकस्तत्र षष्ठीति दध्यत्रेत्यादावेव स्यात्, कुमार्थत्रेत्यादौ न स्यात् । तथा "इको गुणवृद्धी" गुणवृद्ध्योर्येऽन्तरतमा इकस्तत्र षष्ठीति इहैव स्याद्-नेता, लविता, नायकः, लावकः; चेता, स्तोता, चायकः, तावक इत्यत्र न स्यात् । एवं दोषवत्वादस्य पक्षस्य यथाव्याख्यातमेव साधीयः । "वान्तो यि प्रत्यये" इत्यत्र परिहारं वक्ष्यति ॥
सिद्धान्तकौमुदी
प्रसङ्गे सति सदृशतम आदेशः स्यात् । [(परिभाषा - ) यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः] ॥
स्थानेऽन्तरतमः। `स्थानं प्रसङ्ग` इत्युक्तम्। अन्तरशब्दोऽत्र सदृशपर्यायः, अतिशयतोऽन्तरोऽन्तरतमः। तदाह--प्रसङ्गे सतीत्यादिना। एकस्य स्थानिनोऽनेकादेशप्रसङ्गे सति यः स्थानार्थगुणप्रमाणतः स्थानिना सदृशतमः स एवादेशो भवतीत्यर्थः। अत्र स्थानशब्देन ताल्वादिस्थानं विवक्षितम्। गुणशब्देन प्रयत्नः। प्रमाणशब्देन एकद्विमात्रादिपरिमाणम्। तत्र स्थानतो यथा--दध्यत्र। तालुस्थानकस्य इकारस्य तालुस्थानको यकारः। अर्थतो यथा--तृज्वत्क्रोष्टुरिति क्रोष्टुशब्दस्य उकारान्तस्य तृजन्त आदेशो भवन्नर्थसाम्यात् क्रोष्टृशब्द एव तृजन्त आदेशो भवति। गुणतो यथा--वाग्घरिः। अत्र हकारः स्थानी घोषनादसंवारमहाप्राणप्रयत्नवान्। तस्य गकारसवर्णो भवंश्चतुर्थो घकारो भवति, तस्य हकारेण स्थानिना घोषनादसंवारमहाप्राणप्रयत्नसाम्यात्। ककारस्तु न भवति, तस्य �आआसाऽघोषविवाराल्पप्राणप्रयत्नकत्वात्। तथा खकारोऽपि द्वितीयो न भवति, तस्य महाप्राणप्रयत्नसाम्येऽपि �आआसाऽघोषविवारप्रयत्नभेदात्। तथा तृतीयो।ञपि गकारो न भवति, तस्य घोषनादसंवारप्रयत्नसाम्येऽपि निना हकारेण �आआसाऽघोषविवारप्रयत्नबेदे सत्यपि महाप्राणप्रयत्नसाम्यसत्त्वात् , तथा तृतीयो वा गकारः कुतो न स्यात्, तस्य स्थानिना हकारेण अल्पप्राणप्रयत्नभेदेऽपि घोषनादसंवारप्रयत्नसाम्यसत्त्वात्। अत एव ङकारो वा कुतो न स्यादिति चेन्न ,तमब्ग्रहणेन उक्तातिप्रसङ्गनिरासात्। अतिशयितो ह्यन्तरोऽन्तरतमः। अतिशयितं च प्रयत्नतः सादृश्यं हकारेण घकारस्यैव, उभयोरपि घोषनादसंवारमहाप्राणात्मकप्रयत्नचतुष्टयसाम्येन सादृश्यातिशयसत्त्वात्। खकारस्य महाप्राणप्रयत्नसाम्येऽपि घोषनादसंवारप्रयत्नविरहात्। गङयोः घोषनादसंवारप्रयत्नसाम्येऽपि महाप्राणप्रयत्नविरहात्। प्रमाणतो यथा--`अदसोऽसोर्दादुदोमः` इति। ह्रस्वस्य उकारो दीर्घस्य ऊकारः। नन्वेवमपि चेता स्तोतेत्यत्र इकारस्य उकारस्य च सार्वाधातुकार्धधातुकयोरिति गुणो भवन् प्रमाणत आन्तर्यवानकारः कुतो न स्यादित्यत आह--यत्रेति। तेन इकारस्य एकार उकारस्य ओकारश्च गुणो भवति, स्थानसाम्यात्, न त्वकारः, स्थानभेदात्। नच इकारेण एकारस्य, उकारेण ओकारस्य कथं स्थानसाम्यम्। एकारस्य ओकारस्य च कण्ठस्थानाधिक्यादिति वाच्यं, यावत्स्थानसाम्यस्य सावर्ण्यप्रयोजकत्वेऽपि आन्तरतम्यपरीक्षायां कथञ्चित्स्थानसाम्यस्यैव प्रयोजकत्वात्। अत्र सूत्रे पूर्वसूत्रात्स्थानेग्रहणमनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञाबलात्। तृतीयान्तं च विपरिणम्यते। अनुवर्त्त्यमानस्चायं `स्थान`शब्दः पूर्वंसूत्रे प्रसङ्गपरोऽप्यत्र ताल्वाद्यन्तयतमस्थानपरः, शब्दाधिकाराश्रयणात्। `अन्तरतम` इत्यपि तेन संबध्यते। ततश्च `स्थानेनाऽन्तरतम` इति वाक्यान्तरं संपद्यते। सति संभवे ताल्वादिस्थानत एवान्तरतमो भवतीत्यर्थः। ततश्च `यत्रानेकविधमान्तर्यं तत्र स्थानत एवान्तर्यं बलीय` इति (सिद्धं) भवति।
स्थाने। सदृशतम इति। अर्थात्प्राप्यमाणानां मध्ये एव। अत एव `गङ्गोदक`मित्यत्र त्रिमात्र ओकारो न। इह `स्थाने` इत्यनुवर्तमाने पुनःस्थाने ग्रहणादन्योऽपि वाक्यार्थः संमतः, `ताल्वादिरूपे स्थाने योऽन्तरतमः, तत्प्रयुक्तान्तर्यवानिति यावत्। स तु प्राप्यमाणानां मध्ये स्या`दिति।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
स्थानेन्तरतमः किमुदाहरणम् ? इको यणचि। दध्यत्र। मध्वत्र। तालुस्थानस्य तालुस्थानः। ओष्ठस्थानस्य ओष्ठस्थानो यथा स्यादिति। नैतदस्ति। सङ्ख्यातानुदेशेनाप्येतत् सिद्धम्। इदं तर्हि तस्थस्थमिपां तान्तन्तामः इति। एकार्थस्यैकार्थः। द्व्यर्थस्य द्वयर्थः। बह्वर्थस्य बह्वर्थो यथा स्यादिति। ननु च एतदपि सङ्ख्यातानुदेशेनैव सिद्धम्। इदं तर्ह्यकः सवर्णे दीर्घ इति। दण्डाग्रम्। क्षुपाग्रम्। दधीन्द्रः। मधूष्ट्रः। कण्ठस्थानयोः कण्ठस्थानः। तालुस्थानयोस्तालुस्थानः। ओष्ठस्थानयोरोष्ठस्थानो यथा स्यात्। अथ स्थान इति वर्तमाने पुनः स्थानग्रहणं किमर्थम्। यत्रानेकविधमान्तर्यं तत्र स्थानत एवान्तर्यं बलीयो यथा स्यात्। किं पुनस्तत्? चेता स्तोता। प्रमाणतोऽकारो गुणः प्राप्नोति। स्थानत एकारौकारौ। पुनः स्थानग्रहणादेकारौकारौ भवतः। अथ तमग्रहणं किमर्थम्? झयो होन्यतरस्यामित्यत्र सोष्मणः सोष्माण इति द्वितीयाः प्रसक्ताः। नादवतो नादवन्त इति तृतीयाः प्रसक्ताः। तमग्रहणाद् ये सोष्माणो नादवन्तश्च ते भवन्ति चतुर्थाः। वाग्घसति। त्रिष्टुब् भसति। किमर्थं पुनरिदमुच्यते। ।। स्थानिन एकत्वनिर्देशादनेकादेशनिर्देशाच्च सर्वप्रसङ्गस्तस्मात् स्थानेन्तरतमवचनं नियमार्थम्।। स्थान्येकत्वेन निर्दिश्यते अक इति। अनेकश्च पुनरादेशः प्रतिनिर्दिश्यते दीर्घ इति। स्थानिन एकत्वनिर्देशादनेकादेशनिर्देशाच्च सर्वप्रसङ्गः। सर्वे सर्वत्र प्राप्नुवन्ति। इष्यन्ते चान्तरतमा एव स्युरिति। तच्चान्तरेण यत्नं न सिध्यति तस्मात् स्थानेन्तरमवचनं नियमार्थम्। एवमर्थमिदमुच्यते। अस्ति प्रयोजनमेतत्। किं तर्हीति? यथा पुनरियमन्तरतमनिर्वृत्तिः सा किं प्रकृतितो भवति स्थानिन्यन्तरतमे षष्ठीति। आहोस्विदादेशतः स्थाने प्राप्यमाणानामन्तरतम आदेशो भवतीति। कुतः पुनरियं विचारणा? उभयथा हि तुल्या संहिता। स्थानेन्तरतम उरण् रपर इति। किं चातः? यदि प्रकृतितः। इको यणचीति यणां ये अन्तरतमा इकस्तत्र षष्ठी। यत्र षष्ठी तत्रादेशा भवन्तीति इहैव स्यात् दध्यत्र मध्वत्र। कुमार्यर्थम् ब्रह्मबन्ध्वर्थम् इत्यत्र न स्यात्। आदेशतः पुनरन्तरतमनिर्वृत्तौ सत्यां सर्वत्र षष्ठी। यत्र षष्ठी तत्रादेशा भवन्तीति सर्वत्र सिद्धं भवति। तथा इको गुणवृद्धी इति गुणवृद्ध्योर्ये अन्तरतमा इकस्तत्र षष्ठी। यत्र षष्ठी तत्रादेशा भवन्तीति इहैव स्यात् नेता लविता नायको लावकः। चेता स्तोता चायक स्तावक इत्यत्र न स्यात्। आदेशतः पुनरन्तरतमनिर्वृत्तौ सत्यां सर्वत्र षष्ठी। यत्र षष्ठी तत्रादेशा भवन्तीति सर्वत्र सिद्धं भवति। तथा ऋवर्णस्य गुणवृद्धिप्रसङ्गे गुणवृद्ध्योर्यदन्तरतममृवर्णं तत्र षष्ठी। यत्र षष्ठी तत्रादेशा भवन्तीति इहैव स्यात्। कर्ता हर्ता आस्तारको निपारकः। आस्तरिता निपरिता कारको हारक इत्यत्र न स्यात्। आदेशतः पुनरन्तरतमनिर्वृत्तौ सत्यां सर्वत्र षष्ठी। यत्र षष्ठी तत्रादेशा भवन्तीति सर्वत्र सिद्धं भवतीति। आदेशतोऽन्तरतमनिर्वृत्तौ सत्यामयं दोषः। वान्तो यि प्रत्यये इत्यत्र स्थानिनिर्देशः कर्तव्यः। ओकारौकारयोरिति वक्तव्यम्। एकारैकारयोर्मा भूदिति। प्रकृतितः पुनरन्तरतमनिर्वृत्तौ सत्यां वान्तादेशस्य एक्षु या अन्तरतमा प्रकृतिस्तत्र षष्ठी। यत्र षष्ठी तत्रादेशा भवन्तीत्यन्तरेण स्थानिनिर्देशं सिद्धं भवति। आदेशतोऽप्यन्तरतमनिर्वृत्तौ सत्यां न दोषः। कथम्। वान्तग्रहणं न करिष्यते। यि प्रत्यये एचोऽयादयो भवन्तीत्येव। यदि न क्रियते चेयं जेयमित्यत्रापि प्राप्नोति। क्षय्यजय्यौ शक्यार्थे इत्येतन्नियमार्थं भविष्यति। क्षिज्योरेवैच इति। तयोस्तर्हि शक्यार्थादन्यत्रापि प्राप्नोति। क्षेयं पापं, जेयो वृषलः। उभयतो नियमो विज्ञास्यते क्षिज्योरेवैचस्तयोश्च शक्यार्थ एवेति। इहापि तर्हि नियमान्न प्राप्नोति। लव्यम्। पव्यम्। अवश्यलाव्यम्। अवश्यपाव्यमिति। तुल्यजातीयस्य नियमः। कश्च तुल्यजातीयः? यथाजातीयकः क्षिज्योरेच्। कथं जातीयकः क्षिज्योरेच्? एकारः। एवमपि रायमिच्छति रैयति इत्यत्रापि प्राप्नोति। रा यिच्छान्दसः। दृष्टानुविधिश्छन्दसि भवति। ऊदुपधाया गोहः। आदेशतोऽन्तरतमनिर्वृत्तौ सत्यामुपधाग्रहणं कर्तव्यम्। प्रकृतितः पुनरन्तरतमनिर्वृत्तौ सत्यामूकारस्य गोहो यान्तरतमा प्रकृतिस्तत्र षष्ठी। यत्र षष्ठी तत्रादेशा भवन्तीत्यन्तरेणोपधाग्रहणं सिद्धं भवति। आदेशतोऽप्यन्तरमनिर्वृत्तौ सत्यां न दोषः। क्रियते एतन्न्यास एव। रदाभ्यां निष्ठातो नः पूर्वस्य च दः। आदेशतोऽन्तरतमनिर्वृत्तौ सत्यां तकारग्रहणं कर्तव्यम्। प्रकृतितः पुनरन्तरतमनिर्वृत्तौ सत्यां नकारस्य निष्ठायां याऽन्तरतमा प्रकृतिस्तत्र षष्ठी। यत्र षष्ठी तत्रादेशा भवन्तीत्यन्तरेणापि तकारग्रहणं सिद्धं भवति। किं पुनरिदं निर्वर्तकम् ‐ - अन्तरतमा अनेन निर्र्वत्यन्ते। आहोस्वित् प्रतिपादकम्। अन्येन निर्वृत्तानामनेन प्रतिपत्तिः। कश्चात्र विशेषः? ।। स्थानेन्तरतमनिर्वर्तके सर्वस्थानिनिवृत्तिः ।। स्थानेऽन्तरतमनिर्वर्तके सर्वस्थानिनां निवृत्तिः प्राप्नोति। अस्यापि प्राप्नोति दधि मधु। अस्तु। न कश्चिदन्य आदेशः प्रतिनिर्दिश्यते। तत्रान्तर्यतो दधिशब्दस्य दधिशब्द एव, मधुशब्दस्य मधुशब्द एवादेशो भविष्यति। यदि चैवं क्वचिद् वैरूप्यं तत्र दोषः स्यात्। बिसं मुसलमिति। इण्कोरादेशप्रत्यययोरिति षत्वं प्राप्नोति। अपि च इष्टा व्यवस्था न प्रकल्पेत। तद्यथा तप्ते भ्राष्ट्रे तिलाः प्रक्षिप्ता मुहूर्तमपि नावतिष्ठन्ते एवमिमे वर्णा मुहुर्तमपि नावतिष्ठेरन्। अस्तु तर्हि प्रतिपादकम्। अन्येन निर्वृत्तानामनेन प्रतिपत्तिः। ।। निर्वृत्तप्रतिपत्तौ निर्वृत्तिः।। निर्वृत्तप्रतिपत्तौ निर्वृत्तिर्न सिध्यति। सर्वे सर्वत्र प्राप्नुवन्ति। किं तर्ह्युच्यते निर्वृत्तिर्न सिध्यतीति। न साधीयो निर्वृत्तिः सिद्धा भवति। न ब्रूमो निर्वृत्तिर्न सिध्यतीति। किं तर्हि? इष्टा व्यवस्था न प्रकल्पते। न सर्वे सर्वत्रेष्यन्ते। इदमिदानीं किमर्थं स्यात्? ।। अनर्थकं च।। अनर्थकमेतत् स्यात्। यो हि भुक्तवन्तं ब्रूयात् मा भुक्था इति किं तेन कृतं स्यात्। ।। उक्तं वा।। किमुक्तम्? सिद्धं तु षष्ठ्यधिकारे वचनादिति। षष्ठ्यधिकारेऽयं योगः कर्तव्यः। स्थानेन्तरतमः षष्ठीनिर्दिष्टस्येति। ।। प्रत्यात्मवचनं च।। प्रत्यात्ममिति च वक्तव्यम्। किं प्रयोजनम्? यो यस्यान्तरतमः स तस्य स्थाने यथा स्यात्। अन्यस्यान्तरतमोऽन्यस्य स्थाने मा भूदिति। ।। प्रत्यात्मवचनमशिष्यं स्वभावसिद्धत्वात्।। प्रत्यात्मवचनमशिष्यम्। किं कारणम्? स्वभावसिद्धत्वात्। स्वभावत एतत् सिद्धम्। तद्यथा समाजेषु समाशेषु समवायेषु चास्यतामित्युक्ते न चोत्यते प्रत्यात्ममिति प्रत्यात्मं चासते। ।। अन्तरतमवचनं च।। अन्तरतमवचनं चाशिष्यम्। योगश्चाप्ययमसिष्यः। कुतः? स्वभावसिद्धत्वादेव। तद्यथा समाजेषु समवायेषु चास्यतामित्युक्ते नैव कुशाः कृशैः सहासते न पाण्डवः पाण्डुभिः। येषामेव किंचिदर्थकृतमान्तर्यं तैरेव सहासते। तथा गावो दिवसं चरितवत्यो यो यस्याः प्रसवो भवति तेन सह शेरते। तथा यान्येतानि गोयुक्तकानि संघुष्टकानि भवन्ति तान्यन्योन्यमपश्यन्ति शब्दं कुर्वन्ति। एवं तावच्चेतनावत्सु। अचेतनेष्वपि। तद्यथा लोष्टः क्षिप्तो बाहुवेगं गत्वा नैव तिर्यग् गच्छति नोर्ध्वमारोहति पृथिवीविकारः पृथिवीमेव गच्छत्यान्तर्यतः। तथा या एता आन्तरिक्ष्यः सूक्ष्मा आपस्तासां विकारो धूमः। स धूम आकाशे निवाते नैव तिर्यग् गच्छति नार्वागवरोहति। अब्विकारोऽप एव गच्छत्यान्तर्यत:। तथा ज्योतिषो विकारोऽर्चिराकाशदेशे निवाते सुप्रज्वलितं नैव तिर्यग् गच्छति नार्वागवरोहति। ज्योतिषो विकारो ज्योतिरेव गच्छत्यान्तर्यतः। ।। व्यञ्ञ्जनस्वरव्यतिक्रमे च तत्कालप्रसङ्गः।। व्यञ्ञ्जनव्यतिक्रमे स्वरव्यतिक्रमे च तत्कालता प्राप्नोति। व्यञ्ञ्जनव्यतिक्रमे। इष्टम्। उप्तम्। आन्तर्यतोऽर्धमात्रिकस्य व्यञ्ञ्जनस्यार्धमात्रिक इक् प्राप्नोति। नैव लोके नैव वेदे अर्धमात्रिक इगस्ति। कस्तर्हि ? मात्रिकः। योस्ति स भविष्यति। स्वरव्यतिक्रमे। दध्यत्र मध्वत्र। कुमार्यर्थम् ब्रह्मबन्ध्वर्थम्। आन्तर्यतो मात्रिकस्य द्विमात्रिकस्येको मात्रिको द्विमात्रिको द्विमात्रिको यण् प्राप्नोति। नैव लोके नैव वेदे मात्रिको द्विमात्रिको वा यणस्ति। कस्तर्हि? अर्धमात्रिकः। योस्ति स भविष्यति। ।। अक्षु चानेकवर्णादेशेषु।। अक्षु चामेकवर्णादेशेषु तत्कालता प्राप्नोति। इदम इश्। आन्तर्यतोऽर्धतृतीयमात्रिकस्येदमः स्थानेऽर्धतृतीयमात्रमिवर्णं प्राप्नोति। नैष दोषः। भाव्यमानेन सवर्णानां ग्रहणं नेत्येवं न भविष्यति। ।। गुणवृद्ध्येज्भावेषु च।। गुणवृद्ध्योरेज्भावेषु च तत्कालता प्राप्नोति। खट्वा इन्द्रः खट्वेन्द्रः। खट्वा उदकम् खट्वोदकम्। खट्वा इर्षा खट्वेषा। खट्वा ऊढा खट्वोढा। खट्वा एडका खट्वैडका। खट्वा ओदनः खट्वौदनः। खट्वा ऐतिकायनः खट्वेतिकायनः। खट्वा औपगवः खट्वौपगव इति। आन्तर्यतस्त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशाः प्राप्नुवन्ति। नैष दोषः। तपरे गुणवृद्धी। ननु च तः परो यस्मात् सोऽयं तपरः। नेत्याह। तादपि परस्तपर इति। यदि तादपि परस्तपरः। ऋदोरबिति इहैव स्यात् यवः, स्तवः। लवः, पव इत्यत्र न स्यात्। नैष तकारः। कस्तर्हि? दकारः। किं दकारे प्रयोजनम् ? अथ किं तकारे ? यद्यसन्देहार्थस्तकारः, दकारोपि। अथ मुखसुखार्थस्तकारः, दकारोपि। एज्भावे। कुर्वाते कुर्वाथे। आन्तर्यतोऽर्धतृतीयामात्रस्य टिसञ्ञ्ज्ञकस्यार्धतृतीयमात्र एच् प्राप्नोति। नैव लोके न च वेदेऽर्धतृतीयामात्र एजस्ति। ।। ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गोऽविशेषात्।। ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गः। सर्वगुणवृद्धिप्रसङ्गः सर्वे गुणवृद्धिसञ्ञ्ज्ञका ऋवर्णस्य स्थाने प्राप्नुवन्ति। किं कारणम्? अविशेषात्। न हि कश्चिद् विशेष उपादीयते एवं जातीयको गुणवृद्धिसञ्ञ्ज्ञक ऋवर्णस्य स्थाने भवतीति। अनुपादीयमाने विशेषे सर्वप्रसङ्गः। ।। न वा ऋवर्णस्य स्थाने रपरप्रसङ्गाद् अवर्णस्यान्तर्यम्।। न वा एष दोषः। किं कारणम्? ऋवर्णस्य स्थाने रपरप्रसङ्गात्। उः स्थाने अण् प्रसज्यमान एव रपरो भवतीत्युच्यते तत्र ऋवर्णस्यान्तर्यतो रेफवतो रेफवानकार एवान्तरतमो भवति। ।। सर्वादेशप्रसङ्गस्त्वनेकाल्त्वात्।। सर्वादेशस्तु गुणवृद्धिसञ्ञ्ज्ञक ऋवर्णस्य प्राप्नोति। किं कारणम्? अनेकाल्त्वात्। अनेकाल् शित् सर्वस्येति। न वा एष दोषः। किं कारणम्? अनेकाल्त्वस्य तदाश्रयत्वात्। यदायमुः स्थानेऽण् तदायमनेकाल्। अनेकाल्त्वस्य तदाश्रयत्वाद् ऋवर्णादेशस्य विघातो न भविष्यति। अथवाऽनान्तर्यमेवैतयोरान्तर्यम्। एकस्याप्यन्तरतमा प्रकृतिर्नास्ति। अपरस्यान्तरतम आदेशो नास्ति। एतदेवैतयोरान्तर्यम्। ।। सम्प्रयोगो वा नष्टाश्वदग्धरथवत्।। अथवा नष्टाश्वदग्धरथवत् सम्प्रयोगो भविष्यति। तद्यथा तवाश्वो नष्टो ममापि रथो दग्धः। उभौ सम्प्रयुज्यावह इति। एवमिहापि तवाप्यन्तरतमा प्रकृतिर्नास्ति ममाप्यन्तरतम आदेशो नास्ति, अस्तु नौ सम्प्रयोग इति। विषम उपन्यासः। चेतनावत्स्वर्थात् प्रकरणाद्वा लोके सम्प्रयोगो भवति। वर्णाश्च पुनरचेतनाः, यस्त्वसौ प्रयुङ्क्ते स चेतनावान्। यद्यपि वर्णा अचेतनाः, यस्त्वसौ प्रयुङ्क्ते स चेतनावान्। ।। एजवर्णयोरादेशेऽवर्णं स्थानिनोऽवर्णप्रधानत्वात्।। एजवर्णयोरादेशेऽवर्णे प्राप्नोति। खट्वैलका। मालौपगवः। किं कारणम्? स्थानिनोऽवर्णप्रधानत्वात्। स्थानी ह्यत्रावर्णप्रधानः। ।। सिद्धं तूभयान्तर्यात्।। सिद्धमेतत्। कथम्? उभयोर्योऽन्तरतमस्तेन भवितव्यम्। नचावर्णमुभयोरन्तरतमम्।।50।।