॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|49
SK 38
1|1|49
षष्ठी स्थानेयोगा   🔊
SK 38
सूत्रच्छेद:
षष्ठी - प्रथमैकवचनम् , स्थानेयोगा - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
षष्ठी स्थानेयोगा
सूत्रार्थ:
षष्ठ्या निर्दिष्टम् शब्दस्वरूपम् यत्र सम्बन्धं न दर्शयति तत्र स्थानसंज्ञकं भवति ।
भिन्नेषु सूत्रेषु यत्र षष्ठीविभक्तेः प्रयोगः कृतः दृश्यते, तत्र यदि षष्ठीविभक्तेः अर्थः सम्बन्धम् न दर्शयति, तर्हि सः स्थानिनम् दर्शयति इति ज्ञातव्यम् । यथा - इको यणचि 6|1|77 इत्यत्र "इकः" इति षष्ठ्यन्तं पदम् अस्ति । अस्य अर्थः - "इक्-वर्णस्य स्थाने" इति स्वीकरणीयः । इत्युक्ते, अत्र "इक्-वर्णः" स्थानी अस्ति ।

यत्र षष्ठीविभक्तिः सम्बन्धम् दर्शयति तत्र तु अस्य सूत्रस्य प्रयोगः न करणीयः । यथा - तस्य लोपः 1|3|9 इत्यत्र "तस्य" इत्यस्य शब्दस्य "लोपः" इत्यनेन सह सम्बन्धः उक्तः अस्ति - "तस्य लोपः भवति" इत्यर्थः । अतः अत्र अस्य सूत्रस्य प्रयोगः न भवितुम् अर्हति ।

ज्ञातव्यम् - सूत्रमेतत् "परिभाषा"सूत्रम् अस्ति । अनियमे नियमकारिणी परिभाषा अनेन सिद्धान्तेन परिभाषायाः प्रयोगः तत्रैव भवति यत्र कश्चन अनियमः (सन्देहः) अस्ति । अतः यत्र षष्ठीविभक्तेः अर्थः स्पष्टः अस्ति, तत्र अस्य सूत्रस्य प्रयोगः न करणीयः ।
One-line meaning in English
When the words in the षष्ठी विभक्ति do not indicate any relationship, they are considered to indicate the स्थानी.
काशिकावृत्तिः
परिभाषा इयं योगनियमार्था । इह शास्त्रे या षष्ठी अनियतयोगा श्रूयते, सा स्थानेयोगा इव भवति, नान्ययोगा । स्थानेयोगस्य निमित्तभूते सति सा प्रतिपत्तव्या । स्थानशब्दश्च प्रसङ्गवाची । यथा - दर्भाणां स्थाने शरैः प्रस्तरितव्यम् इति दर्भाणां प्रसङ्गे इति गम्यते, एवम् इहापि अस्तेः स्थाने प्रसङ्गे भूः भवति - भविता, भवितुम्, भवितव्यम् । ब्रुवः प्रसङ्गे वचिर्भवति - वक्ता, वक्तुम्, वक्तव्यम् । प्रसङ्गे सम्बन्धस्य निमित्तभूते ब्रुव इति षष्ठी । बहवो हि षष्ठ्यर्थाः स्वस्वाम्यनन्तरसमीपसमूहविकारावयवाद्याः । तत्र यावन्तः शब्दे सम्भवन्ति तेषु सर्वेषु प्राप्तेषु नियमः क्रियते - षष्ठी स्थानेयोगा इति । स्थाने योगोऽस्याः इति व्यधिकरणो बहुव्रीहिः । अत एव निपातनाच् च सप्तम्या अलुक् ॥
`योगनियमार्था` इति। योगनियमः सम्बन्धनियमः, सोऽर्थः प्रयोजनं यस्याः सातथोक्ता। यदि योगनियमार्थयम्- शास्त्रे या षष्ठी, सा स्थानेयोगैव् भवति, नान्ययोगे-ति। एवं सति `ऊदुपधाया गोहः` 6|4|89 इत्येषापि षष्ठी स्थानेयोगैव स्यात्, नावयवादयविसम्बन्धयोगा। ततश्च `अलोऽन्त्यस्य` 1|1|51 इति स्थानषष्ठआ अन्त्येऽप्युपसंहाराद् गोहश्चान्तस्य हकारस्य ऊकारः स्यात्। `उपधायाश्च` 7|1|101 इति वचनादुपधा-मात्रस्य चेत्यत आह-`इह शास्त्रे या षष्ठनियतयोगा` इत्यादि। अनियमप्रसङ्गेनियमोऽनया क्रियते। क्व चानियमप्रसङ्गः? यत्र सन्देहः; यथा-`अस्तेर्भूः` 2|4|52 इति। अत्र हि किमस्तेः स्थाने? आहोस्विदनन्तरे? इति सन्देहः, पूर्वत्र तूपधाया अवयवलक्षणस्य स्थानिनो विशिष्टावयविनो व्यवच्छिन्नत्वादवयवष्ठएवेयमिति निश्चितम्; ततो नात्रास्या व्यापारः। `स्थानेयोगैव` इति। स्थान इति निमित्तसप्तमी, योगःसम्बन्धः। तेनेदमुक्तं भवति-स्थाननिमित्तकसम्बन्धैवेति। एतदेव विस्पष्टीकुर्वन्नाह-`स्थाने योगस्य निमित्ते` इत्यादि। स्थानेयोगस् निमित्तभूते निमित्तत्वं प्राप्ते सति सा वेदितव्या। भूतशब्दो ह्रत्र प्राप्तशब्दे वर्तते; यथा- `देवभूतः` इत्यत्रदेवत्वं प्राप्त इत्यर्थः। निमित्तग्रहणं कुर्वन् सूत्रे स्थानेयोगेति निमित्तसप्त-मीयमिति दर्शयति। योगः पुनरिह स्थान्यादेशभावलक्षणः। कुत एतत्? तस्यैव स्थानि-हेतुत्वात्। स्थानशब्दोभावसाधनः, स्थितिः स्थानम्। तत् पुनस्त्रिधा- `अपकर्षः,निवृत्तिः,प्रसङ्गश्च` इति। गोस्थानेऽआओ बध्यतामित्यपकर्षः स्थानशब्दस्यास्थेयः। `श्लेष्मणः स्थाने कटुकमौषधम्` इत्यत्र निवृत्तिः। `दर्भाणां स्थाने शरैरास्तकरित-व्यम्` इति प्रसङ्गः। तत्राद्यावर्थाविह न सम्भवतः; नित्यत्वाच्छब्दार्थसम्बन्धस्य प्रथमो न सम्भवति; सामान्येनास्तेरुपदेशान्न द्वितीयः। तस्मात् तृतीय एवार्थ इति मत्वाह-`स्तानशब्दश्च` इति। प्रसङ्गस्त्वर्थक्रियानिमित्तभूतस्य कालस्यावसरः। `अस्तेस्थाने प्रसङ्गे` इति। अस्तेर्या क्रिया स्वार्थप्रतिपादनलक्षणा, तस्या निमित्तभूतस्य कालस्यावसरः प्राप्त इत्यर्थः। प्रसङ्गे सम्बन्धस्य निमित्तभूत इत्यादिना सूत्रार्थस्योदाहरणे सम्भवं दर्शयति। `ब्राउवः` इति चोपलक्षणमात्रम्। अस्तेरि-त्यादेरपि हि षष्ठी प्रसङ्ग एव सम्बन्धस्य निमित्तभाव उत्पन्ना।के पुनर्बहवः षष्ठर्थाः, यतः सम्बन्धान्तरविषयव्यवच्छेदनार्थं षष्ठआ इदमुच्यते? इत्याह-`बहवो हि` इत्यादि। शब्दे हि समीपानन्तरविकारावयवादिनिमित्ताः सम्बन्धाः सन्ति। न त्वपत्यापत्यवत्प्रभृतय इत्यतो `यावन्तः शब्दे सम्भवन्ति` इत्याह। अथ स्थानेयोग इत किमसमासः? अथ समासः? यद्यसमासः? तदा योगशब्दस्यपुंल्लिङ्गत्वात् स्त्रीलिङ्गेन निर्देशः, षष्ठीशब्देन च सामानाधिकरण्यं न प्राप्नोति; योगस्याषष्ठीत्वात्। अतः समासः किं तत्पुरुषः? आहोस्विद् बहुव्रीहिः? यदि तत्पुरुषः? तौ च पूर्वोक्तौ दोषौ स्याताम्, सप्तम्या लुकप्रसङ्गश्च। अथ बहुव्रीहिः? एवमपि लुक्प्रसङ्गोऽत्रानिवार्य एवेत्यत आह-`षष्ठी स्थानेयोगा` इत्यादि। गतार्थम्।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
अनिर्धारितसम्बन्धविशेषा षष्ठी स्थानेयोगा बोध्या । स्थानं च प्रसङ्गः ॥
षष्ठी स्थानेयोगा। स्थानं प्रसङ्ग इति वक्ष्यति। तस्मिन् वाचकतया योगो यस्याः सा स्थानेयोगा। निपातनात्सप्तम्या अलुक्। स्थानेन योगो यस्या इति वा विग्रहः। निपातनादेत्वम्। `इको यणची`त्यादौ षष्ठी स्थानरूपसम्बन्धार्थिकेत्यर्थः। लोके तावदेकशतं षष्ट�र्था आर्था यौना मौखाः रुआऔवाश्च। शब्दस्य शब्देन त्रय एव संबन्धाः--आनन्तर्यं सामीप्यं प्रसङ्गश्चेति। तत्रान्यतमार्थनिर्धारणार्थमिदं सूत्रमिति भाष्यम्। ततश्च`इको यणची`त्यादौ `इक` इति षष्ट�आ स्थानमुच्यते। तस्मिन् प्रकृत्यर्थ इक् निरूपकतयाऽन्वेति। अचि परत इकः प्रसङ्गे यण्? स्यादिति। विवरणवाक्ये त्वस्मिन् `इक` इति षष्ठी निरूपकतायामिति न पुनरुक्तिः शङ्काः। यता--`देवदत्तस्यावयवः पाणि`रिति। `ऊदुपधाया गोहः` इत्यत्र तु `गोह` इति षष्ठी न स्थानार्थिका, उपपधापदसमभिव्याहारेणाऽवयवषष्ठीत्वनिर्धारणात्, परिभाषाणां चाऽनियमे नियमनार्थमेव प्रवृत्तेः। तदेतदाह-अनिर्धारितेत्यादिना। अनिर्धारितः सम्बन्धविशेषो यस्या इति विग्रहः। तदेवमुदाह्मतप्रकृतभाष्यरीत्या`इको यणची`त्यादौ षष्ठी स्थानरूपसंबन्धविशेषार्थिकेति स्थितम्।ष मतुप्सूत्रभाष्ये त्वनन्तरादयो न षष्ठ�र्था इति स्थितम्। एवं सति स्थाने इति सप्तम्यन्तपदेन योगो यस्या इति विग्रहे स्थाने इति सप्तम्यन्तस्यानुकरणम्। षष्ठीश्रुतौ `स्थाने` इति सप्तम्यन्तं पदमुपतिष्ठत इति फलति। स्थानेन स्थानपदार्थेन योगो यस्या इति तृतीयान्तविग्रहे त्वध्याह्मतस्थानपदार्थनिरूपितसंबन्धार्थिकेत्यर्थः। `अस्तेर्भूर्भवतीति सन्देहः स्थाने अनन्तरे समीपे इति` इत्यादिप्रकृतसूत्रभाष्यस्य तु अस्तेरनन्तरे इत्यध्याह्मतानन्तरादिपदार्थनिरूपितसम्बन्धे षष्ठीत्येवार्थः। अनन्तरादीनां षष्ठ�र्थत्वं तु नास्त्येवेति प्रौढमनोरमायां हलन्त्यमिति सूत्रे स्थितम्। तद्व्याख्याने च शब्दरत्ने शब्देन्दुशेखरे च बहुधा प्रपञ्चितम्। अनिर्धारितेति किम्?। ऊदुपधाया` इत्यत्र `गोह` इति षष्ठ्याः स्थानार्थकत्वं मा भूत्। सति तु तत्रापि स्थानार्थकत्वे, गोहोऽन्त्यस्य उपधामात्रस्य च ऊत् स्यात्। ननु स्थानशब्द आधारवाची लोके प्रसिद्धः। यथा शिवस्थानं कैलासः, विष्णुस्थानं वैकुण्ठमित्यादौ। एवं च इको यणचीत्यादौ षष्ठ्याः स्थानार्थकत्वे प्रकृत्यर्थस्य तत्र निरूपकत्वेऽभेदेन वा अन्वये सति इकोऽधिकरणे यण् स्यादिति इगधिकरणको यण् स्यादिति वाऽर्थः स्यात्। तत इको निवृत्तिर्न स्यादित्यत आह--स्थानं च प्रसङ्ग इति। क्वचिदाभिचारेष्टौ `दर्भाणां स्थाने शरैःप्रस्तरितव्य`मित्यत्र स्थानशब्दस्य प्रसङ्गे दर्शनादिति भावः। एवं च तत्र यथा शरैर्दर्भा निवर्त्यन्ते, तद्वदिको यणचीत्यादावपि यणादिभिरिगादयो निवर्त्यन्ते। तत्र च यः प्रसक्तो निवर्तते स स्थानीति व्यवह्रियते, यो निवर्तयति स आदेश इति।
षष्ठी स्थानेयोगा। स्थानेन योगोऽस्या इति विग्रहः। निपातनादेत्वम्। षष्ट�आः संबन्धमात्रवाचित्वेऽपीह शास्त्रे या षष्ठी सा स्थानेयोगा बोध्या। किमविशेषेण ?, नेत्याह-अनिर्धारितसंबन्धविशेषेति। अनिर्धारितेति किम् ?, `ऊदुपधाया गोहः`, `शास इदङ्ह्मलो`रित्यादावुपधासंनिधानेनावयवषष्ठीत्वे निर्णीते `गोहः` `शास` इत्यादौ मा भूत्। सति हि तत्रापि स्थानेयोगत्वे गोहिशासिस्थाने धातुमात्रस्योपधायाश्च स्थाने ऊदितौ स्यातामिति दिक्। स्थानं च प्रसङ्ग इति। न चास्य प्रसङ्गार्थकत्वे विवदितव्यम्, `दर्भाणां स्थाने शरैः प्रस्तरितव्य`मित्युक्ते दर्भाणां प्रसङ्ग इति प्रतीतेः। एवं च `इको यणची`-त्यादाविगुच्चारणप्रसक्तौ यगुच्चारणीय इत्याद्यर्थः संपद्यते।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
षष्ठी स्थानेयोगा किमिदं स्थानेयोगेति ? स्थाने योगोऽस्याः सा स्थानेयोगा। सप्तम्यलोपो निपातनात्। तृतीयाया वा एत्वम्। स्थानेन योगोऽस्याः सा स्थानेयोगेति। किमर्थं पुनरिदमुच्यते? षष्ठी स्थानेयोगवचनं नियमार्थम्। नियमार्थोऽयमारम्भः। एकशतं षष्ठ्यर्था यावन्तो वा सन्ति ते सर्वे षष्ठ्यामुच्चारितायां प्राप्नुवन्ति। इष्यते च व्याकरणे या षष्ठी सा स्थानेयोगैव स्यादिति तच्चान्तरेण यत्नं न सिध्यतीति षष्ठ्याः स्थानेयोगवचनं नियमार्थम्। एवमर्थमिदमुच्यते। अस्ति प्रयोजनमेतत्। किं तर्हीति? ।। अवयवषष्ठ्यादिष्वतिप्रसङ्गः शासो गोह इति ।। अवयवषष्ठ्यादयस्तु न सिध्यन्ति। तत्र को दोषः। शास इदङ् हलोरिति शासेश्चान्त्यस्य स्यादुपधामात्रस्य च। ऊदुपधाया गोहः इति गोहेश्चान्त्यस्य स्यादुपधामात्रस्य च। ।। अवयवषष्ठ्यादीनां चाप्राप्तिर्योगस्यासंदिग्धत्वात्।। अवयवषष्ठ्यादीनां च नियमस्याप्राप्तिः। किं कारणम्? योगस्यासंदिग्धत्वात्। सन्देहे नियमः। न चावयवषष्ठ्यादिषु सन्देहः। किं वक्तव्यमेतत्? नहि। कथमनुच्यमानं गंस्यते? लौकिकोऽयं दृष्टान्तः। तद्यथा लोके कश्चित् कंचित् पृच्छति ग्रामान्तरं गमिष्यामि पन्थानं मे भवानुपदिशत्विति। स तस्मायाचष्टे अमुष्मिन्नवकाशे हस्तदक्षिणो ग्रहीतव्यः। अमुष्मिन्नवकाशे हस्तवाम इति। यस्तत्र तिर्यक्पथो भवति, न तस्मिन् सन्देह इति कृत्वा नासावुपदश्यते। एवमिहापि सन्देहे नियमः। न चावयवषष्ठ्यादिषु सन्देहः। अथवा स्थाने अयोगा स्थानेयोगा। किमिदमयोगेति। अव्यक्तयोगा अयोगा। अथवा योगवती योगा। का पुनर्योगवती। यस्या बहवो योगाः। कुत एतत्? भूम्नि हि मतुप् भवति। ।। विशिष्टा वा षष्ठी स्थानेयोगा।। अथवा किंचिल्लिङ्गमासज्य वक्ष्यामि इत्थं लिङ्गा षष्ठी स्थानेयोगा भवतीति। न च तल्लिङ्गमवयवषष्ठ्यादिषु करिष्यते। यद्येवं शास इदङ्हलोः। शा हौ। शासिग्रहणं कर्तव्यं स्थाने योगार्थं लिङ्गमासङ्क्ष्यामीति। न कर्तव्यम्। यदेवादः पुरस्तादवयवषष्ठ्यर्थं प्रक्लृप्तम्, एतदुत्तरत्रानुवृत्तं सत् स्थानेयोगार्थं भविष्यति। कथम्? अधिकारो नाम त्रिप्रकारः। कश्चिदेकदेशस्थः सर्वं शास्त्रमभिज्वलयति। यथा प्रदीपः सुप्रज्वलितः सर्वं वेश्माभिज्वलयति। अपरोऽधिकारो यथा रज्ज्वा अयसा वा बद्धं काष्ठमनुकृष्यते तद्वदनुकृष्यते चकारेण। अपरोऽधिकारः प्रतियोगं तस्यानिर्देशार्थ इति योगे योगे उपतिष्ठते। तद् यदैष पक्षः अधिकारः प्रतियोगं तस्यानिर्देशार्थ इति, तदा हि यदेवादः पुरस्तादवयवषष्ठ्यर्थम् एतदुत्तरत्रानुवृत्तं सत् स्थानेयोगार्थं भविष्यति। सम्प्रत्ययमात्रमेतद् भवति। न ह्यनुच्चार्य शब्दं लिङ्गं शक्यमासङ्क्तुम्। एवं तर्ह्यादेशे तल्लिङ्गं करिष्यते। तत् प्रकृतिमास्कन्त्स्यति। यदि नियमः करिष्यते। यत्रैका षष्ठी अनेकं च विशेष्यं तत्र न सिध्यति। अङ्गस्य हलः अणः सम्प्रसारणस्येति। हलपि विशेष्योऽणपि विशेष्यः। सम्प्रसारणमपि विशेष्यम्। असति पुनर्नियमे कामचारः। एकया षष्ठ्या अनेकं विशेषयितुम्। तद्यथा देवदत्तस्य पुत्रः पाणिः कम्बल इति। तस्मान्नार्थो नियमेन। ननु चोक्तम् एकशतं षष्ठ्यर्थाः यावन्तो वा सन्ति ते सर्वे षष्ठ्यामुच्चारितायां प्राप्नुवन्तीति। नैष दोषः। यद्यपि लोके बहवोऽभिसम्बन्धा आर्था यौना मौखाः स्रौवाश्चेति। शब्दस्य तु शब्देन कोऽन्योभिसम्बन्धो भवितुमर्हति अन्यदतः स्थानात्। शब्दस्यापि शब्देनानन्तरादयोऽभिसम्बन्धाः। अस्तेर्भूर्भवतीति सन्देहः स्थाने अनन्तरे समीपे इति। सन्देहमात्रमेतद् भवति। सर्वसन्देहेषु चेदमुपतिष्ठते व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम् इति। स्थान इति व्याख्यास्यामः। न तर्हीदानीमयं योगो वक्तव्यः। वक्तव्यश्च। किं प्रयोजनम्? षष्ठ्यन्तं स्थानेन यथा युज्येत यतः षष्ठ्युच्चारिता। किं कृतं भवति? निर्दिश्यमानस्यादेशा भवन्तीति परिभाषा न कर्तव्या भवति।